Library·Jayaditya & Vamana: Kasikavrtti·2·2.4

Jayaditya & Vamana: Kasikavrtti 2.4

द्विगुर् एकवचनम्

dvigur ekavacanam

Sanskrit only: no published translation is held for this verse.

द्विगुः समासः एकवचनं भवति । एकस्य वचनम् एकवचनम् । एकस्य अर्थस्य वाचको भवति इत्य् अर्थः । तदनेन प्रकारेण द्विग्व्-अर्थस्य+एकवद् भावो विधीयते, द्विग्व्-अर्थ एकवद् भवति इति । समाहार-द्विगोश् च+इदं ग्रहणम्, न अन्यस्य । पञ्च-पूलाः समाहृताः पञ्चपूली । दशपूली । द्विग्व्-अर्थस्य्)अ ए)कत्वाद् अनुप्रयोगे ऽप्य् एकवचनं भवति, पञ्च-पूलीयं शोभना इति ॥ द्वन्द्वश् च प्राणि-तूर्य-सेना-अङ्गानाम्

dviguḥ samāsaḥ ekavacanaṃ bhavati / ekasya vacanam ekavacanam / ekasya arthasya vācako bhavati ity arthaḥ / tadanena prakāreṇa dvigv-arthasya+ekavad bhāvo vidhīyate, dvigv-artha ekavad bhavati iti / samāhāra-dvigoś ca+idaṃ grahaṇam, na anyasya / pañca-pūlāḥ samāhṛtāḥ pañcapūlī / daśapūlī / dvigv-arthasy)a e)katvād anuprayoge 'py ekavacanaṃ bhavati, pañca-pūlīyaṃ śobhanā iti // dvandvaś ca prāṇi-tūrya-senā-aṅgānām

Sanskrit only: no published translation is held for this verse.

एकवचनम् इति वर्तते । अङ्ग-शब्दस्य प्रत्येकं वाक्य-परिसमाप्त्या त्रीणि वाक्यानि सम्पद्यन्ते । प्राण्य्-अङ्गानां द्वन्द्व एकवद् भवति, तथा तूर्य-अङ्गानां सेना-अङ्गानां च । प्राण्य्-अङ्गानां तावत् - पाणि-पादम् । शिरोग्रीवम् । तूर्य-अङ्गानाम् - मार्दङ्गिकपाणविकम् । वीणावदकपरिवादकम् । सेना-अङ्गानाम् - रथिक-अश्वारोहम् । रथिक-पादातम् । हस्त्य्-अश्व-आदिषु परत्वात् पशुद्-वन्द्वे विभाषया एअक्वद् भवति । इतरेतर-योगे समहारे च द्वन्द्वो विहितः । तत्र समाहारस्य+एकत्वात् सिद्धम् एव+एकवचनम् । इदं तु प्रकरणं विषय-विभाग-अर्थम्, प्राण्य्-अङ्ग-आदीनां समाहार एव द्वन्द्वः, दधिपय-आदीनाम् इतरेतर-योग एव, वृक्ष-मृग-आदीनाम् उभयत्र इति ॥ अनुवादे चरणानाम्

ekavacanam iti vartate / aṅga-śabdasya pratyekaṃ vākya-parisamāptyā trīṇi vākyāni sampadyante / prāṇy-aṅgānāṃ dvandva ekavad bhavati, tathā tūrya-aṅgānāṃ senā-aṅgānāṃ ca / prāṇy-aṅgānāṃ tāvat - pāṇi-pādam / śirogrīvam / tūrya-aṅgānām - mārdaṅgikapāṇavikam / vīṇāvadakaparivādakam / senā-aṅgānām - rathika-aśvāroham / rathika-pādātam / hasty-aśva-ādiṣu paratvāt paśud-vandve vibhāṣayā eakvad bhavati / itaretara-yoge samahāre ca dvandvo vihitaḥ / tatra samāhārasya+ekatvāt siddham eva+ekavacanam / idaṃ tu prakaraṇaṃ viṣaya-vibhāga-artham, prāṇy-aṅga-ādīnāṃ samāhāra eva dvandvaḥ, dadhipaya-ādīnām itaretara-yoga eva, vṛkṣa-mṛga-ādīnām ubhayatra iti // anuvāde caraṇānām

Sanskrit only: no published translation is held for this verse.

चरण-शब्दः शाखा-निमित्तकः पुरुषेषु वर्तते । चरणानां द्वन्द्वः एकवद् भवति अनुवादे गम्यमाने । प्रमाण-अन्तरावगतस्य अर्थस्य शब्देन सङ्कीर्तनमात्रम् अनुवादः । उदगाद् कठकालापम् । प्रत्यष्ठात् कठकौथुमम् । कठकालाप-आदीनाम् उदय-प्रतिष्ठे प्रमाण-अन्तरवगते यदा पुनः शब्देन अनूद्येते तदा+एवम् उदाहरणम् । यदा तु प्रथमत एव+उपदेशस्तदा प्रत्युदाहरणम् । अनुवादे इति किम् ? उदगुः कठकालापाः । प्रत्यष्ठुः कठकौथुमाः । स्थेणोरद्यतन्यां चेति वक्तव्यम् । स्थेणोः इति किम् ? अनन्दिषुः कठकालापाः । अद्यतन्याम् इति किम् ? उद्यन्ति कथकालापाः ॥ अध्वर्यु-क्रतुर् अनपुंसकम्

caraṇa-śabdaḥ śākhā-nimittakaḥ puruṣeṣu vartate / caraṇānāṃ dvandvaḥ ekavad bhavati anuvāde gamyamāne / pramāṇa-antarāvagatasya arthasya śabdena saṅkīrtanamātram anuvādaḥ / udagād kaṭhakālāpam / pratyaṣṭhāt kaṭhakauthumam / kaṭhakālāpa-ādīnām udaya-pratiṣṭhe pramāṇa-antaravagate yadā punaḥ śabdena anūdyete tadā+evam udāharaṇam / yadā tu prathamata eva+upadeśastadā pratyudāharaṇam / anuvāde iti kim ? udaguḥ kaṭhakālāpāḥ / pratyaṣṭhuḥ kaṭhakauthumāḥ / stheṇoradyatanyāṃ ceti vaktavyam / stheṇoḥ iti kim ? anandiṣuḥ kaṭhakālāpāḥ / adyatanyām iti kim ? udyanti kathakālāpāḥ // adhvaryu-kratur anapuṃsakam

Sanskrit only: no published translation is held for this verse.

अध्ययनतो ऽविप्रकृष्ट-आख्यानाम्

adhyayanato 'viprakṛṣṭa-ākhyānām

Sanskrit only: no published translation is held for this verse.

अध्ययनेन निमित्तेन येषाम् अविप्रकृष्टा प्रत्यासन्ना आख्या, तेषां द्वन्द्वः एकवद् भवति । पदक-क्रमकम् । क्रमक-वार्तिकम् । सम्पाठः पदानां क्रमस्य च प्रत्यासन्नः । अध्ययनतः इति किम् ? पितापुत्रौ । अविप्रकृष्ट-आख्यानाम् इति किम् ? याज्ञैकवैयाकरणौ ॥ जातिर् अप्राणिनाम्

adhyayanena nimittena yeṣām aviprakṛṣṭā pratyāsannā ākhyā, teṣāṃ dvandvaḥ ekavad bhavati / padaka-kramakam / kramaka-vārtikam / sampāṭhaḥ padānāṃ kramasya ca pratyāsannaḥ / adhyayanataḥ iti kim ? pitāputrau / aviprakṛṣṭa-ākhyānām iti kim ? yājñaikavaiyākaraṇau // jātir aprāṇinām

Sanskrit only: no published translation is held for this verse.

जाति-वाचिनां शब्दानां द्वन्द्व एकवद् भवति प्राणिनो वर्जयित्वा । आराशस्त्रि । धानाशष्कुलि । जातिः इति किम् ? नन्दकपाञ्चजन्यौ । अप्राणिनाम् इति किम् ? ब्राह्मण-क्षत्रियविट्शूद्राः । नञिव-युक्तन्यायेन द्रव्य-जातीनाम् अयम् एकवद्भावः, न गुण-क्रियाजातीनाम् । रूपरसगन्धस्पर्शाः । गमनाकुञ्चन-प्रसारणानि । जाति परत्वे च जाति-शब्दानाम् अयम् एकवद्भावो विधीयते, न नियत-द्रव्य-विवक्षायाम् - इह कुण्डे बदरामलकानि तिष्ठन्ति इति ॥ विशिष्ट-लिङ्गो नदी देशो ऽग्रामाः

jāti-vācināṃ śabdānāṃ dvandva ekavad bhavati prāṇino varjayitvā / ārāśastri / dhānāśaṣkuli / jātiḥ iti kim ? nandakapāñcajanyau / aprāṇinām iti kim ? brāhmaṇa-kṣatriyaviṭśūdrāḥ / nañiva-yuktanyāyena dravya-jātīnām ayam ekavadbhāvaḥ, na guṇa-kriyājātīnām / rūparasagandhasparśāḥ / gamanākuñcana-prasāraṇāni / jāti paratve ca jāti-śabdānām ayam ekavadbhāvo vidhīyate, na niyata-dravya-vivakṣāyām - iha kuṇḍe badarāmalakāni tiṣṭhanti iti // viśiṣṭa-liṅgo nadī deśo 'grāmāḥ

Sanskrit only: no published translation is held for this verse.

क्षुद्र-जन्तवः

kṣudra-jantavaḥ

Sanskrit only: no published translation is held for this verse.

अपचितपरिमाणः क्षुद्रः । क्ष्रुद्र जन्तु-वाचिनां द्वन्द्वः एकवद् भवति । दंशमशकम् । यूकालिक्षम् । क्षुद्र-जन्तवः इति किम् ? ब्राह्मण-क्षत्रियौ । क्षुद्र-जन्तुरनस्थिः स्याद् अथ वा क्षुद्र एव यः । शतं वा प्रसुऋतौ येषां केचिदा नकुलाद् अपि ॥ आ नकुलाद् अपि इति इयम् एव स्मृतिः प्रमाणम्, इतरासां तद्विरोधात् ॥ येषां च विरोधः शाश्वतिकः

apacitaparimāṇaḥ kṣudraḥ / kṣrudra jantu-vācināṃ dvandvaḥ ekavad bhavati / daṃśamaśakam / yūkālikṣam / kṣudra-jantavaḥ iti kim ? brāhmaṇa-kṣatriyau / kṣudra-janturanasthiḥ syād atha vā kṣudra eva yaḥ / śataṃ vā prasuṛtau yeṣāṃ kecidā nakulād api // ā nakulād api iti iyam eva smṛtiḥ pramāṇam, itarāsāṃ tadvirodhāt // yeṣāṃ ca virodhaḥ śāśvatikaḥ

Sanskrit only: no published translation is held for this verse.

विरोधो वैरम् । शाश्वतिको नित्यः । येषां शाश्वतिको विरोधः तद्वाचिनां शब्दानां द्वन्द्व एकवद् भवति । मार्जारमूषकं । अहिनकुलम् । शाश्वतिकः इति किम् ? गौपालिशालङ्कायनाः कलहायन्ते । चकारः पुनर् अस्य+एव समुच्चय-अर्थः । तेन पशुशकुनि-द्वन्द्वे विरोधिनाम् अनेन नित्यम् एकवद् भावो भवति - अश्वमहिषम् । श्वशृगालम् । काकोलूकम् ॥ शूद्राणाम् अनिरवसितानाम्

virodho vairam / śāśvatiko nityaḥ / yeṣāṃ śāśvatiko virodhaḥ tadvācināṃ śabdānāṃ dvandva ekavad bhavati / mārjāramūṣakaṃ / ahinakulam / śāśvatikaḥ iti kim ? gaupāliśālaṅkāyanāḥ kalahāyante / cakāraḥ punar asya+eva samuccaya-arthaḥ / tena paśuśakuni-dvandve virodhinām anena nityam ekavad bhāvo bhavati - aśvamahiṣam / śvaśṛgālam / kākolūkam // śūdrāṇām aniravasitānām

Sanskrit only: no published translation is held for this verse.

निरवसानं बहिष्करणम् । कुतो बहिष्करणम् ? पात्रात् । यैर् भुक्ते पात्रं संस्कारेण अपि न शुध्यति ते निरवसिताः । न निरवसिताः अनिरवसिताः । अनिरवसित-शूद्र-वाचिनां शब्दानां द्वन्द्व एकवद् भवति । तक्षायस्कारम् । रजकतन्तुबायम् । अनिरवसितानाम् इति किम् ? चण्डालमृतपाः ॥ गवाश्व-प्रभृतीनि च

niravasānaṃ bahiṣkaraṇam / kuto bahiṣkaraṇam ? pātrāt / yair bhukte pātraṃ saṃskāreṇa api na śudhyati te niravasitāḥ / na niravasitāḥ aniravasitāḥ / aniravasita-śūdra-vācināṃ śabdānāṃ dvandva ekavad bhavati / takṣāyaskāram / rajakatantubāyam / aniravasitānām iti kim ? caṇḍālamṛtapāḥ // gavāśva-prabhṛtīni ca

Sanskrit only: no published translation is held for this verse.

विभाषा वृक्ष-मृग-तृण-धान्य-व्यञ्जन-पशु-शकुन्य्-अश्ववडव-पूर्वापर-अधरोत्तराणाम्

vibhāṣā vṛkṣa-mṛga-tṛṇa-dhānya-vyañjana-paśu-śakuny-aśvavaḍava-pūrvāpara-adharottarāṇām

Sanskrit only: no published translation is held for this verse.

वृक्ष मृग तृण धन्य व्यञ्जन पशु शकुनि अश्ववडव पूर्वापर अधरोत्तर इत्य् एतेषाम् द्वन्द्वो विभाषा एकवद् भवति । प्लक्षन्यग्रोधम्, प्लक्षन्यग्रोधाः । रुरुपृषतम्, रुरुपृषताः । कुशकाशम्, कुशकाशाः । व्रीहियवम्, व्रीहियवाः । दधिघृतम्, दधिघृते । गोमहिषम्, गोमहिषाः । तित्तिरिकपिञ्जलम्, तित्तिरिकपिञ्जलाः । अश्ववडवम्, अश्ववडवौ । पूर्वापरम्, पूर्वाप्रे । अधरोत्तरम्, अधरोत्तरे । बहुप्रकृतिः फलसेनावनस्पतिमृगशकुनिक्षुद्रजन्तुधान्यतृणानाम् । एषां बहुप्रकृतिर् एव द्वन्द्व एकवद् भवति, न द्विप्रकृतिः । बदरामलके । रथिकाश्वारोहौ । प्लक्षन्यग्रोधौ । रुरुपृषतौ । हंसचक्रवाकौ । यूकालिक्षे व्रीहियवौ । कुशकाशौ ॥ विप्रतिषिद्धं च अनधिकरण-वाचि

vṛkṣa mṛga tṛṇa dhanya vyañjana paśu śakuni aśvavaḍava pūrvāpara adharottara ity eteṣām dvandvo vibhāṣā ekavad bhavati / plakṣanyagrodham, plakṣanyagrodhāḥ / rurupṛṣatam, rurupṛṣatāḥ / kuśakāśam, kuśakāśāḥ / vrīhiyavam, vrīhiyavāḥ / dadhighṛtam, dadhighṛte / gomahiṣam, gomahiṣāḥ / tittirikapiñjalam, tittirikapiñjalāḥ / aśvavaḍavam, aśvavaḍavau / pūrvāparam, pūrvāpre / adharottaram, adharottare / bahuprakṛtiḥ phalasenāvanaspatimṛgaśakunikṣudrajantudhānyatṛṇānām / eṣāṃ bahuprakṛtir eva dvandva ekavad bhavati, na dviprakṛtiḥ / badarāmalake / rathikāśvārohau / plakṣanyagrodhau / rurupṛṣatau / haṃsacakravākau / yūkālikṣe vrīhiyavau / kuśakāśau // vipratiṣiddhaṃ ca anadhikaraṇa-vāci

Sanskrit only: no published translation is held for this verse.

परस्परविरुद्धं विप्रतिषिद्धम् । विप्रतिषिद्ध-अर्थानां शब्दानाम् अनधिकरण-वाचिनाम् अद्रव्य-वाचिनां द्वन्द्व एकवद् भवति । विभाष-अनुकर्षण-अर्थश् चकारः । शीतोष्णम्, शीतोष्णे । सुख-दुःखम्, सुख-दुःखे । जीवितमरणम्, जीवितमरणे । विप्रतिषिद्धम् इति किम् ? काम-क्रोधौ । अनधिकरणवाचि इति किम् ? शीतोष्णे उदके ॥ न दधिपय-आदीनि

parasparaviruddhaṃ vipratiṣiddham / vipratiṣiddha-arthānāṃ śabdānām anadhikaraṇa-vācinām adravya-vācināṃ dvandva ekavad bhavati / vibhāṣa-anukarṣaṇa-arthaś cakāraḥ / śītoṣṇam, śītoṣṇe / sukha-duḥkham, sukha-duḥkhe / jīvitamaraṇam, jīvitamaraṇe / vipratiṣiddham iti kim ? kāma-krodhau / anadhikaraṇavāci iti kim ? śītoṣṇe udake // na dadhipaya-ādīni

Sanskrit only: no published translation is held for this verse.

यथायथम् एकवद् भावे प्राप्ते प्रतिषेध आरभ्यते । दधिपय-आदिनि शब्द-रूपाणि न+एकवद् भवन्ति । दधिपयसी । सर्पिर्मधुनी । मधुसपिषी । ब्रह्मप्रजापती । शिववैश्रवणौ । स्कन्दविशाखौ । परिव्राट्कौशिकौ प्रवर्ग्योपसदौ । शौक्लकृष्णौ । इध्माबर्हिषी । निपातनाद् दीर्घः । दीक्षातपसी । श्रद्धातपसी । मेधातपसी । अध्ययनतपसी । उलूखलमुसले । आद्यावसाने । श्रद्धामेधे । ऋक्षामे । वाङ्मनसे ॥ अधिकरन-एतावत्त्वे च

yathāyatham ekavad bhāve prāpte pratiṣedha ārabhyate / dadhipaya-ādini śabda-rūpāṇi na+ekavad bhavanti / dadhipayasī / sarpirmadhunī / madhusapiṣī / brahmaprajāpatī / śivavaiśravaṇau / skandaviśākhau / parivrāṭkauśikau pravargyopasadau / śauklakṛṣṇau / idhmābarhiṣī / nipātanād dīrghaḥ / dīkṣātapasī / śraddhātapasī / medhātapasī / adhyayanatapasī / ulūkhalamusale / ādyāvasāne / śraddhāmedhe / ṛkṣāme / vāṅmanase // adhikarana-etāvattve ca

Sanskrit only: no published translation is held for this verse.

विभाषा समीपे

vibhāṣā samīpe

Sanskrit only: no published translation is held for this verse.

अधिकरण-एतावत्त्वस्य समीपे विभाषा द्वन्द्वः एकवद् भवति । उपदशं दन्तोष्ठम्, उपदशाः दन्तोष्ठाः । उपदशं मार्दङ्गिकपाणविकम्, उपदशा मार्दङ्गिकपाणविकाः । अव्ययस्य सङ्ख्यया+अव्ययीभावो ऽपि विहितः, बहुव्रीहिर् अपि । तत्र+एकवद्भावपक्षे ऽव्ययीभावो ऽनुप्रयुज्यते, इतरत्र बहुव्रीहिः ॥ स नपुंसकम्

adhikaraṇa-etāvattvasya samīpe vibhāṣā dvandvaḥ ekavad bhavati / upadaśaṃ dantoṣṭham, upadaśāḥ dantoṣṭhāḥ / upadaśaṃ mārdaṅgikapāṇavikam, upadaśā mārdaṅgikapāṇavikāḥ / avyayasya saṅkhyayā+avyayībhāvo 'pi vihitaḥ, bahuvrīhir api / tatra+ekavadbhāvapakṣe 'vyayībhāvo 'nuprayujyate, itaratra bahuvrīhiḥ // sa napuṃsakam

Sanskrit only: no published translation is held for this verse.

यस्य अयम् एकवद् भावो विहितः स नपुंसक-लिङ्गो भवति द्विगुर् द्वन्द्वश् च । पञ्चगवम् । दशगवम् । द्वन्द्वः खल्व् अपि -- पाणिपादम् । शिरोग्रीवम् । परलिङ्गतापवादो योगः । अकारान्त-उत्तरपदो द्विगुः स्त्रियां भाष्यते । पञ्चपूली । दशरथी । वा+आबन्तः स्त्रियाम् इष्टः । पञ्चखट्वम्, पञ्चखट्वी । अनो नलोपश् च वा च द्विगुः स्त्रियाम् । पञ्चतक्षम्, पञ्चतक्षी । पात्रादिभ्यः प्रतिषेधो वक्तव्यः । पञ्चपात्रम् । चतुर्युगम् । त्रिभुवनम् ॥ अव्ययीभावश् च

yasya ayam ekavad bhāvo vihitaḥ sa napuṃsaka-liṅgo bhavati dvigur dvandvaś ca / pañcagavam / daśagavam / dvandvaḥ khalv api -- pāṇipādam / śirogrīvam / paraliṅgatāpavādo yogaḥ / akārānta-uttarapado dviguḥ striyāṃ bhāṣyate / pañcapūlī / daśarathī / vā+ābantaḥ striyām iṣṭaḥ / pañcakhaṭvam, pañcakhaṭvī / ano nalopaś ca vā ca dviguḥ striyām / pañcatakṣam, pañcatakṣī / pātrādibhyaḥ pratiṣedho vaktavyaḥ / pañcapātram / caturyugam / tribhuvanam // avyayībhāvaś ca

Sanskrit only: no published translation is held for this verse.

पुण्यसुदिनाभ्यामह्नः क्लीबतेष्यते । पुण्याहम् । सुदिनाहम् । पथः सङ्ख्याव्यय-आदेः क्लीबतेष्यते । त्रिपथम् । चतुष्पथम् । विपथम् । सुपथम् । क्रिया-विशेषणानां च क्लीबतेष्यते । मृदु पचति । शोभनं पचति । तत्पुरुषो ऽनञ्-कर्मधारयः

puṇyasudinābhyāmahnaḥ klībateṣyate / puṇyāham / sudināham / pathaḥ saṅkhyāvyaya-ādeḥ klībateṣyate / tripatham / catuṣpatham / vipatham / supatham / kriyā-viśeṣaṇānāṃ ca klībateṣyate / mṛdu pacati / śobhanaṃ pacati / tatpuruṣo 'nañ-karmadhārayaḥ

Sanskrit only: no published translation is held for this verse.

अधिकारो ऽयम् उत्तरसूत्रेषु उपतिष्ठते । नञ्-समासं कर्मधारयं च वर्जयित्वा ऽन्यस् तत्पुरुषो नपुंसक-लिङ्गो भवति इत्य् एतद् अधिकृतं विदितव्यम्, यद् इत ऊर्ध्वम् अनुक्रमिष्यामस् तत्र । वक्ष्यति -- विभाषा सेना-सुरा-च्छाया-शाला-निशानाम् (*२,४।२५) । ब्राह्मणसेनम्, ब्राह्मणसेना । तत्पुरुषः इति किम् ? दृढसेनो राजा अनञ् इति किम् ? असेना । अकर्मधार्यः इति किम् ? परमसेना ॥ सञ्ज्ञायां कन्ता-उशीनरेषु

adhikāro 'yam uttarasūtreṣu upatiṣṭhate / nañ-samāsaṃ karmadhārayaṃ ca varjayitvā 'nyas tatpuruṣo napuṃsaka-liṅgo bhavati ity etad adhikṛtaṃ viditavyam, yad ita ūrdhvam anukramiṣyāmas tatra / vakṣyati -- vibhāṣā senā-surā-cchāyā-śālā-niśānām (*2,4.25) / brāhmaṇasenam, brāhmaṇasenā / tatpuruṣaḥ iti kim ? dṛḍhaseno rājā anañ iti kim ? asenā / akarmadhāryaḥ iti kim ? paramasenā // sañjñāyāṃ kantā-uśīnareṣu

Sanskrit only: no published translation is held for this verse.

सञ्ज्ञायां विषये कन्था-अनतस् तत्पुरुषो नपुंसक-लिङ्गो भवति, सा चेत् कन्था उशीनरेसु भवति । सौशमिकन्थम् । आह्वरकन्थम् । सञ्ज्ञायाम् इति किम् ? वीरणकन्था । उशीनरेषु इति किम् ? दाक्षिकन्था । परविल्-लिङ्गता पवाद इदं प्रकरनम् ॥ उपज्ञा-उपक्रमम् तद्-आद्य्-आचिख्यासायाम्

sañjñāyāṃ viṣaye kanthā-anatas tatpuruṣo napuṃsaka-liṅgo bhavati, sā cet kanthā uśīnaresu bhavati / sauśamikantham / āhvarakantham / sañjñāyām iti kim ? vīraṇakanthā / uśīnareṣu iti kim ? dākṣikanthā / paravil-liṅgatā pavāda idaṃ prakaranam // upajñā-upakramam tad-ādy-ācikhyāsāyām

Sanskrit only: no published translation is held for this verse.

छाया बाहुल्ये

chāyā bāhulye

Sanskrit only: no published translation is held for this verse.

विभाषा सेना-सुरा-च्छाया। शाला-निशानाम् (*२,४।२५) । इति विभाषां वक्ष्यति । नित्य-अर्थम् इदं वचनम् । छाया-अन्तस् तत्पुरुषो नपुंसक-लिङ्गो भवति बाहुल्ये गम्यमाने । पूर्वपदार्थ-धर्मः बाहुल्यम् । शलभादीनां हि बहुत्वं गम्यते । शलभच्छायम् । इक्षुच्छायम् । बहुल्ये इति किम् ? कुङ्यच्छाया ॥ सभा राजा ऽमनुस्य-पूर्वा

vibhāṣā senā-surā-cchāyā. śālā-niśānām (*2,4.25) / iti vibhāṣāṃ vakṣyati / nitya-artham idaṃ vacanam / chāyā-antas tatpuruṣo napuṃsaka-liṅgo bhavati bāhulye gamyamāne / pūrvapadārtha-dharmaḥ bāhulyam / śalabhādīnāṃ hi bahutvaṃ gamyate / śalabhacchāyam / ikṣucchāyam / bahulye iti kim ? kuṅyacchāyā // sabhā rājā 'manusya-pūrvā

Sanskrit only: no published translation is held for this verse.

सभान्तस् तत्पुरुषो नपुंसक-लिङ्गो भवति, सा चेत् सभा राजपूर्वा, अमनुस्य-पूर्वा च भवति । इनसभम् । ईश्वरसभम् । इह कस्मान् न भवति, राजसभा ? पर्याय-वचनस्य+एव+इष्यते । तद् उक्तम् - जित्पर्यायस्य+एव राजाध्यर्थम् इति । अमनुष्य-पूर्वा - रक्षःसभम् । पिशाचसभम् । इह कस्मान् न भवति, काष्ठसभा ? अमनुष्य-शब्दो रूढिरूपेण् रक्षःपिशाचादिष्व् एव वर्तते । राजा+अमनुष्य-पूर्वा इति किम् ? देवदत्तसभा ॥ अशाला च

sabhāntas tatpuruṣo napuṃsaka-liṅgo bhavati, sā cet sabhā rājapūrvā, amanusya-pūrvā ca bhavati / inasabham / īśvarasabham / iha kasmān na bhavati, rājasabhā ? paryāya-vacanasya+eva+iṣyate / tad uktam - jitparyāyasya+eva rājādhyartham iti / amanuṣya-pūrvā - rakṣaḥsabham / piśācasabham / iha kasmān na bhavati, kāṣṭhasabhā ? amanuṣya-śabdo rūḍhirūpeṇ rakṣaḥpiśācādiṣv eva vartate / rājā+amanuṣya-pūrvā iti kim ? devadattasabhā // aśālā ca

Sanskrit only: no published translation is held for this verse.

अशाला च या सभा तदन्तस् तत्पुरुषो नपुंसक-लिङ्गो भवति । सङ्घातवचनो ऽत्र सभा-शब्दो गृह्यते । स्त्रीसभम् । दासीसभम् । दासीसङ्घातः इत्य् अर्थः । अशाला इति किम् । अनाथकुटी इत्य् अर्थः ॥ विभाषा सेना-सुरा-च्छाया-शाला-निशानाम्

aśālā ca yā sabhā tadantas tatpuruṣo napuṃsaka-liṅgo bhavati / saṅghātavacano 'tra sabhā-śabdo gṛhyate / strīsabham / dāsīsabham / dāsīsaṅghātaḥ ity arthaḥ / aśālā iti kim / anāthakuṭī ity arthaḥ // vibhāṣā senā-surā-cchāyā-śālā-niśānām

Sanskrit only: no published translation is held for this verse.

सेना सुरा छाया शाला निशा इत्य् एवम् अन्तस् तत्पुरुषो नपुंसक-लिङ्गो भवति विभाषा । ब्राह्मणसेनम्, ब्राहमणसेना । यवसुरम्, यवसुरा । कुङ्यच्छायम्, कुड्यच्छाया । गोशालम्, गोशाला । श्वनिशम् । श्वनिशा ॥ परवल्-लिङ्गं द्वन्द्व-तत्पुरुषयोः

senā surā chāyā śālā niśā ity evam antas tatpuruṣo napuṃsaka-liṅgo bhavati vibhāṣā / brāhmaṇasenam, brāhamaṇasenā / yavasuram, yavasurā / kuṅyacchāyam, kuḍyacchāyā / gośālam, gośālā / śvaniśam / śvaniśā // paraval-liṅgaṃ dvandva-tatpuruṣayoḥ

Sanskrit only: no published translation is held for this verse.

प्राप्तो जीविकाम् प्राप्तजीविकः । आपन्नो जीविकाम् आपन्नजीविकः । अलं जीविकायै अलंजीविकः । गतिसमासः - निष्क्रान्तः कौशाम्ब्याः निष्कौशाम्बिः ॥ पूर्ववद्-अश्वव-डवौ

prāpto jīvikām prāptajīvikaḥ / āpanno jīvikām āpannajīvikaḥ / alaṃ jīvikāyai alaṃjīvikaḥ / gatisamāsaḥ - niṣkrāntaḥ kauśāmbyāḥ niṣkauśāmbiḥ // pūrvavad-aśvava-ḍavau

Sanskrit only: no published translation is held for this verse.

अश्व-वडवयोर् विभाष-एकवद्-भावः उक्तः । तत्र+एकवद्-भावाद् अन्यत्र परविल्लिङ्गतायां प्राप्तायाम् इदम् आरभ्यते । अश्व-वडवयोः पूर्ववल्लिङ्गं भवति । अश्वश् च वडवा च अश्ववडवौ । अर्थ-अतिदेशश् च अयम्, न निपातनम् । तत्र द्विवचनमतन्त्रम् । वचन-अन्तरे ऽपि पूर्ववल्लिङ्गता भवति, अश्व-वडवान्, अश्व-वडवैः इति ॥ हेमन्त-शिशिराव् अहो-रात्रे च छन्दसि

aśva-vaḍavayor vibhāṣa-ekavad-bhāvaḥ uktaḥ / tatra+ekavad-bhāvād anyatra paravilliṅgatāyāṃ prāptāyām idam ārabhyate / aśva-vaḍavayoḥ pūrvavalliṅgaṃ bhavati / aśvaś ca vaḍavā ca aśvavaḍavau / artha-atideśaś ca ayam, na nipātanam / tatra dvivacanamatantram / vacana-antare 'pi pūrvavalliṅgatā bhavati, aśva-vaḍavān, aśva-vaḍavaiḥ iti // hemanta-śiśirāv aho-rātre ca chandasi

Sanskrit only: no published translation is held for this verse.

पूर्ववत् इति वर्तते । हेमन्त-शिशिरौ अहोरात्रे इत्य् एतयोश् छन्दसि विषये पूर्ववल्लिङ्गं भवति । हेमन्तशिशिरावृतूनां प्रीणामि । अहोरात्रे इदं व्रूमः । परवल्लिङ्गत-अपवादो योगः । अर्थ-अतिदेशश् च अयं न निपातनं, तेन द्विवचनमतन्त्रम् । वचन-अन्तरे ऽपि पूर्ववल्लिङ्गता भवति । पूर्व-पक्षाश्चितयः । अपरपक्षाः पुरीषम्, अहोरात्राणीष्टकाः । छन्दसि इति किम् ? दुःखे हेमन्तशिशिरे । अहोरात्राविमौ पुण्यौ । छन्दसि लिङ्गव्यत्यय उक्तः, तस्य+एव अयं प्रपञ्चः ॥ रात्र-अह्न-अहाः पुंसि

pūrvavat iti vartate / hemanta-śiśirau ahorātre ity etayoś chandasi viṣaye pūrvavalliṅgaṃ bhavati / hemantaśiśirāvṛtūnāṃ prīṇāmi / ahorātre idaṃ vrūmaḥ / paravalliṅgata-apavādo yogaḥ / artha-atideśaś ca ayaṃ na nipātanaṃ, tena dvivacanamatantram / vacana-antare 'pi pūrvavalliṅgatā bhavati / pūrva-pakṣāścitayaḥ / aparapakṣāḥ purīṣam, ahorātrāṇīṣṭakāḥ / chandasi iti kim ? duḥkhe hemantaśiśire / ahorātrāvimau puṇyau / chandasi liṅgavyatyaya uktaḥ, tasya+eva ayaṃ prapañcaḥ // rātra-ahna-ahāḥ puṃsi

Sanskrit only: no published translation is held for this verse.

कृतसमासान्तानां निर्देशः । रात्र अह्न अह इत्य् एते पुंसि भाष्यन्ते । परवल्लिङ्गतया स्त्री-नपुंसकयोः प्राप्तयोर् इदं वचनम् । द्विरात्रः । त्रिरात्रः । चतूरात्रः । पूर्वाह्णः । अपराह्णः । मध्याह्नः । द्व्यहः । त्र्यहः । अनुवाकादयः पुंसीति वक्तव्यम् । अनुवाकः । शंयुवाकः । सूक्तवाकः ॥ अपथं नपुंसकम्

kṛtasamāsāntānāṃ nirdeśaḥ / rātra ahna aha ity ete puṃsi bhāṣyante / paravalliṅgatayā strī-napuṃsakayoḥ prāptayor idaṃ vacanam / dvirātraḥ / trirātraḥ / catūrātraḥ / pūrvāhṇaḥ / aparāhṇaḥ / madhyāhnaḥ / dvyahaḥ / tryahaḥ / anuvākādayaḥ puṃsīti vaktavyam / anuvākaḥ / śaṃyuvākaḥ / sūktavākaḥ // apathaṃ napuṃsakam

Sanskrit only: no published translation is held for this verse.

अपथ-शब्दो नपुंसक-लिङ्गो भवति । अपथम् इदम् । अपथानि गाहते मूढः । इह कस्मान् न भवति, अपथो देशः, अपथा नगरी ? तत्पुरुषः इति वर्तते ॥ अर्धर्चाः पुंसि च

apatha-śabdo napuṃsaka-liṅgo bhavati / apatham idam / apathāni gāhate mūḍhaḥ / iha kasmān na bhavati, apatho deśaḥ, apathā nagarī ? tatpuruṣaḥ iti vartate // ardharcāḥ puṃsi ca

Sanskrit only: no published translation is held for this verse.

क्षेम । शूक । छत्र । पवित्र । यौवन । पानक । मूषिक । वल्कल । कुञ्ज । विहार । लोहित । विषाण । भवन । अरण्य । पुलिन । दृढ । आसन । ऐरावत । शूर्प । तीर्थ । लोमश । तमाल । लोह । दण्डक । शपथ । प्रतिसर । दारु । धनुस् । मान । तङ्क । वितङ्क । मव । सहस्र । ओदन । प्रवाल । शकट । अपराह्ण । नीड । शकल । इति अर्धर्चादिः ॥ इदमो ऽन्वादेशे ऽश् अनुदात्तस् तृतीया-आदौ

kṣema / śūka / chatra / pavitra / yauvana / pānaka / mūṣika / valkala / kuñja / vihāra / lohita / viṣāṇa / bhavana / araṇya / pulina / dṛḍha / āsana / airāvata / śūrpa / tīrtha / lomaśa / tamāla / loha / daṇḍaka / śapatha / pratisara / dāru / dhanus / māna / taṅka / vitaṅka / mava / sahasra / odana / pravāla / śakaṭa / aparāhṇa / nīḍa / śakala / iti ardharcādiḥ // idamo 'nvādeśe 'ś anudāttas tṛtīyā-ādau

Sanskrit only: no published translation is held for this verse.

एतदस् त्र-तसोस् त्र-तसौ च अनुदातौ

etadas tra-tasos tra-tasau ca anudātau

Sanskrit only: no published translation is held for this verse.

अन्वादेश अनुदात्त इति वर्तते । एतदो ऽन्वादेश-विषयस्य अशादेशो भवति अनुदात्तः त्र-तसोः परतः । तौ च अपि त्र-तसाव् अनुदात्तौ भवतः । एतस्मिन् ग्रामे सुखं वसामः, अथो अत्र युक्ता अधीमहे । एतस्माच् छात्राच्छन्तो ऽधीष्व, अथो अतो व्याकरणम् अप्य् अधीष्व । सर्वानुदात्तं पदं भवति । एतदो ऽश् इत्य् आदेशे लभे पुनर् वचनम् अनुदात्त-अर्थम् ॥ द्वितीया-टा-ओस्स्व् एनः

anvādeśa anudātta iti vartate / etado 'nvādeśa-viṣayasya aśādeśo bhavati anudāttaḥ tra-tasoḥ parataḥ / tau ca api tra-tasāv anudāttau bhavataḥ / etasmin grāme sukhaṃ vasāmaḥ, atho atra yuktā adhīmahe / etasmāc chātrācchanto 'dhīṣva, atho ato vyākaraṇam apy adhīṣva / sarvānudāttaṃ padaṃ bhavati / etado 'ś ity ādeśe labhe punar vacanam anudātta-artham // dvitīyā-ṭā-ossv enaḥ

Sanskrit only: no published translation is held for this verse.

अन्वादेशे ऽनुदात्तः इति वर्तते । द्वितीया टा ओस् इत्य् एतेषु परत इदम् एतदोर् अन्वादेश-विषययोः एन-शब्द आदेशो आदेशो भवति अनुदात्तः । इदमो मण्डूकप्लुतिन्यायेन अनुवृत्तिः । इमं छात्रं छन्दो ऽध्यापय, अथो एनं व्याकरणमध्यापय । अनेन छात्रेण रात्रिरधीता, अथो एनेनाहरप्यधीतम् । अनयोश्छात्रयोः शोभनं शीलम्, अथो एनयोः प्रभूतं स्वम् । एतदः खल्व् अपि -- एतं छात्रं छन्तो ऽध्यापय, अथो एनं व्याकरणमप्यध्यापय । एतेन छात्रेन रात्रिरधीता, अथो एनेनाहरप्यधीतम् । एतयोश् छात्रयोः शोभनं शीलम्, अथो एनयोः प्रभूतं स्वम् । एनद् इति नपुंसकैकवचने वक्तव्यम् । प्रक्षालयैनत् । परिवर्तयैनत् । इह कस्मान् न भवति, अयं दण्डो हरानेन, एतमातं ङितं विद्यात् इति ? यत्र किञ्चिद् विधाय वाक्यान्तरेण पुनर् अन्यदुपदिश्यते सो ऽन्वादेशः । इह तु वस्तु-निर्देशमात्रं कृत्वा एकम् एव विधानम् ॥ आर्धधातुके

anvādeśe 'nudāttaḥ iti vartate / dvitīyā ṭā os ity eteṣu parata idam etador anvādeśa-viṣayayoḥ ena-śabda ādeśo ādeśo bhavati anudāttaḥ / idamo maṇḍūkaplutinyāyena anuvṛttiḥ / imaṃ chātraṃ chando 'dhyāpaya, atho enaṃ vyākaraṇamadhyāpaya / anena chātreṇa rātriradhītā, atho enenāharapyadhītam / anayośchātrayoḥ śobhanaṃ śīlam, atho enayoḥ prabhūtaṃ svam / etadaḥ khalv api -- etaṃ chātraṃ chanto 'dhyāpaya, atho enaṃ vyākaraṇamapyadhyāpaya / etena chātrena rātriradhītā, atho enenāharapyadhītam / etayoś chātrayoḥ śobhanaṃ śīlam, atho enayoḥ prabhūtaṃ svam / enad iti napuṃsakaikavacane vaktavyam / prakṣālayainat / parivartayainat / iha kasmān na bhavati, ayaṃ daṇḍo harānena, etamātaṃ ṅitaṃ vidyāt iti ? yatra kiñcid vidhāya vākyāntareṇa punar anyadupadiśyate so 'nvādeśaḥ / iha tu vastu-nirdeśamātraṃ kṛtvā ekam eva vidhānam // ārdhadhātuke

Sanskrit only: no published translation is held for this verse.

आर्धधातुके इत्य् अधिकारो ऽयम्, ण्य-क्षत्रिय-आर्ष-ञितो यूनि लुग्-अण्-इञोः (*२,४।५८) इति यावत् । यदित ऊर्ध्वम् अनुक्रमिष्यमस्त् अद् आर्धधातुके वेदितव्यम् । वक्ष्यति हनो वध लिङि (*२,४।४२) -- वध्यात् । आर्धधातुके इति किम् ? हन्यात् । विषय-सप्तमी च+इयं, न परसप्तमी । तेन आर्धधातुक-विवक्षायाम् आदेशेषु कृतेषु पश्चाद् यथा-प्राप्तं प्रत्यया भवन्ति । भव्यम् । प्रवेयम् । आख्येयम् ॥ अदो जग्धिर् ल्यप् ति किति

ārdhadhātuke ity adhikāro 'yam, ṇya-kṣatriya-ārṣa-ñito yūni lug-aṇ-iñoḥ (*2,4.58) iti yāvat / yadita ūrdhvam anukramiṣyamast ad ārdhadhātuke veditavyam / vakṣyati hano vadha liṅi (*2,4.42) -- vadhyāt / ārdhadhātuke iti kim ? hanyāt / viṣaya-saptamī ca+iyaṃ, na parasaptamī / tena ārdhadhātuka-vivakṣāyām ādeśeṣu kṛteṣu paścād yathā-prāptaṃ pratyayā bhavanti / bhavyam / praveyam / ākhyeyam // ado jagdhir lyap ti kiti

Sanskrit only: no published translation is held for this verse.

जग्धौ सिद्धे ऽन्तरङ्गत्वात्ति कितीति ल्यब् उच्यते । ज्ञापयत्य्-अन्तरङ्गाणां ल्यपा भवति बाधनम् ॥ ति इति किम् ? अद्यते । किति इति किम् ? अत्तव्यम् ॥ लुङ्-सनोर् घसॢ

jagdhau siddhe 'ntaraṅgatvātti kitīti lyab ucyate / jñāpayaty-antaraṅgāṇāṃ lyapā bhavati bādhanam // ti iti kim ? adyate / kiti iti kim ? attavyam // luṅ-sanor ghasḷ

Sanskrit only: no published translation is held for this verse.

लुङि सनि च परतो ऽदो घसॢ आदेशो भवति । ऌदित्-करणम् अङर्थम् । लुङि --अघसत्, अघसताम्, अघसन् । सनि -- जिघत्सति, जिघत्सतः, जिघत्सन्ति । घसॢभावे ऽच्य् उपसङ्ख्यानम् । प्रात्ति इति प्रघसः ॥ घञ्-अपोश् च

luṅi sani ca parato 'do ghasḷ ādeśo bhavati / ḷdit-karaṇam aṅartham / luṅi --aghasat, aghasatām, aghasan / sani -- jighatsati, jighatsataḥ, jighatsanti / ghasḷbhāve 'cy upasaṅkhyānam / prātti iti praghasaḥ // ghañ-apoś ca

Sanskrit only: no published translation is held for this verse.

घञि अपि च परतः अदो घसॢ आदेशो भवति । घासः । प्रघसः । उपसर्गे ऽदः (*३,३।५९) इत्य् अप् ॥ बहुलं छन्दसि

ghañi api ca parataḥ ado ghasḷ ādeśo bhavati / ghāsaḥ / praghasaḥ / upasarge 'daḥ (*3,3.59) ity ap // bahulaṃ chandasi

Sanskrit only: no published translation is held for this verse.

छन्दसि विषये बहुलम् अदो घसॢ आदेशो भवति । घस्तां नूनम् । सग्धिश्च मे । न च भवति । आत्तामद्य मद्यतो मेद उद्भृतम् । अन्यतरस्य अंग्रहणम् एव कस्मान् न क्रियते तद् एव+उत्तर-अर्थम् अपि भविष्यति ? कार्यान्तर-अर्थं बहुल-ग्रहणम् । घस्ताम् इत्य् अत्र+उपधा-लोपो न भवति ॥ लिट्य् अन्तरस्याम्

chandasi viṣaye bahulam ado ghasḷ ādeśo bhavati / ghastāṃ nūnam / sagdhiśca me / na ca bhavati / āttāmadya madyato meda udbhṛtam / anyatarasya aṃgrahaṇam eva kasmān na kriyate tad eva+uttara-artham api bhaviṣyati ? kāryāntara-arthaṃ bahula-grahaṇam / ghastām ity atra+upadhā-lopo na bhavati // liṭy antarasyām

Sanskrit only: no published translation is held for this verse.

लिटि परतो ऽदो ऽन्यतरस्यां घस्ल्-आदेशो भवति । जघास, जक्षतुः, जक्षुः । आद्, आदतुः, आदुः ॥ वेञो वयिः

liṭi parato 'do 'nyatarasyāṃ ghasl-ādeśo bhavati / jaghāsa, jakṣatuḥ, jakṣuḥ / ād, ādatuḥ, āduḥ // veño vayiḥ

Sanskrit only: no published translation is held for this verse.

हनो वध लिङि

hano vadha liṅi

Sanskrit only: no published translation is held for this verse.

हन्तेर् धातोः वध इत्य् अयम् आदेशो भवति लिङि परत आर्धधातुके । वध्यात्, वध्यास्ताम्, वध्यासुः । अकार-अन्तश् च अयम् आदेशः । तत्र अकारस्य लोपो भवति । तस्य स्थानिवद्भावाद् अवधीत् इति हलन्त-लक्षना वृद्धिः न भवति ॥ लुङि च

hanter dhātoḥ vadha ity ayam ādeśo bhavati liṅi parata ārdhadhātuke / vadhyāt, vadhyāstām, vadhyāsuḥ / akāra-antaś ca ayam ādeśaḥ / tatra akārasya lopo bhavati / tasya sthānivadbhāvād avadhīt iti halanta-lakṣanā vṛddhiḥ na bhavati // luṅi ca

Sanskrit only: no published translation is held for this verse.

लुङि च परतः हनो वध इत्य् अयम् आदेशो भवति । अवधीत्, अवधीष्टाम्, अवधिषुः । योगविभाग उत्तर-अर्थः । आत्मनेपदेषु लुङि विकल्पो यथा स्याल् लिङि मा भूत् ॥ आत्मनेपदेष्व् अन्यतरस्याम्

luṅi ca parataḥ hano vadha ity ayam ādeśo bhavati / avadhīt, avadhīṣṭām, avadhiṣuḥ / yogavibhāga uttara-arthaḥ / ātmanepadeṣu luṅi vikalpo yathā syāl liṅi mā bhūt // ātmanepadeṣv anyatarasyām

Sanskrit only: no published translation is held for this verse.

पूर्वेण नित्ये प्राप्ते विकल्प उच्यते । आत्मनेपदेषु परतो हनो लुङ्य् अन्यतरस्यां वध इत्य् अयमादेशो भवति । आवधिष्ट, आवधिषाताम्, आवधिषत । न च भवति । आहत, आहसाताम्, आहसत ॥ इणो गा लुङि

pūrveṇa nitye prāpte vikalpa ucyate / ātmanepadeṣu parato hano luṅy anyatarasyāṃ vadha ity ayamādeśo bhavati / āvadhiṣṭa, āvadhiṣātām, āvadhiṣata / na ca bhavati / āhata, āhasātām, āhasata // iṇo gā luṅi

Sanskrit only: no published translation is held for this verse.

इणः गा इत्य् अयम् आवेशो भवति लुङि परतः । अगात्, अगाताम्, अगुः । लुङि इति वर्तमाने पुनर् लुङ्-ग्रहणम् आत्मनेपदेष्व् अन्यतरस्याम् (*२,४।४४) इत्य् एतन् मा भूत् । इह त्वविशेषेण नित्यं च भवति । अगात् । अगायि भवता । इण्वदिक इत वक्तव्यम् । अध्यगात्, अध्यगाताम्, अध्यगुः ॥ णौ गमिर् अबोधने

iṇaḥ gā ity ayam āveśo bhavati luṅi parataḥ / agāt, agātām, aguḥ / luṅi iti vartamāne punar luṅ-grahaṇam ātmanepadeṣv anyatarasyām (*2,4.44) ity etan mā bhūt / iha tvaviśeṣeṇa nityaṃ ca bhavati / agāt / agāyi bhavatā / iṇvadika ita vaktavyam / adhyagāt, adhyagātām, adhyaguḥ // ṇau gamir abodhane

Sanskrit only: no published translation is held for this verse.

णौ परतः इणो ऽबोधन-अर्थस्य गमिर्-आदेशो भवति । इकार उच्चारण-अर्थः । गमयति, गमयतः, गमयन्ति । अबोधने इति किम् ? प्रत्याययति । इण्वदिक इत्य् एव, अधिगमयति ॥ सनि च

ṇau parataḥ iṇo 'bodhana-arthasya gamir-ādeśo bhavati / ikāra uccāraṇa-arthaḥ / gamayati, gamayataḥ, gamayanti / abodhane iti kim ? pratyāyayati / iṇvadika ity eva, adhigamayati // sani ca

Sanskrit only: no published translation is held for this verse.

सनि परतः इणो ऽबोधन-अर्थस्य गमिर् आदेशो भवति । जिगमिषति, जिगमिषतः, जिगमिषन्ति । अबोधने इत्य् एव, अर्थान् प्रतीषिषति । इण्वदिक इत्य् एव, अधिजिगमिषति । योग-विभाग उत्तरार्थः । इङश्च (*२,४।४८) इति सन्येव यथा स्यात् ॥ इङश् च

sani parataḥ iṇo 'bodhana-arthasya gamir ādeśo bhavati / jigamiṣati, jigamiṣataḥ, jigamiṣanti / abodhane ity eva, arthān pratīṣiṣati / iṇvadika ity eva, adhijigamiṣati / yoga-vibhāga uttarārthaḥ / iṅaśca (*2,4.48) iti sanyeva yathā syāt // iṅaś ca

Sanskrit only: no published translation is held for this verse.

गाङ् लिटि

gāṅ liṭi

Sanskrit only: no published translation is held for this verse.

गाङ् अदेशो भवति इङो लिटि परतः । अधिजगे, अधिजगाते, अधिजगिरे । गाङो ऽनुबन्ध-ग्रहणं विशेषन-अर्थम्, गाङ् कुटादिभ्यो ऽञ्णिन् ङित् (*१,२।१) इत्य् अत्र अस्य ग्रहणं यथा स्यात् । न हि स्थानिवद्भावेन गाङ् इति रूपं लभ्यते ॥ विभाषा लुङॢङोः

gāṅ adeśo bhavati iṅo liṭi parataḥ / adhijage, adhijagāte, adhijagire / gāṅo 'nubandha-grahaṇaṃ viśeṣana-artham, gāṅ kuṭādibhyo 'ñṇin ṅit (*1,2.1) ity atra asya grahaṇaṃ yathā syāt / na hi sthānivadbhāvena gāṅ iti rūpaṃ labhyate // vibhāṣā luṅḷṅoḥ

Sanskrit only: no published translation is held for this verse.

लुगि ऌङि च परत इङो विभाषा गाङ्-आदेशो भवति । आदेश-पक्षे गाङ् कुटादिभ्यो ऽञ्णिन् डित् (*१,२।१) इति ङित्त्वम्, घु-मा-स्था-गा-पा-जहाति-सां हलि (*६,४।६६) इति ईत्वम् । अध्यगीष्ट, अध्यगीषाताम्, अध्यगीषत । न च भवति । अध्यैष्ट, अध्यैषाताम्, अध्यैषत । ऌङि खल्व् अपि - अध्यगीष्यत, अध्यगीष्येताम्, अध्यगीष्यन्त । न च भवति । अध्यैष्यत, अध्यैष्येताम्, अध्यैष्यन्त ॥ णौ च संश्-चङोः

lugi ḷṅi ca parata iṅo vibhāṣā gāṅ-ādeśo bhavati / ādeśa-pakṣe gāṅ kuṭādibhyo 'ñṇin ḍit (*1,2.1) iti ṅittvam, ghu-mā-sthā-gā-pā-jahāti-sāṃ hali (*6,4.66) iti ītvam / adhyagīṣṭa, adhyagīṣātām, adhyagīṣata / na ca bhavati / adhyaiṣṭa, adhyaiṣātām, adhyaiṣata / ḷṅi khalv api - adhyagīṣyata, adhyagīṣyetām, adhyagīṣyanta / na ca bhavati / adhyaiṣyata, adhyaiṣyetām, adhyaiṣyanta // ṇau ca saṃś-caṅoḥ

Sanskrit only: no published translation is held for this verse.

इङो गाङ् विभाषा इति वर्तते । णौ इति इङ्-अपेक्षया परसप्तमी, संश्-चङोः इति च ण्य्-अपेक्षया । णौ सन्परे चङ्परे च परतः इङो विभाषा गाङ्-आदेशो भवति । अधिजिगापयिषति । न च भवति । अध्यापिपयिषति । चङि खल्व् अपि - अध्यजीगपत् । न च भवति । अध्यापिपत् ॥ अस्तेर् भूः

iṅo gāṅ vibhāṣā iti vartate / ṇau iti iṅ-apekṣayā parasaptamī, saṃś-caṅoḥ iti ca ṇy-apekṣayā / ṇau sanpare caṅpare ca parataḥ iṅo vibhāṣā gāṅ-ādeśo bhavati / adhijigāpayiṣati / na ca bhavati / adhyāpipayiṣati / caṅi khalv api - adhyajīgapat / na ca bhavati / adhyāpipat // aster bhūḥ

Sanskrit only: no published translation is held for this verse.

अस्तेर् धातोर् भूः इत् अयम् आदेशो भवति आर्धधातुके । भविता । भवितुम् । भवितव्यम् । इह कस्मान् न भवति, ईहामास, ईहामासतुः, ईहामासुः ? कृञ् च अनुप्रयुज्यते लिटि (*३,१।४०) इति प्रत्याहार-ग्रहणेन अस्तेर् ग्रहण-सामर्थ्यात् । तथा चोच्यते - अनुप्रतोगे तु भुवा ऽस्त्यबाधनम् स्मरन्ति कर्तुर् वचनान् मनीषिणः । इति ॥ ब्रुवो बचिः

aster dhātor bhūḥ it ayam ādeśo bhavati ārdhadhātuke / bhavitā / bhavitum / bhavitavyam / iha kasmān na bhavati, īhāmāsa, īhāmāsatuḥ, īhāmāsuḥ ? kṛñ ca anuprayujyate liṭi (*3,1.40) iti pratyāhāra-grahaṇena aster grahaṇa-sāmarthyāt / tathā cocyate - anupratoge tu bhuvā 'styabādhanam smaranti kartur vacanān manīṣiṇaḥ / iti // bruvo baciḥ

Sanskrit only: no published translation is held for this verse.

चक्षिङः ख्याञ्

cakṣiṅaḥ khyāñ

Sanskrit only: no published translation is held for this verse.

चक्षिङः ख्याञ् आदेशो भवति आर्धधातुके । आख्याता । आख्यातुम् । आख्यातव्यम् । स्थानिवद्भावेन नित्यम् आत्मनेपदं न भवति, ञकार-अनुबन्धक्-अरण-सामर्थ्यात् । आख्यास्यति । आख्यास्यते । क्शादिर् अप्य् अयम् आदेश इष्यते । आक्शाता । आक्शातुम् । आक्शातव्यम् । वर्जने प्रतिषेधो वक्तव्यः । दुर्जनः संचक्ष्याः । वर्जनीयाः इत्य् अर्थः । असनयोश् च प्रतिषेधो वक्तव्यः । नृचक्षा रक्षः हिंसार्थो ऽत्र भातुः । अने खल्व् अपि - विचक्षणः पण्डितः । बहुलं सञ्ज्ञाछन्दसोर् इति वक्तव्यम् । अन्नवधकगात्रविचक्षणाजिराद्यर्थम् ॥ वा लिटि

cakṣiṅaḥ khyāñ ādeśo bhavati ārdhadhātuke / ākhyātā / ākhyātum / ākhyātavyam / sthānivadbhāvena nityam ātmanepadaṃ na bhavati, ñakāra-anubandhak-araṇa-sāmarthyāt / ākhyāsyati / ākhyāsyate / kśādir apy ayam ādeśa iṣyate / ākśātā / ākśātum / ākśātavyam / varjane pratiṣedho vaktavyaḥ / durjanaḥ saṃcakṣyāḥ / varjanīyāḥ ity arthaḥ / asanayoś ca pratiṣedho vaktavyaḥ / nṛcakṣā rakṣaḥ hiṃsārtho 'tra bhātuḥ / ane khalv api - vicakṣaṇaḥ paṇḍitaḥ / bahulaṃ sañjñāchandasor iti vaktavyam / annavadhakagātravicakṣaṇājirādyartham // vā liṭi

Sanskrit only: no published translation is held for this verse.

पूर्वेण नित्ये प्राप्ते विकल्प उच्यते । लिटि परतश्चक्षिङः ख्याञ् आदेशः वा भवति । आचख्यौ, आचख्यतुः, आचख्युः । न च भवति । आचचक्षे, आचचक्षाते, आचचक्षिरे ॥ अजेर् व्य् अघञ्-अपोः

pūrveṇa nitye prāpte vikalpa ucyate / liṭi parataścakṣiṅaḥ khyāñ ādeśaḥ vā bhavati / ācakhyau, ācakhyatuḥ, ācakhyuḥ / na ca bhavati / ācacakṣe, ācacakṣāte, ācacakṣire // ajer vy aghañ-apoḥ

Sanskrit only: no published translation is held for this verse.

वा यौ

vā yau

Sanskrit only: no published translation is held for this verse.

पूर्वेण नित्ये प्राप्ते विकल्प उच्यते । यु इति ल्युटो ग्रहणम् । यौ प्रभूते अजे र्वा वी इत्य् अयम् आदेशो भवति । प्रवयणो दण्डः, प्राजनो दण्डः । प्रवयणमानय, प्राजनमानय ॥ ण्य-क्षत्रिय-आर्ष-ञितो यूनि लुग् अण्-इञोः

pūrveṇa nitye prāpte vikalpa ucyate / yu iti lyuṭo grahaṇam / yau prabhūte aje rvā vī ity ayam ādeśo bhavati / pravayaṇo daṇḍaḥ, prājano daṇḍaḥ / pravayaṇamānaya, prājanamānaya // ṇya-kṣatriya-ārṣa-ñito yūni lug aṇ-iñoḥ

Sanskrit only: no published translation is held for this verse.

ण्य-आदयो गोत्र-प्रत्ययाः । ण्यान्तात् क्षत्रियगोत्राद् आर्षाद् ञितश् च प्रयोः अण्डञोर्यूनि लुग् भवति । ण्यान्तात् तावत् -- कुर्व्-आदिभ्यो ण्यः (*४,१।१५१) , तस्माद् यूनि इञ्, तस्य लुक् । कौरव्यः पिता । कौरव्यः पुत्रः । ननु च कौरव्य-शब्दः तिकादिषु पठ्यते, ततः फिञा भवितव्यम्, कौरव्यायणिः इति ? क्षत्रियगोत्रस्य तत्र ग्रहणम्, कुरु-न्-आदिभ्यो ण्यः (*४,१।१७२) इत्य् अनेन विहितस्य, इदं तु ब्राह्मणगोत्रम्, कुर्व्-आदिभ्यो ण्यः (*४,१।१५१) इति । क्षत्रिय -- ऋष्य्-अन्धक-वृष्णि-कुरुभ्यश् च (*४,१।११४) इत् यण्, तस्माद् यूनि इञ्, तस्य लुक् । श्वाफल्कः पिता । श्वाफल्कः पुत्रः । आर्ष -- ऋष्यण् (*४,१।११४), तस्माद् यूनि इञ्, तस्य लुक् । वासिष्ठः पिता । वासिष्ठः पुत्रः । ञित् - अनृष्य्-आनन्तर्ये विद-आदिभ्यो ऽञ् (*४,१।१०४), तस्माद् यूनि इञ्, तस्य लुक् । बैदः पिता । वैदः पुत्रः । अणः खल्व् अपि -- तिक-आदिभ्यः फिञ् (*४,१।१५४), तस्माद् यूनि प्राग् दीव्यतो ऽण् (*४,१।८३), तस्य लुक् । तैकायनिः पिता । तैकायनिः पुत्रः । एतेभ्यः इति किम् ? शिव-आदिभ्यो ऽण् (*४,१।११२), तस्माद् यूनि अत इञ् (*४,१।९५), तस्य लुग् न भवति । कौहडः पिता । कौहडि पुत्रः । यूनि इति किम् ? वामरथ्यस्य छात्राः वामरथाः । कुर्व्-आदिभ्यो ण्यः (*४,१।१५१) इति ण्यः, तस्मात् कण्व-आदिभ्यो गोत्रे (*४,२।१११) इति शैषिको ऽण् । तस्य लुग् न भवति । अणिञोः इति किम् ? दाक्षेरपत्यं युवा दाक्षायणः । अब्राह्मणगोत्रमात्रमात्राद्युवप्रत्ययस्तोपसङ्ह्यानम् । बौधिः पिता । बौधिः पुत्रः । जाबालिः पिता । जाबालिः पुत्रः । औदुम्बरिः पिता । औदुम्बरिः पुत्रः । भाण्डीजङ्घिः पिता । भाण्डीजङ्घिः पुत्रः । शाल्व-अवयव-लक्षन इञ्, तस्मात् फक्, तस्य लुक् । पैलादि-दर्शनात् सिद्धम् ॥ पैल-आदिब्यश् च

ṇya-ādayo gotra-pratyayāḥ / ṇyāntāt kṣatriyagotrād ārṣād ñitaś ca prayoḥ aṇḍañoryūni lug bhavati / ṇyāntāt tāvat -- kurv-ādibhyo ṇyaḥ (*4,1.151) , tasmād yūni iñ, tasya luk / kauravyaḥ pitā / kauravyaḥ putraḥ / nanu ca kauravya-śabdaḥ tikādiṣu paṭhyate, tataḥ phiñā bhavitavyam, kauravyāyaṇiḥ iti ? kṣatriyagotrasya tatra grahaṇam, kuru-n-ādibhyo ṇyaḥ (*4,1.172) ity anena vihitasya, idaṃ tu brāhmaṇagotram, kurv-ādibhyo ṇyaḥ (*4,1.151) iti / kṣatriya -- ṛṣy-andhaka-vṛṣṇi-kurubhyaś ca (*4,1.114) it yaṇ, tasmād yūni iñ, tasya luk / śvāphalkaḥ pitā / śvāphalkaḥ putraḥ / ārṣa -- ṛṣyaṇ (*4,1.114), tasmād yūni iñ, tasya luk / vāsiṣṭhaḥ pitā / vāsiṣṭhaḥ putraḥ / ñit - anṛṣy-ānantarye vida-ādibhyo 'ñ (*4,1.104), tasmād yūni iñ, tasya luk / baidaḥ pitā / vaidaḥ putraḥ / aṇaḥ khalv api -- tika-ādibhyaḥ phiñ (*4,1.154), tasmād yūni prāg dīvyato 'ṇ (*4,1.83), tasya luk / taikāyaniḥ pitā / taikāyaniḥ putraḥ / etebhyaḥ iti kim ? śiva-ādibhyo 'ṇ (*4,1.112), tasmād yūni ata iñ (*4,1.95), tasya lug na bhavati / kauhaḍaḥ pitā / kauhaḍi putraḥ / yūni iti kim ? vāmarathyasya chātrāḥ vāmarathāḥ / kurv-ādibhyo ṇyaḥ (*4,1.151) iti ṇyaḥ, tasmāt kaṇva-ādibhyo gotre (*4,2.111) iti śaiṣiko 'ṇ / tasya lug na bhavati / aṇiñoḥ iti kim ? dākṣerapatyaṃ yuvā dākṣāyaṇaḥ / abrāhmaṇagotramātramātrādyuvapratyayastopasaṅhyānam / baudhiḥ pitā / baudhiḥ putraḥ / jābāliḥ pitā / jābāliḥ putraḥ / audumbariḥ pitā / audumbariḥ putraḥ / bhāṇḍījaṅghiḥ pitā / bhāṇḍījaṅghiḥ putraḥ / śālva-avayava-lakṣana iñ, tasmāt phak, tasya luk / pailādi-darśanāt siddham // paila-ādibyaś ca

Sanskrit only: no published translation is held for this verse.

इञः प्राचाम्

iñaḥ prācām

Sanskrit only: no published translation is held for this verse.

गोत्रे य इञ् तदन्ताद् युव-प्रत्ययस्य लुग् भवति । गोत्र-विशेषनं प्राग्-ग्रहनम्, न विकल्प-अर्थम् । पान्नागारेर् अपत्यं युवा । यञ्-इञोश् च (*४,१।१०१) इति फक्, तस्य लुक् । पान्नागारिः पिता । पान्न्नगारिः पुत्रः । मन्थरैषणिः पिता । मान्थरैषणिः पुत्रः । प्राचाम् इति किम् ? दाक्षिः पिता । दाक्षायणः पुत्रः ॥ न तौल्वलिभ्यः

gotre ya iñ tadantād yuva-pratyayasya lug bhavati / gotra-viśeṣanaṃ prāg-grahanam, na vikalpa-artham / pānnāgārer apatyaṃ yuvā / yañ-iñoś ca (*4,1.101) iti phak, tasya luk / pānnāgāriḥ pitā / pānnnagāriḥ putraḥ / mantharaiṣaṇiḥ pitā / māntharaiṣaṇiḥ putraḥ / prācām iti kim ? dākṣiḥ pitā / dākṣāyaṇaḥ putraḥ // na taulvalibhyaḥ

Sanskrit only: no published translation is held for this verse.

अनन्तरेण प्राप्तो लुक् प्रतिषिध्यते । तौल्वल्य्-आदिभ्यः परस्य युवप्रत्ययस्य न लुग् भवति । तौल्वलिः पिता । तौल्वलायनः पुत्रः । तौल्वलि । धारणि । रावणि । पारणि । दैलीपि । दैवलि । दैवमति । दैवयज्ञि । प्रावाहणि । मान्धातकि । आनुहारति । श्वाफल्कि । आनुमति । आहिंसि । आसुरि । आयुधि । नैमिषि । आसिबन्धकि । बैकि । आन्तरहाति । पौष्करसादि । वैरकि । वैलकि । वैहति । वैकर्णि । कारेणुपालि । कामालि ॥ तद्राजस्य बहुषु तेन+एव अस्त्रियाम्

anantareṇa prāpto luk pratiṣidhyate / taulvaly-ādibhyaḥ parasya yuvapratyayasya na lug bhavati / taulvaliḥ pitā / taulvalāyanaḥ putraḥ / taulvali / dhāraṇi / rāvaṇi / pāraṇi / dailīpi / daivali / daivamati / daivayajñi / prāvāhaṇi / māndhātaki / ānuhārati / śvāphalki / ānumati / āhiṃsi / āsuri / āyudhi / naimiṣi / āsibandhaki / baiki / āntarahāti / pauṣkarasādi / vairaki / vailaki / vaihati / vaikarṇi / kāreṇupāli / kāmāli // tadrājasya bahuṣu tena+eva astriyām

Sanskrit only: no published translation is held for this verse.

ते तद्राजाः (*४,१।१७२), ञ्य-आदयस् तद्राजाः (*५,३।११९) इति वक्ष्यति, तस्य तद्राज-सञ्ज्ञस्य प्रत्ययस्य बहुषु वर्तमानस्य अस्त्रीलिङ्गस्य लुग् भवति, तेन+एव चेत् तद्राजेन कृतं बहुत्वं भवति । अङ्गाः । वङ्गाः । पुण्ड्राः । सुह्माः । मगधाः । लोहध्वजाः । व्रीहिमन्तः । तद्राजस्य इति किम् ? औपगवाः । बहुषु इति किम् ? आङ्गः । तेन+एव ग्रहणं किम् ? प्रियो वाङ्गो येषां ते इमे प्रियवाङ्गाः । अस्त्रियाम् इति किम् ? आङ्ग्यः स्त्रियः ॥ यस्क-आदिभ्यो गोत्रे

te tadrājāḥ (*4,1.172), ñya-ādayas tadrājāḥ (*5,3.119) iti vakṣyati, tasya tadrāja-sañjñasya pratyayasya bahuṣu vartamānasya astrīliṅgasya lug bhavati, tena+eva cet tadrājena kṛtaṃ bahutvaṃ bhavati / aṅgāḥ / vaṅgāḥ / puṇḍrāḥ / suhmāḥ / magadhāḥ / lohadhvajāḥ / vrīhimantaḥ / tadrājasya iti kim ? aupagavāḥ / bahuṣu iti kim ? āṅgaḥ / tena+eva grahaṇaṃ kim ? priyo vāṅgo yeṣāṃ te ime priyavāṅgāḥ / astriyām iti kim ? āṅgyaḥ striyaḥ // yaska-ādibhyo gotre

Sanskrit only: no published translation is held for this verse.

लभ्य । दुह्य । अयःस्थूण । तृणकर्ण । एते पञ्च शिवादिसु पठ्यन्ते । ततः परेभ्यः षड्भ्यः इञ् । सदामत्त । कम्बलभार । बहिर्योग । कर्णाटक । पिण्डीजङ्घ । बकसक्थ । ततः परेभ्यश् चतुर्भ्यः गृष्ट्य्-आदिभ्यश् च (*४,१।१३६) इति ढञ् । बस्ति । कुद्रि । अजबस्ति । मित्रयु । ततः परेभ्यो द्वादशभ्य इञ् । रक्षोमुख । जङ्घारथ । उत्कास । कटुकमन्थक । पुष्करसत् । विषपुट । उपरिमेखल । क्रोष्तुमान् । क्रोष्टुपाद । क्रोष्टुमाय । शीर्षमाय । पुष्करसच्छब्दाद् बाह्वादिपाठाद् इञ् । खरपशब्दो नडादिषु पथ्यते, ततः फक् । पदक । वर्मक । एताभ्याम् अत इञ् (*४,१।९५) । भलन्दनशब्दात् शिवादिभ्यो ऽण् (*४,१।११२) । भडिल । भण्डिल । भदित । भण्डित । एतेभ्यश् चतुर्भ्यः अश्व-आदिभ्यः फञ् (*४,१।११०) ॥ यञ्-अञोश् च

labhya / duhya / ayaḥsthūṇa / tṛṇakarṇa / ete pañca śivādisu paṭhyante / tataḥ parebhyaḥ ṣaḍbhyaḥ iñ / sadāmatta / kambalabhāra / bahiryoga / karṇāṭaka / piṇḍījaṅgha / bakasaktha / tataḥ parebhyaś caturbhyaḥ gṛṣṭy-ādibhyaś ca (*4,1.136) iti ḍhañ / basti / kudri / ajabasti / mitrayu / tataḥ parebhyo dvādaśabhya iñ / rakṣomukha / jaṅghāratha / utkāsa / kaṭukamanthaka / puṣkarasat / viṣapuṭa / uparimekhala / kroṣtumān / kroṣṭupāda / kroṣṭumāya / śīrṣamāya / puṣkarasacchabdād bāhvādipāṭhād iñ / kharapaśabdo naḍādiṣu pathyate, tataḥ phak / padaka / varmaka / etābhyām ata iñ (*4,1.95) / bhalandanaśabdāt śivādibhyo 'ṇ (*4,1.112) / bhaḍila / bhaṇḍila / bhadita / bhaṇḍita / etebhyaś caturbhyaḥ aśva-ādibhyaḥ phañ (*4,1.110) // yañ-añoś ca

Sanskrit only: no published translation is held for this verse.

बहुषु तेन+एव अस्त्रियाम्, गोत्रे इति च अनुवर्तते । यञो ऽज्श् च गोत्रप्रत्ययस्य बहुषु वर्तमानस्य अस्त्रीलिङ्गस्य लुङ् भवति । गर्ग-आदिभ्यो जञ् (*४,१।१०५) - गर्गाः । वत्साः । अञः खल्व् अपि, अनृष्य्-आनन्तर्ये बिद-आदिभ्यो ऽञ् (*४,१।१०४) -- बिदाः । उर्वाः । बहुष्व् इत्य् एव, गार्ग्यः । बैदः । तेनैव इत्य् एव, प्रियगार्ग्याः । प्रियबैदाः । अस्त्रियाम् इत्य् एव, गार्ग्यः स्त्रियः । बैद्यः स्त्रियः । गोत्रे इत्य् एव, द्वीपादनुसमुद्रं यञ् (*४,३।१०) -- द्वैप्याः । उत्सादिभ्यो ऽञ् - औत्साश्छात्राः । यञादीनाम् एकद्वयोर् वा तत्पुरुषे षष्ठ्या उपसङ्ख्यानम् । गार्ग्यस्य कुलम् गार्ग्यकुलं गर्गकुलं वा । गार्ग्ययोः कुलं गार्ग्यकुलं गर्गकुलं वा । एवं बैदस्य कुलं बैदकुलं बिदकुलं वा । बैदयोः कुलं बैदकुलं बिदकुलं वा । यञादीनाम् इति किम् ? आङ्गकुलम् । एकद्वयोः इति किम् ? गार्गाणां कुलं गर्गकुलम् । तत्पुरुषे इति किम् ? गार्गस्य समीपम् उपगार्ग्यम् । षष्ठ्या इति किम् ? परमगार्ग्यः ॥ अत्रि-भृगु-कुत्स-वसिष्ठ-गोतम-अङ्गिरोभ्यश् च

bahuṣu tena+eva astriyām, gotre iti ca anuvartate / yaño 'jś ca gotrapratyayasya bahuṣu vartamānasya astrīliṅgasya luṅ bhavati / garga-ādibhyo jañ (*4,1.105) - gargāḥ / vatsāḥ / añaḥ khalv api, anṛṣy-ānantarye bida-ādibhyo 'ñ (*4,1.104) -- bidāḥ / urvāḥ / bahuṣv ity eva, gārgyaḥ / baidaḥ / tenaiva ity eva, priyagārgyāḥ / priyabaidāḥ / astriyām ity eva, gārgyaḥ striyaḥ / baidyaḥ striyaḥ / gotre ity eva, dvīpādanusamudraṃ yañ (*4,3.10) -- dvaipyāḥ / utsādibhyo 'ñ - autsāśchātrāḥ / yañādīnām ekadvayor vā tatpuruṣe ṣaṣṭhyā upasaṅkhyānam / gārgyasya kulam gārgyakulaṃ gargakulaṃ vā / gārgyayoḥ kulaṃ gārgyakulaṃ gargakulaṃ vā / evaṃ baidasya kulaṃ baidakulaṃ bidakulaṃ vā / baidayoḥ kulaṃ baidakulaṃ bidakulaṃ vā / yañādīnām iti kim ? āṅgakulam / ekadvayoḥ iti kim ? gārgāṇāṃ kulaṃ gargakulam / tatpuruṣe iti kim ? gārgasya samīpam upagārgyam / ṣaṣṭhyā iti kim ? paramagārgyaḥ // atri-bhṛgu-kutsa-vasiṣṭha-gotama-aṅgirobhyaś ca

Sanskrit only: no published translation is held for this verse.

बह्वच् इञः प्राच्य-भ्रतेषु

bahvac iñaḥ prācya-bhrateṣu

Sanskrit only: no published translation is held for this verse.

बह्वचः प्रातिपदिकात् य इञ् विहितः प्राच्य-गोत्रे भरतगोत्रे च वर्तते, तस्य बहुषु लुग् भवति । पन्नागाराः । मन्थरैषणाः । भरतेषु खल्व् अपि - युधिष्ठिराः । अर्जुनाः । बह्वचः इति किम् ? बैकयः । पौष्पयः । प्राच्यभरतेषु इति किम् ? बालाकयः । हास्तिदासयः । भरताः प्राच्या एव, तेषां पुनर् ग्रहणं ज्ञापन-अर्थम् अन्यत्र प्राग् ग्रहणे भरत-ग्रहणं न भवति इति । तेन इञः प्राचाम् (*२,४।६०) इति भरतानां युवप्रत्ययस्य लुग् न भवति । अर्जुनिः पिता । आर्जुनायनः पुत्रः ॥ न गोपवन-आदिभ्यः

bahvacaḥ prātipadikāt ya iñ vihitaḥ prācya-gotre bharatagotre ca vartate, tasya bahuṣu lug bhavati / pannāgārāḥ / mantharaiṣaṇāḥ / bharateṣu khalv api - yudhiṣṭhirāḥ / arjunāḥ / bahvacaḥ iti kim ? baikayaḥ / pauṣpayaḥ / prācyabharateṣu iti kim ? bālākayaḥ / hāstidāsayaḥ / bharatāḥ prācyā eva, teṣāṃ punar grahaṇaṃ jñāpana-artham anyatra prāg grahaṇe bharata-grahaṇaṃ na bhavati iti / tena iñaḥ prācām (*2,4.60) iti bharatānāṃ yuvapratyayasya lug na bhavati / arjuniḥ pitā / ārjunāyanaḥ putraḥ // na gopavana-ādibhyaḥ

Sanskrit only: no published translation is held for this verse.

गोपवन-आदिभ्यः प्रस्य गोत्रप्रत्ययस्य लुग् न भवति । बदाद्यनतर्गणो ऽयम् । ततो ऽञो गोत्रप्रत्ययस्य यञ्-अञोश् च (*२,४।६४) इति लुक् प्राप्तः प्रतिषिध्यते । गौपवनाः । शैग्रवाः । गोपवन । शिग्रु । बिन्दु । भाजन । अश्व । अवतान । श्यामाक । श्वापर्ण । एतावन्त एव अष्टौ गोपवन-आदयः । परिशिष्टानां हरितादीनं प्रमादपाठः । ते हि चतुर्थे बिद-आदिषु पठ्यन्ते । तेभ्यश् च बहुषु लुग् भवत्य् एव, हरितः, किंदासाः इति ॥ तिक-कितव-आदिभ्यो द्वन्द्वे

gopavana-ādibhyaḥ prasya gotrapratyayasya lug na bhavati / badādyanatargaṇo 'yam / tato 'ño gotrapratyayasya yañ-añoś ca (*2,4.64) iti luk prāptaḥ pratiṣidhyate / gaupavanāḥ / śaigravāḥ / gopavana / śigru / bindu / bhājana / aśva / avatāna / śyāmāka / śvāparṇa / etāvanta eva aṣṭau gopavana-ādayaḥ / pariśiṣṭānāṃ haritādīnaṃ pramādapāṭhaḥ / te hi caturthe bida-ādiṣu paṭhyante / tebhyaś ca bahuṣu lug bhavaty eva, haritaḥ, kiṃdāsāḥ iti // tika-kitava-ādibhyo dvandve

Sanskrit only: no published translation is held for this verse.

उपक-आदिभ्यो ऽन्यतरस्याम् अद्वन्द्वे

upaka-ādibhyo 'nyatarasyām advandve

Sanskrit only: no published translation is held for this verse.

उपक इत्य् एवम् आदिभ्यः परस्य गोत्रप्रत्ययस्य बहुषु लुग् भवति अन्यतरस्यां द्वन्द्वे च अद्वन्द्वे च । अद्वन्द्व-ग्रहनं द्वन्द्व-अधिकार-निवृत्त्य्-अर्थम् । एतेषं च मद्ये त्रयो द्वन्द्वास्तिककितव् आदिषु पठ्यन्ते - उपकलमकाः, भ्रष्टकक्पिष्ठलः, कृष्णाजिनकृष्णसुन्दराः इति । तेषां पूर्वेण+एव नित्यम् एव लुग् भवति । अद्वन्द्वे त्व् अनेन विकल्पः - उपकाः, औपकायनाः । लमका, लामकायनाः । भ्रष्टकाः, भ्राष्टकयः । कपिष्ठलाः, कापिष्ठलयः । कृष्णाजिनाः, कार्ष्णाजिनयः । कृष्णसुन्दराः, कार्ष्णसुन्दरयः इति । परिशिष्टानां च द्वन्द्वे ऽद्वन्द्वे च विकल्पः इति । पण्डारक । अण्डारक । गडुक । सुपर्यक । सुपिष्ठ । मयूरकर्ण । खारीजङ्घ । शलावल । पतञ्जल । कण्ठेरणि । कुषीतक । काशकृत्स्न । निदाघ । कलशीकण्ठ । दामकण्ठ । कृष्णपिङ्गल । कर्णक । पर्णक । जटिलक । बधिरक । जन्तुक । अनुलोम । अर्धपिङ्गलक । प्रतिलोम । प्रतान । अनभिहित ॥ आगस्त्य-कौण्डिन्ययोर् अगस्ति-कुण्डिनच्

upaka ity evam ādibhyaḥ parasya gotrapratyayasya bahuṣu lug bhavati anyatarasyāṃ dvandve ca advandve ca / advandva-grahanaṃ dvandva-adhikāra-nivṛtty-artham / eteṣaṃ ca madye trayo dvandvāstikakitav ādiṣu paṭhyante - upakalamakāḥ, bhraṣṭakakpiṣṭhalaḥ, kṛṣṇājinakṛṣṇasundarāḥ iti / teṣāṃ pūrveṇa+eva nityam eva lug bhavati / advandve tv anena vikalpaḥ - upakāḥ, aupakāyanāḥ / lamakā, lāmakāyanāḥ / bhraṣṭakāḥ, bhrāṣṭakayaḥ / kapiṣṭhalāḥ, kāpiṣṭhalayaḥ / kṛṣṇājināḥ, kārṣṇājinayaḥ / kṛṣṇasundarāḥ, kārṣṇasundarayaḥ iti / pariśiṣṭānāṃ ca dvandve 'dvandve ca vikalpaḥ iti / paṇḍāraka / aṇḍāraka / gaḍuka / suparyaka / supiṣṭha / mayūrakarṇa / khārījaṅgha / śalāvala / patañjala / kaṇṭheraṇi / kuṣītaka / kāśakṛtsna / nidāgha / kalaśīkaṇṭha / dāmakaṇṭha / kṛṣṇapiṅgala / karṇaka / parṇaka / jaṭilaka / badhiraka / jantuka / anuloma / ardhapiṅgalaka / pratiloma / pratāna / anabhihita // āgastya-kauṇḍinyayor agasti-kuṇḍinac

Sanskrit only: no published translation is held for this verse.

आगस्त्य-कौण्डिन्ययोर् गोत्रप्रत्यययोः अणो यञश् च बहुषु लुग् भवति, परिशिष्टस्य च प्रकृति-भागस्य यथा-सङ्ख्यम् अगस्ति, कुण्डिनच् इत्य् एताव् आदेशौ भवतः । अगस्तयः । कुण्डिनाः । चकारः स्वरार्थः । मद्योदात्तो हि कुण्डिनी-शब्दस् तदादेशो ऽपि तथा स्यात् । अगस्त्य-शब्दाद् ऋष्यण्, कुण्डिनी-शब्दाद् गर्गादित्वाद् यञ् । तयोः गोत्रे ऽलुग्-अचि (*४,१।८९) इति लुकि प्रतिषिद्धे आगस्तीयाः छत्राः इति वृद्ध-लक्षणश्छो भवति । कौण्डिन्ये त्वणैव भवितव्यम्, कण्वादिभ्यो गोत्रे (*४,२।१११) इति । तत्र विशेषो न अस्ति । कौण्डिनाश्छात्राः ॥ सुपो धातु-प्रातिपदिकयोः

āgastya-kauṇḍinyayor gotrapratyayayoḥ aṇo yañaś ca bahuṣu lug bhavati, pariśiṣṭasya ca prakṛti-bhāgasya yathā-saṅkhyam agasti, kuṇḍinac ity etāv ādeśau bhavataḥ / agastayaḥ / kuṇḍināḥ / cakāraḥ svarārthaḥ / madyodātto hi kuṇḍinī-śabdas tadādeśo 'pi tathā syāt / agastya-śabdād ṛṣyaṇ, kuṇḍinī-śabdād gargāditvād yañ / tayoḥ gotre 'lug-aci (*4,1.89) iti luki pratiṣiddhe āgastīyāḥ chatrāḥ iti vṛddha-lakṣaṇaścho bhavati / kauṇḍinye tvaṇaiva bhavitavyam, kaṇvādibhyo gotre (*4,2.111) iti / tatra viśeṣo na asti / kauṇḍināśchātrāḥ // supo dhātu-prātipadikayoḥ

Sanskrit only: no published translation is held for this verse.

सुपो विभक्तेर् धातु-सञ्ज्ञायाः प्रातिपदिक-सञ्ज्ञायाश् च लुग् भवति । तदन्तर्गतास् तद्ग्रहणेन गृह्यन्ते । धातोस् तावत् - पुत्रीयति । घटीयति । प्रातिपदिकस्य - कष्टश्रितः । राजपुरुषः । धातु-प्रातिपदिकयोः इति किम् ? वृक्षः । प्लक्षः ॥ अदिप्रभृतिभ्यः शपः

supo vibhakter dhātu-sañjñāyāḥ prātipadika-sañjñāyāś ca lug bhavati / tadantargatās tadgrahaṇena gṛhyante / dhātos tāvat - putrīyati / ghaṭīyati / prātipadikasya - kaṣṭaśritaḥ / rājapuruṣaḥ / dhātu-prātipadikayoḥ iti kim ? vṛkṣaḥ / plakṣaḥ // adiprabhṛtibhyaḥ śapaḥ

Sanskrit only: no published translation is held for this verse.

बहुलं छन्दसि

bahulaṃ chandasi

Sanskrit only: no published translation is held for this verse.

छन्दसि विषये शपो भौलं लुग् भवति । अदिप्रभृतिभ्य उक्तस् ततो न भवत्य् अपि - वृत्रं हन्ति । अहिः शयते । अन्येभ्यश् च भवति - त्राध्वं नो देवाः ॥ यङो ऽचि च

chandasi viṣaye śapo bhaulaṃ lug bhavati / adiprabhṛtibhya uktas tato na bhavaty api - vṛtraṃ hanti / ahiḥ śayate / anyebhyaś ca bhavati - trādhvaṃ no devāḥ // yaṅo 'ci ca

Sanskrit only: no published translation is held for this verse.

यङो लुग् भवति अचि प्रत्यये परतः । चकारेन बहुल-ग्रहनम् अनुकृष्यते, न तु छन्दसि इति । तेन छन्दसि भाषायां च यङो लुग् भवति । लोलुवः । पोपुवः । सनीस्रंसः । दनीध्वंसः । बहुल-ग्रहणादञ्च्यपि भवति । शाकुनिको लालपीति । दुन्दुभिर्ववदीति ॥ जुहोत्य्-आदिभ्यः श्लुः

yaṅo lug bhavati aci pratyaye parataḥ / cakārena bahula-grahanam anukṛṣyate, na tu chandasi iti / tena chandasi bhāṣāyāṃ ca yaṅo lug bhavati / loluvaḥ / popuvaḥ / sanīsraṃsaḥ / danīdhvaṃsaḥ / bahula-grahaṇādañcyapi bhavati / śākuniko lālapīti / dundubhirvavadīti // juhoty-ādibhyaḥ śluḥ

Sanskrit only: no published translation is held for this verse.

शप् अनुवर्तते, न यङ् । जुहोत्य्-आदिभ्यः उत्तरस्य शपः श्लुर् भवति । लुकि प्रकृते श्लु-विधानां द्विर्वचन-अर्थम् । जुहोति । विभर्ति । नेनेक्ति ॥ बहुलं छन्दसि

śap anuvartate, na yaṅ / juhoty-ādibhyaḥ uttarasya śapaḥ ślur bhavati / luki prakṛte ślu-vidhānāṃ dvirvacana-artham / juhoti / vibharti / nenekti // bahulaṃ chandasi

Sanskrit only: no published translation is held for this verse.

छन्दसि विषये बहुलं शपः श्लुर् भवति । यत्रोक्तं तत्रं न भवति, अन्यत्र अपि भवति । जुहोत्य्-आदिभ्यस्त् आवन् न भवति - दाति प्रियाणि । धाति देवम् । अन्येभ्यश् च भवति - पूर्णां विवष्टि । जनिमा विवक्ति ॥ गाति-स्था-घु-पा-भूभ्यः सिचः परस्मैपदेषु

chandasi viṣaye bahulaṃ śapaḥ ślur bhavati / yatroktaṃ tatraṃ na bhavati, anyatra api bhavati / juhoty-ādibhyast āvan na bhavati - dāti priyāṇi / dhāti devam / anyebhyaś ca bhavati - pūrṇāṃ vivaṣṭi / janimā vivakti // gāti-sthā-ghu-pā-bhūbhyaḥ sicaḥ parasmaipadeṣu

Sanskrit only: no published translation is held for this verse.

विभाषा घ्रा-धेट्-शाच्-छा-सः

vibhāṣā ghrā-dheṭ-śāc-chā-saḥ

Sanskrit only: no published translation is held for this verse.

घ्रा घेट् शा छा सा इत्य् एतेभ्य उत्तरस्य सिचः प्रस्मैपदेषु विभाषा लुग् भवति । धेटः पूर्वेण प्राप्ते विभाष-अर्थं वचनम्, परिशिष्टानाम् अप्राप्ते । अघ्रात्, अघ्रासीत् । अधात्, अधासीत् । अशात्, अशासीत् । अच्छात्, अच्छासीत् । असात्, असासीत् । परस्मैपदेषु इत्य् एव, अघ्रासातां सुमनसौ देवदत्तेन ॥ तन्-आदिभ्यस् त-थासोः

ghrā gheṭ śā chā sā ity etebhya uttarasya sicaḥ prasmaipadeṣu vibhāṣā lug bhavati / dheṭaḥ pūrveṇa prāpte vibhāṣa-arthaṃ vacanam, pariśiṣṭānām aprāpte / aghrāt, aghrāsīt / adhāt, adhāsīt / aśāt, aśāsīt / acchāt, acchāsīt / asāt, asāsīt / parasmaipadeṣu ity eva, aghrāsātāṃ sumanasau devadattena // tan-ādibhyas ta-thāsoḥ

Sanskrit only: no published translation is held for this verse.

तन्-आदिभ्य उत्तरस्य सिचः त-थासोः परतो विभाषा लुग् भवति । अतत, अतथाः । अतनिष्ट, अतनिष्ठाः । असात, असाथाः । असनिष्ट, असनिष्ठाः । जनसनखनां सञ्ज्ञलोः (*६,४।४२) इत्य् आत्वम् । थासा साहचर्याद् आत्मनेपदस्य त-शब्दस्य ग्रहनम् । प्रस्मैपदे न भवति, अतनिष्त यूयम् ॥ मन्त्रे घस-ह्वर-नश-वृ-दह-आद्-वृच्-कृ-गमि-जनिभ्यो लेः

tan-ādibhya uttarasya sicaḥ ta-thāsoḥ parato vibhāṣā lug bhavati / atata, atathāḥ / ataniṣṭa, ataniṣṭhāḥ / asāta, asāthāḥ / asaniṣṭa, asaniṣṭhāḥ / janasanakhanāṃ sañjñaloḥ (*6,4.42) ity ātvam / thāsā sāhacaryād ātmanepadasya ta-śabdasya grahanam / prasmaipade na bhavati, ataniṣta yūyam // mantre ghasa-hvara-naśa-vṛ-daha-ād-vṛc-kṛ-gami-janibhyo leḥ

Sanskrit only: no published translation is held for this verse.

मन्त्र-विषये घस ह्वर नश वृ दह आत् वृच कृ गमि जनि इत्य् एतेभ्यः उत्तरस्य लेः लुग् भवति । घस -- अक्षन् पितरो ऽमीमदन्त पितरः । ह्वर इति ह्वृ कौटिल्ये - मा ह्वार्मित्रस्य त्वा । णश - धूर्तिः प्रणङ् मर्त्यस्य । वृ इति वृङ्वृञोः सामान्येन ग्रहनम् -- सुरुचो वेन आवः । दह - मा न आ धक् । आत् इति आकारान्त-ग्रहनम् । प्रा पूरने - आप्रा द्यावापृठीवी अन्तरिक्षम् । वृच् -- मा नो अस्मिन् महाधने परा वृग् भारभृद्यथा । कृ -- अक्रन् कर्म कर्मकृतः । गमि - सद्यः पुंष्टि निरुन्धानासो अग्मन् । जनि -- अज्ञत वा अस्य दन्ताः । ब्राह्मने प्रयोगो ऽयम् । मन्त्र-ग्रहणं तु छन्दस उपलक्षण-अर्थम् ॥ आमः

mantra-viṣaye ghasa hvara naśa vṛ daha āt vṛca kṛ gami jani ity etebhyaḥ uttarasya leḥ lug bhavati / ghasa -- akṣan pitaro 'mīmadanta pitaraḥ / hvara iti hvṛ kauṭilye - mā hvārmitrasya tvā / ṇaśa - dhūrtiḥ praṇaṅ martyasya / vṛ iti vṛṅvṛñoḥ sāmānyena grahanam -- suruco vena āvaḥ / daha - mā na ā dhak / āt iti ākārānta-grahanam / prā pūrane - āprā dyāvāpṛṭhīvī antarikṣam / vṛc -- mā no asmin mahādhane parā vṛg bhārabhṛdyathā / kṛ -- akran karma karmakṛtaḥ / gami - sadyaḥ puṃṣṭi nirundhānāso agman / jani -- ajñata vā asya dantāḥ / brāhmane prayogo 'yam / mantra-grahaṇaṃ tu chandasa upalakṣaṇa-artham // āmaḥ

Sanskrit only: no published translation is held for this verse.

आमः परस्य लेः लुग् भवति । ईहाञ्चक्रे । ऊहाञ्चक्रे । ईक्षाञ्चक्रे ॥ अव्ययाद् आप्-सुपः

āmaḥ parasya leḥ lug bhavati / īhāñcakre / ūhāñcakre / īkṣāñcakre // avyayād āp-supaḥ

Sanskrit only: no published translation is held for this verse.

न अव्ययीभावाद् अतो ऽम् त्व् अपञ्चम्याः

na avyayībhāvād ato 'm tv apañcamyāḥ

Sanskrit only: no published translation is held for this verse.

पूर्वेण लुक् प्राप्तः प्रतिषिध्यते । दन्ताद् अव्ययीभावाद् उत्तरस्य सुपो न लुग् भवति, अमादेशस् तु तस्य सुपो भवत्य् अपञ्चम्याः । एतस्मिन् प्रतिषिद्धे पञ्चम्याः श्रवनम् एव भवति । उपकुम्भं तिष्ठति । उपकुम्भं पश्य । उपमणिकं तिष्ठति । उपमणिकं पश्य । अतः इति किम् ? अधिस्त्रि । अधिकुमारि । अपञ्चम्याः इति किम् ? उपकुम्भादानय ॥ तृतीया-सप्तम्योर् बहुलम्

pūrveṇa luk prāptaḥ pratiṣidhyate / dantād avyayībhāvād uttarasya supo na lug bhavati, amādeśas tu tasya supo bhavaty apañcamyāḥ / etasmin pratiṣiddhe pañcamyāḥ śravanam eva bhavati / upakumbhaṃ tiṣṭhati / upakumbhaṃ paśya / upamaṇikaṃ tiṣṭhati / upamaṇikaṃ paśya / ataḥ iti kim ? adhistri / adhikumāri / apañcamyāḥ iti kim ? upakumbhādānaya // tṛtīyā-saptamyor bahulam

Sanskrit only: no published translation is held for this verse.

पूर्वेण नित्यम् अम्भावे प्राप्ते वचनम् इदम् । तृतीया-सप्तम्योः विभक्त्योर् बहुलम् अम्भावो भवति अव्ययीभावे । उपकुम्भेन कृतम्, उपकुम्भं कृतम् । उपकुम्भे निधेहि, उपकुम्भं निधेहि । सपम्या ऋद्धिनदीसमाससङ्ख्यावयवेभ्यो नित्यम् इति वक्तव्यम् । सुमद्रम् सुमगधम् । उन्मत्तगङ्गम् । लोहितगङ्गम् । एकविंशतिभारद्वाजम् । बहुलवचनात् सिद्धम् ॥ लुटः प्रथमस्य डारौरसः

pūrveṇa nityam ambhāve prāpte vacanam idam / tṛtīyā-saptamyoḥ vibhaktyor bahulam ambhāvo bhavati avyayībhāve / upakumbhena kṛtam, upakumbhaṃ kṛtam / upakumbhe nidhehi, upakumbhaṃ nidhehi / sapamyā ṛddhinadīsamāsasaṅkhyāvayavebhyo nityam iti vaktavyam / sumadram sumagadham / unmattagaṅgam / lohitagaṅgam / ekaviṃśatibhāradvājam / bahulavacanāt siddham // luṭaḥ prathamasya ḍāraurasaḥ

Sanskrit only: no published translation is held for this verse.