बहुषु तेन+एव अस्त्रियाम्, गोत्रे इति च अनुवर्तते । यञो ऽज्श् च गोत्रप्रत्ययस्य बहुषु वर्तमानस्य अस्त्रीलिङ्गस्य लुङ् भवति । गर्ग-आदिभ्यो जञ् (*४,१।१०५) - गर्गाः । वत्साः । अञः खल्व् अपि, अनृष्य्-आनन्तर्ये बिद-आदिभ्यो ऽञ् (*४,१।१०४) -- बिदाः । उर्वाः । बहुष्व् इत्य् एव, गार्ग्यः । बैदः । तेनैव इत्य् एव, प्रियगार्ग्याः । प्रियबैदाः । अस्त्रियाम् इत्य् एव, गार्ग्यः स्त्रियः । बैद्यः स्त्रियः । गोत्रे इत्य् एव, द्वीपादनुसमुद्रं यञ् (*४,३।१०) -- द्वैप्याः । उत्सादिभ्यो ऽञ् - औत्साश्छात्राः । यञादीनाम् एकद्वयोर् वा तत्पुरुषे षष्ठ्या उपसङ्ख्यानम् । गार्ग्यस्य कुलम् गार्ग्यकुलं गर्गकुलं वा । गार्ग्ययोः कुलं गार्ग्यकुलं गर्गकुलं वा । एवं बैदस्य कुलं बैदकुलं बिदकुलं वा । बैदयोः कुलं बैदकुलं बिदकुलं वा । यञादीनाम् इति किम् ? आङ्गकुलम् । एकद्वयोः इति किम् ? गार्गाणां कुलं गर्गकुलम् । तत्पुरुषे इति किम् ? गार्गस्य समीपम् उपगार्ग्यम् । षष्ठ्या इति किम् ? परमगार्ग्यः ॥ अत्रि-भृगु-कुत्स-वसिष्ठ-गोतम-अङ्गिरोभ्यश् च
bahuṣu tena+eva astriyām, gotre iti ca anuvartate / yaño 'jś ca gotrapratyayasya bahuṣu vartamānasya astrīliṅgasya luṅ bhavati / garga-ādibhyo jañ (*4,1.105) - gargāḥ / vatsāḥ / añaḥ khalv api, anṛṣy-ānantarye bida-ādibhyo 'ñ (*4,1.104) -- bidāḥ / urvāḥ / bahuṣv ity eva, gārgyaḥ / baidaḥ / tenaiva ity eva, priyagārgyāḥ / priyabaidāḥ / astriyām ity eva, gārgyaḥ striyaḥ / baidyaḥ striyaḥ / gotre ity eva, dvīpādanusamudraṃ yañ (*4,3.10) -- dvaipyāḥ / utsādibhyo 'ñ - autsāśchātrāḥ / yañādīnām ekadvayor vā tatpuruṣe ṣaṣṭhyā upasaṅkhyānam / gārgyasya kulam gārgyakulaṃ gargakulaṃ vā / gārgyayoḥ kulaṃ gārgyakulaṃ gargakulaṃ vā / evaṃ baidasya kulaṃ baidakulaṃ bidakulaṃ vā / baidayoḥ kulaṃ baidakulaṃ bidakulaṃ vā / yañādīnām iti kim ? āṅgakulam / ekadvayoḥ iti kim ? gārgāṇāṃ kulaṃ gargakulam / tatpuruṣe iti kim ? gārgasya samīpam upagārgyam / ṣaṣṭhyā iti kim ? paramagārgyaḥ // atri-bhṛgu-kutsa-vasiṣṭha-gotama-aṅgirobhyaś ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.