पदे अस्वैरिणि बाह्यायां पक्ष्ये चर्थे ग्रहेर् धातोः क्यप् प्रत्ययो भवति । पदे तावत् -- प्रगृह्यं पदम्, यस्य प्रगृह्य-सञ्ज्ञा विहिता । अवगृह्यं पदम्, यस्य अवग्रहः क्रियते । अस्वैरी परतन्त्रः । गृह्यका इमे । गृहीतका इत्य् अर्थः । बाह्यायम् -- ग्राम-गृह्या सेना । नगर-गृह्या सेना । ग्राम।-नगर-अभ्यां बहिर्-भूता इत्य् अर्थः । स्त्रीलिङ्गः निर्देशाद् अन्यत्र न भवति । पक्षे भवः पक्ष्यः । वासुदेव-गृह्याः । अर्जुन-गृह्याः । तत्पक्षाश्रिताः इत्य् अर्थः ॥ विभाषा कृ-वृषोः
pade asvairiṇi bāhyāyāṃ pakṣye carthe graher dhātoḥ kyap pratyayo bhavati / pade tāvat -- pragṛhyaṃ padam, yasya pragṛhya-sañjñā vihitā / avagṛhyaṃ padam, yasya avagrahaḥ kriyate / asvairī paratantraḥ / gṛhyakā ime / gṛhītakā ity arthaḥ / bāhyāyam -- grāma-gṛhyā senā / nagara-gṛhyā senā / grāma.-nagara-abhyāṃ bahir-bhūtā ity arthaḥ / strīliṅgaḥ nirdeśād anyatra na bhavati / pakṣe bhavaḥ pakṣyaḥ / vāsudeva-gṛhyāḥ / arjuna-gṛhyāḥ / tatpakṣāśritāḥ ity arthaḥ // vibhāṣā kṛ-vṛṣoḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.