प्रत्ययः
pratyayaḥ
Sanskrit only: no published translation is held for this verse.
Library·Jayaditya & Vamana: Kasikavrtti·3·3.1
प्रत्ययः
pratyayaḥ
Sanskrit only: no published translation is held for this verse.
अधिकारो ऽयम् । प्रत्यय-शब्दः सञ्ज्ञात्वेन अधिक्रियते । आ पञ्चमाद्यायपरिसमाप्तेर्यानित ऊर्ध्वम् अनुक्रमिष्यमः, प्रत्ययसञ्ज्ञास्ते वेदितव्याः, प्रकृत्युपपादोपाधिविकारागमान् वर्जयित्वा । वक्ष्यति -- तव्यत्-तव्य-अनीयरः (*३,१।९६) । कर्तव्यम् । करणीयम् । प्रत्ययप्रदेशाः - प्रत्ययलोपे प्रत्ययलक्षणम् (*१,१।६२) इत्य् एवम् आदयः ॥ परश् च
adhikāro 'yam / pratyaya-śabdaḥ sañjñātvena adhikriyate / ā pañcamādyāyaparisamāpteryānita ūrdhvam anukramiṣyamaḥ, pratyayasañjñāste veditavyāḥ, prakṛtyupapādopādhivikārāgamān varjayitvā / vakṣyati -- tavyat-tavya-anīyaraḥ (*3,1.96) / kartavyam / karaṇīyam / pratyayapradeśāḥ - pratyayalope pratyayalakṣaṇam (*1,1.62) ity evam ādayaḥ // paraś ca
Sanskrit only: no published translation is held for this verse.
अयम् अप्य् अधिकारो योगे योगे उपतिष्ठते, परिभाषा वा । परश् च स भवति धातोर् वा प्रातिपदिकाद् वा यः प्रत्यय-सञ्ज्ञः । कर्तव्यम् । तैत्तिरीयम् । चकारः पुनर् अस्यैव समुच्चय-अर्थः । तेन+उणादिषु परत्वं न विकल्प्यते ॥ आद्य्-उदात्तश् च
ayam apy adhikāro yoge yoge upatiṣṭhate, paribhāṣā vā / paraś ca sa bhavati dhātor vā prātipadikād vā yaḥ pratyaya-sañjñaḥ / kartavyam / taittirīyam / cakāraḥ punar asyaiva samuccaya-arthaḥ / tena+uṇādiṣu paratvaṃ na vikalpyate // ādy-udāttaś ca
Sanskrit only: no published translation is held for this verse.
अयम् अप्य् अधिकारः परिभाषा वा । आद्य्-उदात्तश् च स भवति । आद्य्-उदात्तश् च स भवति यः प्रत्यय-सञ्ज्ञः । अनियतस्वर-प्रत्यय-प्रसङ्गे ऽनेकाक्षु च प्रत्ययेषु देशस्य अनियमे सति वचनम् इदम् आदेर् उदात्त-अर्थम् । कर्तव्यम् । तैत्तिरीयम् ॥ अनुदात्तौ सुप्-पितौ
ayam apy adhikāraḥ paribhāṣā vā / ādy-udāttaś ca sa bhavati / ādy-udāttaś ca sa bhavati yaḥ pratyaya-sañjñaḥ / aniyatasvara-pratyaya-prasaṅge 'nekākṣu ca pratyayeṣu deśasya aniyame sati vacanam idam āder udātta-artham / kartavyam / taittirīyam // anudāttau sup-pitau
Sanskrit only: no published translation is held for this verse.
पूर्वस्य अयम् अपवादः । सुपः पितश् च प्रत्यया अनुदात्ता भवन्ति । दृषदौ । दृषदः । पितः खल्व् अपि -- पचति । पठति ॥ गुप्-तिज्-किद्भ्यः सन्
pūrvasya ayam apavādaḥ / supaḥ pitaś ca pratyayā anudāttā bhavanti / dṛṣadau / dṛṣadaḥ / pitaḥ khalv api -- pacati / paṭhati // gup-tij-kidbhyaḥ san
Sanskrit only: no published translation is held for this verse.
मान्-बध-दान्-शान्भ्यो दीर्घश् च अभ्यासस्य
mān-badha-dān-śānbhyo dīrghaś ca abhyāsasya
Sanskrit only: no published translation is held for this verse.
मान् पूजायाम्, बध बन्धने, दान अवखण्डने, शान अवतेजते, इत्य् एतेभ्यो धातुभ्यः सन् प्रत्ययो भवति, अभ्यासस्य च इकारस्य दीर्घादेशो भवति । मीमांसते । बीभत्सते । दीदांसते । शीशांसते । उत्तरसूत्रे वाग्रहणं सर्वस्य शेषो विज्ञायते, तेन क्वचिन् न भवत्य् अपि । मानयति । बाधयति । दानयति । निशानयति । अत्र अपि सन्नर्थ-विशेष इष्यते । मानेर् जिज्ञासायाम्, बधेर् वैरूप्ये, दानेर् आर्जवे, शानेर् निशाने ॥ धातोः कर्मणः समान-कर्तृकाद् इच्छायां वा
mān pūjāyām, badha bandhane, dāna avakhaṇḍane, śāna avatejate, ity etebhyo dhātubhyaḥ san pratyayo bhavati, abhyāsasya ca ikārasya dīrghādeśo bhavati / mīmāṃsate / bībhatsate / dīdāṃsate / śīśāṃsate / uttarasūtre vāgrahaṇaṃ sarvasya śeṣo vijñāyate, tena kvacin na bhavaty api / mānayati / bādhayati / dānayati / niśānayati / atra api sannartha-viśeṣa iṣyate / māner jijñāsāyām, badher vairūpye, dāner ārjave, śāner niśāne // dhātoḥ karmaṇaḥ samāna-kartṛkād icchāyāṃ vā
Sanskrit only: no published translation is held for this verse.
इषिकर्म यो धतुर् इषिणैव समानकर्तृकः, तस्माद् इच्छायाम् अर्थे वा सन् प्रत्ययो भवति । कर्मत्वं समानकर्तृकत्वं च धातोर् अर्थद्वारकम् । कर्टुम् इच्छति । चिकीर्षति । जिहीर्षति । धातु-ग्रहनं किम् ? सोपसर्गाद् उत्पत्तिर् मा भूत् । प्रकऋतुम् ऐच्छत् प्राचिकीर्षत् । कर्मणः इति किम् ? करणान् मा भूत् । गमनेन+इच्छति । समानकर्तृकत् इति किम् ? देवदत्तस्य भोजनम् इच्छति यज्ञदत्तः । इच्छायाम् इति किम् ? कर्तुं जानाति । वावचनाद् वाक्यम् अपि भवति । धातोः इति विधानाद् अत्र सनः आर्धधातुक-सञ्ज्ञा भवति, न पूर्वत्र । आशङ्कायाम् उपसंख्यानम् । आशङ्के पतिष्यति कूलम्, पिपतिषति कूलम् । श्वा मुमूर्षति । इच्छासन्नन्तात् प्रतिषेधो वक्तव्यः । चिकीर्षितुम् इच्छति । विशेषणं किम् ? जुगुप्सिषते । मीमांसिषते । शैषिकान्मतुबर्थीयाच्छैषिको मतुबर्थिकः । सरूपः प्रत्ययो नेष्टः सनन्तान् न सनिष्यते ॥ सुप आत्मनः क्यच्
iṣikarma yo dhatur iṣiṇaiva samānakartṛkaḥ, tasmād icchāyām arthe vā san pratyayo bhavati / karmatvaṃ samānakartṛkatvaṃ ca dhātor arthadvārakam / karṭum icchati / cikīrṣati / jihīrṣati / dhātu-grahanaṃ kim ? sopasargād utpattir mā bhūt / prakaṛtum aicchat prācikīrṣat / karmaṇaḥ iti kim ? karaṇān mā bhūt / gamanena+icchati / samānakartṛkat iti kim ? devadattasya bhojanam icchati yajñadattaḥ / icchāyām iti kim ? kartuṃ jānāti / vāvacanād vākyam api bhavati / dhātoḥ iti vidhānād atra sanaḥ ārdhadhātuka-sañjñā bhavati, na pūrvatra / āśaṅkāyām upasaṃkhyānam / āśaṅke patiṣyati kūlam, pipatiṣati kūlam / śvā mumūrṣati / icchāsannantāt pratiṣedho vaktavyaḥ / cikīrṣitum icchati / viśeṣaṇaṃ kim ? jugupsiṣate / mīmāṃsiṣate / śaiṣikānmatubarthīyācchaiṣiko matubarthikaḥ / sarūpaḥ pratyayo neṣṭaḥ sanantān na saniṣyate // supa ātmanaḥ kyac
Sanskrit only: no published translation is held for this verse.
क्यचि मान्ताव्यय-प्रतिषेधो वक्तव्यः । इदम् इच्छति । उच्चैर् इच्छति । नीचिअर् इच्छति । छन्दसि परेच्छायाम् इति वक्तव्यम् । मा त्वा वृका अघायवो विदन् ॥ काम्यच् च
kyaci māntāvyaya-pratiṣedho vaktavyaḥ / idam icchati / uccair icchati / nīciar icchati / chandasi parecchāyām iti vaktavyam / mā tvā vṛkā aghāyavo vidan // kāmyac ca
Sanskrit only: no published translation is held for this verse.
सुबन्तात् कर्मणः आत्मेच्छायां काम्यच् प्रत्ययो भवति । आत्मनः पुत्रम् इच्छति पुत्रकाम्यति । वस्त्रकाम्यति । योगविभाग उत्तरत्र क्यचो ऽनुवृत्त्य्-अर्थः । ककारस्य इत्-सज्ञा प्रयोजन-अभावान् न भवति, चकारादित्वाद् व काम्यचः । उपयट्काम्यति ॥ उपमानाद् आचारे
subantāt karmaṇaḥ ātmecchāyāṃ kāmyac pratyayo bhavati / ātmanaḥ putram icchati putrakāmyati / vastrakāmyati / yogavibhāga uttaratra kyaco 'nuvṛtty-arthaḥ / kakārasya it-sajñā prayojana-abhāvān na bhavati, cakārāditvād va kāmyacaḥ / upayaṭkāmyati // upamānād ācāre
Sanskrit only: no published translation is held for this verse.
क्यच् अनुवर्तते, न काम्यच् । उपमनात् कर्मणः सुबन्ताद् आचारे ऽर्थे वा क्यच् प्रत्ययो भवति । आचार-क्रियायाः प्रत्यय-अर्थत्वात् तदपेक्षयैव उपमानस्य कर्मता । पुत्रमिव आचरति पुत्रीयति छात्रम् । प्रावारीयति कम्बलम् । अधिकरणाच् चेति वक्तव्यम् । प्रासादीयति कुट्याम् । पर्यङ्कीयति मञ्चके ॥ कर्तुः क्यङ् सलोपश् च
kyac anuvartate, na kāmyac / upamanāt karmaṇaḥ subantād ācāre 'rthe vā kyac pratyayo bhavati / ācāra-kriyāyāḥ pratyaya-arthatvāt tadapekṣayaiva upamānasya karmatā / putramiva ācarati putrīyati chātram / prāvārīyati kambalam / adhikaraṇāc ceti vaktavyam / prāsādīyati kuṭyām / paryaṅkīyati mañcake // kartuḥ kyaṅ salopaś ca
Sanskrit only: no published translation is held for this verse.
आचारे ऽवगल्भ-क्लीब-होडेभ्यः क्विब् वा वक्तव्यः । अवगल्भते, अवगल्भायते । क्लीबते, क्लीबायते । होडते, होडायते । सर्वप्रातिपदिकेभ्य इत्य् एके । अश्व इव आचरति अश्वायते, अश्वति । गर्दभायते, गर्दभति ॥ भृशादिभ्यो भुव्य्-अच्वेर् लोपश् च हलः
ācāre 'vagalbha-klība-hoḍebhyaḥ kvib vā vaktavyaḥ / avagalbhate, avagalbhāyate / klībate, klībāyate / hoḍate, hoḍāyate / sarvaprātipadikebhya ity eke / aśva iva ācarati aśvāyate, aśvati / gardabhāyate, gardabhati // bhṛśādibhyo bhuvy-acver lopaś ca halaḥ
Sanskrit only: no published translation is held for this verse.
भृश इत्य् एवम् आदिभ्यः प्रातिपदिकेभ्यो ऽच्व्यन्तेभ्यो भुवि भवत्य् अर्थे क्यङ् प्रत्ययो भवति, हलन्तानां च लोपः । अच्वेः इति प्रत्येकम् अभिसम्बध्यते । किम् अर्थं पुन रिदम् उच्यते, यावता भवति योगे च्विर् विधीयते, तेनोक्तार्थत्वाच् च्व्यन्तेभ्यो न क्यङ् भविष्यति ? तत्सादृश्यप्रतिपत्त्यर्थं तर्हि च्वि-प्रतिषेधः क्रियते । अभूत-तद्भाव-विषयेभ्यो भृशादिभ्यः क्यङ् प्रत्ययः । अभृशो भृशो भवति भृशायते । शीघ्रायते । भृश । शीघ्र । मन्द । चपल । पण्डित । उत्सुक । उन्मनस् । अभिमनस् । सुमनस् । दुर्मनस् । रहस् । रेहस् । शश्वत् । बृहत् । वेहत् । नृषत् । शुधि । अधर । ओजस् । वर्चस् । भृशादिः । अच्वेः इति किम् ? भृशीभवति ॥ लोहितादि-डाज्भ्यः क्यष्
bhṛśa ity evam ādibhyaḥ prātipadikebhyo 'cvyantebhyo bhuvi bhavaty arthe kyaṅ pratyayo bhavati, halantānāṃ ca lopaḥ / acveḥ iti pratyekam abhisambadhyate / kim arthaṃ puna ridam ucyate, yāvatā bhavati yoge cvir vidhīyate, tenoktārthatvāc cvyantebhyo na kyaṅ bhaviṣyati ? tatsādṛśyapratipattyarthaṃ tarhi cvi-pratiṣedhaḥ kriyate / abhūta-tadbhāva-viṣayebhyo bhṛśādibhyaḥ kyaṅ pratyayaḥ / abhṛśo bhṛśo bhavati bhṛśāyate / śīghrāyate / bhṛśa / śīghra / manda / capala / paṇḍita / utsuka / unmanas / abhimanas / sumanas / durmanas / rahas / rehas / śaśvat / bṛhat / vehat / nṛṣat / śudhi / adhara / ojas / varcas / bhṛśādiḥ / acveḥ iti kim ? bhṛśībhavati // lohitādi-ḍājbhyaḥ kyaṣ
Sanskrit only: no published translation is held for this verse.
लोहितादिभ्यो डाजन्तेभ्यश् च भवत्य् अर्थे क्यष् प्रत्ययो भवति । लोहितायति, लोहितयते । डाजन्तेभ्यः - पटपटायति, पटपटायते । लोहितडाज्भ्यः क्यष् वचनम्, भृशादिष्वितराणि । यानि लोहितादिषु पठ्यन्ते तेभ्यः क्यङ् एव, अपरिपठितेभ्यस् तु क्यष् एव भवति । वर्मायति, वर्मायते । निद्रयति, निद्रायते । करुणायति, करुणायते । कृपायति, कृपायते । आकृतिगणो ऽयम् । यथा च ककारः सामान्यग्रहणार्थो ऽनुबध्यते नः क्ये (*१,४।१५) इति । न हि पठितानां मध्ये नकारान्तः शब्दो ऽस्ति । कृभ्वस्तिभिर् इव क्यषा ऽपि योगे डाज् भवति इत्य् एतद् एव वचनम् ज्ञापकम् । अच्वेः इत्य् अनुवृत्तेर् अभूत-तद्भावे क्यष् विज्ञायते । लोहित । नील । हरित । पीत । मद्र । फेन । मन्द । लोहितादिः ॥ कष्टाय क्रमणे
lohitādibhyo ḍājantebhyaś ca bhavaty arthe kyaṣ pratyayo bhavati / lohitāyati, lohitayate / ḍājantebhyaḥ - paṭapaṭāyati, paṭapaṭāyate / lohitaḍājbhyaḥ kyaṣ vacanam, bhṛśādiṣvitarāṇi / yāni lohitādiṣu paṭhyante tebhyaḥ kyaṅ eva, aparipaṭhitebhyas tu kyaṣ eva bhavati / varmāyati, varmāyate / nidrayati, nidrāyate / karuṇāyati, karuṇāyate / kṛpāyati, kṛpāyate / ākṛtigaṇo 'yam / yathā ca kakāraḥ sāmānyagrahaṇārtho 'nubadhyate naḥ kye (*1,4.15) iti / na hi paṭhitānāṃ madhye nakārāntaḥ śabdo 'sti / kṛbhvastibhir iva kyaṣā 'pi yoge ḍāj bhavati ity etad eva vacanam jñāpakam / acveḥ ity anuvṛtter abhūta-tadbhāve kyaṣ vijñāyate / lohita / nīla / harita / pīta / madra / phena / manda / lohitādiḥ // kaṣṭāya kramaṇe
Sanskrit only: no published translation is held for this verse.
कर्मणो रोमन्थ-तपोभ्यां वर्ति-चरोः
karmaṇo romantha-tapobhyāṃ varti-caroḥ
Sanskrit only: no published translation is held for this verse.
रोमन्थ-शब्दात् तपः-शब्दाच् च कर्मणो यथाक्रमं वर्तिचरोर् अर्थयोः क्यङ् प्रत्ययो भवति । रोमन्थं वर्तयति रोमन्थायते गौः । हनुचलने इति वक्तव्यम् । इह मा भूत्, कीटो रोमन्थं वर्तयति । तपसः परस्मैपदम् च । तपशचरति तपस्यति ॥ बाष्प-ऊष्मभ्याम् उद्वमने
romantha-śabdāt tapaḥ-śabdāc ca karmaṇo yathākramaṃ varticaror arthayoḥ kyaṅ pratyayo bhavati / romanthaṃ vartayati romanthāyate gauḥ / hanucalane iti vaktavyam / iha mā bhūt, kīṭo romanthaṃ vartayati / tapasaḥ parasmaipadam ca / tapaśacarati tapasyati // bāṣpa-ūṣmabhyām udvamane
Sanskrit only: no published translation is held for this verse.
कर्मणः इति वर्तते । बाष्प-शब्दाद् ऊष्म-शब्दाच् च कर्मन उद्वमने ऽर्थे क्यङ् प्रत्ययो भवति । बाष्पम् उद्वमति बाष्पायते । ऊष्मायते । फेना च्चेति वक्तव्यम् । फेनम् उद्वमति फेनायते ॥ शब्द-वैर-कलह-अभ्र-कण्व-मेघेभ्यः करणे
karmaṇaḥ iti vartate / bāṣpa-śabdād ūṣma-śabdāc ca karmana udvamane 'rthe kyaṅ pratyayo bhavati / bāṣpam udvamati bāṣpāyate / ūṣmāyate / phenā cceti vaktavyam / phenam udvamati phenāyate // śabda-vaira-kalaha-abhra-kaṇva-meghebhyaḥ karaṇe
Sanskrit only: no published translation is held for this verse.
सुखादिभ्यः कर्तृ-वेदनायाम्
sukhādibhyaḥ kartṛ-vedanāyām
Sanskrit only: no published translation is held for this verse.
कर्म-ग्रहणस् अनुवर्तते । सुख इत्य् एवम् आदिभ्यः कर्मभ्यः वेदनायाम् अर्थे ऽनुभवे क्यङ् प्रत्ययो भवति, वेदयितुश्चेत् कर्तुः सम्बन्धीनि सुखादीनि भवन्ति । सुखं वेदयते सुखायते । दुःखायते । कर्तृ-ग्रहणं किम् ? सुखं वेदयते प्रसाधको देवदत्तस्य । सुख । दुःख । तृप्त । गहन । कृच्छ्र । अस्र । अलीक । प्रतीप । करुण । कृपण । सोढ । सुखादिः ॥ नमो-वरिवश्-चित्रङः क्यच्
karma-grahaṇas anuvartate / sukha ity evam ādibhyaḥ karmabhyaḥ vedanāyām arthe 'nubhave kyaṅ pratyayo bhavati, vedayituścet kartuḥ sambandhīni sukhādīni bhavanti / sukhaṃ vedayate sukhāyate / duḥkhāyate / kartṛ-grahaṇaṃ kim ? sukhaṃ vedayate prasādhako devadattasya / sukha / duḥkha / tṛpta / gahana / kṛcchra / asra / alīka / pratīpa / karuṇa / kṛpaṇa / soḍha / sukhādiḥ // namo-varivaś-citraṅaḥ kyac
Sanskrit only: no published translation is held for this verse.
करणे इति वर्तते । नमस् वरिवस् चित्रङ् इत्य् एतेभ्यो वा क्यच् प्रत्ययो भवति, करणविशेषे पूजादौ । नमसः पूजायाम् - नमस्यति देवान् । वरिवसः परिचर्यायाम् -- वरिवस्यति गुरून् । चित्रङ आश्चर्ये - चित्रीयते । ङकार आत्मनेपदार्थः ॥ पुच्छ-भान्ड-चीवराण् णिङ्
karaṇe iti vartate / namas varivas citraṅ ity etebhyo vā kyac pratyayo bhavati, karaṇaviśeṣe pūjādau / namasaḥ pūjāyām - namasyati devān / varivasaḥ paricaryāyām -- varivasyati gurūn / citraṅa āścarye - citrīyate / ṅakāra ātmanepadārthaḥ // puccha-bhānḍa-cīvarāṇ ṇiṅ
Sanskrit only: no published translation is held for this verse.
मुण्ड-मिश्र-श्लक्ष्ण-लवण-व्रत-वस्त्र-हल-कल-कृत-तूस्तेभ्यो णिच्
muṇḍa-miśra-ślakṣṇa-lavaṇa-vrata-vastra-hala-kala-kṛta-tūstebhyo ṇic
Sanskrit only: no published translation is held for this verse.
मुण्ड मिश्र श्लक्ष्ण लवण व्रत वस्त्र हल कल कृत तूस्त इत्य् एतेभ्यः करणे णिच् प्रत्ययो भवति । मुण्डं करोति मुण्डयति । मिश्रयति । श्लक्ष्णयति । लवणयति । व्रतात् भोजने तन्निवृत्तौ च - पयो व्रतयति । वृषलान्नं व्रतयति । वस्त्रात् समाच्छादने - संवस्त्रयति । हलिं गृह्णाति हलयति । कलिं गृह्णाति कलयति । हलिकल्योर् अदन्तत्व-निपातनं सन्वद्भाव-प्रतिषेधार्यम् । अजहलत् । अचकलत् । कृतं गृह्णाति कृतयति । तूस्तानि विहन्ति वितूस्तयति केशान् । विशदीकरोति इत्य् अर्थः ॥ धातोर् एक-अचो हल-आदेः क्रियासमभिहारे यङ्
muṇḍa miśra ślakṣṇa lavaṇa vrata vastra hala kala kṛta tūsta ity etebhyaḥ karaṇe ṇic pratyayo bhavati / muṇḍaṃ karoti muṇḍayati / miśrayati / ślakṣṇayati / lavaṇayati / vratāt bhojane tannivṛttau ca - payo vratayati / vṛṣalānnaṃ vratayati / vastrāt samācchādane - saṃvastrayati / haliṃ gṛhṇāti halayati / kaliṃ gṛhṇāti kalayati / halikalyor adantatva-nipātanaṃ sanvadbhāva-pratiṣedhāryam / ajahalat / acakalat / kṛtaṃ gṛhṇāti kṛtayati / tūstāni vihanti vitūstayati keśān / viśadīkaroti ity arthaḥ // dhātor eka-aco hala-ādeḥ kriyāsamabhihāre yaṅ
Sanskrit only: no published translation is held for this verse.
एक-अज् यो धातुर् हलादिः क्रियासमभिहारे वर्तते तस्माद् यङ् प्रत्ययो भवति । पौनःपुन्यं भृशार्थो वा क्रियासमभिहारः । नः पुनः पचति पापच्यते । यायज्यते । भृशं ज्वलति जाज्वल्यते । देदीप्यते । धातोः इति किम् ? सोपसर्गाद् उत्पत्तिर् मा भूत्, भृशं प्राटति । एकाचः इति किम् ? भृशं जागर्ति । हलादेः इति किम् ? भृशमीक्षते । सूचिसूत्रमूत्र्यट्यर्त्यशूर्णोतीनां ग्रहनं यङ्विधानव् एकाजहलाद्य्-अर्थम् । सोसूच्यते । सोसूत्र्यते । मोमूत्र्यते । अटाट्यते । अरार्यते । अशाश्यते । प्रोर्णोनूयते । भृशं शोभते, भृशं रोचते इत्य् अत्र नेष्यते, अनभिधानात् ॥ नित्यं कौटिल्ये गतौ
eka-aj yo dhātur halādiḥ kriyāsamabhihāre vartate tasmād yaṅ pratyayo bhavati / paunaḥpunyaṃ bhṛśārtho vā kriyāsamabhihāraḥ / naḥ punaḥ pacati pāpacyate / yāyajyate / bhṛśaṃ jvalati jājvalyate / dedīpyate / dhātoḥ iti kim ? sopasargād utpattir mā bhūt, bhṛśaṃ prāṭati / ekācaḥ iti kim ? bhṛśaṃ jāgarti / halādeḥ iti kim ? bhṛśamīkṣate / sūcisūtramūtryaṭyartyaśūrṇotīnāṃ grahanaṃ yaṅvidhānav ekājahalādy-artham / sosūcyate / sosūtryate / momūtryate / aṭāṭyate / arāryate / aśāśyate / prorṇonūyate / bhṛśaṃ śobhate, bhṛśaṃ rocate ity atra neṣyate, anabhidhānāt // nityaṃ kauṭilye gatau
Sanskrit only: no published translation is held for this verse.
गतिवचनाद् धतोः कौटिल्ये गम्यमाने नित्यं यङ् प्रत्ययो भवति । कुटिलं क्रामति चङ्क्रम्यते । दन्द्रम्यते । नित्य-ग्रहणं विषयनियम-अर्थं, गतिवचनान् नित्यम् कौटिल्य एव भवति, न तु क्रियासमभिहारे । भृशं क्रामति ॥ लुप-सद-चर-जप-जभ-दह-दश-गॄभ्यो भाव-गर्हायाम्
gativacanād dhatoḥ kauṭilye gamyamāne nityaṃ yaṅ pratyayo bhavati / kuṭilaṃ krāmati caṅkramyate / dandramyate / nitya-grahaṇaṃ viṣayaniyama-arthaṃ, gativacanān nityam kauṭilya eva bhavati, na tu kriyāsamabhihāre / bhṛśaṃ krāmati // lupa-sada-cara-japa-jabha-daha-daśa-gṝbhyo bhāva-garhāyām
Sanskrit only: no published translation is held for this verse.
निजेगिल्यते । भावगर्हायाम् इति किम् ? साधु जपति । भाव-ग्रहणम् किम् ? साधनगर्हायां मा भूत्, मन्त्रं जपति वृषलः । नित्य-ग्रहणं विषयनियम-अर्थम् अनुवर्तते । एतेभ्यो नित्यं भावगर्हायाम् एव भवति, न तु क्रियासमभिहारे । भृशं लुम्पति ॥ सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादिभ्यो णिच्
nijegilyate / bhāvagarhāyām iti kim ? sādhu japati / bhāva-grahaṇam kim ? sādhanagarhāyāṃ mā bhūt, mantraṃ japati vṛṣalaḥ / nitya-grahaṇaṃ viṣayaniyama-artham anuvartate / etebhyo nityaṃ bhāvagarhāyām eva bhavati, na tu kriyāsamabhihāre / bhṛśaṃ lumpati // satyāpa-pāśa-rūpa-vīṇā-tūla-śloka-senā-loma-tvaca-varma-varṇa-cūrṇa-curādibhyo ṇic
Sanskrit only: no published translation is held for this verse.
सत्य-आदिभ्यश् चूर्णपर्यन्तेभ्यः, चुरादिभ्यश् च णिच् प्रत्ययो भवति । सत्यम् आचष्ते सत्यापयति । अर्थवेदसत्यानाम् आपुग् वक्तव्यः । अर्थम् आचष्ते अर्थापयति । देवापयति । आपुग्वचन-सामर्थ्याट्टिलोपो न भवति । पाशाद् विमोचने - विपाशयति । रूपाद् दर्शने - रूपयति । वीणयोपगायति उपवीणयति । तूलेनानुकुष्णाति अनुतूलयति । श्लोकैरुपस्तौति उपश्लोकयति । सेनयाभियाति अभिषेणयति । लोमान्यनुमार्ष्टि अनुलोमयति । त्वचं गृह्णाति त्वचयति । अकारान्तस् त्वच-शब्दः । वर्मणा सन्नह्यति संवर्मयति । वर्णम् गृह्णाति वर्णयति । चूर्णैः अवध्वंसयति अवचूर्णयति । चुरादिभ्यः स्वार्थे । चोरयति । चिन्तयति । स्वाभाविकत्वादर्थाभिधानस्य यथास्वं प्रत्ययार्था निर्दिश्यन्ते ॥ हेतुमति च
satya-ādibhyaś cūrṇaparyantebhyaḥ, curādibhyaś ca ṇic pratyayo bhavati / satyam ācaṣte satyāpayati / arthavedasatyānām āpug vaktavyaḥ / artham ācaṣte arthāpayati / devāpayati / āpugvacana-sāmarthyāṭṭilopo na bhavati / pāśād vimocane - vipāśayati / rūpād darśane - rūpayati / vīṇayopagāyati upavīṇayati / tūlenānukuṣṇāti anutūlayati / ślokairupastauti upaślokayati / senayābhiyāti abhiṣeṇayati / lomānyanumārṣṭi anulomayati / tvacaṃ gṛhṇāti tvacayati / akārāntas tvaca-śabdaḥ / varmaṇā sannahyati saṃvarmayati / varṇam gṛhṇāti varṇayati / cūrṇaiḥ avadhvaṃsayati avacūrṇayati / curādibhyaḥ svārthe / corayati / cintayati / svābhāvikatvādarthābhidhānasya yathāsvaṃ pratyayārthā nirdiśyante // hetumati ca
Sanskrit only: no published translation is held for this verse.
आङ्-लोपश् च काल-अत्यन्तसंयोगे मर्यादायाम् । आरात्रि विवासम् आचश्टे रात्रिं विवासयति । चित्रीकरणे प्रापि । उज्जयिन्याः प्रस्थितो माहिष्मत्यां सूर्योद्गमनं सम्भावयते सूर्यम् उद्गमयति । नक्षत्रयोगे ज्ञि । पुष्ययोगं जानाति पुष्येण योजयति । मघभिर् योजयति ॥ कण्ड्व्-आदिभ्यो यक्
āṅ-lopaś ca kāla-atyantasaṃyoge maryādāyām / ārātri vivāsam ācaśṭe rātriṃ vivāsayati / citrīkaraṇe prāpi / ujjayinyāḥ prasthito māhiṣmatyāṃ sūryodgamanaṃ sambhāvayate sūryam udgamayati / nakṣatrayoge jñi / puṣyayogaṃ jānāti puṣyeṇa yojayati / maghabhir yojayati // kaṇḍv-ādibhyo yak
Sanskrit only: no published translation is held for this verse.
तत्र धात्वधिकाराद् धतुभ्यः एव प्रत्ययो विधीयते, न तु प्रातिपदिकेभ्यः । तथा च गुणप्रतिषेध-अर्थः ककारो ऽनुबध्यते । धातुप्रकरणाद् धातुः कस्य चासञ्जनाद् अपि । आह च अयम् इमं दीर्घं मन्ये धतुर् विभाषितः ॥ कण्डूञ् -- कण्डूयति, कण्डूयते । ञित्वात् कर्त्र्-अभिप्राये क्रियाफले (*१,३।७२) इत्य् आत्मनेपदम् । कण्डूञ् । मन्तु । हृणीङ् । वल्गु । अस्मनस् । महीङ् । लेट् । लोट् । इरस् । इरज् । इरञ् । द्रवस् । मेधा । कुषुभ । मगध । तन्तस् । पम्पस् । सुख । दुःख । सपर । अरर । भिषज् । भिष्णज् । इषुध । चरण । चुरण । भुरण । तुरण । गद्गद । एला । केला । खेला । लिट् । लोट् ॥ गुपू-धूप-विच्छि-पणि-पनिभ्य आयः
tatra dhātvadhikārād dhatubhyaḥ eva pratyayo vidhīyate, na tu prātipadikebhyaḥ / tathā ca guṇapratiṣedha-arthaḥ kakāro 'nubadhyate / dhātuprakaraṇād dhātuḥ kasya cāsañjanād api / āha ca ayam imaṃ dīrghaṃ manye dhatur vibhāṣitaḥ // kaṇḍūñ -- kaṇḍūyati, kaṇḍūyate / ñitvāt kartr-abhiprāye kriyāphale (*1,3.72) ity ātmanepadam / kaṇḍūñ / mantu / hṛṇīṅ / valgu / asmanas / mahīṅ / leṭ / loṭ / iras / iraj / irañ / dravas / medhā / kuṣubha / magadha / tantas / pampas / sukha / duḥkha / sapara / arara / bhiṣaj / bhiṣṇaj / iṣudha / caraṇa / curaṇa / bhuraṇa / turaṇa / gadgada / elā / kelā / khelā / liṭ / loṭ // gupū-dhūpa-vicchi-paṇi-panibhya āyaḥ
Sanskrit only: no published translation is held for this verse.
ऋतेर् ईयङ्
ṛter īyaṅ
Sanskrit only: no published translation is held for this verse.
ऋतिः सौत्रो धतुः धृणायां वर्तते, ततः ईयङ् प्रत्ययो भवति । ङकार आत्मनेपद-अर्थः । ऋतीयते, ऋतीयेते, ऋतियन्ते । ईयङ्-वचनं ज्ञापन-अर्थं, धातु-विहितानां प्रत्ययानाम् आयनादयो न भवन्ति इति ॥ कमेर् णिङ्
ṛtiḥ sautro dhatuḥ dhṛṇāyāṃ vartate, tataḥ īyaṅ pratyayo bhavati / ṅakāra ātmanepada-arthaḥ / ṛtīyate, ṛtīyete, ṛtiyante / īyaṅ-vacanaṃ jñāpana-arthaṃ, dhātu-vihitānāṃ pratyayānām āyanādayo na bhavanti iti // kamer ṇiṅ
Sanskrit only: no published translation is held for this verse.
कमेर् धातोः णिङ् प्रत्ययो भवति । णकारो वृद्ध्य्-अर्थः । ङकार आत्मनेपद-अर्थः । कामयते, कामयेते, कामयन्ते ॥ आयादय आर्धधातुके वा
kamer dhātoḥ ṇiṅ pratyayo bhavati / ṇakāro vṛddhy-arthaḥ / ṅakāra ātmanepada-arthaḥ / kāmayate, kāmayete, kāmayante // āyādaya ārdhadhātuke vā
Sanskrit only: no published translation is held for this verse.
आर्धधातुक-विषये आर्धधातुक-विवक्षायाम् आयादयः प्रत्यया वा भवन्ति । गोप्ता, गोपायिता । अर्तिता, ऋतीयिता । कमिता, कामयिता । नित्यं प्रत्ययप्रसङ्गे तद् उत्पत्तिर् आर्धधातुक-विषये विकल्प्यते, तत्र यथायथं प्रत्यया भवन्ति । गुप्तिः । गोपाया ॥ सन्-आद्यन्ता धातवः
ārdhadhātuka-viṣaye ārdhadhātuka-vivakṣāyām āyādayaḥ pratyayā vā bhavanti / goptā, gopāyitā / artitā, ṛtīyitā / kamitā, kāmayitā / nityaṃ pratyayaprasaṅge tad utpattir ārdhadhātuka-viṣaye vikalpyate, tatra yathāyathaṃ pratyayā bhavanti / guptiḥ / gopāyā // san-ādyantā dhātavaḥ
Sanskrit only: no published translation is held for this verse.
सन् आदिर्येषां ते सनादयः । सनादयो ऽन्ते येषं ते सनाद्यन्ताः । सनाद्यन्ताः समुदायाः धातु-सञ्ज्ञाः भवन्ति । प्रत्यय-ग्रहण-परिभाषा+एव पद-सञ्ज्ञायाम् अन्तवचनेन लिङ्गेन प्रतिषिद्धा सती पुनर् इह अन्तवचनेन प्रतिप्रसूयते । चिकीर्षति । पुत्रीयति । पुत्रकाम्यति ॥ स्यतासी ऌलुटोः
san ādiryeṣāṃ te sanādayaḥ / sanādayo 'nte yeṣaṃ te sanādyantāḥ / sanādyantāḥ samudāyāḥ dhātu-sañjñāḥ bhavanti / pratyaya-grahaṇa-paribhāṣā+eva pada-sañjñāyām antavacanena liṅgena pratiṣiddhā satī punar iha antavacanena pratiprasūyate / cikīrṣati / putrīyati / putrakāmyati // syatāsī ḷluṭoḥ
Sanskrit only: no published translation is held for this verse.
ऌ-रूपम् उत्सृष्ट-अनुबन्धं सामान्यम् एकम् एव । तस्मिन् लुटि च परतो धातोर् यथा-सङ्ख्यं स्यतासी प्रत्ययौ भवतः । करिष्यति । अकरिष्यत् । श्वः कर्ता । इदित्-करणम् अनुनासिकलोप-प्रतिषेध-अर्थम् । मन्ता । सङ्गन्ता ॥ सिब्-बहुलं लेति
ḷ-rūpam utsṛṣṭa-anubandhaṃ sāmānyam ekam eva / tasmin luṭi ca parato dhātor yathā-saṅkhyaṃ syatāsī pratyayau bhavataḥ / kariṣyati / akariṣyat / śvaḥ kartā / idit-karaṇam anunāsikalopa-pratiṣedha-artham / mantā / saṅgantā // sib-bahulaṃ leti
Sanskrit only: no published translation is held for this verse.
धातोः सिप् प्रत्ययो भवति बहुलं लेति परतः । जोषिषत् । तारिषत् । मन्दिषत् । न च भवति । पताति दिद्युत् । उदधिं च्यावयाति ॥ कास्-प्रत्ययाद् आम् अमन्त्रे लिटि
dhātoḥ sip pratyayo bhavati bahulaṃ leti parataḥ / joṣiṣat / tāriṣat / mandiṣat / na ca bhavati / patāti didyut / udadhiṃ cyāvayāti // kās-pratyayād ām amantre liṭi
Sanskrit only: no published translation is held for this verse.
कास्यनेकाचः इति वक्तव्यम् चुलुम्पाद्यर्थम् । चकासाञ्चकार । दरिद्राञ्चकार । चुलुम्पाज्चकार । आमो ऽमित्वम् अदन्तत्वाद् अगुणत्वं विदेस् तथा । आस्कासोरां विधानाच् च पररूपं कतन्तवत् ॥ इज्-आदेश् च गुरुमतो ऽनृच्छः
kāsyanekācaḥ iti vaktavyam culumpādyartham / cakāsāñcakāra / daridrāñcakāra / culumpājcakāra / āmo 'mitvam adantatvād aguṇatvaṃ vides tathā / āskāsorāṃ vidhānāc ca pararūpaṃ katantavat // ij-ādeś ca gurumato 'nṛcchaḥ
Sanskrit only: no published translation is held for this verse.
इज्-आदिर् यो धातुर् गुरुमान् ऋच्छति-वर्जितः, तस्माच् च लिटि परत आम् प्रत्ययो भवति । ईह चेष्टायाम् । ऊह वितर्के । ईहाञ्चक्रे । ऊहाञ्चक्रे । इजादेः इति किम् ? ततक्ष । ररक्ष । गुरुमतः इति किम् ? इयज । उवप । अनृच्छः इति किम् ? आनर्च्छ, आनर्च्छतुः, आनर्च्छौः । ऊर्णोतेश् च प्रतिषेधो वक्तव्यः । प्रोर्णुनाव । अथ वा -- वाच्य ऊर्णोर्णुवद्भावो यङ्-प्रसिद्धिः प्रयोजनम् । आमश् च प्रतिषेध-अर्थम् एकाचश्चेडुपग्रहात् ॥ दय-अय-आसश् च
ij-ādir yo dhātur gurumān ṛcchati-varjitaḥ, tasmāc ca liṭi parata ām pratyayo bhavati / īha ceṣṭāyām / ūha vitarke / īhāñcakre / ūhāñcakre / ijādeḥ iti kim ? tatakṣa / rarakṣa / gurumataḥ iti kim ? iyaja / uvapa / anṛcchaḥ iti kim ? ānarccha, ānarcchatuḥ, ānarcchauḥ / ūrṇoteś ca pratiṣedho vaktavyaḥ / prorṇunāva / atha vā -- vācya ūrṇorṇuvadbhāvo yaṅ-prasiddhiḥ prayojanam / āmaś ca pratiṣedha-artham ekācaśceḍupagrahāt // daya-aya-āsaś ca
Sanskrit only: no published translation is held for this verse.
दय दानगति-रक्षणेषु, अय गतौ, आस उपवेषने, एतेभ्यश् च लिटि परत आम् प्रत्ययो भवति । दयञ्चक्रे । पलायाञ् चक्रे । आसाञ् चक्रे ॥ उष-विद-जागृभ्यो ऽन्यतरस्याम्
daya dānagati-rakṣaṇeṣu, aya gatau, āsa upaveṣane, etebhyaś ca liṭi parata ām pratyayo bhavati / dayañcakre / palāyāñ cakre / āsāñ cakre // uṣa-vida-jāgṛbhyo 'nyatarasyām
Sanskrit only: no published translation is held for this verse.
उष दाहे, विद ज्ञाने, जगृ निद्राक्षये, एतेभ्यो लिटि परतो ऽन्यतरस्याम् आम् प्रत्ययो भवति । ओषाञ्चकार, उवोष । विदाञ्चकार, विवेद । जागराञ्चकार, जजागार । विदेरदन्तत्व-प्रतिज्ञानाद् आमि गुणो न भवति ॥ भी-ह्री-भृ-हुवां श्लुवच् च
uṣa dāhe, vida jñāne, jagṛ nidrākṣaye, etebhyo liṭi parato 'nyatarasyām ām pratyayo bhavati / oṣāñcakāra, uvoṣa / vidāñcakāra, viveda / jāgarāñcakāra, jajāgāra / videradantatva-pratijñānād āmi guṇo na bhavati // bhī-hrī-bhṛ-huvāṃ śluvac ca
Sanskrit only: no published translation is held for this verse.
ञिभी भये, ह्री लज्जायाम्, डुभृञ् धारणपोषणयोः, हु दानादानयोः, एतेभ्यो लिटि परतः आम् प्रत्ययो भवति अन्यतरस्याम्, श्लाविव च अस्मिन् कार्यं भवति । किं पुनस् तत् ? द्वित्वम् इत्त्वं च । बिभायाञ् चकार, विभाय । जिह्रयाञ् चकार, जिह्राय । बिभराञ् चकार, बभार । जुहवाञ् चकार, जुहाव ॥ कृञ् च अनुप्रयुज्यते लिटि
ñibhī bhaye, hrī lajjāyām, ḍubhṛñ dhāraṇapoṣaṇayoḥ, hu dānādānayoḥ, etebhyo liṭi parataḥ ām pratyayo bhavati anyatarasyām, ślāviva ca asmin kāryaṃ bhavati / kiṃ punas tat ? dvitvam ittvaṃ ca / bibhāyāñ cakāra, vibhāya / jihrayāñ cakāra, jihrāya / bibharāñ cakāra, babhāra / juhavāñ cakāra, juhāva // kṛñ ca anuprayujyate liṭi
Sanskrit only: no published translation is held for this verse.
विदाङ्-कुर्वन्त्व् इत्य् अन्यतरस्याम्
vidāṅ-kurvantv ity anyatarasyām
Sanskrit only: no published translation is held for this verse.
विदाङ्-कुर्वन्तु इत्य् एतद् अन्यतरस्यां निपात्यते । किं पुनर् इह निपात्यते ? विदेर् लोटि आम् प्रत्ययः, गुणाभावः, लोटो लुक्, कृञश् च लोट्परस्य अनुप्रयोगः । अत्र भवन्तो विदाङ्-कुर्वन्तु, विदन्तु । इति-करणः प्रदर्शन-अर्थः, न केवलं प्रथमपुरुष-बहुवचनं, किं तर्हि सर्वाण्य् एव लोड्-वचनान्य् अनुप्रयुज्यन्ते, विदाङ् करोतु, विदाङ् कुरुतात्, विदाङ् कुरुताम्, विदाङ् कुरु, विदाङ् कुरुतम् इत्य् आदि ॥ अभ्युत्सादयां-प्रजनयाम्-चिकयां-रमयाम्-अकः पावयाम्-क्रियाद् विदाम्-अक्रन्न् इति च्छन्दसि
vidāṅ-kurvantu ity etad anyatarasyāṃ nipātyate / kiṃ punar iha nipātyate ? vider loṭi ām pratyayaḥ, guṇābhāvaḥ, loṭo luk, kṛñaś ca loṭparasya anuprayogaḥ / atra bhavanto vidāṅ-kurvantu, vidantu / iti-karaṇaḥ pradarśana-arthaḥ, na kevalaṃ prathamapuruṣa-bahuvacanaṃ, kiṃ tarhi sarvāṇy eva loḍ-vacanāny anuprayujyante, vidāṅ karotu, vidāṅ kurutāt, vidāṅ kurutām, vidāṅ kuru, vidāṅ kurutam ity ādi // abhyutsādayāṃ-prajanayām-cikayāṃ-ramayām-akaḥ pāvayām-kriyād vidām-akrann iti cchandasi
Sanskrit only: no published translation is held for this verse.
अभ्युत्सादयाम् इत्य् एवम् आदयः छन्दसि विषये ऽन्यतरस्यां निपात्यन्ते । सदिजनिरमीणां ण्यन्तानां लुडि आम् प्रत्ययो निपात्यते । चिनोतेर् अपि तत्र+एव+अअम्प्रत्ययो द्विर्वचनं कुत्वं च । अकर् इति चतुर्भिर् अपि प्रत्येकम् अनुप्रयोगः सम्बध्यते । पावयाम् क्रियात् इति पवतेः पुनातेर् वा ण्यन्तस्य लिङि आम् निपात्यते, गुणाभावश् च, अक्रन् इति च अस्य अनुप्रयोगः । विदाम्-अक्रन् इति विदेर् लुङि आम् निपात्यते, गुनभावश् च, अक्रन् इति च अस्य अनुप्रयोगः । अभ्युत्सादयाम् अकः । अभ्युदसीषदत् इति भाषायाम् । प्रजनयाम् अकः । प्राजीजनत् इति भाषायाम् । चिकयाम् अकः । अचैषीत् इति भाषायाम् । रमयाम् अकः । अरीरमत् इति भाषायाम् । पावयाङ्क्रियात् । पाव्यात् इति भाषायाम् । विदाम् अक्रन् । अवेदिषुः इति भाषायाम् ॥ च्लि लुडि
abhyutsādayām ity evam ādayaḥ chandasi viṣaye 'nyatarasyāṃ nipātyante / sadijaniramīṇāṃ ṇyantānāṃ luḍi ām pratyayo nipātyate / cinoter api tatra+eva+aampratyayo dvirvacanaṃ kutvaṃ ca / akar iti caturbhir api pratyekam anuprayogaḥ sambadhyate / pāvayām kriyāt iti pavateḥ punāter vā ṇyantasya liṅi ām nipātyate, guṇābhāvaś ca, akran iti ca asya anuprayogaḥ / vidām-akran iti vider luṅi ām nipātyate, gunabhāvaś ca, akran iti ca asya anuprayogaḥ / abhyutsādayām akaḥ / abhyudasīṣadat iti bhāṣāyām / prajanayām akaḥ / prājījanat iti bhāṣāyām / cikayām akaḥ / acaiṣīt iti bhāṣāyām / ramayām akaḥ / arīramat iti bhāṣāyām / pāvayāṅkriyāt / pāvyāt iti bhāṣāyām / vidām akran / avediṣuḥ iti bhāṣāyām // cli luḍi
Sanskrit only: no published translation is held for this verse.
धातोः च्लिः प्रत्ययो भवति लुडि परतः । इकार उच्चारण-अर्थः, चकारः स्वर-अर्थः । अस्य सिजादीन् आदेशान् वक्ष्यति । तत्र+एव+उदाहरिस्यामः ॥ च्लेः सिच्
dhātoḥ cliḥ pratyayo bhavati luḍi parataḥ / ikāra uccāraṇa-arthaḥ, cakāraḥ svara-arthaḥ / asya sijādīn ādeśān vakṣyati / tatra+eva+udāharisyāmaḥ // cleḥ sic
Sanskrit only: no published translation is held for this verse.
शल इग्-उपधाद् अनिटः क्षः
śala ig-upadhād aniṭaḥ kṣaḥ
Sanskrit only: no published translation is held for this verse.
शलन्तो यो धातुर् इग्-उपधस् तस्मात् परस्य च्लेः अनिटः क्ष आदेशो भवति । दुह - अधुक्षत् । लिह - अलिक्षत् । शलः इति किम् ? अभैत्सीत् । अच्छैत्सीत् । इग्-उपधात् इति किम् ? अधाक्षीत् । अनिटः इति किम् ? अकोषीत् । अमोषीत् ॥ श्लिष आलिङ्गने
śalanto yo dhātur ig-upadhas tasmāt parasya cleḥ aniṭaḥ kṣa ādeśo bhavati / duha - adhukṣat / liha - alikṣat / śalaḥ iti kim ? abhaitsīt / acchaitsīt / ig-upadhāt iti kim ? adhākṣīt / aniṭaḥ iti kim ? akoṣīt / amoṣīt // śliṣa āliṅgane
Sanskrit only: no published translation is held for this verse.
श्लिषेः धातोः आलिङ्गन-क्रियावचनात् परस्य च्लेः क्षः आदेशो भवति । आलिङ्गनम् उपगूहनं, परिष्वङ्गः । अत्र नियम-अर्थम् एतत् । आश्लिक्षत् कन्यां देवदत्तः । आलिङ्गने इति किम् ? समाश्लिषज्जतु काष्ठम् ॥ न दृशः
śliṣeḥ dhātoḥ āliṅgana-kriyāvacanāt parasya cleḥ kṣaḥ ādeśo bhavati / āliṅganam upagūhanaṃ, pariṣvaṅgaḥ / atra niyama-artham etat / āślikṣat kanyāṃ devadattaḥ / āliṅgane iti kim ? samāśliṣajjatu kāṣṭham // na dṛśaḥ
Sanskrit only: no published translation is held for this verse.
पूर्वेण क्षः प्राप्तः प्रतिषिध्यते । दृशेः धातोः परस्य च्लेः क्ष-आदेशो न भवति । अस्मिन् प्रतिषिद्धे इरितो वा (*३,१।४५) इति अङ्सिचौ भवतः । अदर्शत्, अद्राक्षीत् ॥ णि-श्रि-द्रु-स्रुभ्यः कर्तरि चङ्
pūrveṇa kṣaḥ prāptaḥ pratiṣidhyate / dṛśeḥ dhātoḥ parasya cleḥ kṣa-ādeśo na bhavati / asmin pratiṣiddhe irito vā (*3,1.45) iti aṅsicau bhavataḥ / adarśat, adrākṣīt // ṇi-śri-dru-srubhyaḥ kartari caṅ
Sanskrit only: no published translation is held for this verse.
सिज्-अपवादश् चङ् विधीयते । ण्य्-अन्तेभ्यो धातुभ्यः, श्रि द्रु स्रु इत्य् एतेभ्यश् च परस्य च्लेः चङ्-आदेशो भवति कर्तवाचिनि लुङि परतः । ङकारो गुण-वृद्धि-प्रतिषेध-अर्थः, चकारः चङि (*६,१।११) इति विशेषण-अर्थः । अचीकरत् । अजीहरत् । अशिश्रियत् । अदुद्रुवत् । असुस्रुवत् । कर्तरि इति किम् ? अकारयिषातां कटौ देवदत्तेन । कमेर् उपसङ्ख्यानम् । आयादयः आर्धधातुके वा (*३,१।३१) इति यदा णिङ् न अस्ति तदअ+एतत् उपसङ्ख्यानम् । अचकमत । णिङ्पक्षे सन्वद्भावः । अचीकमत । नाकमिष्टसुखं यान्ति सुयुक्तैर् वडवारथैः । अथ पत्कषिणो यान्ति ये ऽचीकमतभाषिणः ॥ विभाषा धेट्-श्व्योः
sij-apavādaś caṅ vidhīyate / ṇy-antebhyo dhātubhyaḥ, śri dru sru ity etebhyaś ca parasya cleḥ caṅ-ādeśo bhavati kartavācini luṅi parataḥ / ṅakāro guṇa-vṛddhi-pratiṣedha-arthaḥ, cakāraḥ caṅi (*6,1.11) iti viśeṣaṇa-arthaḥ / acīkarat / ajīharat / aśiśriyat / adudruvat / asusruvat / kartari iti kim ? akārayiṣātāṃ kaṭau devadattena / kamer upasaṅkhyānam / āyādayaḥ ārdhadhātuke vā (*3,1.31) iti yadā ṇiṅ na asti tadaa+etat upasaṅkhyānam / acakamata / ṇiṅpakṣe sanvadbhāvaḥ / acīkamata / nākamiṣṭasukhaṃ yānti suyuktair vaḍavārathaiḥ / atha patkaṣiṇo yānti ye 'cīkamatabhāṣiṇaḥ // vibhāṣā dheṭ-śvyoḥ
Sanskrit only: no published translation is held for this verse.
गुपेश् छन्दसि
gupeś chandasi
Sanskrit only: no published translation is held for this verse.
गुपेः परस्य च्लेः छन्दसि विषये विभाषा चङ् आदेशो भवति । यत्र आय-प्रत्ययो नास्ति तत्र अयं विधिः । इमान् मे मित्रावरुणौ गृहञ्जुगुपतम् युवम् । अगौप्तम्, अगोपिष्टम्, अगोपायिष्टम् इति वा । भाशायां तु चङन्तं वर्जयित्वा शिष्टं रूपत्रयं भवति ॥ न-उनयति-ध्वनयत्य्-एलयत्य्-अर्दयतिभ्यः
gupeḥ parasya cleḥ chandasi viṣaye vibhāṣā caṅ ādeśo bhavati / yatra āya-pratyayo nāsti tatra ayaṃ vidhiḥ / imān me mitrāvaruṇau gṛhañjugupatam yuvam / agauptam, agopiṣṭam, agopāyiṣṭam iti vā / bhāśāyāṃ tu caṅantaṃ varjayitvā śiṣṭaṃ rūpatrayaṃ bhavati // na-unayati-dhvanayaty-elayaty-ardayatibhyaḥ
Sanskrit only: no published translation is held for this verse.
ऊन परिहाणे, ध्वन शब्दे, इल प्रेरणे, अर्द गतौ याचने च, एतेभ्यो धातुभ्यः ण्यन्तेभ्यः पूर्वेण च्लेश्चङि प्राप्ते छन्दसि विषये न भवति । काममूनयीः । औनिनः इति भाषायाम् । मा त्वाग्निर्धवनयीत् । अदिध्वनत् इति भषायाम् । काममिलयीत् । ऐलिलत् इति भाषायाम् । मैनमर्दयीत् । आर्दिदत् इति भाशायाम् ॥ अस्यति-वक्ति-ख्यातिभ्यो ऽङ्
ūna parihāṇe, dhvana śabde, ila preraṇe, arda gatau yācane ca, etebhyo dhātubhyaḥ ṇyantebhyaḥ pūrveṇa cleścaṅi prāpte chandasi viṣaye na bhavati / kāmamūnayīḥ / auninaḥ iti bhāṣāyām / mā tvāgnirdhavanayīt / adidhvanat iti bhaṣāyām / kāmamilayīt / aililat iti bhāṣāyām / mainamardayīt / ārdidat iti bhāśāyām // asyati-vakti-khyātibhyo 'ṅ
Sanskrit only: no published translation is held for this verse.
असु क्षेपने, वच परिभाषणे ब्रूञ्-आदेशो वा, ख्या प्रकथने चक्षिङ्-आदेशो वा, एभ्यः परस्य च्लेर् अङ्-आदेशो भवति कर्तृ-वाचिनि लुगि परतः । अस्यतेः पुषादिपाठादेवाङि सिद्धे पुनर् ग्रहणम् आत्मनेपद-अर्थम् । पर्यास्थत, पर्यास्थेताम्, पर्यास्थन्त । वक्ति - अवोचत्, अवोचताम्, अवोचन् । ख्याति - आख्यत्, आख्यताम्, आख्यन् । कर्तरि इति किम् ? पर्यासिषातां गावौ वत्सेन ॥ लिपि-सिचि-ह्वश् च
asu kṣepane, vaca paribhāṣaṇe brūñ-ādeśo vā, khyā prakathane cakṣiṅ-ādeśo vā, ebhyaḥ parasya cler aṅ-ādeśo bhavati kartṛ-vācini lugi parataḥ / asyateḥ puṣādipāṭhādevāṅi siddhe punar grahaṇam ātmanepada-artham / paryāsthata, paryāsthetām, paryāsthanta / vakti - avocat, avocatām, avocan / khyāti - ākhyat, ākhyatām, ākhyan / kartari iti kim ? paryāsiṣātāṃ gāvau vatsena // lipi-sici-hvaś ca
Sanskrit only: no published translation is held for this verse.
लिप उपदेहे षिच क्षरने, ह्वेञ् स्पर्धायाम्, एतेभ्यश् च परस्य च्लेः अङ् आदेशो भवति । अलिपत् । असिचत् । आह्वत् । पृथग्-योग उत्तर-अर्थः ॥ आत्मनेपदेष्व् अन्यतरस्याम्
lipa upadehe ṣica kṣarane, hveñ spardhāyām, etebhyaś ca parasya cleḥ aṅ ādeśo bhavati / alipat / asicat / āhvat / pṛthag-yoga uttara-arthaḥ // ātmanepadeṣv anyatarasyām
Sanskrit only: no published translation is held for this verse.
पुषादि-द्युताद्य्-ऌदितः प्रस्मैपदेषु
puṣādi-dyutādy-ḷditaḥ prasmaipadeṣu
Sanskrit only: no published translation is held for this verse.
द्युतादिभ्यश् च धातुभ्यः परस्य च्लेः परस्मैपदेषु परतः अङादेशो भवति । पुषादिर् दिवाद्यन्तर्गणो गृह्यते, न भ्वादि-क्र्याद्य्-अन्तर्गणः । पुष - अपुषत् । द्युतादि - अद्युतत् । अश्वितत् । ऌदिद्भ्यःगमॢ - अगमत् । शकॢ - अशकत् । परस्मैपदेसु इति किम् ? व्यद्योतिष्ट । अलोटिष्ट ॥ सर्ति-शास्त्य्-अर्तिभ्यश् च
dyutādibhyaś ca dhātubhyaḥ parasya cleḥ parasmaipadeṣu parataḥ aṅādeśo bhavati / puṣādir divādyantargaṇo gṛhyate, na bhvādi-kryādy-antargaṇaḥ / puṣa - apuṣat / dyutādi - adyutat / aśvitat / ḷdidbhyaḥgamḷ - agamat / śakḷ - aśakat / parasmaipadesu iti kim ? vyadyotiṣṭa / aloṭiṣṭa // sarti-śāsty-artibhyaś ca
Sanskrit only: no published translation is held for this verse.
सृ गतौ, शासु अनुशिष्टौ ऋ गतौ इत्य् एतेभ्यः परस्य च्लेः अङ्-आदेशो भवति । असरत् । अशिषत् । आरत् । पृथग्योगकरणम् आत्मनेपदार्थम् । समरन्त । चकारः परस्मैपदेषु इत्य् अनुकर्षण-अर्थः तच्चोत्तरत्रोपयोगं यास्यति ॥ इरितो वा
sṛ gatau, śāsu anuśiṣṭau ṛ gatau ity etebhyaḥ parasya cleḥ aṅ-ādeśo bhavati / asarat / aśiṣat / ārat / pṛthagyogakaraṇam ātmanepadārtham / samaranta / cakāraḥ parasmaipadeṣu ity anukarṣaṇa-arthaḥ taccottaratropayogaṃ yāsyati // irito vā
Sanskrit only: no published translation is held for this verse.
इरितो धातोः परस्य च्लेः अङ्-आदेशो वा भवति । भिदिर् - अभिदत्, अभैत्सीत् । छिदिर् - अच्छिदत्, अच्छैत्सीत् । परस्मैपदेषु इत्य् एव, अभित्त । अच्छित्त ॥ जॄ-स्तम्भु-म्रुचु-म्लुचु-ग्रुचु-ग्लुचु-ग्लुञ्चु-श्विभ्यश् च
irito dhātoḥ parasya cleḥ aṅ-ādeśo vā bhavati / bhidir - abhidat, abhaitsīt / chidir - acchidat, acchaitsīt / parasmaipadeṣu ity eva, abhitta / acchitta // jṝ-stambhu-mrucu-mlucu-grucu-glucu-gluñcu-śvibhyaś ca
Sanskrit only: no published translation is held for this verse.
वा इति वर्तते । जॄष् वयोहानौ, स्तम्भुः सौत्रो धातुः, म्रुचु, म्लुचु गत्यर्थे, ग्रुचु, ग्लुचु स्तेयकरणे, ग्लुञ्चु, षस्ज गतौ, टुओश्वि गति-वृद्ध्योः, एतेभ्यो धातुभ्यः परस्य च्लेर् वा अङ्-आदेशो भवति । अजरत्, अजारीत् । अस्तभत्, अस्तम्भीत् । अम्रुचत्, अम्रोचीत् । अम्लुचत्, अम्लोचीत् । अग्रुचत्, अग्रोचीत् । अग्लुचत्, अग्लोचीत् । अग्लुञ्चत्, अग्लुञ्चीत् । अश्वत्, अश्वयीत्, अशीश्वियत् । ग्लुचु-ग्लुज्च्वोर् अन्यतरोपादाने ऽपि रूपत्रयं सिध्यति, अर्थभिदात् तु द्वयोर् उपादानं कृतम् । केचित् तु वर्नयन्ति द्वयोर् उपादान-सामर्थ्याद् ग्लुञ्चेर् अनुनासिकलोपो न भवति, अग्लुञ्चत् इति ॥ कृ-मृ-दृ-रुहिभ्यश् छन्दसि
vā iti vartate / jṝṣ vayohānau, stambhuḥ sautro dhātuḥ, mrucu, mlucu gatyarthe, grucu, glucu steyakaraṇe, gluñcu, ṣasja gatau, ṭuośvi gati-vṛddhyoḥ, etebhyo dhātubhyaḥ parasya cler vā aṅ-ādeśo bhavati / ajarat, ajārīt / astabhat, astambhīt / amrucat, amrocīt / amlucat, amlocīt / agrucat, agrocīt / aglucat, aglocīt / agluñcat, agluñcīt / aśvat, aśvayīt, aśīśviyat / glucu-glujcvor anyataropādāne 'pi rūpatrayaṃ sidhyati, arthabhidāt tu dvayor upādānaṃ kṛtam / kecit tu varnayanti dvayor upādāna-sāmarthyād gluñcer anunāsikalopo na bhavati, agluñcat iti // kṛ-mṛ-dṛ-ruhibhyaś chandasi
Sanskrit only: no published translation is held for this verse.
चिण् ते पदः
ciṇ te padaḥ
Sanskrit only: no published translation is held for this verse.
पद गतौ, अस्माद् धातोः परस्य च्लेः चिण्-आदेसो भवति तशब्दे परतः । समर्थ्याद् आत्मनेपद-एकवचनं गृह्यते । उदपादि सस्यम् । समपादि भैक्षम् । त इति किम् ? उदपत्साताम् । उदपत्सत ॥ दीप-जन-बुध-पूरि-तायि-प्यायिभ्यो ऽन्यतरस्याम्
pada gatau, asmād dhātoḥ parasya cleḥ ciṇ-ādeso bhavati taśabde parataḥ / samarthyād ātmanepada-ekavacanaṃ gṛhyate / udapādi sasyam / samapādi bhaikṣam / ta iti kim ? udapatsātām / udapatsata // dīpa-jana-budha-pūri-tāyi-pyāyibhyo 'nyatarasyām
Sanskrit only: no published translation is held for this verse.
चिण् ते इति वर्तते । दीपी दीप्तौ, जनी प्रादुर्भावे, बुध अवगमने, पूरी आप्यायने, तायृ सन्तानपालनयोः, ओप्याअयी वृद्धौ, एतेभ्यः परस्य च्लेः तशब्दे परतो ऽन्यतरस्यां चिण्-आदेशो भवति । अदीपि, अदीपिष्ट । अजनि, अजनिष्ट । अबोधि, अबुद्ध । अपूरि, अपूरिष्ट । अतायि, अतायिष्ट । अप्यायि, अप्यायिष्ट ॥ अचः कर्मकर्तरि
ciṇ te iti vartate / dīpī dīptau, janī prādurbhāve, budha avagamane, pūrī āpyāyane, tāyṛ santānapālanayoḥ, opyāayī vṛddhau, etebhyaḥ parasya cleḥ taśabde parato 'nyatarasyāṃ ciṇ-ādeśo bhavati / adīpi, adīpiṣṭa / ajani, ajaniṣṭa / abodhi, abuddha / apūri, apūriṣṭa / atāyi, atāyiṣṭa / apyāyi, apyāyiṣṭa // acaḥ karmakartari
Sanskrit only: no published translation is held for this verse.
अजन्ताद् धातोः परस्य च्लेः कर्मक्र्तरि त-शब्दे परतः चिणादेषो भवति । प्राप्त-विभाषेयम् । अकारि कटः स्वयम् एव, अकृत कटः स्वयम् एव । अलावि केदारः स्वयम् एव, अलविष्ट केदारः स्वयम् एव । अचः इति किम् ? अभेदि काष्ठं स्वयम् एव । कर्मकर्तरि इति किम् ? अकारि कटो देवदत्तेन ॥ दुहश् च
ajantād dhātoḥ parasya cleḥ karmakrtari ta-śabde parataḥ ciṇādeṣo bhavati / prāpta-vibhāṣeyam / akāri kaṭaḥ svayam eva, akṛta kaṭaḥ svayam eva / alāvi kedāraḥ svayam eva, alaviṣṭa kedāraḥ svayam eva / acaḥ iti kim ? abhedi kāṣṭhaṃ svayam eva / karmakartari iti kim ? akāri kaṭo devadattena // duhaś ca
Sanskrit only: no published translation is held for this verse.
दुह प्रपूरणे, अस्मात् परस्य च्लेः चिणादेशो भवत्य् अन्यतरस्याम् । अदोहि गौः स्वयम् एव, अगुग्ध गौः स्वयम् एव । कर्मकर्तरि इत्य् एव, अदोहि गौर्गोपालकेन ॥ न रुधः
duha prapūraṇe, asmāt parasya cleḥ ciṇādeśo bhavaty anyatarasyām / adohi gauḥ svayam eva, agugdha gauḥ svayam eva / karmakartari ity eva, adohi gaurgopālakena // na rudhaḥ
Sanskrit only: no published translation is held for this verse.
रुधिर् आवरणे, अस्मात् परस्य च्लेः कर्मक्र्तरि चिण्-आदेशो न भवति । अन्ववारुद्ध गौः स्वयम् एव । कर्मकर्तरि इत्य् एव, अन्ववारोधि गौः गोपालकेन ॥ तपो ऽनुतापे च
rudhir āvaraṇe, asmāt parasya cleḥ karmakrtari ciṇ-ādeśo na bhavati / anvavāruddha gauḥ svayam eva / karmakartari ity eva, anvavārodhi gauḥ gopālakena // tapo 'nutāpe ca
Sanskrit only: no published translation is held for this verse.
चिण् भावकर्मणोः
ciṇ bhāvakarmaṇoḥ
Sanskrit only: no published translation is held for this verse.
धातोः परस्य च्लेः चिण्-आदेशो भवति भावे कर्मणि त-शब्दे परतः । भावे तावत् -- अशायि भवता । कर्मणि खल्व् अपि -- अकारि कटो देवदत्तेन । अहारि भारो यज्ञदत्तेन । चिण्-ग्रहणं विस्पष्ट-अर्थम् ॥ सार्वधातुके यक्
dhātoḥ parasya cleḥ ciṇ-ādeśo bhavati bhāve karmaṇi ta-śabde parataḥ / bhāve tāvat -- aśāyi bhavatā / karmaṇi khalv api -- akāri kaṭo devadattena / ahāri bhāro yajñadattena / ciṇ-grahaṇaṃ vispaṣṭa-artham // sārvadhātuke yak
Sanskrit only: no published translation is held for this verse.
भावकर्म-वाचिनि सार्वधातुके परतो धतोः यक् प्रत्ययो भवति । आस्यते भवता । शय्यते भवता । कर्मणि -- क्रियते कटः । गम्यते ग्रामः । ककारो गुणवृद्धि-प्रतिषेध-अर्थः । यग्-विधाने कर्मक्र्तर्य्-उपसङ्ख्यानम् । विप्रतिषेधाद् धि यकः शपो वलीयस्त्वम् । क्रियते कटः स्वयम् एव । पच्यते ओदनः स्वयम् एव ॥ कर्तरि शप्
bhāvakarma-vācini sārvadhātuke parato dhatoḥ yak pratyayo bhavati / āsyate bhavatā / śayyate bhavatā / karmaṇi -- kriyate kaṭaḥ / gamyate grāmaḥ / kakāro guṇavṛddhi-pratiṣedha-arthaḥ / yag-vidhāne karmakrtary-upasaṅkhyānam / vipratiṣedhād dhi yakaḥ śapo valīyastvam / kriyate kaṭaḥ svayam eva / pacyate odanaḥ svayam eva // kartari śap
Sanskrit only: no published translation is held for this verse.
कर्तृ-वाचिनि सार्वधातुके परतो धातोः शप् प्रत्ययओ भवति । पकारः स्वरार्थः । शकारः सार्वधातुक-सञ्ज्ञ-अर्थः । भवति । पचति ॥ दिव्-आदिभ्यः श्यन्
kartṛ-vācini sārvadhātuke parato dhātoḥ śap pratyayao bhavati / pakāraḥ svarārthaḥ / śakāraḥ sārvadhātuka-sañjña-arthaḥ / bhavati / pacati // div-ādibhyaḥ śyan
Sanskrit only: no published translation is held for this verse.
दिव् इत्य् एवम् आदिभ्यः धातुभ्यः श्यन् पर्त्ययो भवति । शपो ऽपवादः । नकारः स्वर-अर्थः । शकारः सार्वधातुक-अर्थः । दीव्यति । सीव्यति ॥ वा भ्राश-भ्लाश-भ्रमु-क्रमु-क्लमु-त्रसि-त्रुति-लषः
div ity evam ādibhyaḥ dhātubhyaḥ śyan partyayo bhavati / śapo 'pavādaḥ / nakāraḥ svara-arthaḥ / śakāraḥ sārvadhātuka-arthaḥ / dīvyati / sīvyati // vā bhrāśa-bhlāśa-bhramu-kramu-klamu-trasi-truti-laṣaḥ
Sanskrit only: no published translation is held for this verse.
उभयत्र विभाषेयम् । टुभ्राशृ, दुभ्लाशृ दीप्तौ, भ्रमु अनवस्थाने, भ्रमु चलने, द्वयोर् अपि ग्रहणम्, क्रमु पादविक्षेपे, क्लमु ग्लानौ, त्रसी उद्वेगे, त्रुटी छेदने, लष कान्तौ, एतेभ्यो वा श्यन् प्रत्ययो भवति । भ्राश्यते, भ्राशते । भ्लाश्यते, भ्लाशते । भ्राम्यति, भ्रमति । क्राम्यति, क्रामति । क्लाम्यति, क्लामति । त्रस्यति, त्रसति । त्र्युट्यति, त्रुटति । लष्यति, लषति ॥ यसो ऽनुपसर्गात्
ubhayatra vibhāṣeyam / ṭubhrāśṛ, dubhlāśṛ dīptau, bhramu anavasthāne, bhramu calane, dvayor api grahaṇam, kramu pādavikṣepe, klamu glānau, trasī udvege, truṭī chedane, laṣa kāntau, etebhyo vā śyan pratyayo bhavati / bhrāśyate, bhrāśate / bhlāśyate, bhlāśate / bhrāmyati, bhramati / krāmyati, krāmati / klāmyati, klāmati / trasyati, trasati / tryuṭyati, truṭati / laṣyati, laṣati // yaso 'nupasargāt
Sanskrit only: no published translation is held for this verse.
संयसश् च
saṃyasaś ca
Sanskrit only: no published translation is held for this verse.
सोपसर्ग-अर्थ आरम्भः । सम्पूर्वाच् च यसेः वा श्यन् प्रत्ययो भवति । संयस्यति, संयसति ॥ स्व्-आदिभ्यः श्नुः
sopasarga-artha ārambhaḥ / sampūrvāc ca yaseḥ vā śyan pratyayo bhavati / saṃyasyati, saṃyasati // sv-ādibhyaḥ śnuḥ
Sanskrit only: no published translation is held for this verse.
षूञ् अभिषवे, इत्य् एवम् आदिभ्यो धातुभ्यः श्नुप्रत्ययो भवति । शपो ऽपवादः । सुनोति । सिनोति ॥ श्रुवः शृ च
ṣūñ abhiṣave, ity evam ādibhyo dhātubhyaḥ śnupratyayo bhavati / śapo 'pavādaḥ / sunoti / sinoti // śruvaḥ śṛ ca
Sanskrit only: no published translation is held for this verse.
श्रुवः श्नु-प्रत्ययो भवति, तत्संनियोगेन श्रुवः शृ इत्य् अयम् आदेशो भवति । शृणोति, शृणुतः, शॄण्वन्ति ॥ अक्षो ऽन्यतरस्याम्
śruvaḥ śnu-pratyayo bhavati, tatsaṃniyogena śruvaḥ śṛ ity ayam ādeśo bhavati / śṛṇoti, śṛṇutaḥ, śṝṇvanti // akṣo 'nyatarasyām
Sanskrit only: no published translation is held for this verse.
अक्षू व्याप्तौ । भौवादिकः । अस्माद् अन्यतरस्यां श्नु-प्रत्ययो भवति । अक्ष्णोति, अक्षति ॥ तनू-करणे तक्षः
akṣū vyāptau / bhauvādikaḥ / asmād anyatarasyāṃ śnu-pratyayo bhavati / akṣṇoti, akṣati // tanū-karaṇe takṣaḥ
Sanskrit only: no published translation is held for this verse.
तक्षू त्वक्षू तनू-करणे, अस्मात् तनूकरणे वर्तमानात् अनतरस्यां श्नु-प्रत्ययो भवति । अनेकार्थत्वाद् धातूनां विशेषण-उपादानम् । तक्ष्णोति काष्ठम्, तक्षति काष्ठम् । तनूकरणे इति किम् ? संतक्षति वाग्भिः ॥ तुद्-आदिभ्यः शः
takṣū tvakṣū tanū-karaṇe, asmāt tanūkaraṇe vartamānāt anatarasyāṃ śnu-pratyayo bhavati / anekārthatvād dhātūnāṃ viśeṣaṇa-upādānam / takṣṇoti kāṣṭham, takṣati kāṣṭham / tanūkaraṇe iti kim ? saṃtakṣati vāgbhiḥ // tud-ādibhyaḥ śaḥ
Sanskrit only: no published translation is held for this verse.
तुद व्यथने इत्य् एवम् आदिभ्यो धातुभ्यः श-प्रत्ययो भवति । शपो ऽपवादः । शकारः सार्वधातुकसञ्ज्ञ-अर्थः । तुदति । नुदति ॥ रुद्ः-आदिभ्यः श्नम्
tuda vyathane ity evam ādibhyo dhātubhyaḥ śa-pratyayo bhavati / śapo 'pavādaḥ / śakāraḥ sārvadhātukasañjña-arthaḥ / tudati / nudati // rudḥ-ādibhyaḥ śnam
Sanskrit only: no published translation is held for this verse.
तन्-आदि-कृञ्भ्यः उः
tan-ādi-kṛñbhyaḥ uḥ
Sanskrit only: no published translation is held for this verse.
तनु विस्तारे इत्य् एवम् आदिभ्यो धातुभ्यः कृञश् च उ-प्रत्ययो भवति । शपो ऽपवादः । तनोति । सनोति । क्षणोति । कृञः खल्व् अपि - करोति । तनादि-पाठाद् एव उ-प्रत्यये सिद्धे करोतेर् उपादानं नियम-अर्थम्, अन्यत् तन्-आदि-कार्यं मा भूत् इति । तन्-आदिभ्यस् त-थासोः (*२,४।७९) । इति विभाषा सिचो लुग् न भवति । अकृत । अकृथाः ॥ धिन्वि-कृण्व्योर् अ च
tanu vistāre ity evam ādibhyo dhātubhyaḥ kṛñaś ca u-pratyayo bhavati / śapo 'pavādaḥ / tanoti / sanoti / kṣaṇoti / kṛñaḥ khalv api - karoti / tanādi-pāṭhād eva u-pratyaye siddhe karoter upādānaṃ niyama-artham, anyat tan-ādi-kāryaṃ mā bhūt iti / tan-ādibhyas ta-thāsoḥ (*2,4.79) / iti vibhāṣā sico lug na bhavati / akṛta / akṛthāḥ // dhinvi-kṛṇvyor a ca
Sanskrit only: no published translation is held for this verse.
हिवि, धिवि जिवि प्रीणन-अर्थाः, कृवि हिंसाकरणयोः, इत्य् एतयोः धात्वोः उ-प्रत्ययो भवति, अकारश् च अन्तादेशः । धिनोति । कृणोति । अतो लोपस्य स्थानिवद्भावात् गुणो न भवति ॥ क्र्य्-आदिभ्यः श्ना
hivi, dhivi jivi prīṇana-arthāḥ, kṛvi hiṃsākaraṇayoḥ, ity etayoḥ dhātvoḥ u-pratyayo bhavati, akāraś ca antādeśaḥ / dhinoti / kṛṇoti / ato lopasya sthānivadbhāvāt guṇo na bhavati // kry-ādibhyaḥ śnā
Sanskrit only: no published translation is held for this verse.
डुक्रीञ् द्रव्यविनिमये इत्य् एवम् आदिभ्यः धातुभ्यः श्ना प्रत्ययो भवति । शपो ऽपवादः । शकारः सार्वधातुक-सञ्ज्ञ-अर्थः । क्रीणाति । प्रीणाति ॥ स्तम्भु-स्तुम्भु-स्कम्भु-स्कुम्भु-स्कुञ्भ्यः श्नुश् च
ḍukrīñ dravyavinimaye ity evam ādibhyaḥ dhātubhyaḥ śnā pratyayo bhavati / śapo 'pavādaḥ / śakāraḥ sārvadhātuka-sañjña-arthaḥ / krīṇāti / prīṇāti // stambhu-stumbhu-skambhu-skumbhu-skuñbhyaḥ śnuś ca
Sanskrit only: no published translation is held for this verse.
आद्याश् चत्वारो धातवः सौत्राः, स्कुञ् आप्रवणे, एतेभ्यः श्ना प्रत्ययो भवति, श्नुः च । स्तभ्नाति, स्तभ्नोति । स्तुभ्नाति, स्तुभ्नोति । स्कभ्नाति, स्कभ्नोति । स्कुभ्नाति, स्कुभ्नोति । स्कुनाति, स्कुनोति । उदित्त्व-प्रतिज्ञानात् सौत्राणाम् अपि धातूनां सर्वार्थत्वं विज्ञायते, न+एतद् विकरण-विषयत्वम् एव ॥ हलः श्नः शानज्ज्ञौ
ādyāś catvāro dhātavaḥ sautrāḥ, skuñ āpravaṇe, etebhyaḥ śnā pratyayo bhavati, śnuḥ ca / stabhnāti, stabhnoti / stubhnāti, stubhnoti / skabhnāti, skabhnoti / skubhnāti, skubhnoti / skunāti, skunoti / udittva-pratijñānāt sautrāṇām api dhātūnāṃ sarvārthatvaṃ vijñāyate, na+etad vikaraṇa-viṣayatvam eva // halaḥ śnaḥ śānajjñau
Sanskrit only: no published translation is held for this verse.
छन्दसि शायज् अपि
chandasi śāyaj api
Sanskrit only: no published translation is held for this verse.
छन्दसि विषये श्नः शायच् आदेशो भवति, शानज् अपि । गृभाय जिह्वया मधु । शानचः खल्व् अपि - बधान देव सवितः ॥ व्यत्ययो बहुलम्
chandasi viṣaye śnaḥ śāyac ādeśo bhavati, śānaj api / gṛbhāya jihvayā madhu / śānacaḥ khalv api - badhāna deva savitaḥ // vyatyayo bahulam
Sanskrit only: no published translation is held for this verse.
यथायथं विकरणाः शबादयो विहिताः, तेषां छन्दसि विषये बहुलं व्यत्ययो भवति । व्यतिगमनं व्यत्ययः, व्यतिहारः । विषयान्तरे विधानम्, क्वचिद् द्विविकरणता, क्वचित् त्रिविकरणता च । आण्डा शुष्णस्य भेदति । भिनत्ति इति प्राप्ते । ताश्चिन्नौ न मरन्ति । न म्रियन्ते इति प्राप्ते । द्विविकरणता - इन्द्रो वस्तेन नेषतु । नयतु इति प्राप्ते । त्रिविकरणता - इन्द्रेण युजा तरुषेम वृत्रम् । तीर्यस्म इति प्राप्ते । बहुल-ग्रहणं सर्वविधि-व्यभिचार-अर्थम् । सुप्तिङुपग्रलिङ्गनरणां कालहलच्स्वरकर्तृयङां च । व्यत्ययमिच्छति शास्त्रकृदेषां सो ऽपि च सिध्यति बहुलकेन ॥ लिङ्य् आशिष्य् अङ्
yathāyathaṃ vikaraṇāḥ śabādayo vihitāḥ, teṣāṃ chandasi viṣaye bahulaṃ vyatyayo bhavati / vyatigamanaṃ vyatyayaḥ, vyatihāraḥ / viṣayāntare vidhānam, kvacid dvivikaraṇatā, kvacit trivikaraṇatā ca / āṇḍā śuṣṇasya bhedati / bhinatti iti prāpte / tāścinnau na maranti / na mriyante iti prāpte / dvivikaraṇatā - indro vastena neṣatu / nayatu iti prāpte / trivikaraṇatā - indreṇa yujā taruṣema vṛtram / tīryasma iti prāpte / bahula-grahaṇaṃ sarvavidhi-vyabhicāra-artham / suptiṅupagraliṅganaraṇāṃ kālahalacsvarakartṛyaṅāṃ ca / vyatyayamicchati śāstrakṛdeṣāṃ so 'pi ca sidhyati bahulakena // liṅy āśiṣy aṅ
Sanskrit only: no published translation is held for this verse.
कर्मवत् कर्मणा तुल्यक्रियः
karmavat karmaṇā tulyakriyaḥ
Sanskrit only: no published translation is held for this verse.
कर्मणि क्रिया कर्म, कर्मस्थया क्रियया तुल्यक्रियः कर्ता कर्मवद् भवति । यस्मिन् कर्मणि कर्तृभूते ऽपि तद्वत् क्रिया लक्ष्यते यथा कर्मणि, स कर्ता कर्मवद् भवति । कर्माश्रयाणि कार्याणि प्रतिपद्यते । कर्तरि शप् (*३,१।६८) इति कर्तृ-ग्रहणम् इह अनुवृत्तं प्रथमया विपरिणम्यते । यगात्मनेपदचिण्चिण्वद्भावाः प्रयोजनम् । भिद्यते काष्ठं स्वयम् एव । अभेदि काष्ठं स्वयम् एव । कारिष्यते कटः स्वयम् एव । वत्करणं स्वाश्रयम् अपि यथा स्यात्, भिद्यते कुसूलेन इति । अकर्मकाणां भावे लः सिद्धो भवति । लिङ्य्-आशि-ष्यङ् (*३,१।८६) इति द्विलकारको निर्देशः । तत्र लानुवृत्तेर् लान्तस्य कर्ता कर्मवद् भवति इति कुसूलाद् द्वितीया न भवति । कर्मणा इति किम् ? करण-अधिकरण-अभ्यां तुल्यक्रियस्य मा भूत् । साध्वसिश्छिनत्ति । साधु स्थाली पचति । धात्व्-अधिकारात् समाने धातौ कर्मवद्-भावः । इह न भवति, पचत्य् ओदनं देवदत्तः, राध्यन्त्य् ओदनं स्वयम् एव इति । कर्मस्थभावकानां कर्मस्थक्रियाणां च कर्ता कर्मवद्भवति, न कर्तृस्थाभावकानां न वा कर्तृस्थ-क्रियाणाम् । कर्मस्थः पचतेर् भावः कर्मस्था च भिदेः क्रिया । मासासिभावः कर्तृस्थः कर्तृस्था च गमेः क्रिया ॥ तपस् तपः-कर्मकस्य+एव
karmaṇi kriyā karma, karmasthayā kriyayā tulyakriyaḥ kartā karmavad bhavati / yasmin karmaṇi kartṛbhūte 'pi tadvat kriyā lakṣyate yathā karmaṇi, sa kartā karmavad bhavati / karmāśrayāṇi kāryāṇi pratipadyate / kartari śap (*3,1.68) iti kartṛ-grahaṇam iha anuvṛttaṃ prathamayā vipariṇamyate / yagātmanepadaciṇciṇvadbhāvāḥ prayojanam / bhidyate kāṣṭhaṃ svayam eva / abhedi kāṣṭhaṃ svayam eva / kāriṣyate kaṭaḥ svayam eva / vatkaraṇaṃ svāśrayam api yathā syāt, bhidyate kusūlena iti / akarmakāṇāṃ bhāve laḥ siddho bhavati / liṅy-āśi-ṣyaṅ (*3,1.86) iti dvilakārako nirdeśaḥ / tatra lānuvṛtter lāntasya kartā karmavad bhavati iti kusūlād dvitīyā na bhavati / karmaṇā iti kim ? karaṇa-adhikaraṇa-abhyāṃ tulyakriyasya mā bhūt / sādhvasiśchinatti / sādhu sthālī pacati / dhātv-adhikārāt samāne dhātau karmavad-bhāvaḥ / iha na bhavati, pacaty odanaṃ devadattaḥ, rādhyanty odanaṃ svayam eva iti / karmasthabhāvakānāṃ karmasthakriyāṇāṃ ca kartā karmavadbhavati, na kartṛsthābhāvakānāṃ na vā kartṛstha-kriyāṇām / karmasthaḥ pacater bhāvaḥ karmasthā ca bhideḥ kriyā / māsāsibhāvaḥ kartṛsthaḥ kartṛsthā ca gameḥ kriyā // tapas tapaḥ-karmakasya+eva
Sanskrit only: no published translation is held for this verse.
तप सन्तापे, अस्य कर्ता कर्मवद्भावति, स च तपः-कर्मकस्य+एव न अन्यकर्मकस्य । क्रियाभेदाद् विध्य्-अर्थम् एतत् । उपवासादीनि तपांसि तापसं तपन्ति । दुःखयन्ति इत्य् अर्थः । स तापसस्त्वगस्थिभूतः स्वर्गाय तपस्तप्यते । अर्जयति इत्य् अर्थः । पूर्वेण अप्राप्तः कर्मवद्भावो विधीयते । तप्यते तपस्तापसः । अतप्त तपस्तापसः । तपःकर्मकस्य+एव इति किम् ? उत्तपति सुवर्णं सुवर्णकारः ॥ न दुह-स्नु-नमां यक्-चिणौ
tapa santāpe, asya kartā karmavadbhāvati, sa ca tapaḥ-karmakasya+eva na anyakarmakasya / kriyābhedād vidhy-artham etat / upavāsādīni tapāṃsi tāpasaṃ tapanti / duḥkhayanti ity arthaḥ / sa tāpasastvagasthibhūtaḥ svargāya tapastapyate / arjayati ity arthaḥ / pūrveṇa aprāptaḥ karmavadbhāvo vidhīyate / tapyate tapastāpasaḥ / atapta tapastāpasaḥ / tapaḥkarmakasya+eva iti kim ? uttapati suvarṇaṃ suvarṇakāraḥ // na duha-snu-namāṃ yak-ciṇau
Sanskrit only: no published translation is held for this verse.
अग्रन्थिष्ट श्लोकः स्वयम् एव । ब्रवीति श्लोकं देवदत्तः । ब्रूते श्लोकः स्वयम् एव । अवोचत् श्लोकं देवदत्तः । अवोचत श्लोकः स्वयम् एव । आत्मनेपद-विधाने ऽकर्मकाणाम् - आहन्ति माणवकं देवदत्तः । आहते माणवकः स्वयम् एव । आवधिष्ट मानवकः स्वयम् एव, आहत इति वा । विकुर्वते सैन्धवाः स्वयम् एव । व्यकृषत सैन्धवः स्वयम् एव ॥ कुषि-रजोः प्राचां श्यन् परस्मैपदं च
agranthiṣṭa ślokaḥ svayam eva / bravīti ślokaṃ devadattaḥ / brūte ślokaḥ svayam eva / avocat ślokaṃ devadattaḥ / avocata ślokaḥ svayam eva / ātmanepada-vidhāne 'karmakāṇām - āhanti māṇavakaṃ devadattaḥ / āhate māṇavakaḥ svayam eva / āvadhiṣṭa mānavakaḥ svayam eva, āhata iti vā / vikurvate saindhavāḥ svayam eva / vyakṛṣata saindhavaḥ svayam eva // kuṣi-rajoḥ prācāṃ śyan parasmaipadaṃ ca
Sanskrit only: no published translation is held for this verse.
कुष निष्कर्षे, रञ्ज रागे, अनयोर् धात्वोः कर्मकर्तरि प्राचाम् आचार्याणां मतेन श्यन् प्रत्ययो भवति, परस्मैपदं च । यग्-आत्मनेपदयोर् अपवादौ । कुष्यति पादः स्वयम् एव । रज्यति वस्त्रं स्वयम् एव । प्राचां ग्रहणं विकल्प-अर्थम् । कुष्यते । रज्यते । व्यवस्थित-विभाषा च+इयम् । तेन लिट्-लिङोः स्यादि-विषये च न भवतः । चुकुषे पादः स्वयम् एव । ररञ्जे वस्त्रं स्वयम् एव । कोषिषीष्ट पादः स्वयम् एव । रङ्क्षीष्ट वस्त्रं स्वयम् एव । कोषिष्यते पादः स्वयम् एव । रङ्क्ष्यते वस्त्रं स्वयम् एव । अकोषि पादः स्वयम् एव । अरञ्जि वस्त्रं स्वयम् एव ॥ धातोः
kuṣa niṣkarṣe, rañja rāge, anayor dhātvoḥ karmakartari prācām ācāryāṇāṃ matena śyan pratyayo bhavati, parasmaipadaṃ ca / yag-ātmanepadayor apavādau / kuṣyati pādaḥ svayam eva / rajyati vastraṃ svayam eva / prācāṃ grahaṇaṃ vikalpa-artham / kuṣyate / rajyate / vyavasthita-vibhāṣā ca+iyam / tena liṭ-liṅoḥ syādi-viṣaye ca na bhavataḥ / cukuṣe pādaḥ svayam eva / rarañje vastraṃ svayam eva / koṣiṣīṣṭa pādaḥ svayam eva / raṅkṣīṣṭa vastraṃ svayam eva / koṣiṣyate pādaḥ svayam eva / raṅkṣyate vastraṃ svayam eva / akoṣi pādaḥ svayam eva / arañji vastraṃ svayam eva // dhātoḥ
Sanskrit only: no published translation is held for this verse.
धातोः इत्य् अयम् अधिकारो वेदितवय्ः । आतृतीयाध्याय-परिसमाप्तेः यदित ऊर्ध्वम् अनुक्रमिष्यामो धातोः इत्य् एवं तद् वेदितव्यम् । वक्ष्यति - तव्यत्-तव्य-अनीयरः (*३,१।९६) इति । कर्तव्यम् । करणीयम् । धातु-ग्रहनम् अनकर्थकं यङ्-विधौ धात्व्-अधिकारात् । कृदुपपद-सज्ञ-अर्थं तर्हि, अस्मिन् धात्व्-अधिकारे ते यथा स्यातां, पूर्वत्र मा भूताम् इति । आर्धधातुक-सञ्ज्ञ-अर्थं च द्वितीयं धातु-ग्रहणं कर्तव्यम् । धातोः इत्य् एवं विहितस्य यथा स्यात् । इह मा भूत्, लूभ्याम्, लूभिः इति ॥ तत्र+उपपदं सप्तमीस्थम्
dhātoḥ ity ayam adhikāro veditavayḥ / ātṛtīyādhyāya-parisamāpteḥ yadita ūrdhvam anukramiṣyāmo dhātoḥ ity evaṃ tad veditavyam / vakṣyati - tavyat-tavya-anīyaraḥ (*3,1.96) iti / kartavyam / karaṇīyam / dhātu-grahanam anakarthakaṃ yaṅ-vidhau dhātv-adhikārāt / kṛdupapada-sajña-arthaṃ tarhi, asmin dhātv-adhikāre te yathā syātāṃ, pūrvatra mā bhūtām iti / ārdhadhātuka-sañjña-arthaṃ ca dvitīyaṃ dhātu-grahaṇaṃ kartavyam / dhātoḥ ity evaṃ vihitasya yathā syāt / iha mā bhūt, lūbhyām, lūbhiḥ iti // tatra+upapadaṃ saptamīstham
Sanskrit only: no published translation is held for this verse.
कृद् अतिङ्
kṛd atiṅ
Sanskrit only: no published translation is held for this verse.
अस्मिन् धात्व्-अधिकारे तिङ्-वर्जितः प्रत्ययः कृत्-सज्ञको भवति । कर्तव्यम् । करणीयम् । अतिङ इति किम् ? चीयात् । स्तूयात् । कृत्प्रदेशाः -- कृत्-तद्धित-समासश् च (*१,२।४६) इत्य् एवम् आदयः ॥ वा ऽसरूपो ऽस्त्रियाम्
asmin dhātv-adhikāre tiṅ-varjitaḥ pratyayaḥ kṛt-sajñako bhavati / kartavyam / karaṇīyam / atiṅa iti kim ? cīyāt / stūyāt / kṛtpradeśāḥ -- kṛt-taddhita-samāsaś ca (*1,2.46) ity evam ādayaḥ // vā 'sarūpo 'striyām
Sanskrit only: no published translation is held for this verse.
अस्मिन् धात्व्-अधिकारे ऽस्मानरूपः प्रत्ययो ऽपवादो वा बाधको भवति स्त्र्यधिकार-विहित-प्रत्ययं वर्जयित्वा । ण्वुल्-तृचौ (*३,१।१३३) उत्सर्गौ, इगुपध-ज्ञा-प्रि-इकिरः कः (*३,१।१३५) इत्य् अपवादः, तद्-विषये ण्वुल्-तृचौ (*३,१।१३३) अपि भवतः । विक्षेपकः, विक्षेप्ता, विक्षिपः । असरूप इति किम् ? कर्मण्य्-अण् (*३,२।१) इत्य् उत्सर्गः, आतो ऽनुपसर्गे कः (*३,२।३) इत्य् अपवादः, सनित्यं बाधको भवति । गोदः । कम्बलदः । न अमुबन्ध-कृतम् असारूप्यम् । अस्त्रियाम् इति किम् ? स्त्रियां कितन् (*३,३।९४) इत्य् उत्सर्गः, अ प्रत्ययात् (*३,३।१०२) इत्य् अपवदः, स बाधक एव भवति । चिकीर्षा जिहीर्षा ॥ कृत्याः प्रग्ण् वुलः
asmin dhātv-adhikāre 'smānarūpaḥ pratyayo 'pavādo vā bādhako bhavati stryadhikāra-vihita-pratyayaṃ varjayitvā / ṇvul-tṛcau (*3,1.133) utsargau, igupadha-jñā-pri-ikiraḥ kaḥ (*3,1.135) ity apavādaḥ, tad-viṣaye ṇvul-tṛcau (*3,1.133) api bhavataḥ / vikṣepakaḥ, vikṣeptā, vikṣipaḥ / asarūpa iti kim ? karmaṇy-aṇ (*3,2.1) ity utsargaḥ, āto 'nupasarge kaḥ (*3,2.3) ity apavādaḥ, sanityaṃ bādhako bhavati / godaḥ / kambaladaḥ / na amubandha-kṛtam asārūpyam / astriyām iti kim ? striyāṃ kitan (*3,3.94) ity utsargaḥ, a pratyayāt (*3,3.102) ity apavadaḥ, sa bādhaka eva bhavati / cikīrṣā jihīrṣā // kṛtyāḥ pragṇ vulaḥ
Sanskrit only: no published translation is held for this verse.
ण्वुल्-तृचौ (*३,१।१३३) इति वक्ष्यति । प्राग् एतस्माण् ण्वुल्संशब्दनाद् यानित ऊर्ध्वम् अनुक्रमिष्यामः, कृत्य-सञ्जकस्ते वेदितव्याः । तत्र+एव+उदाहरिस्यामः । कृत्य-प्रदेशः - कृत्यैर् अधिक-आर्थ-वचने (*२,१।३३), कृत्यानां कर्तरि वा (*२,३।७१) इत्य् एवम् आदयः ॥ तव्यत्-तव्य-अनीयरः
ṇvul-tṛcau (*3,1.133) iti vakṣyati / prāg etasmāṇ ṇvulsaṃśabdanād yānita ūrdhvam anukramiṣyāmaḥ, kṛtya-sañjakaste veditavyāḥ / tatra+eva+udāharisyāmaḥ / kṛtya-pradeśaḥ - kṛtyair adhika-ārtha-vacane (*2,1.33), kṛtyānāṃ kartari vā (*2,3.71) ity evam ādayaḥ // tavyat-tavya-anīyaraḥ
Sanskrit only: no published translation is held for this verse.
अचो यत्
aco yat
Sanskrit only: no published translation is held for this verse.
अजन्ताद् धातोः यत् प्रत्ययो भवति । तकारो यतो ऽनावः (*६,१।२१३) इति स्वरार्थः । गेयम् । पेयम् । चेयम् । जेयम् । अज्-ग्रहणं किं यावता हलन्ताण् ण्यतं वक्ष्यति ? अजन्तभूत-पूर्वाद् अपि यथा स्यात्, दित्स्यम्, धित्स्यम् । तकिशसिचतियतिजनीनाम् उपसङ्ख्यानम् तकि -- तक्यम् । शसि -- शस्यम् । चति -- चत्यम् । यति -- यत्यम् । जनि -- जन्यम् । हनो वा वध च । वध्यम्, घात्यम् ॥ पोर् अद्-उपधात्
ajantād dhātoḥ yat pratyayo bhavati / takāro yato 'nāvaḥ (*6,1.213) iti svarārthaḥ / geyam / peyam / ceyam / jeyam / aj-grahaṇaṃ kiṃ yāvatā halantāṇ ṇyataṃ vakṣyati ? ajantabhūta-pūrvād api yathā syāt, ditsyam, dhitsyam / takiśasicatiyatijanīnām upasaṅkhyānam taki -- takyam / śasi -- śasyam / cati -- catyam / yati -- yatyam / jani -- janyam / hano vā vadha ca / vadhyam, ghātyam // por ad-upadhāt
Sanskrit only: no published translation is held for this verse.
पवर्ग-अन्ताद् धातोः अकारोपधात् यत् प्रययो भवति । ण्यतो ऽपवादः । शप् - शप्यम् । लभ - लभ्यम् । पोः इति किम् ? पाक्यम् । वाक्यम् । अदुपधात् इति किम् ? कोप्यम् । गोप्यम् । तपरकरणं तत्काल-अर्थम् । आप्यम् ॥ शकि-सहोश् च
pavarga-antād dhātoḥ akāropadhāt yat prayayo bhavati / ṇyato 'pavādaḥ / śap - śapyam / labha - labhyam / poḥ iti kim ? pākyam / vākyam / adupadhāt iti kim ? kopyam / gopyam / taparakaraṇaṃ tatkāla-artham / āpyam // śaki-sahoś ca
Sanskrit only: no published translation is held for this verse.
शकॢ शक्तौ, षह मर्षणे, अनयोर्धात्वोः यत् प्रययो भवति । शक्यम् । सह्यम् ॥ गद-मद-चर-यमश् च अनुपसर्गे
śakḷ śaktau, ṣaha marṣaṇe, anayordhātvoḥ yat prayayo bhavati / śakyam / sahyam // gada-mada-cara-yamaś ca anupasarge
Sanskrit only: no published translation is held for this verse.
अवद्य-पण्य-वर्या गर्ह्य-पणितव्य-अनिरोधेषु
avadya-paṇya-varyā garhya-paṇitavya-anirodheṣu
Sanskrit only: no published translation is held for this verse.
अवद्य पण्य वर्या इत्य् एते शब्दा निपात्यन्ते गर्ह्य पणितव्य अनिरोध इत्य् एतेष्व् अर्थेषु यथा-सङ्ख्यम् । अवध्यम् इति निपात्यते गर्ह्यं चेत् तद् भवति । अवद्यं पापम् । अनुद्यम् अन्यत् । वदः सुपि क्यप् च (*३,१।१०६) । पण्यम् इति निपात्यते, पणितव्यं चेत् तद् भवति । पण्यः कम्बलः । पण्या गौः । पाण्यम् अन्यत् । वर्या इति स्त्रियां निपात्यते, अनिरोधश् चेद् भवति । अनिरोधो ऽप्रतिबन्धः । शतेन वर्या । सहस्रेण वर्या । वृत्या अन्या । स्त्रीलिङ्ग-निर्देशः किम् अर्थः ? वार्या ऋत्विजः ॥ वह्यं करणम्
avadya paṇya varyā ity ete śabdā nipātyante garhya paṇitavya anirodha ity eteṣv artheṣu yathā-saṅkhyam / avadhyam iti nipātyate garhyaṃ cet tad bhavati / avadyaṃ pāpam / anudyam anyat / vadaḥ supi kyap ca (*3,1.106) / paṇyam iti nipātyate, paṇitavyaṃ cet tad bhavati / paṇyaḥ kambalaḥ / paṇyā gauḥ / pāṇyam anyat / varyā iti striyāṃ nipātyate, anirodhaś ced bhavati / anirodho 'pratibandhaḥ / śatena varyā / sahasreṇa varyā / vṛtyā anyā / strīliṅga-nirdeśaḥ kim arthaḥ ? vāryā ṛtvijaḥ // vahyaṃ karaṇam
Sanskrit only: no published translation is held for this verse.
वहेर् धातोः करणे यत् प्रत्ययो निपात्यते । वहत्य् अनेन इति वह्यं शकटम् । करणे इति किम् ? वाह्यम् अन्यत् ॥ अर्यः स्वमि-वैश्ययोः
vaher dhātoḥ karaṇe yat pratyayo nipātyate / vahaty anena iti vahyaṃ śakaṭam / karaṇe iti kim ? vāhyam anyat // aryaḥ svami-vaiśyayoḥ
Sanskrit only: no published translation is held for this verse.
ऋ गतौ, अस्माण् ण्यति प्राप्ते स्वामि-वैश्ययोः अभिधेययोः यत् प्रत्ययो निपत्यते । अर्यः स्वामी । अर्यो वैश्यः । यतो ऽनावः (*६,१।२१३) इत्य् आद्य्-उदात्तत्वे प्राप्ते - स्वामिन्यन्तोदात्तत्वं च वक्तव्यम् । स्वामि-वैश्ययोः इति किम् ? आर्यो ब्राह्मणः ॥ उपसर्या काल्या प्रजने
ṛ gatau, asmāṇ ṇyati prāpte svāmi-vaiśyayoḥ abhidheyayoḥ yat pratyayo nipatyate / aryaḥ svāmī / aryo vaiśyaḥ / yato 'nāvaḥ (*6,1.213) ity ādy-udāttatve prāpte - svāminyantodāttatvaṃ ca vaktavyam / svāmi-vaiśyayoḥ iti kim ? āryo brāhmaṇaḥ // upasaryā kālyā prajane
Sanskrit only: no published translation is held for this verse.
उपसर्या इति निपात्यते काल्या चेत् प्रजने भवति । उपपूर्वात् सर्तेः यत् प्रत्ययः । प्रप्तकाला काल्या । प्रजनः प्रजननं, प्रथमगर्भ-ग्रहणम् । गर्भ-ग्रहणे प्रप्तकाला । उपसर्या गौः । उपसर्या वडवा । काल्या प्रजने इति किम् ? उपसार्या शरदि मधुरा ॥ अजर्यं सङ्गतम्
upasaryā iti nipātyate kālyā cet prajane bhavati / upapūrvāt sarteḥ yat pratyayaḥ / praptakālā kālyā / prajanaḥ prajananaṃ, prathamagarbha-grahaṇam / garbha-grahaṇe praptakālā / upasaryā gauḥ / upasaryā vaḍavā / kālyā prajane iti kim ? upasāryā śaradi madhurā // ajaryaṃ saṅgatam
Sanskrit only: no published translation is held for this verse.
वदः सुपि क्यप् च
vadaḥ supi kyap ca
Sanskrit only: no published translation is held for this verse.
अनुपसर्गे इति वर्तते । वदेर् धातोः सुबन्तोः उपपदे अनुपसर्गे क्यप् प्रत्ययो भवति, चकाराद् यत् च । ब्रह्मोद्यम्, ब्रह्मवद्यम् । सत्योद्यम्, सत्यवद्यम् । सुपि इति किम् ? वाद्यम् । अनुपसर्गे इत्य् एव, प्रवाद्यम् ॥ भुवो भावे
anupasarge iti vartate / vader dhātoḥ subantoḥ upapade anupasarge kyap pratyayo bhavati, cakārād yat ca / brahmodyam, brahmavadyam / satyodyam, satyavadyam / supi iti kim ? vādyam / anupasarge ity eva, pravādyam // bhuvo bhāve
Sanskrit only: no published translation is held for this verse.
सुप्य् अनुपसर्गे इत्य् अनुवर्तते । भवतेर् धातोः सुबन्ते उपपदे ऽनुपसर्गे भावे क्यप् प्रत्ययो भवति । यत् तु न अनुवर्तते । ब्रह्म-भूयं गतः ब्रहंत्वं गतः । देव-भूयं, देवत्वं गतः । भाव-ग्रहणम् उत्तर-अर्थम् । सुपि इत्य् एव, भव्यम् । अनुपसर्गे इत्य् एव, प्रभव्यम् ॥ हनस् त च
supy anupasarge ity anuvartate / bhavater dhātoḥ subante upapade 'nupasarge bhāve kyap pratyayo bhavati / yat tu na anuvartate / brahma-bhūyaṃ gataḥ brahaṃtvaṃ gataḥ / deva-bhūyaṃ, devatvaṃ gataḥ / bhāva-grahaṇam uttara-artham / supi ity eva, bhavyam / anupasarge ity eva, prabhavyam // hanas ta ca
Sanskrit only: no published translation is held for this verse.
सुप्य् अनुपसर्गे इति वर्तते, भावे इति च । हन्तेर् धातोः सुबन्त उपपदे ऽनुपसर्गे भावे क्यप् प्रत्ययो भवति, तकारश् चान्तादेशः । ब्रहमहत्या । अश्वहत्या । सुपि इत्य् एव, घातः । ण्यत् तु भावे न भव्त्य् अनभिधानात् । अनुपसर्गे इत्य् एव, प्रघातो वर्तते ॥ एति-स्तु-शास्-वृ-दृ-जुषः क्यप्
supy anupasarge iti vartate, bhāve iti ca / hanter dhātoḥ subanta upapade 'nupasarge bhāve kyap pratyayo bhavati, takāraś cāntādeśaḥ / brahamahatyā / aśvahatyā / supi ity eva, ghātaḥ / ṇyat tu bhāve na bhavty anabhidhānāt / anupasarge ity eva, praghāto vartate // eti-stu-śās-vṛ-dṛ-juṣaḥ kyap
Sanskrit only: no published translation is held for this verse.
ऋद् उपधाच् च अकॢपि-चृतेः
ṛd upadhāc ca akḷpi-cṛteḥ
Sanskrit only: no published translation is held for this verse.
ऋकार-उपधाच् च धातोः क्यप् प्रत्ययो भवति कॢपि-चृती वर्जयित्वा । वृतु - वृत्यम् । वृधु - वृध्यम् अकॢपि-चृतेः इति किम् ? कल्प्यम् । चर्त्यम् । तपरकरणम् किम् ? कॄत संशब्दने । ण्यद् एव भवति कीर्त्यम् । पाणौ सृजेर् ण्यद् वक्तव्यः । पाणिसर्ग्या रज्जुः । समवपूर्वाच् च । समवसर्ग्या ॥ ई च खनः
ṛkāra-upadhāc ca dhātoḥ kyap pratyayo bhavati kḷpi-cṛtī varjayitvā / vṛtu - vṛtyam / vṛdhu - vṛdhyam akḷpi-cṛteḥ iti kim ? kalpyam / cartyam / taparakaraṇam kim ? kṝta saṃśabdane / ṇyad eva bhavati kīrtyam / pāṇau sṛjer ṇyad vaktavyaḥ / pāṇisargyā rajjuḥ / samavapūrvāc ca / samavasargyā // ī ca khanaḥ
Sanskrit only: no published translation is held for this verse.
खनेर् धातोः क्यप् प्रत्ययो भवति, ईकारश् च अन्तादेशः । खेयम् । दीर्घ-निर्देशः प्रश्लेष-अर्थः । तत्र द्वितीय इकारो ये विभाषा (*६,४।४३) इति आत्त्वबाधनार्थः ॥ भृञो ऽसञ्ज्ञायाम्
khaner dhātoḥ kyap pratyayo bhavati, īkāraś ca antādeśaḥ / kheyam / dīrgha-nirdeśaḥ praśleṣa-arthaḥ / tatra dvitīya ikāro ye vibhāṣā (*6,4.43) iti āttvabādhanārthaḥ // bhṛño 'sañjñāyām
Sanskrit only: no published translation is held for this verse.
भृञो धतोः असञ्ज्ञायां विषये क्यप् प्रययो भवति । भृत्याः कर्मकराः । भर्तव्याः इत्य् अर्थः । असञ्ज्ञायाम् इति किम् ? भार्यो नाम क्षत्रियः । सम्पूर्वाद् विभाषा । सम्भृत्याः, सम्भार्याः । सञ्ज्ञायां पुंसि दृष्टत्वान् न ते भार्या प्रसिध्यति । स्त्रियां भाव-अधिकारो ऽस्ति तेन भार्य प्रसिध्यति ॥ मृजेर् विभाषा
bhṛño dhatoḥ asañjñāyāṃ viṣaye kyap prayayo bhavati / bhṛtyāḥ karmakarāḥ / bhartavyāḥ ity arthaḥ / asañjñāyām iti kim ? bhāryo nāma kṣatriyaḥ / sampūrvād vibhāṣā / sambhṛtyāḥ, sambhāryāḥ / sañjñāyāṃ puṃsi dṛṣṭatvān na te bhāryā prasidhyati / striyāṃ bhāva-adhikāro 'sti tena bhārya prasidhyati // mṛjer vibhāṣā
Sanskrit only: no published translation is held for this verse.
राजसूय-सूर्य-मृषोद्य-रुच्य-कुप्य-कृष्टपच्य-अव्यथ्याः
rājasūya-sūrya-mṛṣodya-rucya-kupya-kṛṣṭapacya-avyathyāḥ
Sanskrit only: no published translation is held for this verse.
राजसुय सुर्य मृषोद्य रुच्य कुप्य कृष्टपच्य अव्यथ्य इत्य् एते शब्दाः क्यपि निपात्यन्ते । राज्ञा सोतव्यः, राजा वा इह सूयते राजसूयः क्रतुः । सूसर्तिभ्यां क्यप्, सर्तेर् उत्वं, सुबतेर् वा रुडागमः । सरति सुवति व सूर्यः । मृषापूर्वस्य वदतेः पक्षे यति प्राप्ते नित्यं क्यब् निपात्यते । मृषा-पूर्वस्य मृषोद्यम् । रोचते ऽसौ रुच्यः । कर्तरि क्यप् । गुपेर् आदेः क्त्वं च सज्ञायाम् । कुप्यम् । गोप्यम् अन्यत् । कृष्टे पच्यन्ते कृष्टप्च्याः । कर्मकर्तरि निपातनम् । न व्यथते अव्यथ्यः ॥ भिद्य-उद्ध्यौ नदे
rājasuya surya mṛṣodya rucya kupya kṛṣṭapacya avyathya ity ete śabdāḥ kyapi nipātyante / rājñā sotavyaḥ, rājā vā iha sūyate rājasūyaḥ kratuḥ / sūsartibhyāṃ kyap, sarter utvaṃ, subater vā ruḍāgamaḥ / sarati suvati va sūryaḥ / mṛṣāpūrvasya vadateḥ pakṣe yati prāpte nityaṃ kyab nipātyate / mṛṣā-pūrvasya mṛṣodyam / rocate 'sau rucyaḥ / kartari kyap / guper ādeḥ ktvaṃ ca sajñāyām / kupyam / gopyam anyat / kṛṣṭe pacyante kṛṣṭapcyāḥ / karmakartari nipātanam / na vyathate avyathyaḥ // bhidya-uddhyau nade
Sanskrit only: no published translation is held for this verse.
भिदेर् उज्झेश् च क्यप् निपात्यते नदे ऽभिधेये । उज्झेर् धत्त्वं च । भिनत्ति कूलं भिद्यः । उज्झति उदकम् उद्ध्यः । नदे इति किम् ? भेत्ता । उज्झिता ॥ पुष्य-सिद्ध्यौ नक्षत्रे
bhider ujjheś ca kyap nipātyate nade 'bhidheye / ujjher dhattvaṃ ca / bhinatti kūlaṃ bhidyaḥ / ujjhati udakam uddhyaḥ / nade iti kim ? bhettā / ujjhitā // puṣya-siddhyau nakṣatre
Sanskrit only: no published translation is held for this verse.
पुषेः सिधेश् च अधिकरणे क्यप् निपात्यते नक्षत्रे अभिधेये । पुष्यन्ति अस्मिन्न् अर्थाः इति पुष्यः । सिध्यन्ति अस्मिन्न् इति सिद्ध्यः । नक्षत्रे इति किम् ? पोषणम् । सेधनम् ॥ विपूय-विनीय-जित्या मुङ्ज-कल्क-हलिषु
puṣeḥ sidheś ca adhikaraṇe kyap nipātyate nakṣatre abhidheye / puṣyanti asminn arthāḥ iti puṣyaḥ / sidhyanti asminn iti siddhyaḥ / nakṣatre iti kim ? poṣaṇam / sedhanam // vipūya-vinīya-jityā muṅja-kalka-haliṣu
Sanskrit only: no published translation is held for this verse.
निपूय विनीय जित्य इत्य् एते शब्दा निपात्यन्ते यथा-सङ्ख्यं मुञ्ज कल्क हलि इत्य् एतेषु अर्थेषु वोध्येषु । विपूर्वात् पवतेर् नयतेश् च तथा जयतेर् यति प्राप्ते कर्मणि क्यब् निपात्यते । विपूयो मुञ्जः । विपाव्यम् अन्यत् । विनीयः क्ल्कः । विनेयम् अन्यत् । जित्यो हलिः । जेयम् अन्यत् ॥ प्रत्य्-अपिभ्यां ग्रहेश् छन्दसि
nipūya vinīya jitya ity ete śabdā nipātyante yathā-saṅkhyaṃ muñja kalka hali ity eteṣu artheṣu vodhyeṣu / vipūrvāt pavater nayateś ca tathā jayater yati prāpte karmaṇi kyab nipātyate / vipūyo muñjaḥ / vipāvyam anyat / vinīyaḥ klkaḥ / vineyam anyat / jityo haliḥ / jeyam anyat // praty-apibhyāṃ graheś chandasi
Sanskrit only: no published translation is held for this verse.
पद-अस्वैरि-बाह्या-पक्ष्येषु च
pada-asvairi-bāhyā-pakṣyeṣu ca
Sanskrit only: no published translation is held for this verse.
पदे अस्वैरिणि बाह्यायां पक्ष्ये चर्थे ग्रहेर् धातोः क्यप् प्रत्ययो भवति । पदे तावत् -- प्रगृह्यं पदम्, यस्य प्रगृह्य-सञ्ज्ञा विहिता । अवगृह्यं पदम्, यस्य अवग्रहः क्रियते । अस्वैरी परतन्त्रः । गृह्यका इमे । गृहीतका इत्य् अर्थः । बाह्यायम् -- ग्राम-गृह्या सेना । नगर-गृह्या सेना । ग्राम।-नगर-अभ्यां बहिर्-भूता इत्य् अर्थः । स्त्रीलिङ्गः निर्देशाद् अन्यत्र न भवति । पक्षे भवः पक्ष्यः । वासुदेव-गृह्याः । अर्जुन-गृह्याः । तत्पक्षाश्रिताः इत्य् अर्थः ॥ विभाषा कृ-वृषोः
pade asvairiṇi bāhyāyāṃ pakṣye carthe graher dhātoḥ kyap pratyayo bhavati / pade tāvat -- pragṛhyaṃ padam, yasya pragṛhya-sañjñā vihitā / avagṛhyaṃ padam, yasya avagrahaḥ kriyate / asvairī paratantraḥ / gṛhyakā ime / gṛhītakā ity arthaḥ / bāhyāyam -- grāma-gṛhyā senā / nagara-gṛhyā senā / grāma.-nagara-abhyāṃ bahir-bhūtā ity arthaḥ / strīliṅgaḥ nirdeśād anyatra na bhavati / pakṣe bhavaḥ pakṣyaḥ / vāsudeva-gṛhyāḥ / arjuna-gṛhyāḥ / tatpakṣāśritāḥ ity arthaḥ // vibhāṣā kṛ-vṛṣoḥ
Sanskrit only: no published translation is held for this verse.