तत्र धात्वधिकाराद् धतुभ्यः एव प्रत्ययो विधीयते, न तु प्रातिपदिकेभ्यः । तथा च गुणप्रतिषेध-अर्थः ककारो ऽनुबध्यते । धातुप्रकरणाद् धातुः कस्य चासञ्जनाद् अपि । आह च अयम् इमं दीर्घं मन्ये धतुर् विभाषितः ॥ कण्डूञ् -- कण्डूयति, कण्डूयते । ञित्वात् कर्त्र्-अभिप्राये क्रियाफले (*१,३।७२) इत्य् आत्मनेपदम् । कण्डूञ् । मन्तु । हृणीङ् । वल्गु । अस्मनस् । महीङ् । लेट् । लोट् । इरस् । इरज् । इरञ् । द्रवस् । मेधा । कुषुभ । मगध । तन्तस् । पम्पस् । सुख । दुःख । सपर । अरर । भिषज् । भिष्णज् । इषुध । चरण । चुरण । भुरण । तुरण । गद्गद । एला । केला । खेला । लिट् । लोट् ॥ गुपू-धूप-विच्छि-पणि-पनिभ्य आयः
tatra dhātvadhikārād dhatubhyaḥ eva pratyayo vidhīyate, na tu prātipadikebhyaḥ / tathā ca guṇapratiṣedha-arthaḥ kakāro 'nubadhyate / dhātuprakaraṇād dhātuḥ kasya cāsañjanād api / āha ca ayam imaṃ dīrghaṃ manye dhatur vibhāṣitaḥ // kaṇḍūñ -- kaṇḍūyati, kaṇḍūyate / ñitvāt kartr-abhiprāye kriyāphale (*1,3.72) ity ātmanepadam / kaṇḍūñ / mantu / hṛṇīṅ / valgu / asmanas / mahīṅ / leṭ / loṭ / iras / iraj / irañ / dravas / medhā / kuṣubha / magadha / tantas / pampas / sukha / duḥkha / sapara / arara / bhiṣaj / bhiṣṇaj / iṣudha / caraṇa / curaṇa / bhuraṇa / turaṇa / gadgada / elā / kelā / khelā / liṭ / loṭ // gupū-dhūpa-vicchi-paṇi-panibhya āyaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.