उपेयिवान् अनाश्वान् अनूचान इत्य् एते शब्दा निपात्यन्ते । उपपूर्वाद् इणः क्वसुः, द्विर्वचनम् अभ्यास-दीर्घत्वं तत्सामर्थ्याद् एकादेश-प्रतिबन्धः, तत्र वस्व् एक-अज्-आद्-धसाम् (*७,२।६७) इत्य् अनेकाच्त्वादिण् न प्राप्नोति, स निपात्यते, अभ्यासस्य श्रवणं धातुरूपस्य यणादेशः । उपेयिवान् । क्रादिनियमात् प्राप्तश् च वस्व् एक-अज्-आद्-धसाम् (*७,२।६७) इति प्रतिषिद्धः, स पुनर् इट् प्रतिप्रसूयते, तेन अजादौ न भवति । उपेयुषः । उपेयुषा । न च अत्र+उपसर्गास् तन्त्रम्, अन्योपसर्ग-पूर्वान् निरुपसर्गाच् च भवत्य् एव । समीयिवान् । ईयिवान् । वावचन-अनुवृत्तेश् च पूर्ववल् लुड्-आदयो ऽपि भवन्ति । उपागात् । उपैत् । उपेपाय । अश्नातेर् नञ्पूर्वात् क्वसुर् निपत्यते, इडभावश् च । अनाश्वान् । नाशीत् । नश्नात् । नाश । वचेर् अनुपूर्वात् कर्तरि कानज् निपात्यते । अनूचानः । अन्ववोचत् । अन्वब्रवीत् । अनूवाच ॥ लुङ्
upeyivān anāśvān anūcāna ity ete śabdā nipātyante / upapūrvād iṇaḥ kvasuḥ, dvirvacanam abhyāsa-dīrghatvaṃ tatsāmarthyād ekādeśa-pratibandhaḥ, tatra vasv eka-aj-ād-dhasām (*7,2.67) ity anekāctvādiṇ na prāpnoti, sa nipātyate, abhyāsasya śravaṇaṃ dhāturūpasya yaṇādeśaḥ / upeyivān / krādiniyamāt prāptaś ca vasv eka-aj-ād-dhasām (*7,2.67) iti pratiṣiddhaḥ, sa punar iṭ pratiprasūyate, tena ajādau na bhavati / upeyuṣaḥ / upeyuṣā / na ca atra+upasargās tantram, anyopasarga-pūrvān nirupasargāc ca bhavaty eva / samīyivān / īyivān / vāvacana-anuvṛtteś ca pūrvaval luḍ-ādayo 'pi bhavanti / upāgāt / upait / upepāya / aśnāter nañpūrvāt kvasur nipatyate, iḍabhāvaś ca / anāśvān / nāśīt / naśnāt / nāśa / vacer anupūrvāt kartari kānaj nipātyate / anūcānaḥ / anvavocat / anvabravīt / anūvāca // luṅ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.