Library·Jayaditya & Vamana: Kasikavrtti·3·3.2

Jayaditya & Vamana: Kasikavrtti 3.2

तृतीयाध्यायस्य द्वितीयः पादः । कर्मण्य् अण्

tṛtīyādhyāyasya dvitīyaḥ pādaḥ / karmaṇy aṇ

Sanskrit only: no published translation is held for this verse.

त्रिविधं कर्म, निर्वर्त्यं, विकार्यं, प्राप्यं च+इति । सर्वत्र कर्मणि उपपदे धातोः अण् प्रत्ययो भवति । निर्वर्त्यं तावत् -- कुम्भकारः । नगरकारः । विकार्यम् -- काण्डलावः । शरलावः । प्राप्यम् - वेदाध्यायः । चर्चापारः । ग्रामं गच्छति, आदित्यं पश्यति, हिमवन्तं शृणोति इत्य् अत्र न भवति, अनभिधानात् । शीलिकामिभक्ष्याचरिभ्यो णः पूर्वपद-प्रकृतिस्वरत्वं च वक्तव्यम् । मांसशीलः, मांसशीला । मांसकामः, मांसकामा । मांसभक्षः, मांसभक्षा । कल्याणाचारः, कल्याणाचारा । ईक्षक्षमिभ्यां च+इति वक्तव्यम् । सुखप्रतीक्षः, सुखप्रतीक्षा । बहुक्षमः, बहुक्षमा ॥ ह्वा-वा-अमश् च

trividhaṃ karma, nirvartyaṃ, vikāryaṃ, prāpyaṃ ca+iti / sarvatra karmaṇi upapade dhātoḥ aṇ pratyayo bhavati / nirvartyaṃ tāvat -- kumbhakāraḥ / nagarakāraḥ / vikāryam -- kāṇḍalāvaḥ / śaralāvaḥ / prāpyam - vedādhyāyaḥ / carcāpāraḥ / grāmaṃ gacchati, ādityaṃ paśyati, himavantaṃ śṛṇoti ity atra na bhavati, anabhidhānāt / śīlikāmibhakṣyācaribhyo ṇaḥ pūrvapada-prakṛtisvaratvaṃ ca vaktavyam / māṃsaśīlaḥ, māṃsaśīlā / māṃsakāmaḥ, māṃsakāmā / māṃsabhakṣaḥ, māṃsabhakṣā / kalyāṇācāraḥ, kalyāṇācārā / īkṣakṣamibhyāṃ ca+iti vaktavyam / sukhapratīkṣaḥ, sukhapratīkṣā / bahukṣamaḥ, bahukṣamā // hvā-vā-amaś ca

Sanskrit only: no published translation is held for this verse.

ह्वेञ् स्पर्धायां शब्दे च, वेञ् तन्तुसन्ताने, माङ् माने इत्य् एतेभ्यश् च कर्मण्य्-उपपदे अण् प्रत्ययो भवति । कप्रत्ययस्य अपवादः । स्वर्गह्वायः । तन्तुवायः । धान्यमायः ॥ आतो ऽनुपसर्गे कः

hveñ spardhāyāṃ śabde ca, veñ tantusantāne, māṅ māne ity etebhyaś ca karmaṇy-upapade aṇ pratyayo bhavati / kapratyayasya apavādaḥ / svargahvāyaḥ / tantuvāyaḥ / dhānyamāyaḥ // āto 'nupasarge kaḥ

Sanskrit only: no published translation is held for this verse.

आकार-अन्तेभ्यः अनुपसर्गेभ्यः कर्मण्य्-उपपदे कप्रत्ययो भवति । अणो ऽपवादः । गोदः । कम्बलदः । पार्ष्णित्रम् । अङ्गुलित्रम् । अनुपसर्गे इति किम् ? गोसन्दायः । वडवासन्दायः ॥ सुपि स्थः

ākāra-antebhyaḥ anupasargebhyaḥ karmaṇy-upapade kapratyayo bhavati / aṇo 'pavādaḥ / godaḥ / kambaladaḥ / pārṣṇitram / aṅgulitram / anupasarge iti kim ? gosandāyaḥ / vaḍavāsandāyaḥ // supi sthaḥ

Sanskrit only: no published translation is held for this verse.

तुन्द-शोकयोः परिमृज-अपनुदोः

tunda-śokayoḥ parimṛja-apanudoḥ

Sanskrit only: no published translation is held for this verse.

तुन्द-शोकयोः कर्मणोर् उपपदयोः परिमृज-अपनुदोः धात्वोः कप्रत्ययो भवति । तुन्द-परिमृज आस्ते । शोक-अपनुदः पुत्रो जातः । आलस्य सुखाहरणयोः इति वक्तव्यम् । अलसस् तुन्द-प्रिमृज उच्यते । तुन्द-परिमार्जः एव अन्यः । सुखस्य अहर्ता शोक-अपनुदः । शोक-अपनोदः एव अन्यः । कप्रकरणो मूल-विभुजादिभ्यः उपसङ्ख्यानम् । मूलानि विभुजादिभ्यः उपसङ्ख्यानम् । मूलानि विभुजति इति मूलविभुजो रथः । नखमुचानि धनूंषि । काकनुहस्तिलाः । कौ मोदते कुमुदम् ॥ प्रे दा-ज्ञः

tunda-śokayoḥ karmaṇor upapadayoḥ parimṛja-apanudoḥ dhātvoḥ kapratyayo bhavati / tunda-parimṛja āste / śoka-apanudaḥ putro jātaḥ / ālasya sukhāharaṇayoḥ iti vaktavyam / alasas tunda-primṛja ucyate / tunda-parimārjaḥ eva anyaḥ / sukhasya ahartā śoka-apanudaḥ / śoka-apanodaḥ eva anyaḥ / kaprakaraṇo mūla-vibhujādibhyaḥ upasaṅkhyānam / mūlāni vibhujādibhyaḥ upasaṅkhyānam / mūlāni vibhujati iti mūlavibhujo rathaḥ / nakhamucāni dhanūṃṣi / kākanuhastilāḥ / kau modate kumudam // pre dā-jñaḥ

Sanskrit only: no published translation is held for this verse.

सोपसर्ग-अर्थ आरम्भः । ददातेः जानातेश् च धातोः प्रेणोपसृष्टात् कर्मण्य्-उपपदे कप्रत्ययो भवति । अणो ऽपवादः । सर्वप्रदः । पथिप्रज्ञः । प्रे इति किम् ? गोसन्दायः ॥ समि ख्यः

sopasarga-artha ārambhaḥ / dadāteḥ jānāteś ca dhātoḥ preṇopasṛṣṭāt karmaṇy-upapade kapratyayo bhavati / aṇo 'pavādaḥ / sarvapradaḥ / pathiprajñaḥ / pre iti kim ? gosandāyaḥ // sami khyaḥ

Sanskrit only: no published translation is held for this verse.

सोपसर्ग-अर्थः आरम्भः । संपूर्वात् ख्या इत्य् एतस्माद् धातोः कर्मण्य्-उपपदे कप्रत्ययो भवति । अणो ऽपवादः । गां संचष्टे गोसङ्ख्यः ॥ गा-पोष् टक्

sopasarga-arthaḥ ārambhaḥ / saṃpūrvāt khyā ity etasmād dhātoḥ karmaṇy-upapade kapratyayo bhavati / aṇo 'pavādaḥ / gāṃ saṃcaṣṭe gosaṅkhyaḥ // gā-poṣ ṭak

Sanskrit only: no published translation is held for this verse.

हरतेर् अनुद्यमने ऽच्

harater anudyamane 'c

Sanskrit only: no published translation is held for this verse.

हरतेर् धातोर् अनुद्यमने वर्तमानात् कर्मणि उपपदे अच् प्रत्ययो भवति । अणो ऽपवादः । उद्यमनम् उत्क्षेपणम् । अंशं हरति अंशहरः । रिक्थहरः । अनुद्यमने इति किम् ? भारहारः । अच्प्रकरणे शक्तिलाङ्गलाङ्कुशयष्टितोमरघटघटीधौष्षु ग्रहेर् उपसङ्ख्यानम् । शक्तिग्रहः । लाङ्गलग्रहः । अङ्कुशग्रहः । यष्टिग्रहः । तोमरग्रहः । घटग्रहः । घटीग्रहः । धनुर्ग्रहः । सूत्रे च धार्यर्थे । सूत्रग्रहः । सूत्रं धारयति इत्य् अर्थः । सूत्रग्राहः एव अन्यः ॥ वयसि च

harater dhātor anudyamane vartamānāt karmaṇi upapade ac pratyayo bhavati / aṇo 'pavādaḥ / udyamanam utkṣepaṇam / aṃśaṃ harati aṃśaharaḥ / rikthaharaḥ / anudyamane iti kim ? bhārahāraḥ / acprakaraṇe śaktilāṅgalāṅkuśayaṣṭitomaraghaṭaghaṭīdhauṣṣu graher upasaṅkhyānam / śaktigrahaḥ / lāṅgalagrahaḥ / aṅkuśagrahaḥ / yaṣṭigrahaḥ / tomaragrahaḥ / ghaṭagrahaḥ / ghaṭīgrahaḥ / dhanurgrahaḥ / sūtre ca dhāryarthe / sūtragrahaḥ / sūtraṃ dhārayati ity arthaḥ / sūtragrāhaḥ eva anyaḥ // vayasi ca

Sanskrit only: no published translation is held for this verse.

वयसि गम्यमाने हरतेः कर्मण्य्-उपपदे अच् प्रत्ययो भवति । उद्यमन-अर्थो ऽयम् आरम्भः । कालकृता शरीरावस्था यौवनादिर् वयः । यद् उद्यमनं क्रियमाणं सम्भाव्यमानं वा वयो गमयति, तत्र अयं विधिः । अस्थिहरः श्वा । कवछरः क्षत्रिय-कुमारः ॥ आङि ताच्छील्ये

vayasi gamyamāne harateḥ karmaṇy-upapade ac pratyayo bhavati / udyamana-artho 'yam ārambhaḥ / kālakṛtā śarīrāvasthā yauvanādir vayaḥ / yad udyamanaṃ kriyamāṇaṃ sambhāvyamānaṃ vā vayo gamayati, tatra ayaṃ vidhiḥ / asthiharaḥ śvā / kavacharaḥ kṣatriya-kumāraḥ // āṅi tācchīlye

Sanskrit only: no published translation is held for this verse.

आङ्-पूर्वाद् हरतेः कर्मण्य्-उपपदे अच् प्रत्ययो भवति ताच्छील्ये गम्यमाने । ताच्छील्यं तत्-स्वभावता । पुष्पाहरः । फलाहरः । पुष्पाद्य्-आहरने स्वाभाविकी फलानपेक्षा प्रवृत्तिर् अस्य इत्य् अर्थः । ताच्छीओये इति किम् ? भारम् आहरति इति भाराहारः ॥ अर्हः

āṅ-pūrvād harateḥ karmaṇy-upapade ac pratyayo bhavati tācchīlye gamyamāne / tācchīlyaṃ tat-svabhāvatā / puṣpāharaḥ / phalāharaḥ / puṣpādy-āharane svābhāvikī phalānapekṣā pravṛttir asya ity arthaḥ / tācchīoye iti kim ? bhāram āharati iti bhārāhāraḥ // arhaḥ

Sanskrit only: no published translation is held for this verse.

अर्ह पूजायाम्, अस्माद् धातोः कर्मण्य्-उपपदे अच्प्रत्ययओ भवति । अणो ऽपवादः । स्त्रीलिङ्गे विशेषः । पूजार्हा । गन्धार्ह । मालार्हा ॥ स्तम्ब-कर्णयो रमि-जपोः

arha pūjāyām, asmād dhātoḥ karmaṇy-upapade acpratyayao bhavati / aṇo 'pavādaḥ / strīliṅge viśeṣaḥ / pūjārhā / gandhārha / mālārhā // stamba-karṇayo rami-japoḥ

Sanskrit only: no published translation is held for this verse.

शमि धातोः सञ्ज्ञायाम्

śami dhātoḥ sañjñāyām

Sanskrit only: no published translation is held for this verse.

शम्य् उपपदे धातु-मात्रात् सञ्ज्ञायां विषये अच्प्रत्ययओ भवति । शङ्करः । शंभवः । शंवदः । धातु-ग्रहणं किं यावता धातोः इति वर्तत एव ? शमि-सञ्ज्ञायाम् इति सिद्धे धातु-ग्रहणं कृञो हेत्वादिषु टप्रतिषेध-अर्थम् । शङ्करा नाम परिव्राजिका । शङ्करा नाम शकुनिका । तच्छीला च ॥ अधिकरणे शेतेः

śamy upapade dhātu-mātrāt sañjñāyāṃ viṣaye acpratyayao bhavati / śaṅkaraḥ / śaṃbhavaḥ / śaṃvadaḥ / dhātu-grahaṇaṃ kiṃ yāvatā dhātoḥ iti vartata eva ? śami-sañjñāyām iti siddhe dhātu-grahaṇaṃ kṛño hetvādiṣu ṭapratiṣedha-artham / śaṅkarā nāma parivrājikā / śaṅkarā nāma śakunikā / tacchīlā ca // adhikaraṇe śeteḥ

Sanskrit only: no published translation is held for this verse.

सुपि इति सम्बध्यते । शेतेर् धातोर् अधिकरणे सुबन्त उपपदे अच् प्रत्ययो भवति । खे शेते खशयः । गर्तशयः । पार्श्वादिषु उपसङ्ख्यानम् । पार्श्वाभ्यां शेते पार्श्वशयः । उदरशयः । पृष्ठशयः । दिग्धसहपूर्वाच् च । दिग्धेन सह शेते दिग्ध-सहशयः । उत्तानादिषु कर्तृषु । उत्तानः शेते उत्तानशयः । अवमूर्धा शेते अवमूर्धशयः । गिरौ डश्छन्दसि । गिरौ शेते गिरिशः ॥ चरेष् टः

supi iti sambadhyate / śeter dhātor adhikaraṇe subanta upapade ac pratyayo bhavati / khe śete khaśayaḥ / gartaśayaḥ / pārśvādiṣu upasaṅkhyānam / pārśvābhyāṃ śete pārśvaśayaḥ / udaraśayaḥ / pṛṣṭhaśayaḥ / digdhasahapūrvāc ca / digdhena saha śete digdha-sahaśayaḥ / uttānādiṣu kartṛṣu / uttānaḥ śete uttānaśayaḥ / avamūrdhā śete avamūrdhaśayaḥ / girau ḍaśchandasi / girau śete giriśaḥ // careṣ ṭaḥ

Sanskrit only: no published translation is held for this verse.

अधिकरणे इति वर्तते । चरेर् धातोर् अधिकरणे सुबन्त उपपदे टप्रत्ययो भवति । कुरुषु चरति कुरुचरः । मद्रचरः । कुरुचरी । मद्रचरी । प्रत्ययान्तरकरणं ङीब्-अर्थम् ॥ भिक्षा-सेना-आदायेषु च

adhikaraṇe iti vartate / carer dhātor adhikaraṇe subanta upapade ṭapratyayo bhavati / kuruṣu carati kurucaraḥ / madracaraḥ / kurucarī / madracarī / pratyayāntarakaraṇaṃ ṅīb-artham // bhikṣā-senā-ādāyeṣu ca

Sanskrit only: no published translation is held for this verse.

पुरो ऽग्रतो ऽग्रेषु सर्तेः

puro 'grato 'greṣu sarteḥ

Sanskrit only: no published translation is held for this verse.

पुरस् अग्रतस् अग्रे इत्य् एतेषु उपपदेषु सर्तेः धातोः टप्रत्ययो भवति । पुरः सरति पुरःसरः । अग्रतःसरः । अग्रेसरः ॥ पूर्वे कर्तरि

puras agratas agre ity eteṣu upapadeṣu sarteḥ dhātoḥ ṭapratyayo bhavati / puraḥ sarati puraḥsaraḥ / agrataḥsaraḥ / agresaraḥ // pūrve kartari

Sanskrit only: no published translation is held for this verse.

पूर्व-शब्दे कर्तृ-वाचिन्य्-उपपदे सर्तेर् धातोः टप्रत्ययः भवति । पूर्वः सरति इति पूर्वसरः । कर्तरि इति किम् ? पूर्वं देशं सरति इति पूर्वसारः ॥ कृञो हेतु-ताच्छील्य-आनुलोम्येषु

pūrva-śabde kartṛ-vāciny-upapade sarter dhātoḥ ṭapratyayaḥ bhavati / pūrvaḥ sarati iti pūrvasaraḥ / kartari iti kim ? pūrvaṃ deśaṃ sarati iti pūrvasāraḥ // kṛño hetu-tācchīlya-ānulomyeṣu

Sanskrit only: no published translation is held for this verse.

कर्मणि उपपदे करोतेः धातोः टप्रत्ययो भवति हेतौ ताच्छील्ये आनुलोम्ये च गम्यमाने । हेतुः ऐकान्तिकं करणम् । ताच्छील्यं तत्स्वभावता । आनुलोम्यम् अनुकूलता । हेतौ तावत् - शोककरी कन्या । यशस्करी विद्या । कुलकरं धनम् । ताच्छील्ये - श्राद्धकरः । अर्थकरः । आनुलोम्ये - प्रैषकरः । वचनकरः । एतेसु इति किम् ? कुम्भकारः । नगरकारः ॥ दिवा-विभा-निशा-प्रभा-भास्-कार-अन्त-अनन्त-आदि-बहु-नान्दी-किं-लिपि-लिबि-बलि-भक्ति-कर्तृ-चित्र-क्षेत्र-सङ्ख्या-जङ्घा-बाह्व्-अहर्-यत्-तद्-धनुर्-अरुष्षु

karmaṇi upapade karoteḥ dhātoḥ ṭapratyayo bhavati hetau tācchīlye ānulomye ca gamyamāne / hetuḥ aikāntikaṃ karaṇam / tācchīlyaṃ tatsvabhāvatā / ānulomyam anukūlatā / hetau tāvat - śokakarī kanyā / yaśaskarī vidyā / kulakaraṃ dhanam / tācchīlye - śrāddhakaraḥ / arthakaraḥ / ānulomye - praiṣakaraḥ / vacanakaraḥ / etesu iti kim ? kumbhakāraḥ / nagarakāraḥ // divā-vibhā-niśā-prabhā-bhās-kāra-anta-ananta-ādi-bahu-nāndī-kiṃ-lipi-libi-bali-bhakti-kartṛ-citra-kṣetra-saṅkhyā-jaṅghā-bāhv-ahar-yat-tad-dhanur-aruṣṣu

Sanskrit only: no published translation is held for this verse.

कर्मणि भृतौ

karmaṇi bhṛtau

Sanskrit only: no published translation is held for this verse.

कर्मणि इति स्वरूप-ग्रहनम् । करम-शब्दे उपपदे कर्म-वाचिनि करोतेः टप्रत्ययो भवति भृतौ गम्यमानायाम् । भृतिः वेतनं, कर्मनिर्वेशः । कर्म करोति इति कर्मकरः भृतकः इत्यर्थः । भृतौ इति किम् ? करकारः ॥ न शब्द-श्लोक-कलह-गाथा-वैर-चाटु-सूत्र-मन्त्र-पदेषु

karmaṇi iti svarūpa-grahanam / karama-śabde upapade karma-vācini karoteḥ ṭapratyayo bhavati bhṛtau gamyamānāyām / bhṛtiḥ vetanaṃ, karmanirveśaḥ / karma karoti iti karmakaraḥ bhṛtakaḥ ityarthaḥ / bhṛtau iti kim ? karakāraḥ // na śabda-śloka-kalaha-gāthā-vaira-cāṭu-sūtra-mantra-padeṣu

Sanskrit only: no published translation is held for this verse.

शब्दादिषु उपपदेषु करोतेः टप्रत्ययो न भवति । हेत्वादिषु प्राप्तः प्रतिषिध्यते । शब्दकारः । श्लोककारः । कलहकारः । गाथाकारः । वैरकारः । चाटुकारः । चटुकारः । सूत्रकारः । मन्त्रकारः । पदकारः ॥ स्तम्ब-शकृतोर् इन्

śabdādiṣu upapadeṣu karoteḥ ṭapratyayo na bhavati / hetvādiṣu prāptaḥ pratiṣidhyate / śabdakāraḥ / ślokakāraḥ / kalahakāraḥ / gāthākāraḥ / vairakāraḥ / cāṭukāraḥ / caṭukāraḥ / sūtrakāraḥ / mantrakāraḥ / padakāraḥ // stamba-śakṛtor in

Sanskrit only: no published translation is held for this verse.

स्तम्ब शकृत् इत्य् एतयोः कर्मणोर् उपपदयोः इन्प्रत्ययो भवति । व्रीहिवत्सयोर् इति वक्तव्यम् । स्तम्बकरिर्व्रीहिः । शकृत्करिर्वत्सः । व्रीहिवत्सयोः इति किम् ? स्तम्बकारः । शकृत्करः ॥ हरतेर् दृति-नाथयोः पशौ

stamba śakṛt ity etayoḥ karmaṇor upapadayoḥ inpratyayo bhavati / vrīhivatsayor iti vaktavyam / stambakarirvrīhiḥ / śakṛtkarirvatsaḥ / vrīhivatsayoḥ iti kim ? stambakāraḥ / śakṛtkaraḥ // harater dṛti-nāthayoḥ paśau

Sanskrit only: no published translation is held for this verse.

दृति नाथ इत्य् एतयोः कर्मणोर् उपपदयोः हरतेर् धातोः पशौ कर्तरि इन् प्रत्ययो भवति । दृतिं हरति दृतिहरिः पशुः । नाथहरिः पशुः । पशौ इति किम् ? दृतिहारः । नाथहारः ॥ फलेग्रहिर्-आत्मम्भरिश् च

dṛti nātha ity etayoḥ karmaṇor upapadayoḥ harater dhātoḥ paśau kartari in pratyayo bhavati / dṛtiṃ harati dṛtihariḥ paśuḥ / nāthahariḥ paśuḥ / paśau iti kim ? dṛtihāraḥ / nāthahāraḥ // phalegrahir-ātmambhariś ca

Sanskrit only: no published translation is held for this verse.

फलेग्रहिः आत्मम्भरिः इत्य् एतौ शब्दौ निपात्येते । फल-शब्दस्य उपपदस्य एकारान्तत्वम् इन्प्रत्ययश् च ग्रहेर् निपात्यते । फलानि गृह्णाति इति फलेग्रहिर् वृक्षः । आत्म-शब्दस्य उपपदस्य मुमागम इन्प्रत्ययश् च भृञो निपात्यते । आत्मानं बिभर्ति आत्मम्भरिः । अनुक्त-समुच्चय-अर्थश् चकारः । कुक्षिम्भरिः । उदरम्भरिः ॥ छन्दसि वन-सन-रक्षि-मथाम्

phalegrahiḥ ātmambhariḥ ity etau śabdau nipātyete / phala-śabdasya upapadasya ekārāntatvam inpratyayaś ca graher nipātyate / phalāni gṛhṇāti iti phalegrahir vṛkṣaḥ / ātma-śabdasya upapadasya mumāgama inpratyayaś ca bhṛño nipātyate / ātmānaṃ bibharti ātmambhariḥ / anukta-samuccaya-arthaś cakāraḥ / kukṣimbhariḥ / udarambhariḥ // chandasi vana-sana-rakṣi-mathām

Sanskrit only: no published translation is held for this verse.

एजेः खश्

ejeḥ khaś

Sanskrit only: no published translation is held for this verse.

एजृ कम्पने इत्य् अस्मात् ण्यन्तात् कर्मण्य्-उपपदे खश् प्रत्ययो भवति । खकारो मुमथः । शकारः सार्वधातुक-सञ्ज्ञ-अर्थः । अङ्गमेजयति अङ्गमेजयः । जनमेजयः । खश्प्रयये वात्शुनीतिलशर्धेष्वजधेट्तुदजहातीनाम् उपसङ्ख्यानम् । वातमजा मृगाः । शुनिन्धयः । तिलन्तुदः । शर्धञ्जहा माषाः ॥ नासिका-स्तनयोर् ध्मा-धेटोः

ejṛ kampane ity asmāt ṇyantāt karmaṇy-upapade khaś pratyayo bhavati / khakāro mumathaḥ / śakāraḥ sārvadhātuka-sañjña-arthaḥ / aṅgamejayati aṅgamejayaḥ / janamejayaḥ / khaśprayaye vātśunītilaśardheṣvajadheṭtudajahātīnām upasaṅkhyānam / vātamajā mṛgāḥ / śunindhayaḥ / tilantudaḥ / śardhañjahā māṣāḥ // nāsikā-stanayor dhmā-dheṭoḥ

Sanskrit only: no published translation is held for this verse.

नासिकास्तनयोः कर्मणोरुपपदयोः ध्माधेटोर्धात्वोः खश् प्रत्ययो भवति । यथासङ्ख्यमत्र नेष्यते । स्तने धेटः । सत्नन्धयः । नासिकायां तु ध्मश् च धेटश् च । नासिकन्धमः, नासिकन्धयः । तच् च+एतन् नासिक-स्तनयोर् इति लक्षणव्यभिचारचिह्नाद् अल्पाच्तरस्य अपूर्वनिपातनाल् लभ्यते । धेटः टित्वात् स्त्रियां ङीप् प्रत्ययो भवति । स्तनन्धयी ॥ नाडी-मुष्ट्योश् च

nāsikāstanayoḥ karmaṇorupapadayoḥ dhmādheṭordhātvoḥ khaś pratyayo bhavati / yathāsaṅkhyamatra neṣyate / stane dheṭaḥ / satnandhayaḥ / nāsikāyāṃ tu dhmaś ca dheṭaś ca / nāsikandhamaḥ, nāsikandhayaḥ / tac ca+etan nāsika-stanayor iti lakṣaṇavyabhicāracihnād alpāctarasya apūrvanipātanāl labhyate / dheṭaḥ ṭitvāt striyāṃ ṅīp pratyayo bhavati / stanandhayī // nāḍī-muṣṭyoś ca

Sanskrit only: no published translation is held for this verse.

नाडी मुष्ति इत्य् एतयोः कर्मणोर् उपपदयोः ध्माधेटोः खश्प्रत्ययो भवति । अत्र अपि घ्यन्तस्य अपूर्वनिपातो लक्षणव्यभिचारचिह्नम् । तेन सङ्ख्यातानुदेशो न भवति । नाडिन्धमः । मुष्टिन्धमः । नाडिन्धयः । मुष्टिन्धयः । अनुक्तसमुच्चय-अर्थश् चकारः । घटिन्धमः । घटिन्धयः । खारिन्धमः । खारिन्धयः । वातन्धमः पर्वतः । वातन्धयः ॥ उदि कूले रुजि-वहोः

nāḍī muṣti ity etayoḥ karmaṇor upapadayoḥ dhmādheṭoḥ khaśpratyayo bhavati / atra api ghyantasya apūrvanipāto lakṣaṇavyabhicāracihnam / tena saṅkhyātānudeśo na bhavati / nāḍindhamaḥ / muṣṭindhamaḥ / nāḍindhayaḥ / muṣṭindhayaḥ / anuktasamuccaya-arthaś cakāraḥ / ghaṭindhamaḥ / ghaṭindhayaḥ / khārindhamaḥ / khārindhayaḥ / vātandhamaḥ parvataḥ / vātandhayaḥ // udi kūle ruji-vahoḥ

Sanskrit only: no published translation is held for this verse.

रुजो भङ्गे, वह प्रापणे इत्य् एताभ्याम् उत्पूर्वाभ्यां कूले कर्मणि उपपदे खश् प्रत्ययो भवति । कूलम् उद्रुजति इति कूलमुद्रुजो रथः । कूलमुद्वहः ॥ वह-अभ्रे लिहः

rujo bhaṅge, vaha prāpaṇe ity etābhyām utpūrvābhyāṃ kūle karmaṇi upapade khaś pratyayo bhavati / kūlam udrujati iti kūlamudrujo rathaḥ / kūlamudvahaḥ // vaha-abhre lihaḥ

Sanskrit only: no published translation is held for this verse.

परिमाणे पचः

parimāṇe pacaḥ

Sanskrit only: no published translation is held for this verse.

परिमाणं प्रस्थादि, तस्मिन् कर्मण्य्-उपपदे पचेः खश् प्रत्ययो भवति । प्रस्थं पचति प्रस्थंपचा स्थाली । द्रोणंपचः । खारिंपचः कटाहः ॥ मित-नखे च

parimāṇaṃ prasthādi, tasmin karmaṇy-upapade paceḥ khaś pratyayo bhavati / prasthaṃ pacati prasthaṃpacā sthālī / droṇaṃpacaḥ / khāriṃpacaḥ kaṭāhaḥ // mita-nakhe ca

Sanskrit only: no published translation is held for this verse.

मित नख इत्य् एतयोः कर्मणोर् उपपदयोः पचेः खश् प्रत्ययो भवति । अपरिमाण-अर्थः आरम्भः । मितं पचति मितम्पचा ब्राह्मणी । नखंपचा यवागूः ॥ विध्व्-अरुषोस् तुदः

mita nakha ity etayoḥ karmaṇor upapadayoḥ paceḥ khaś pratyayo bhavati / aparimāṇa-arthaḥ ārambhaḥ / mitaṃ pacati mitampacā brāhmaṇī / nakhaṃpacā yavāgūḥ // vidhv-aruṣos tudaḥ

Sanskrit only: no published translation is held for this verse.

विधु अरुस् इत्य् एतयोः कर्मणोर् उपपदयोः तुदेर् धातोः खश् प्रत्ययो भवति । विधुन्तुदः राहुः । अरुनतुदः ॥ असूर्य-ललाटयोर् दृशि-तपोः

vidhu arus ity etayoḥ karmaṇor upapadayoḥ tuder dhātoḥ khaś pratyayo bhavati / vidhuntudaḥ rāhuḥ / arunatudaḥ // asūrya-lalāṭayor dṛśi-tapoḥ

Sanskrit only: no published translation is held for this verse.

असूर्य ललाट इत्य् एतयोः कर्मणोर् उपपदयोः दृशि-तपोः धात्वोः खश् प्रत्ययो भवति । असूर्यंपश्या राजदाराः । ललाटंतपः आदित्यः । असूर्य इति च असमर्थ-समासो ऽयं, दृशिना नञः सम्बन्धात्, सूर्यं न पश्यन्ति इति । गुप्तिपरं चैतत् । एवं नाम गुप्ता यद् अपरिहार्य-दर्शनं सूर्यम् अपि न पश्यन्ति इति ॥ उग्रम्पश्य-इरम्मद-पाणिन्धमाश् च

asūrya lalāṭa ity etayoḥ karmaṇor upapadayoḥ dṛśi-tapoḥ dhātvoḥ khaś pratyayo bhavati / asūryaṃpaśyā rājadārāḥ / lalāṭaṃtapaḥ ādityaḥ / asūrya iti ca asamartha-samāso 'yaṃ, dṛśinā nañaḥ sambandhāt, sūryaṃ na paśyanti iti / guptiparaṃ caitat / evaṃ nāma guptā yad aparihārya-darśanaṃ sūryam api na paśyanti iti // ugrampaśya-irammada-pāṇindhamāś ca

Sanskrit only: no published translation is held for this verse.

उग्रम्पश्य इरम्मद पाणिन्धम इत्य् एते शब्दा निपात्यन्ते । उग्रं पश्यति इति उग्रम्पश्यः । इरया माद्यति इति इरम्मदः । पाणयो ध्मायन्ते एषु इति पाणिन्धमाः पन्थानः ॥ प्रियवशे वदः खच्

ugrampaśya irammada pāṇindhama ity ete śabdā nipātyante / ugraṃ paśyati iti ugrampaśyaḥ / irayā mādyati iti irammadaḥ / pāṇayo dhmāyante eṣu iti pāṇindhamāḥ panthānaḥ // priyavaśe vadaḥ khac

Sanskrit only: no published translation is held for this verse.

खच्प्रकरणे गमेः सुप्य् उपसङ्ख्यानम् । मितङ्गमो हस्ती । मितङ्गमा हस्तिनी । विहायसो विह च । विहायसा गच्छति विहङ्गमः । खच्च डिद्वा वक्तव्यः । विहङ्गः, विहङ्गमः । डे च विहायसो विहादेशो वक्तव्यः । विहगः । द्विषत्-परयोस् तापेः

khacprakaraṇe gameḥ supy upasaṅkhyānam / mitaṅgamo hastī / mitaṅgamā hastinī / vihāyaso viha ca / vihāyasā gacchati vihaṅgamaḥ / khacca ḍidvā vaktavyaḥ / vihaṅgaḥ, vihaṅgamaḥ / ḍe ca vihāyaso vihādeśo vaktavyaḥ / vihagaḥ / dviṣat-parayos tāpeḥ

Sanskrit only: no published translation is held for this verse.

द्विषत्-परयोः कर्मणोर् उपपदयोः तापेः छातोः खच् प्रत्ययो भवति । तप दाहे चुरादिः, तपसन्तापे भ्वादिः, द्वयोर् अपि ग्रहणम् । द्विषन्तं तापयति द्विषन्तपः । परन्तपः । द्विषत्परयोः इति द्वितकारको निर्देशः । तेन स्त्रियां न भवति । द्विषतीं तापयति द्विषतीतापः ॥ वाचि यमो व्रते

dviṣat-parayoḥ karmaṇor upapadayoḥ tāpeḥ chātoḥ khac pratyayo bhavati / tapa dāhe curādiḥ, tapasantāpe bhvādiḥ, dvayor api grahaṇam / dviṣantaṃ tāpayati dviṣantapaḥ / parantapaḥ / dviṣatparayoḥ iti dvitakārako nirdeśaḥ / tena striyāṃ na bhavati / dviṣatīṃ tāpayati dviṣatītāpaḥ // vāci yamo vrate

Sanskrit only: no published translation is held for this verse.

वाक्शब्दे कर्मणि उपपदे यमेः धातोः खच् प्रययो भवति व्रते गम्यमाने । व्रत इति शस्त्रितो नियमः उच्यते । वाचंयमः आस्ते । व्रते इति किम् ? वाग्यामः ॥ पूः-सर्वयोर् दारि-सहोः

vākśabde karmaṇi upapade yameḥ dhātoḥ khac prayayo bhavati vrate gamyamāne / vrata iti śastrito niyamaḥ ucyate / vācaṃyamaḥ āste / vrate iti kim ? vāgyāmaḥ // pūḥ-sarvayor dāri-sahoḥ

Sanskrit only: no published translation is held for this verse.

पुर् सर्व इत्य् एतयोः करमणोः उपपदयोः यथासङ्ख्यं दारिसहोः धात्वोः खच् प्रत्ययो भवति । पुरं दारयति पुरन्दरः । सर्वंसहो राजा । भवे च दारेर् इति वक्तव्यम् । भगन्दरः ॥ सर्व-कूल-अभ्र-करीषेषु कषः

pur sarva ity etayoḥ karamaṇoḥ upapadayoḥ yathāsaṅkhyaṃ dārisahoḥ dhātvoḥ khac pratyayo bhavati / puraṃ dārayati purandaraḥ / sarvaṃsaho rājā / bhave ca dārer iti vaktavyam / bhagandaraḥ // sarva-kūla-abhra-karīṣeṣu kaṣaḥ

Sanskrit only: no published translation is held for this verse.

मेघ-र्ति-भयेषु कृञः

megha-rti-bhayeṣu kṛñaḥ

Sanskrit only: no published translation is held for this verse.

मेघ ऋति भय इत्य् एतेषु कर्मसु उपपदेषु कऋञः खच् प्रत्ययो भवति । मेघङ्करः । ऋतिङ्करः । भयङ्करः । उपपद-विधौ भयादि-ग्रहणं तदन्तविधिं प्रयोजयति । अभयङ्करः ॥ क्षेम-प्रिय-मद्रे ऽण् च

megha ṛti bhaya ity eteṣu karmasu upapadeṣu kaṛñaḥ khac pratyayo bhavati / meghaṅkaraḥ / ṛtiṅkaraḥ / bhayaṅkaraḥ / upapada-vidhau bhayādi-grahaṇaṃ tadantavidhiṃ prayojayati / abhayaṅkaraḥ // kṣema-priya-madre 'ṇ ca

Sanskrit only: no published translation is held for this verse.

क्षेम प्रिय मद्र इत्य् एतेषु कर्मसु उपपदेषु करोतेः अण् प्रत्ययो भवति, चकारात् खच् च । क्षेमकारः, क्षेमङ्करः । प्रियकारः, प्रियङ्करः । मद्रकारः, मद्रङ्करः । वा इति वक्तव्ये पुनर् अण्-ग्रहनं हेत्वादिषु टप्रतिषेध-अर्थम् ॥ आशिते भुवः करण-भावयोः

kṣema priya madra ity eteṣu karmasu upapadeṣu karoteḥ aṇ pratyayo bhavati, cakārāt khac ca / kṣemakāraḥ, kṣemaṅkaraḥ / priyakāraḥ, priyaṅkaraḥ / madrakāraḥ, madraṅkaraḥ / vā iti vaktavye punar aṇ-grahanaṃ hetvādiṣu ṭapratiṣedha-artham // āśite bhuvaḥ karaṇa-bhāvayoḥ

Sanskrit only: no published translation is held for this verse.

अत्र सुपि इत्य् उपतिष्ठते । आशित-शब्दे सुबन्ते उपपदे भवतेर् धातोः करणे भावे च-अर्थे खच् प्रत्ययो भवति । आशितो भवति अनेन आशितम्भव ओदनः । भावे - आशितस्य भवनम् आशितम्भवं वर्तते ॥ सञ्ज्ञायां भृ-तॄ-वृ-जि-धारि-सहि-तपि-दमः

atra supi ity upatiṣṭhate / āśita-śabde subante upapade bhavater dhātoḥ karaṇe bhāve ca-arthe khac pratyayo bhavati / āśito bhavati anena āśitambhava odanaḥ / bhāve - āśitasya bhavanam āśitambhavaṃ vartate // sañjñāyāṃ bhṛ-tṝ-vṛ-ji-dhāri-sahi-tapi-damaḥ

Sanskrit only: no published translation is held for this verse.

कर्मणि इति सुपि इति च प्रकृतं सज्ञावशाद् यथासम्भवं सम्बध्यते । भृ तॄ वृ जि धारि सहि तपि दम इत्य् एतेभ्यो धातुभ्यः सञ्ज्ञायां विषये खच् प्रत्ययो भवति । विश्वम्भरा वसुन्धरा । रथन्तरं साम । पतिंवरा कन्या । शत्रुञ्जयो हस्ती । युगन्धरः पर्वतः । शत्रुंसहः । शत्रुंतपः । अरिंदमः । सज्ञायाम् इति किम् ? कुटुम्बं बिभर्ति इति कुटुम्बभारः ॥ गमश् च

karmaṇi iti supi iti ca prakṛtaṃ sajñāvaśād yathāsambhavaṃ sambadhyate / bhṛ tṝ vṛ ji dhāri sahi tapi dama ity etebhyo dhātubhyaḥ sañjñāyāṃ viṣaye khac pratyayo bhavati / viśvambharā vasundharā / rathantaraṃ sāma / patiṃvarā kanyā / śatruñjayo hastī / yugandharaḥ parvataḥ / śatruṃsahaḥ / śatruṃtapaḥ / ariṃdamaḥ / sajñāyām iti kim ? kuṭumbaṃ bibharti iti kuṭumbabhāraḥ // gamaś ca

Sanskrit only: no published translation is held for this verse.

गमेः धातोः सुपि उपपदे सञ्ज्ञायां विषये खच् प्रत्ययो भवति । सुतङ्गमो नाम, यस्य पुत्रः सौतङ्गमिः । योगविभागः उत्तरार्थः ॥ अन्त-अत्यन्त-अध्व-दूर-पार-सर्व-अनन्तेषु डः

gameḥ dhātoḥ supi upapade sañjñāyāṃ viṣaye khac pratyayo bhavati / sutaṅgamo nāma, yasya putraḥ sautaṅgamiḥ / yogavibhāgaḥ uttarārthaḥ // anta-atyanta-adhva-dūra-pāra-sarva-ananteṣu ḍaḥ

Sanskrit only: no published translation is held for this verse.

डप्रकरणे सर्वत्रपन्नयोर् उपसङ्ख्यानम् । सर्वत्रगः । पन्नगः । उरसो लोपश् च । उरसा गच्छति इति उरगः । सुदुरोर् अधिकरणे । सुखेन गच्छत्य् अस्मिन् इति सुगः । दुर्गः । निरो देशे । निर्गो देशः । अप्र आह - डप्रकरणे ऽन्येष्व् अपि दृश्यते इति । स्त्र्यगारगः । ग्रामगः । गुरुतल्पगः ॥ आशिषि हनः

ḍaprakaraṇe sarvatrapannayor upasaṅkhyānam / sarvatragaḥ / pannagaḥ / uraso lopaś ca / urasā gacchati iti uragaḥ / suduror adhikaraṇe / sukhena gacchaty asmin iti sugaḥ / durgaḥ / niro deśe / nirgo deśaḥ / apra āha - ḍaprakaraṇe 'nyeṣv api dṛśyate iti / stryagāragaḥ / grāmagaḥ / gurutalpagaḥ // āśiṣi hanaḥ

Sanskrit only: no published translation is held for this verse.

अपे क्लेश-तमसोः

ape kleśa-tamasoḥ

Sanskrit only: no published translation is held for this verse.

अपपूर्वात् हन्तेः धातोः क्लेश-तमसोः कर्मणोर् उपपदयोः डप्रत्ययो भवति । क्लेशापहः पुत्रः । तमोपहः सूर्यः । अनाशीर् अर्थ आरम्भः ॥ कुमार-शीर्षयोर् णिनिः

apapūrvāt hanteḥ dhātoḥ kleśa-tamasoḥ karmaṇor upapadayoḥ ḍapratyayo bhavati / kleśāpahaḥ putraḥ / tamopahaḥ sūryaḥ / anāśīr artha ārambhaḥ // kumāra-śīrṣayor ṇiniḥ

Sanskrit only: no published translation is held for this verse.

हन इति वर्तते । कुमार शीर्ष इत्य् एतयोः उपपदयोः हन्तेः णिनिः प्रत्ययो भवति । कुमार-घाती । शीर्ष-घाती । निपातनाच् छिरसः शीर्षभावः ॥ लक्षणे जाया-पत्योष् टक्

hana iti vartate / kumāra śīrṣa ity etayoḥ upapadayoḥ hanteḥ ṇiniḥ pratyayo bhavati / kumāra-ghātī / śīrṣa-ghātī / nipātanāc chirasaḥ śīrṣabhāvaḥ // lakṣaṇe jāyā-patyoṣ ṭak

Sanskrit only: no published translation is held for this verse.

हन्तेः जायापत्योः कर्मणोः उअपपदयोः लक्षणवति कर्तरि टक् प्रत्ययो भवति । जायाघ्नो ब्राह्मणः पतिघ्नी वृषली । अथ वा लक्षणे द्योत्ये टक् प्रत्ययः ॥ अमनुष्यकर्तृके च

hanteḥ jāyāpatyoḥ karmaṇoḥ uapapadayoḥ lakṣaṇavati kartari ṭak pratyayo bhavati / jāyāghno brāhmaṇaḥ patighnī vṛṣalī / atha vā lakṣaṇe dyotye ṭak pratyayaḥ // amanuṣyakartṛke ca

Sanskrit only: no published translation is held for this verse.

अमनुष्यकर्तृके वर्तमानाद् हन्तेः धातोः कर्मणि उपपदे टक् प्रत्ययो भवति । जायाघ्नस्तिलकालकः । पतिघ्नी पाणिरेखा । श्लेष्मघ्नं मधु । पित्तघ्नं घृतम् । अमनुष्यकर्तृके इति किम् ? आखुघातः शूद्रः । इह कर्मान् न भवति, चौरघातो हस्ती ? कृत्य-ल्युटो बहुलम् (*३,३।११३) इति बहुल-वचनाद् अण् भवति ॥ शक्तौ हस्ति कपाटयोः

amanuṣyakartṛke vartamānād hanteḥ dhātoḥ karmaṇi upapade ṭak pratyayo bhavati / jāyāghnastilakālakaḥ / patighnī pāṇirekhā / śleṣmaghnaṃ madhu / pittaghnaṃ ghṛtam / amanuṣyakartṛke iti kim ? ākhughātaḥ śūdraḥ / iha karmān na bhavati, cauraghāto hastī ? kṛtya-lyuṭo bahulam (*3,3.113) iti bahula-vacanād aṇ bhavati // śaktau hasti kapāṭayoḥ

Sanskrit only: no published translation is held for this verse.

शक्तौ गम्यमानायां हस्ति कपाटयोः कर्मणोर् उपपदयोः हन्तेः टक् प्रत्ययो भवति । मनुष्यकर्तृक-अर्थ आरम्भः । हस्तिनं हन्तुं शक्तः हस्तिघ्नः मनुष्यः । कं पाटयति प्रविशत इति कपाटघ्नश्चौरः । शक्तौ इति किम् ? विषेण हस्तिनं हन्ति हस्तिघातः ॥ पाणिघ-ताडघौ शिल्पिनि

śaktau gamyamānāyāṃ hasti kapāṭayoḥ karmaṇor upapadayoḥ hanteḥ ṭak pratyayo bhavati / manuṣyakartṛka-artha ārambhaḥ / hastinaṃ hantuṃ śaktaḥ hastighnaḥ manuṣyaḥ / kaṃ pāṭayati praviśata iti kapāṭaghnaścauraḥ / śaktau iti kim ? viṣeṇa hastinaṃ hanti hastighātaḥ // pāṇigha-tāḍaghau śilpini

Sanskrit only: no published translation is held for this verse.

तस्मिंश्च परतो हन्तेः टिलोपो घत्वं च निपात्यते । पाणिघः । ताडघः । शिल्पिनि इति किम् ? पाणिघातः । ताडघातः । राजघ उपसङ्ख्यानम् । राजानं हन्ति राजघः ॥ आढ्य-सुभग-स्थूल-पलित-नग्न-अन्ध-प्रियेषु च्व्य्-अर्थेष्व् अच्वौ कृञः करणे ख्युन्

tasmiṃśca parato hanteḥ ṭilopo ghatvaṃ ca nipātyate / pāṇighaḥ / tāḍaghaḥ / śilpini iti kim ? pāṇighātaḥ / tāḍaghātaḥ / rājagha upasaṅkhyānam / rājānaṃ hanti rājaghaḥ // āḍhya-subhaga-sthūla-palita-nagna-andha-priyeṣu cvy-artheṣv acvau kṛñaḥ karaṇe khyun

Sanskrit only: no published translation is held for this verse.

आढ्यादिषु कर्मसु उपपदेषु च्व्य्-अर्थेषु अच्व्यन्तेषु करोतेः धातोः करणे कारके ख्युन् प्रत्ययो भवति । च्वेर् विकल्पेन विधानाद् द्विविधाः च्व्यर्थाः, च्व्यन्ता अच्व्यन्ता श्च । तत्र च्व्यन्ताः पर्युदस्यन्ते । अनाढ्यं आढ्यं कुर्वन्ति अनेन आढ्यङ्करणम् । सुभगङ्करणम् । स्थूलङ्करणम् । पलितङ्करणम् । नग्नङ्करणम् । अन्धङ्करणम् । प्रियङ्करणम् । च्व्यर्थेषु इति किम् ? आढ्यं तैलेन कुर्वन्ति अभ्यञ्जयन्ति इत्य् अर्थः । प्रकृतेर् अविवक्षायाम् अभूतप्रादुर्भावे ऽपि प्रत्युदाहरणं भवति । अच्वौ इति किम् ? आढ्यीकुर्वन्त्य् अनेन । ननु च ख्युना मुक्ते ल्युटा भवितव्यम्, न च ल्युटः ख्युनश् च विशेषो ऽस्ति, तत्र किं प्रतिषेधेन ? एवं तर्हि प्रतिषेध-सामर्थ्यात् ख्युनि असति ल्युड् अपि न भवति, तेन ल्युटो ऽप्य् अयम् अर्थतः प्रतिषेधः । उत्तरार्थश् च च्वि-प्रतिषेधः क्रियते ॥ कर्तरि भुवः खिष्णुच्-खुकञौ

āḍhyādiṣu karmasu upapadeṣu cvy-artheṣu acvyanteṣu karoteḥ dhātoḥ karaṇe kārake khyun pratyayo bhavati / cver vikalpena vidhānād dvividhāḥ cvyarthāḥ, cvyantā acvyantā śca / tatra cvyantāḥ paryudasyante / anāḍhyaṃ āḍhyaṃ kurvanti anena āḍhyaṅkaraṇam / subhagaṅkaraṇam / sthūlaṅkaraṇam / palitaṅkaraṇam / nagnaṅkaraṇam / andhaṅkaraṇam / priyaṅkaraṇam / cvyartheṣu iti kim ? āḍhyaṃ tailena kurvanti abhyañjayanti ity arthaḥ / prakṛter avivakṣāyām abhūtaprādurbhāve 'pi pratyudāharaṇaṃ bhavati / acvau iti kim ? āḍhyīkurvanty anena / nanu ca khyunā mukte lyuṭā bhavitavyam, na ca lyuṭaḥ khyunaś ca viśeṣo 'sti, tatra kiṃ pratiṣedhena ? evaṃ tarhi pratiṣedha-sāmarthyāt khyuni asati lyuḍ api na bhavati, tena lyuṭo 'py ayam arthataḥ pratiṣedhaḥ / uttarārthaś ca cvi-pratiṣedhaḥ kriyate // kartari bhuvaḥ khiṣṇuc-khukañau

Sanskrit only: no published translation is held for this verse.

आढ्यादिसु सुबन्तेषु उपपदेषु च्व्यर्थेषु अच्व्यन्तेषु भवतेर् धातोः कर्तरि कारके खिष्णुच्, खुकञ् इत्य् एतौ प्रत्ययौ भवतः । अनाढ्य आढ्यो भवति आढ्यंभविष्णुः, आढ्यंभावुकः । सुभवंभविष्णु, सुभगंभावुकः । स्थूलंभविष्णुः, स्थूलंभावुकः । पलितंभविष्णुः, पलितंभावुकः । नग्नंभविष्णुः, नग्नंभावुकः । अन्धंभविष्णुः, अन्धंभावुकः । प्रियंभविष्णुः, प्रियंभावुकः । कर्तरि इति किम् ? करणे मा भूत् । च्व्यर्थेसु इत्य् एव, आढ्यो भविता । अच्वौ इत्य् एव, आढ्यीभविता । उदात्तत्वाद् भुवः सिद्धम् इकारादित्वम् इष्णुचः । नञ्स्तु स्वरसिद्ध्यर्थम् इकारादित्वम् इष्यते ॥ स्पृशो ऽनुदके क्विन्

āḍhyādisu subanteṣu upapadeṣu cvyartheṣu acvyanteṣu bhavater dhātoḥ kartari kārake khiṣṇuc, khukañ ity etau pratyayau bhavataḥ / anāḍhya āḍhyo bhavati āḍhyaṃbhaviṣṇuḥ, āḍhyaṃbhāvukaḥ / subhavaṃbhaviṣṇu, subhagaṃbhāvukaḥ / sthūlaṃbhaviṣṇuḥ, sthūlaṃbhāvukaḥ / palitaṃbhaviṣṇuḥ, palitaṃbhāvukaḥ / nagnaṃbhaviṣṇuḥ, nagnaṃbhāvukaḥ / andhaṃbhaviṣṇuḥ, andhaṃbhāvukaḥ / priyaṃbhaviṣṇuḥ, priyaṃbhāvukaḥ / kartari iti kim ? karaṇe mā bhūt / cvyarthesu ity eva, āḍhyo bhavitā / acvau ity eva, āḍhyībhavitā / udāttatvād bhuvaḥ siddham ikārāditvam iṣṇucaḥ / nañstu svarasiddhyartham ikārāditvam iṣyate // spṛśo 'nudake kvin

Sanskrit only: no published translation is held for this verse.

ऋत्विग्-दधृक्-स्रग्-दिग्-उष्णिग्-अञ्चु-युजि-क्रुञ्चां च

ṛtvig-dadhṛk-srag-dig-uṣṇig-añcu-yuji-kruñcāṃ ca

Sanskrit only: no published translation is held for this verse.

ऋत्विगादयः पञ्च-शब्दाः क्विन्-प्रत्ययान्ताः निपात्यन्ते, अपरे त्रयो धात्वो निर्दिष्यन्ते । ऋतु-शब्द उपपदे यजेर् धतोः क्विन् प्रत्ययो निपात्यते । ऋतौ यजति, ऋतुं वा यजति, ऋतुप्रयुक्तो वा यजति ऋत्विक् । रूढिरेषा यथा कथंचिद् अनुगन्तव्या । धृषेः क्विन् प्रत्ययः, द्विर्वचनम्, अन्तोदात्तत्वं च निपात्यते । धृष्णोति इति दधृक् । सृजेः कर्मणि क्विन्, अमागमः च निपात्यते । सृजन्ति तम् इति स्रक् । दिषेः कर्मणि क्विन् निपात्यते । दिशन्ति ताम् इति दिक् । उत्पूर्वात् स्निहेः क्विन्, उपसर्गान्त-लोपः, षत्वं च निपात्यते । उष्णिक् । अञ्चु युजि क्रुञ्च इत्य् एतेषां धातूनां क्विन् प्रत्ययो भवति । निपातनैः सह निर्देशात् अत्र अपि किंचिद् अलाक्षणिकं कार्यम् अस्ति । अञ्चतेः सुब्नत-मात्र उपपदे क्विन् प्रत्ययो भवति । प्राङ् । प्रत्यङ् । उदङ् । युजेः क्रुञ्चेश् च केवलाद् एव । युङ्, युञ्जौ, युञ्जः । सोपपदात् तु सत्सूद्विष (*३,२।६१) इत्य् आदिना क्विप् भवति । अश्वयुक्, अश्वयुजौ, अश्वयुजः । क्रुङ्, क्रुञ्चौ, क्रुञ्चः । नलोपः कस्मान् न भवति ? निपातन-साहचर्यात् ॥ त्यदादिषु दृशो ऽनालोचने कञ् च

ṛtvigādayaḥ pañca-śabdāḥ kvin-pratyayāntāḥ nipātyante, apare trayo dhātvo nirdiṣyante / ṛtu-śabda upapade yajer dhatoḥ kvin pratyayo nipātyate / ṛtau yajati, ṛtuṃ vā yajati, ṛtuprayukto vā yajati ṛtvik / rūḍhireṣā yathā kathaṃcid anugantavyā / dhṛṣeḥ kvin pratyayaḥ, dvirvacanam, antodāttatvaṃ ca nipātyate / dhṛṣṇoti iti dadhṛk / sṛjeḥ karmaṇi kvin, amāgamaḥ ca nipātyate / sṛjanti tam iti srak / diṣeḥ karmaṇi kvin nipātyate / diśanti tām iti dik / utpūrvāt sniheḥ kvin, upasargānta-lopaḥ, ṣatvaṃ ca nipātyate / uṣṇik / añcu yuji kruñca ity eteṣāṃ dhātūnāṃ kvin pratyayo bhavati / nipātanaiḥ saha nirdeśāt atra api kiṃcid alākṣaṇikaṃ kāryam asti / añcateḥ subnata-mātra upapade kvin pratyayo bhavati / prāṅ / pratyaṅ / udaṅ / yujeḥ kruñceś ca kevalād eva / yuṅ, yuñjau, yuñjaḥ / sopapadāt tu satsūdviṣa (*3,2.61) ity ādinā kvip bhavati / aśvayuk, aśvayujau, aśvayujaḥ / kruṅ, kruñcau, kruñcaḥ / nalopaḥ kasmān na bhavati ? nipātana-sāhacaryāt // tyadādiṣu dṛśo 'nālocane kañ ca

Sanskrit only: no published translation is held for this verse.

सत्-सू-द्विष-द्रुह-दुह-युज-विद-भिदच्-छिद-जि-नी-राजाम् उअसर्गे ऽपि क्विप्

sat-sū-dviṣa-druha-duha-yuja-vida-bhidac-chida-ji-nī-rājām uasarge 'pi kvip

Sanskrit only: no published translation is held for this verse.

कर्म-ग्रहणं तु स्पृशो ऽनुदके क्विन् (*३,२।५८) इत्य् अतः प्रभृति न व्याप्रियते । सदादिभ्यः धातुभ्यः सुबन्ते उपपदे उपसर्गे ऽपि अनुपसर्गे ऽपि क्विप् प्रत्ययो भवति । उपसर्ग-ग्रहणम् ज्ञापनार्थम्, अन्यत्र सुब्-ग्रहणे उपसर्ग-ग्रहणं न भवति इति, वदः सुपि क्यप् च (*३,१।१०६) इति । सू इति द्विषा साहचर्यात् सूतेः आदादिकस्य ग्रहणं, न सुवतेः तौदादिकस्य । युजिर् योगे, युज समाधौ, द्वयोर् अपि ग्रहणम् । विद ज्ञाने, विद सत्तायाम्, विद विचारणे, त्रयाणाम् अपि ग्रहणम् । न लाभ-अर्थस्य विदेः, अकारस्य विवक्षतत्वात् । सद् - शुचिषत् । अन्तरिक्षसत् । उपसत् । सू - अण्डसूः । शतसूः । प्रसूः । द्विष - मित्रद्विट् । प्रद्विट् । द्रुह - मित्रध्रुक् । प्रध्रुक् । दुह - गोधुक् । प्रधुक् । युज - अश्वयुक् । प्रयुक् । विद - वेदवित् । प्रवित् । ब्रह्मवित् । भिद - काष्ठभित् । प्रभित् । छिद - रज्जुच्छिद् । प्रच्छिद् । जि - शत्रुजित् । प्रजित् । नी - सेनानीः । प्रणीः । ग्रामणीः । अग्रणीः । कथम् अत्र णत्वम् ? स एषां ग्रामणीः (*५,२।७८) इति निपातनात्, नयतेः पूर्वपदात् सज्ञायाम् अगः (*८,४।३) इति णत्वम् । राज - राट् । विराट् । सम्राट् । मो राजि समः क्वौ (*८,२।३५) इति मत्वम् । अन्येभ्यो ऽपि दृश्यते (*३,२।१७८), क्विप् च (*३,२।७६) इति सामान्येन वक्ष्यति, तस्य+एव अयं प्रपञ्चः ॥ भजो ण्विः

karma-grahaṇaṃ tu spṛśo 'nudake kvin (*3,2.58) ity ataḥ prabhṛti na vyāpriyate / sadādibhyaḥ dhātubhyaḥ subante upapade upasarge 'pi anupasarge 'pi kvip pratyayo bhavati / upasarga-grahaṇam jñāpanārtham, anyatra sub-grahaṇe upasarga-grahaṇaṃ na bhavati iti, vadaḥ supi kyap ca (*3,1.106) iti / sū iti dviṣā sāhacaryāt sūteḥ ādādikasya grahaṇaṃ, na suvateḥ taudādikasya / yujir yoge, yuja samādhau, dvayor api grahaṇam / vida jñāne, vida sattāyām, vida vicāraṇe, trayāṇām api grahaṇam / na lābha-arthasya videḥ, akārasya vivakṣatatvāt / sad - śuciṣat / antarikṣasat / upasat / sū - aṇḍasūḥ / śatasūḥ / prasūḥ / dviṣa - mitradviṭ / pradviṭ / druha - mitradhruk / pradhruk / duha - godhuk / pradhuk / yuja - aśvayuk / prayuk / vida - vedavit / pravit / brahmavit / bhida - kāṣṭhabhit / prabhit / chida - rajjucchid / pracchid / ji - śatrujit / prajit / nī - senānīḥ / praṇīḥ / grāmaṇīḥ / agraṇīḥ / katham atra ṇatvam ? sa eṣāṃ grāmaṇīḥ (*5,2.78) iti nipātanāt, nayateḥ pūrvapadāt sajñāyām agaḥ (*8,4.3) iti ṇatvam / rāja - rāṭ / virāṭ / samrāṭ / mo rāji samaḥ kvau (*8,2.35) iti matvam / anyebhyo 'pi dṛśyate (*3,2.178), kvip ca (*3,2.76) iti sāmānyena vakṣyati, tasya+eva ayaṃ prapañcaḥ // bhajo ṇviḥ

Sanskrit only: no published translation is held for this verse.

उपसर्गे सुपि इति वर्तते । भजेर् धातोः सुबन्त उपपदे उपसर्गे ऽपि - प्रभाक् ॥ छन्दसि सहः

upasarge supi iti vartate / bhajer dhātoḥ subanta upapade upasarge 'pi - prabhāk // chandasi sahaḥ

Sanskrit only: no published translation is held for this verse.

वहश् च

vahaś ca

Sanskrit only: no published translation is held for this verse.

वहेर् धातोः छन्दसि विषये सुबन्त उपपदे ण्विप्रत्ययो भवति । प्रष्ठवाट् । दिव्यवाट् । योग-विभाग उत्तर-अर्थः ॥ कव्य-पुरीष-पुरीष्येषु ञ्युट्

vaher dhātoḥ chandasi viṣaye subanta upapade ṇvipratyayo bhavati / praṣṭhavāṭ / divyavāṭ / yoga-vibhāga uttara-arthaḥ // kavya-purīṣa-purīṣyeṣu ñyuṭ

Sanskrit only: no published translation is held for this verse.

कव्य पुरीष पुरीष्य इत्य् एतेषु उपपदेषु छन्दसि विषये वहेर् धातोः ण्युट् प्रत्ययो भवति । कव्यवाहनः पितॄणाम् । पुरीषवाहणः । पुरीष्यवाहनः ॥ हव्ये ऽनन्तःपादाम्

kavya purīṣa purīṣya ity eteṣu upapadeṣu chandasi viṣaye vaher dhātoḥ ṇyuṭ pratyayo bhavati / kavyavāhanaḥ pitṝṇām / purīṣavāhaṇaḥ / purīṣyavāhanaḥ // havye 'nantaḥpādām

Sanskrit only: no published translation is held for this verse.

हव्य-शब्दे उपपदे छन्दसि विषये वहेर् धातोः ञ्युट् प्रत्ययो भवति, अनन्तः-पादं चेद् वहिर्वर्तते । अग्निश् च हव्य-वाहनः अनन्तःपादम् इति किम् ? हव्यवाडग्निरजरः पिता नः ॥ जन-सन-खन-क्रम-गमो विट्

havya-śabde upapade chandasi viṣaye vaher dhātoḥ ñyuṭ pratyayo bhavati, anantaḥ-pādaṃ ced vahirvartate / agniś ca havya-vāhanaḥ anantaḥpādam iti kim ? havyavāḍagnirajaraḥ pitā naḥ // jana-sana-khana-krama-gamo viṭ

Sanskrit only: no published translation is held for this verse.

छन्दसि उपसर्गे सुपि इति अनुवर्तते । जन जनने, जनी प्रदुर्भावे, द्वयोर् अपि ग्रहणम् । तथा षणु दाने, वन षने संभक्तौ, द्वयोर् अपि ग्रहणम् । जनादिभ्यः धातुभ्यः सुबन्त उपपदे छन्दसि विषये विट् प्रत्ययो भवति । टकारः सामान्य-ग्रहण-अविघात-अर्थः वेर् अपृक्तस्य (*६,१।६७) इति, विषेषण-अर्थश् च विड्वनोर् अनुनासिकस्यात् (*६,४।४१) इति । जन - अब्जाः गोजाः । सन - गोषा इन्दो नृषा असि । खन - बिसखाः । कूपखाः । क्रम - दधिक्राः । गम - अग्रेगा उन्नतॄणाम् ॥ अदो ऽनन्ने

chandasi upasarge supi iti anuvartate / jana janane, janī pradurbhāve, dvayor api grahaṇam / tathā ṣaṇu dāne, vana ṣane saṃbhaktau, dvayor api grahaṇam / janādibhyaḥ dhātubhyaḥ subanta upapade chandasi viṣaye viṭ pratyayo bhavati / ṭakāraḥ sāmānya-grahaṇa-avighāta-arthaḥ ver apṛktasya (*6,1.67) iti, viṣeṣaṇa-arthaś ca viḍvanor anunāsikasyāt (*6,4.41) iti / jana - abjāḥ gojāḥ / sana - goṣā indo nṛṣā asi / khana - bisakhāḥ / kūpakhāḥ / krama - dadhikrāḥ / gama - agregā unnatṝṇām // ado 'nanne

Sanskrit only: no published translation is held for this verse.

छन्दसि इति निवृत्तम् । अदेर् धातोर् अनन्ने सुप्य् उपपदे विट् प्रत्ययो भवति । आममत्ति आमात् । सस्यात् । अनन्ने इति किम् ? अन्नादः ॥ क्रव्ये च

chandasi iti nivṛttam / ader dhātor ananne supy upapade viṭ pratyayo bhavati / āmamatti āmāt / sasyāt / ananne iti kim ? annādaḥ // kravye ca

Sanskrit only: no published translation is held for this verse.

दुहः कब् घश् च

duhaḥ kab ghaś ca

Sanskrit only: no published translation is held for this verse.

दुहेर् धातोः सुप्य् उपपदे कप् प्रत्ययो भवति, घकारश् चान्तादेशः । कामदुघा धेनुः । अर्घदुघा । धर्मदुघ ॥ मन्त्रे श्वेत-वह-उक्थशस्-पुरोडाशो ण्विन्

duher dhātoḥ supy upapade kap pratyayo bhavati, ghakāraś cāntādeśaḥ / kāmadughā dhenuḥ / arghadughā / dharmadugha // mantre śveta-vaha-ukthaśas-puroḍāśo ṇvin

Sanskrit only: no published translation is held for this verse.

श्वेतवह उक्थशस् पुरोडाश् इत्य् एतेभ्यो ण्विन् प्रत्ययो भवति मन्त्रे विषये । धातु-उपपद-समुदाया निपात्यन्ते अलाक्षणिककार्य-सिद्ध्य्-अर्थम् । प्रत्ययस् तु विधीयत एव । श्वेत-शब्दे कर्तृ-वाचिनि उपपदे वहेर् धातोः करणि कारके ण्विन् प्रत्ययो भवति । श्वेता एनं वहन्ति श्वेतवा इन्द्रः । उक्थ-शब्दे कर्मणि करणे वा उपपदे शंसतेर् धातोः ण्विन् प्रत्ययो भवति, नलोपश् च निपात्यते । उक्थानि शंसति, उक्थैर् वा शंसति, उक्थशा यजमानः । दाशृ दाने इत्य् एतस्य पुरःपूर्वस्य डत्वम्, कर्मणि च प्रत्ययः । पुरो दाशन्त एनं प्रोडाः । श्वेतवहादीनां डस्पदस्य+इति वक्तव्यम् । श्वेतवोभ्याम् । श्वेतवोभिः । पदस्य इति किम् ? श्वेतवाहौ । श्वेतवाहः ॥ अवे यजः

śvetavaha ukthaśas puroḍāś ity etebhyo ṇvin pratyayo bhavati mantre viṣaye / dhātu-upapada-samudāyā nipātyante alākṣaṇikakārya-siddhy-artham / pratyayas tu vidhīyata eva / śveta-śabde kartṛ-vācini upapade vaher dhātoḥ karaṇi kārake ṇvin pratyayo bhavati / śvetā enaṃ vahanti śvetavā indraḥ / uktha-śabde karmaṇi karaṇe vā upapade śaṃsater dhātoḥ ṇvin pratyayo bhavati, nalopaś ca nipātyate / ukthāni śaṃsati, ukthair vā śaṃsati, ukthaśā yajamānaḥ / dāśṛ dāne ity etasya puraḥpūrvasya ḍatvam, karmaṇi ca pratyayaḥ / puro dāśanta enaṃ proḍāḥ / śvetavahādīnāṃ ḍaspadasya+iti vaktavyam / śvetavobhyām / śvetavobhiḥ / padasya iti kim ? śvetavāhau / śvetavāhaḥ // ave yajaḥ

Sanskrit only: no published translation is held for this verse.

अवे उपपदे यजेः धातोः ण्विन् प्रत्ययो भवति मन्त्रे विषये । त्वं यज्ञे वरुणस्य अवया असि । योगविभाग उत्तर-अर्थः ॥ विज् उपे छन्दसि

ave upapade yajeḥ dhātoḥ ṇvin pratyayo bhavati mantre viṣaye / tvaṃ yajñe varuṇasya avayā asi / yogavibhāga uttara-arthaḥ // vij upe chandasi

Sanskrit only: no published translation is held for this verse.

आतो मनिन्-क्वनिब्-वनिपश् च

āto manin-kvanib-vanipaś ca

Sanskrit only: no published translation is held for this verse.

छन्द्सि इति वर्तते, सुपि उपसर्गे ऽपि इति च । आकारान्तेभ्यो धातुभ्यः सुपि उपप्दे छन्द्सि विषये मनिन् क्वनिप् वनिप् इत्य् एते प्रत्यया भवन्ति । चकरात् विच् भवति । सुदामा । अश्वत्थामा । क्वनिप् - सुधीवा । सुपीवा । वनिप् - भूरिदावा । घृतपावा । विच् खल्व् अपि - कीलालपाः । शुभंयः । रामस्य+उपदाः ॥ अन्येभ्यो ऽपि दृश्यन्ते

chandsi iti vartate, supi upasarge 'pi iti ca / ākārāntebhyo dhātubhyaḥ supi upapde chandsi viṣaye manin kvanip vanip ity ete pratyayā bhavanti / cakarāt vic bhavati / sudāmā / aśvatthāmā / kvanip - sudhīvā / supīvā / vanip - bhūridāvā / ghṛtapāvā / vic khalv api - kīlālapāḥ / śubhaṃyaḥ / rāmasya+upadāḥ // anyebhyo 'pi dṛśyante

Sanskrit only: no published translation is held for this verse.

छन्दसि इति निवृत्तम् । अन्येभ्यो ऽपि धातुभ्यो ऽनाकारान्तेभ्यो मनिन् क्यनिप् वनिप् इत्य् एते प्रत्यया दृश्यन्ते, विच् च । सुशर्मा । क्वनिप् - प्रातरित्वा । प्रातरित्वानौ । वनिप् - विजावाग्ने । अग्रेयावा । विच् खल्व् अपि - रेडसि । अपि-शब्दः सर्व-उपाधिव्यभिचार-अर्थः । निरुपपदाद् अपि भवति । धीवा । पीवा । दृशि-ग्रहणं प्रयोग-अनुसरण-अर्थम् ॥ क्विप् च

chandasi iti nivṛttam / anyebhyo 'pi dhātubhyo 'nākārāntebhyo manin kyanip vanip ity ete pratyayā dṛśyante, vic ca / suśarmā / kvanip - prātaritvā / prātaritvānau / vanip - vijāvāgne / agreyāvā / vic khalv api - reḍasi / api-śabdaḥ sarva-upādhivyabhicāra-arthaḥ / nirupapadād api bhavati / dhīvā / pīvā / dṛśi-grahaṇaṃ prayoga-anusaraṇa-artham // kvip ca

Sanskrit only: no published translation is held for this verse.

सर्वधातुभ्यः सोपपदेभ्यो निरुपपदेभ्यश् च छन्दसि भाषायां च क्विप् प्रत्ययो भवति । उखायाः स्रंसते उखास्रत् । पर्णध्वत् । वाहात् भ्रश्यति, वाहाभ्रट् । अन्येषम् अपि दृश्यते (*६,३।१३७) इति दीर्घः ॥ स्थः क च

sarvadhātubhyaḥ sopapadebhyo nirupapadebhyaś ca chandasi bhāṣāyāṃ ca kvip pratyayo bhavati / ukhāyāḥ sraṃsate ukhāsrat / parṇadhvat / vāhāt bhraśyati, vāhābhraṭ / anyeṣam api dṛśyate (*6,3.137) iti dīrghaḥ // sthaḥ ka ca

Sanskrit only: no published translation is held for this verse.

सुप्य् अजातौ णिनिस् ताच्छील्ये

supy ajātau ṇinis tācchīlye

Sanskrit only: no published translation is held for this verse.

अजाति-वाचिनि सुबन्त उपपदे ताच्छील्ये गम्यमाने धातोः णिनिः प्रत्ययो भवति । उष्णभोजी । शीतभोजी । अजातौ इति किम् ? ब्राह्मणानामन्त्रयिता । ताछ्हील्ये इति किम् ? उष्णं भुङ्क्ते कदाचित् । सुपि इति वर्तमाने पुनः सुब्-ग्रहणम् उपसर्गनिवृत्त्य्-अर्थम् । उत्प्रतिभ्याम् आङि सर्तेर् उपसङ्ख्यानम् । उदासारिण्यः । प्रत्यासारिण्यः । साधुकारिणि च । सधुकारी । साधुदायी । ब्रह्मणि वदः । ब्रह्मवादिनो वदन्ति ॥ कर्तर्य् उपमामे

ajāti-vācini subanta upapade tācchīlye gamyamāne dhātoḥ ṇiniḥ pratyayo bhavati / uṣṇabhojī / śītabhojī / ajātau iti kim ? brāhmaṇānāmantrayitā / tāchhīlye iti kim ? uṣṇaṃ bhuṅkte kadācit / supi iti vartamāne punaḥ sub-grahaṇam upasarganivṛtty-artham / utpratibhyām āṅi sarter upasaṅkhyānam / udāsāriṇyaḥ / pratyāsāriṇyaḥ / sādhukāriṇi ca / sadhukārī / sādhudāyī / brahmaṇi vadaḥ / brahmavādino vadanti // kartary upamāme

Sanskrit only: no published translation is held for this verse.

कर्तृ-वाचिनि उपमाने उपपदे धातोः णिनि-प्रत्ययो भवति । उपपदकर्ता प्रत्यय-अर्थस्य कर्तुर् उपमानम् । उष्ट्र इव क्रोशति उष्ट्रक्रोशी । ध्वाङ्क्षरावी । अताच्छील्य-अर्थ आरम्भः, जात्यर्थो वा । कर्तरि इति किम् ? अपूपान् इव भक्षयति माषान् । उपमने इति किम् ? उष्ट्रः क्रोशति ॥ व्रते

kartṛ-vācini upamāne upapade dhātoḥ ṇini-pratyayo bhavati / upapadakartā pratyaya-arthasya kartur upamānam / uṣṭra iva krośati uṣṭrakrośī / dhvāṅkṣarāvī / atācchīlya-artha ārambhaḥ, jātyartho vā / kartari iti kim ? apūpān iva bhakṣayati māṣān / upamane iti kim ? uṣṭraḥ krośati // vrate

Sanskrit only: no published translation is held for this verse.

बहुलम् आभीक्ष्ण्ये

bahulam ābhīkṣṇye

Sanskrit only: no published translation is held for this verse.

आभीक्ष्ण्ये गम्यमाने धातोः बहुलं णिनिः प्रत्ययो भवति । अभीक्ष्ण्यं पौनःपुन्यम् । तात्पर्यम् आसेवैव, ताच्छील्यादन्यत् । कषायपायिणो गन्धाराः । क्षीरपायिणः उशीनराः । सौवीरपायिणो बाह्लीकाः । बहुल-ग्रहणत् कुल्माषखादः इत्य् अत्र न भवति ॥ मनः

ābhīkṣṇye gamyamāne dhātoḥ bahulaṃ ṇiniḥ pratyayo bhavati / abhīkṣṇyaṃ paunaḥpunyam / tātparyam āsevaiva, tācchīlyādanyat / kaṣāyapāyiṇo gandhārāḥ / kṣīrapāyiṇaḥ uśīnarāḥ / sauvīrapāyiṇo bāhlīkāḥ / bahula-grahaṇat kulmāṣakhādaḥ ity atra na bhavati // manaḥ

Sanskrit only: no published translation is held for this verse.

सुपि इति वर्तते । मन्यतेः सुबन्ते उपपदे णिनिः प्रत्ययो भवति । दर्शनीयमानी । शोभनमानी । बहुल-ग्रहण-अनुवृत्तेः मन्यतेः ग्रहणं न मनुतेः । उत्तरसूत्रे हि खश्-प्रत्यये विकरणकृतो विशेषः स्यात् ॥ आत्ममाने खश् च

supi iti vartate / manyateḥ subante upapade ṇiniḥ pratyayo bhavati / darśanīyamānī / śobhanamānī / bahula-grahaṇa-anuvṛtteḥ manyateḥ grahaṇaṃ na manuteḥ / uttarasūtre hi khaś-pratyaye vikaraṇakṛto viśeṣaḥ syāt // ātmamāne khaś ca

Sanskrit only: no published translation is held for this verse.

आत्मनो मननम् आत्ममानः । आत्ममाने वर्तमानान् मन्यतेः सुप्य् उपपदे खश्-प्रत्ययो भवति । चकाराण् णिनिः च । यदा प्रत्यय-अर्थः कर्ता आत्मानम् एव दर्शनीयत्वादिना धर्मेण युक्तं मन्यते, तदा ऽयं विधिः । दर्शनीयम् आत्मानं मन्यते दर्शनीयंमन्यः, दर्शनीयमानी । पण्डितं मन्यः, पण्डितमानी । आत्ममाने इति किम् ? दर्शनीयमनी देवदत्तस्य यज्ञदत्तः ॥ भूते

ātmano mananam ātmamānaḥ / ātmamāne vartamānān manyateḥ supy upapade khaś-pratyayo bhavati / cakārāṇ ṇiniḥ ca / yadā pratyaya-arthaḥ kartā ātmānam eva darśanīyatvādinā dharmeṇa yuktaṃ manyate, tadā 'yaṃ vidhiḥ / darśanīyam ātmānaṃ manyate darśanīyaṃmanyaḥ, darśanīyamānī / paṇḍitaṃ manyaḥ, paṇḍitamānī / ātmamāne iti kim ? darśanīyamanī devadattasya yajñadattaḥ // bhūte

Sanskrit only: no published translation is held for this verse.

भूते इत्य् अधिकारो वर्तमने लट् (*३,२।१२३) इति यवत् । यदित ऊर्ध्वम् अनुक्रमिष्यामः भूते इत्य् एवं तद् वेदितव्यम् । धात्व्-अधिकाराच् च धात्व्-अर्थे भूते इति विज्ञायते । वक्ष्यति - करणे यजः (*३,२।८५), अग्निष्टोमेन इष्टवान् अग्निष्टोमयाजी । भूते इति किम् ? अग्निष्टोमेन यजते ॥ करणे यजः

bhūte ity adhikāro vartamane laṭ (*3,2.123) iti yavat / yadita ūrdhvam anukramiṣyāmaḥ bhūte ity evaṃ tad veditavyam / dhātv-adhikārāc ca dhātv-arthe bhūte iti vijñāyate / vakṣyati - karaṇe yajaḥ (*3,2.85), agniṣṭomena iṣṭavān agniṣṭomayājī / bhūte iti kim ? agniṣṭomena yajate // karaṇe yajaḥ

Sanskrit only: no published translation is held for this verse.

करमणि हनः

karamaṇi hanaḥ

Sanskrit only: no published translation is held for this verse.

करणि उपपदे हन्तेर् धातोः णिनिः प्रत्ययो भवति भूते कले । पितृव्यघाती । मातुलघाती । कुग्सितग्रहणं कर्तव्यम् । इति मा भूत्, चौरं हतवान् ॥ ब्रह्म-भ्रूण-वृत्रेषु क्विप्

karaṇi upapade hanter dhātoḥ ṇiniḥ pratyayo bhavati bhūte kale / pitṛvyaghātī / mātulaghātī / kugsitagrahaṇaṃ kartavyam / iti mā bhūt, cauraṃ hatavān // brahma-bhrūṇa-vṛtreṣu kvip

Sanskrit only: no published translation is held for this verse.

कर्मणि इति वर्तते । ब्रह्मादिषु कर्मसु उपपदेषु हन्तेर् धातोः क्विप् प्रत्ययो भवति भूते । ब्रह्महा । ब्रूणहा । वृत्रहा । किमर्थम् इदम् उच्यते यावता सर्वधातुभ्यः क्विप् विहित एव ? ब्रह्मादिषु हन्तेः क्विब्-वचनं नियम-अर्थम् । चतुर्विधश् च अत्र नियम इष्यते । ब्रह्मादिष्व् एव हन्तेः, न अन्यस्मिन्नौपपदे, पुरुषं हतवान् इति । ब्रह्मादिषु हन्तेर् एव, न अन्यस्मात् स्यात्, ब्रह्म अधीतवान् इति । ब्रह्मादिषु हन्तेर् भूतकाले क्विप् एव न अन्यः प्रत्ययः, तथा भूतकाले एव न अन्यस्मिन्, ब्रह्माणं हन्ति हनिष्यति वा इति । तद् एतद् वक्ष्यमाण-बहुल-ग्रहणस्य पुरस्ताअदपकर्षणाल् लभ्यते ॥ बहुलं छन्दसि

karmaṇi iti vartate / brahmādiṣu karmasu upapadeṣu hanter dhātoḥ kvip pratyayo bhavati bhūte / brahmahā / brūṇahā / vṛtrahā / kimartham idam ucyate yāvatā sarvadhātubhyaḥ kvip vihita eva ? brahmādiṣu hanteḥ kvib-vacanaṃ niyama-artham / caturvidhaś ca atra niyama iṣyate / brahmādiṣv eva hanteḥ, na anyasminnaupapade, puruṣaṃ hatavān iti / brahmādiṣu hanter eva, na anyasmāt syāt, brahma adhītavān iti / brahmādiṣu hanter bhūtakāle kvip eva na anyaḥ pratyayaḥ, tathā bhūtakāle eva na anyasmin, brahmāṇaṃ hanti haniṣyati vā iti / tad etad vakṣyamāṇa-bahula-grahaṇasya purastāadapakarṣaṇāl labhyate // bahulaṃ chandasi

Sanskrit only: no published translation is held for this verse.

पूर्वेण नियमाद् अप्राप्तः क्विप् प्रत्ययः विधीयते । छन्दसि विषये उपपदन्तरेष्व् अपि हन्तेर् बहुलं क्विप् प्रत्ययो भवति । मतृहा सप्तमं नरकं व्रजेत् । पितृहा । न च भवति । मातृघातः । पितृघातः ॥ सु-कर्म-पाप-मन्त्र-पुण्येषु कृञः

pūrveṇa niyamād aprāptaḥ kvip pratyayaḥ vidhīyate / chandasi viṣaye upapadantareṣv api hanter bahulaṃ kvip pratyayo bhavati / matṛhā saptamaṃ narakaṃ vrajet / pitṛhā / na ca bhavati / mātṛghātaḥ / pitṛghātaḥ // su-karma-pāpa-mantra-puṇyeṣu kṛñaḥ

Sanskrit only: no published translation is held for this verse.

कर्मणि इति वर्तते । तद्-असम्भवात् सु-शब्दम् वर्जयित्वा परिशिष्टानां विशेषणं भवति । स्वादिषु कर्मसु उपपदेषु करोतेर् धातोः क्विप् प्रत्ययो भवति । सुकृत् । कर्मकृत् । पापकृत् । मन्त्रकृत् । पुण्यकृत् । अयम् अपि नियम-अर्थ आरम्भः । त्रिविधश् च अत्र नियम इष्यते । धातुनियमं वर्जयित्वा कालोपपद-प्रत्ययनियमः । धतोर् अनियतत्वाद् अन्यस्मिन्न् उपपदे अपि भवति । शास्त्रकृत् । भाष्यकृट् ॥ सोमे सुञः

karmaṇi iti vartate / tad-asambhavāt su-śabdam varjayitvā pariśiṣṭānāṃ viśeṣaṇaṃ bhavati / svādiṣu karmasu upapadeṣu karoter dhātoḥ kvip pratyayo bhavati / sukṛt / karmakṛt / pāpakṛt / mantrakṛt / puṇyakṛt / ayam api niyama-artha ārambhaḥ / trividhaś ca atra niyama iṣyate / dhātuniyamaṃ varjayitvā kālopapada-pratyayaniyamaḥ / dhator aniyatatvād anyasminn upapade api bhavati / śāstrakṛt / bhāṣyakṛṭ // some suñaḥ

Sanskrit only: no published translation is held for this verse.

अग्नौ चेः

agnau ceḥ

Sanskrit only: no published translation is held for this verse.

कर्मणि इत्य् एव । अग्नौ कर्मण्य् उपपदे चिनोतेर् धातोः क्विप् प्रत्ययो भवति । अग्निचित्, अग्निचितौ, अग्निचितः । अत्र अपि पूर्ववच् चतुर्विधो नियम इष्यते ॥ कर्मण्य्-अग्न्य्-आख्यायाम्

karmaṇi ity eva / agnau karmaṇy upapade cinoter dhātoḥ kvip pratyayo bhavati / agnicit, agnicitau, agnicitaḥ / atra api pūrvavac caturvidho niyama iṣyate // karmaṇy-agny-ākhyāyām

Sanskrit only: no published translation is held for this verse.

चेः कर्मणि इति वर्तते । कर्मणि उपपदे चिनोतेः कर्मण्य् एव कारके क्विप् प्रत्ययो भवति अग्न्य्-आख्यायां, धातूपपद-प्रत्यय-समुदायेन चेदग्न्याख्या गम्यते । श्येन इव चीयते श्येनचित् । कङ्कचित् । आख्या-ग्रहणं रूढिसम्प्रत्ययार्थम् । अग्न्य्-अर्थो हि इष्टकाचय उच्यते श्येनचित् इति ॥ कर्मणि इनिर् विक्रियः

ceḥ karmaṇi iti vartate / karmaṇi upapade cinoteḥ karmaṇy eva kārake kvip pratyayo bhavati agny-ākhyāyāṃ, dhātūpapada-pratyaya-samudāyena cedagnyākhyā gamyate / śyena iva cīyate śyenacit / kaṅkacit / ākhyā-grahaṇaṃ rūḍhisampratyayārtham / agny-artho hi iṣṭakācaya ucyate śyenacit iti // karmaṇi inir vikriyaḥ

Sanskrit only: no published translation is held for this verse.

कर्मणि उपपदे वि-पूर्वत् क्रीणातेर् धातोः इनिः प्रत्ययो भवति । कर्मणि इति वर्तमाणे पुनः कर्म-ग्रहणं कर्तुः कुत्सानिमित्ते कर्मणि यथा स्यात्, कर्म-मात्रे मा भूत् । सोमविक्रयी । रसविक्रयी । इह न भवति, धान्य-विक्रायः ॥ दृशेः क्वनिप्

karmaṇi upapade vi-pūrvat krīṇāter dhātoḥ iniḥ pratyayo bhavati / karmaṇi iti vartamāṇe punaḥ karma-grahaṇaṃ kartuḥ kutsānimitte karmaṇi yathā syāt, karma-mātre mā bhūt / somavikrayī / rasavikrayī / iha na bhavati, dhānya-vikrāyaḥ // dṛśeḥ kvanip

Sanskrit only: no published translation is held for this verse.

कर्मणि इत्य् एव । दृशेः धातोः कर्मणि उपपदे क्वनिप् प्रत्ययो भवति । मेरुदृश्वा । परलोकदृश्वा । अन्येभ्यो ऽपि दृश्यन्ते (*३,२।७५) इति क्वनिपि सिद्धे पुनर्वचनं प्रत्ययान्तर-निवृत्त्य्-अर्थम् ॥ राजनि युधिकृञः

karmaṇi ity eva / dṛśeḥ dhātoḥ karmaṇi upapade kvanip pratyayo bhavati / merudṛśvā / paralokadṛśvā / anyebhyo 'pi dṛśyante (*3,2.75) iti kvanipi siddhe punarvacanaṃ pratyayāntara-nivṛtty-artham // rājani yudhikṛñaḥ

Sanskrit only: no published translation is held for this verse.

कर्मणि इत्य् एव । राजन्-शब्दे कर्मणि उपपदे युध्यतेः करोतेश् च क्वनिप् प्रत्ययो भवति । ननु च युधिर् अकर्मकः ? अन्तर्भावितण्य्-अर्थः सकर्मको भवति । राजयुध्वा । राजानं योधितवान् इत्य् अर्थः । राजकृत्वा ॥ सहे च

karmaṇi ity eva / rājan-śabde karmaṇi upapade yudhyateḥ karoteś ca kvanip pratyayo bhavati / nanu ca yudhir akarmakaḥ ? antarbhāvitaṇy-arthaḥ sakarmako bhavati / rājayudhvā / rājānaṃ yodhitavān ity arthaḥ / rājakṛtvā // sahe ca

Sanskrit only: no published translation is held for this verse.

सह-शब्दे च+उपपदे युधिकृञोः धात्वोः क्वनिप् प्रत्ययो भवति । असत्त्ववाचित्वान् न+उपपदं कर्मणा विशेष्यते । सहयुध्वा । सहकृत्वा ॥ सप्तम्यां जनेर् डः

saha-śabde ca+upapade yudhikṛñoḥ dhātvoḥ kvanip pratyayo bhavati / asattvavācitvān na+upapadaṃ karmaṇā viśeṣyate / sahayudhvā / sahakṛtvā // saptamyāṃ janer ḍaḥ

Sanskrit only: no published translation is held for this verse.

पञ्चम्याम् अजातौ

pañcamyām ajātau

Sanskrit only: no published translation is held for this verse.

उपसर्गे च सञ्ज्ञायाम्

upasarge ca sañjñāyām

Sanskrit only: no published translation is held for this verse.

उपसर्गे च उपपदे जनेः डः प्रत्ययो भवति सञ्ज्ञायां विषये । समुदायोपाधिः सञ्ज्ञा । अथेमा मानवीः प्रजाः ॥ अनौ कर्मणि

upasarge ca upapade janeḥ ḍaḥ pratyayo bhavati sañjñāyāṃ viṣaye / samudāyopādhiḥ sañjñā / athemā mānavīḥ prajāḥ // anau karmaṇi

Sanskrit only: no published translation is held for this verse.

अन्येष्व् अपि दृश्यते

anyeṣv api dṛśyate

Sanskrit only: no published translation is held for this verse.

अन्येष्व् अपि उपपदेषु कारकेषु जनेः डः प्रत्ययो दृश्यते । सप्तम्याम् इत्य् उकतम सप्तम्याम् अपि दृश्यते । न जायते इति अजः । द्विर्जाताः द्विजाः । पञ्चम्याम् अजातौ (*३,२।९८) इत्य् उक्तं, जातव् अपि दृश्यते । ब्राह्मणजो धर्मः । क्षत्रियजं युद्धम् । उपसर्गे च सञ्ज्ञायाम् (*३,२।९९) इत्य् उक्तम्, असञ्ज्ञायाम् अपि दृश्यते । अभिजाः, परिजाः केशाः । अनु कर्मणि (*३,२।१००) इत्य् उक्तम्, अकर्मण्य् अपि दृश्यते । अनुजातः अनुजः । अपि-शब्दः सर्वोपाधिव्यभिचार-अर्थः । तेन धात्वन्तराद् अपि भवति, कारकन्तरे ऽपि । परितः खाता परिखा । आखा ॥ निष्ठा

anyeṣv api upapadeṣu kārakeṣu janeḥ ḍaḥ pratyayo dṛśyate / saptamyām ity ukatama saptamyām api dṛśyate / na jāyate iti ajaḥ / dvirjātāḥ dvijāḥ / pañcamyām ajātau (*3,2.98) ity uktaṃ, jātav api dṛśyate / brāhmaṇajo dharmaḥ / kṣatriyajaṃ yuddham / upasarge ca sañjñāyām (*3,2.99) ity uktam, asañjñāyām api dṛśyate / abhijāḥ, parijāḥ keśāḥ / anu karmaṇi (*3,2.100) ity uktam, akarmaṇy api dṛśyate / anujātaḥ anujaḥ / api-śabdaḥ sarvopādhivyabhicāra-arthaḥ / tena dhātvantarād api bhavati, kārakantare 'pi / paritaḥ khātā parikhā / ākhā // niṣṭhā

Sanskrit only: no published translation is held for this verse.

सु-यजोर् ङ्वनिप्

su-yajor ṅvanip

Sanskrit only: no published translation is held for this verse.

सुनोतेर् यजतेश् च ङ्वनिप् प्रत्ययो भवति । सुत्वा । यज्वा ॥ जीर्यतेर् अतृन्

sunoter yajateś ca ṅvanip pratyayo bhavati / sutvā / yajvā // jīryater atṛn

Sanskrit only: no published translation is held for this verse.

भूते (*३,२।७४) इति वर्तते । जीर्यतेः अतृन् प्रत्ययो भवति भूते । जरन्, जरन्तौ, जरन्तः । वा+असरूपेण निष्ठा, जीर्णः, जीर्णवान् इति ॥ छन्दसि लिट्

bhūte (*3,2.74) iti vartate / jīryateḥ atṛn pratyayo bhavati bhūte / jaran, jarantau, jarantaḥ / vā+asarūpeṇa niṣṭhā, jīrṇaḥ, jīrṇavān iti // chandasi liṭ

Sanskrit only: no published translation is held for this verse.

भूते इत्य् एव । छन्दसि विषये धातोः लिट् प्रत्ययो भवति । अहं सूर्यमुभयतो ददर्श । अहं ध्यावापृथिवी आततान । ननु च छ्न्दसि लुड्-लङ्-लिटः (*३,४।६) इति सामान्येन लिट् विहित एव ? धातु-सम्बन्धे स विधिः, अयं त्व् अविषेषेण ॥ लिटः कानज् वा

bhūte ity eva / chandasi viṣaye dhātoḥ liṭ pratyayo bhavati / ahaṃ sūryamubhayato dadarśa / ahaṃ dhyāvāpṛthivī ātatāna / nanu ca chndasi luḍ-laṅ-liṭaḥ (*3,4.6) iti sāmānyena liṭ vihita eva ? dhātu-sambandhe sa vidhiḥ, ayaṃ tv aviṣeṣeṇa // liṭaḥ kānaj vā

Sanskrit only: no published translation is held for this verse.

छन्दसि लिटः कानज्-आदेशो भवति वा । अग्निं चिक्यानः । सोमं सुषुवाणः । वरुणं सुषुवानम् । न च भवति । अहं सूर्यमुभयतो ददर्श । अहं द्यावापृथिवी आततान । लिड्-ग्रहणं किम्, न पूर्वस्य+एव प्रकृतस्य आदेशाविधाने विभक्ति-विपरिणामो भविष्यति ? लिण्मात्रस्य यथा स्यात्, यो ऽपि परोक्षे विहितस् तस्य अप्य् अयम् आदेशो भवति ॥ क्वसुश् च

chandasi liṭaḥ kānaj-ādeśo bhavati vā / agniṃ cikyānaḥ / somaṃ suṣuvāṇaḥ / varuṇaṃ suṣuvānam / na ca bhavati / ahaṃ sūryamubhayato dadarśa / ahaṃ dyāvāpṛthivī ātatāna / liḍ-grahaṇaṃ kim, na pūrvasya+eva prakṛtasya ādeśāvidhāne vibhakti-vipariṇāmo bhaviṣyati ? liṇmātrasya yathā syāt, yo 'pi parokṣe vihitas tasya apy ayam ādeśo bhavati // kvasuś ca

Sanskrit only: no published translation is held for this verse.

छन्दसि लिटः क्वसुर् आदेशः भवति । जक्षिवान् । पपिवान् । न च भवति । अहं सूर्यमुभयतो ददर्श । योगविभाग उत्तरार्थः ॥ भाषायां सद-वस-श्रुवः

chandasi liṭaḥ kvasur ādeśaḥ bhavati / jakṣivān / papivān / na ca bhavati / ahaṃ sūryamubhayato dadarśa / yogavibhāga uttarārthaḥ // bhāṣāyāṃ sada-vasa-śruvaḥ

Sanskrit only: no published translation is held for this verse.

उपेयिवान् अनाश्वान् अनूचानश् च

upeyivān anāśvān anūcānaś ca

Sanskrit only: no published translation is held for this verse.

उपेयिवान् अनाश्वान् अनूचान इत्य् एते शब्दा निपात्यन्ते । उपपूर्वाद् इणः क्वसुः, द्विर्वचनम् अभ्यास-दीर्घत्वं तत्सामर्थ्याद् एकादेश-प्रतिबन्धः, तत्र वस्व् एक-अज्-आद्-धसाम् (*७,२।६७) इत्य् अनेकाच्त्वादिण् न प्राप्नोति, स निपात्यते, अभ्यासस्य श्रवणं धातुरूपस्य यणादेशः । उपेयिवान् । क्रादिनियमात् प्राप्तश् च वस्व् एक-अज्-आद्-धसाम् (*७,२।६७) इति प्रतिषिद्धः, स पुनर् इट् प्रतिप्रसूयते, तेन अजादौ न भवति । उपेयुषः । उपेयुषा । न च अत्र+उपसर्गास् तन्त्रम्, अन्योपसर्ग-पूर्वान् निरुपसर्गाच् च भवत्य् एव । समीयिवान् । ईयिवान् । वावचन-अनुवृत्तेश् च पूर्ववल् लुड्-आदयो ऽपि भवन्ति । उपागात् । उपैत् । उपेपाय । अश्नातेर् नञ्पूर्वात् क्वसुर् निपत्यते, इडभावश् च । अनाश्वान् । नाशीत् । नश्नात् । नाश । वचेर् अनुपूर्वात् कर्तरि कानज् निपात्यते । अनूचानः । अन्ववोचत् । अन्वब्रवीत् । अनूवाच ॥ लुङ्

upeyivān anāśvān anūcāna ity ete śabdā nipātyante / upapūrvād iṇaḥ kvasuḥ, dvirvacanam abhyāsa-dīrghatvaṃ tatsāmarthyād ekādeśa-pratibandhaḥ, tatra vasv eka-aj-ād-dhasām (*7,2.67) ity anekāctvādiṇ na prāpnoti, sa nipātyate, abhyāsasya śravaṇaṃ dhāturūpasya yaṇādeśaḥ / upeyivān / krādiniyamāt prāptaś ca vasv eka-aj-ād-dhasām (*7,2.67) iti pratiṣiddhaḥ, sa punar iṭ pratiprasūyate, tena ajādau na bhavati / upeyuṣaḥ / upeyuṣā / na ca atra+upasargās tantram, anyopasarga-pūrvān nirupasargāc ca bhavaty eva / samīyivān / īyivān / vāvacana-anuvṛtteś ca pūrvaval luḍ-ādayo 'pi bhavanti / upāgāt / upait / upepāya / aśnāter nañpūrvāt kvasur nipatyate, iḍabhāvaś ca / anāśvān / nāśīt / naśnāt / nāśa / vacer anupūrvāt kartari kānaj nipātyate / anūcānaḥ / anvavocat / anvabravīt / anūvāca // luṅ

Sanskrit only: no published translation is held for this verse.

भूते इत्य् एव । बूते ऽर्थे वर्तमानाद् धातोः लुङ् प्रत्ययो भवति । अकार्षीत् । अहार्षीत् । वसतेर् लुङ् रात्रि-विशेषे जागरणसन्ततौ वक्तव्यः । क्व भवानुषितः । अहमत्रावात्सम् ॥ अनद्यतने लङ्

bhūte ity eva / būte 'rthe vartamānād dhātoḥ luṅ pratyayo bhavati / akārṣīt / ahārṣīt / vasater luṅ rātri-viśeṣe jāgaraṇasantatau vaktavyaḥ / kva bhavānuṣitaḥ / ahamatrāvātsam // anadyatane laṅ

Sanskrit only: no published translation is held for this verse.

भूते इत्य् एव । अनद्यतने इति बहुव्रीहि-निर्देशः । अविद्यमानाद्यतने भूते ऽर्थे वर्तमानाद् धातोर् लङ् प्रत्ययो भवति । अकरोत् । अहरत् । बहुव्रीहि-निर्देशः किम् अर्थः ? अद्य ह्यो वा अभुक्ष्महि इति व्यामिश्रे मा भूत् । परोक्षे च लोकविज्ञाते प्रयोक्तुर् दर्शन-विषये लङ् वक्तव्यः । अरुणद्यवनः साकेतम् । अरुणद् यवनो माद्यमिकान् इति ॥ अभिज्ञा-वचने लृट्

bhūte ity eva / anadyatane iti bahuvrīhi-nirdeśaḥ / avidyamānādyatane bhūte 'rthe vartamānād dhātor laṅ pratyayo bhavati / akarot / aharat / bahuvrīhi-nirdeśaḥ kim arthaḥ ? adya hyo vā abhukṣmahi iti vyāmiśre mā bhūt / parokṣe ca lokavijñāte prayoktur darśana-viṣaye laṅ vaktavyaḥ / aruṇadyavanaḥ sāketam / aruṇad yavano mādyamikān iti // abhijñā-vacane lṛṭ

Sanskrit only: no published translation is held for this verse.

न यदि

na yadi

Sanskrit only: no published translation is held for this verse.

यच्-छब्द-सहिते अभिज्ञा-वचन उपपदे लृट् प्रत्ययो न भवति । पूर्वेण प्राप्तः प्रतिषिद्यते । अभिजानासि देवदत्त यत् कश्मीरेष्व् अवसाम । वासमात्रं स्मर्यते, न तु अपरं किंचिल् लक्ष्यते । तेन उत्तर-सूत्रस्य न अयं विषयः ॥ विभाषा साकाङ्क्षे

yac-chabda-sahite abhijñā-vacana upapade lṛṭ pratyayo na bhavati / pūrveṇa prāptaḥ pratiṣidyate / abhijānāsi devadatta yat kaśmīreṣv avasāma / vāsamātraṃ smaryate, na tu aparaṃ kiṃcil lakṣyate / tena uttara-sūtrasya na ayaṃ viṣayaḥ // vibhāṣā sākāṅkṣe

Sanskrit only: no published translation is held for this verse.

यदि इति न अनुवर्तते । उभयत्र विभाशेयम् । अभिज्ञा-वचने उपपदे यच्-छब्द-सहिते केवले च विभाषा लृट् प्रत्ययो भवति, साकाङ्क्षश् चेत् प्रयोक्ता । लक्ष्य-लक्षणयोः सम्बन्धे प्रयोक्तुर् आकाङ्क्षा भवति । अभिजानसि देवदत्त कश्मीरेषु वत्स्यामस् तत्र उदनं भोक्ष्यामहे । अभिजानासि देवदत्त मगधेषु वत्स्यामः, तत्र उदनं भोक्ष्यामहे । यदि खल्व् अपि - अभिजानासि देवदत्त यत् कश्मीरेषु वत्स्यामः, यत् तत्र उदनं भोक्ष्यामहे । अभिजानसि देवदत्त यत् कश्मीरेष्व् अवसाम, यत् तत्र उदनम् अभुञ्ज्महि । वासो लक्षणं, भोजनं लक्ष्यम् ॥ परोक्षे लिट्

yadi iti na anuvartate / ubhayatra vibhāśeyam / abhijñā-vacane upapade yac-chabda-sahite kevale ca vibhāṣā lṛṭ pratyayo bhavati, sākāṅkṣaś cet prayoktā / lakṣya-lakṣaṇayoḥ sambandhe prayoktur ākāṅkṣā bhavati / abhijānasi devadatta kaśmīreṣu vatsyāmas tatra udanaṃ bhokṣyāmahe / abhijānāsi devadatta magadheṣu vatsyāmaḥ, tatra udanaṃ bhokṣyāmahe / yadi khalv api - abhijānāsi devadatta yat kaśmīreṣu vatsyāmaḥ, yat tatra udanaṃ bhokṣyāmahe / abhijānasi devadatta yat kaśmīreṣv avasāma, yat tatra udanam abhuñjmahi / vāso lakṣaṇaṃ, bhojanaṃ lakṣyam // parokṣe liṭ

Sanskrit only: no published translation is held for this verse.

भूतानद्यतने इति वर्तते । तस्य विशेषणं परोक्ष-ग्रहणम् । घूतानद्यतन-परोक्षे ऽर्थे वर्तमनाद् धात्ः लिट् प्रत्ययो भवति । ननु धात्व्-अर्थः सर्वः परोक्ष एव ? सत्यम् एतत् । अस्ति तु लोके धात्व्-अर्थेन अपि कारकेषु प्रत्यक्षाभिमनः । स यत्र न अस्ति तत् परोक्षम् इत्य् उच्यते । चकार । जहार । उत्तम-विषये ऽपि चित्तव्याक्षेपात् परोक्षता सम्भवत्य् एव । तद् यथा - सुप्तो ऽहं किल विललाप । अत्यन्तापह्नवे च लिड् वक्तव्यः । कलिङ्गेषु स्थितो ऽसि ? हानं कलिङ्गञ् जगाम । दक्षिणापथं प्रविष्टो ऽसि ? नाहं दक्षिणापथं प्रविवेश ॥ ह-शश्वतोर् लङ् च

bhūtānadyatane iti vartate / tasya viśeṣaṇaṃ parokṣa-grahaṇam / ghūtānadyatana-parokṣe 'rthe vartamanād dhātḥ liṭ pratyayo bhavati / nanu dhātv-arthaḥ sarvaḥ parokṣa eva ? satyam etat / asti tu loke dhātv-arthena api kārakeṣu pratyakṣābhimanaḥ / sa yatra na asti tat parokṣam ity ucyate / cakāra / jahāra / uttama-viṣaye 'pi cittavyākṣepāt parokṣatā sambhavaty eva / tad yathā - supto 'haṃ kila vilalāpa / atyantāpahnave ca liḍ vaktavyaḥ / kaliṅgeṣu sthito 'si ? hānaṃ kaliṅgañ jagāma / dakṣiṇāpathaṃ praviṣṭo 'si ? nāhaṃ dakṣiṇāpathaṃ praviveśa // ha-śaśvator laṅ ca

Sanskrit only: no published translation is held for this verse.

प्रश्ने च आसन्न-कले

praśne ca āsanna-kale

Sanskrit only: no published translation is held for this verse.

भुतानद्यतन-परोक्षे इति वर्तते । तस्य विशेषणम् एतत् । प्रष्टव्यः प्रश्नः । आसनकाले पृच्छ्यमने भूतानद्यतन-परोक्षे ऽर्थे वर्तमानाद् धातोः लङ्-लिटौ प्रत्ययौ भवतः । कश्चित् कञ्चत् पृच्छति । अगच्छद् देवदत्तः ? जगाम देवदत्तः ? अयजद् देवदत्तः ? इयाज देवदत्तः ? प्रश्ने इति किम् ? जगाम देवदत्तः । आसनकाले इति किम् ? भवन्तं पृच्छामि, जघान कंसं किल वासुदेवः ? ॥ लट् स्मे

bhutānadyatana-parokṣe iti vartate / tasya viśeṣaṇam etat / praṣṭavyaḥ praśnaḥ / āsanakāle pṛcchyamane bhūtānadyatana-parokṣe 'rthe vartamānād dhātoḥ laṅ-liṭau pratyayau bhavataḥ / kaścit kañcat pṛcchati / agacchad devadattaḥ ? jagāma devadattaḥ ? ayajad devadattaḥ ? iyāja devadattaḥ ? praśne iti kim ? jagāma devadattaḥ / āsanakāle iti kim ? bhavantaṃ pṛcchāmi, jaghāna kaṃsaṃ kila vāsudevaḥ ? // laṭ sme

Sanskrit only: no published translation is held for this verse.

भूतानद्यतन-परोक्षे इति वर्तते । स्म-शब्दे उपपदे भूतानद्यतन-परोक्षे लट् प्रत्ययो भवति । लिटो ऽपवादः । नडेन स्म पुराधीयते । ऊर्णया स्म पुराधीयते ॥ अपरोक्षे च

bhūtānadyatana-parokṣe iti vartate / sma-śabde upapade bhūtānadyatana-parokṣe laṭ pratyayo bhavati / liṭo 'pavādaḥ / naḍena sma purādhīyate / ūrṇayā sma purādhīyate // aparokṣe ca

Sanskrit only: no published translation is held for this verse.

अपरोक्षे च भूतानद्यतने ऽर्थे वर्तमानाद् धातोः स्मे उपपदे लट् प्रत्ययओ भवति । एवं स्म पिता ब्रवीति । इति स्म-उपाद्यायः कथयति ॥ ननौ पृष्ट-प्रति-वचने

aparokṣe ca bhūtānadyatane 'rthe vartamānād dhātoḥ sme upapade laṭ pratyayao bhavati / evaṃ sma pitā bravīti / iti sma-upādyāyaḥ kathayati // nanau pṛṣṭa-prati-vacane

Sanskrit only: no published translation is held for this verse.