अलङ्-कृञ्-आदिभ्यो धातुभ्यः तच्छीलादिषु कर्तृषु इष्णुच् प्रत्ययो भवति । अलङ्करिष्णुः । निराकरिष्णुः । प्रजनिष्णुः । उत्पचिष्णुः । उत्पतिष्णुः । उन्मदिष्णुः । रोचिष्णुः । अपत्रपिष्णुः । वर्तिष्णुः । वर्धिष्णुः । सहिष्णुः । चरिष्णुः । अलङकृञो मण्डनार्थाद् युचः पूर्वविप्रतिषेधेनेष्णुज् वक्तव्यः । णेश् छन्दसि
alaṅ-kṛñ-ādibhyo dhātubhyaḥ tacchīlādiṣu kartṛṣu iṣṇuc pratyayo bhavati / alaṅkariṣṇuḥ / nirākariṣṇuḥ / prajaniṣṇuḥ / utpaciṣṇuḥ / utpatiṣṇuḥ / unmadiṣṇuḥ / rociṣṇuḥ / apatrapiṣṇuḥ / vartiṣṇuḥ / vardhiṣṇuḥ / sahiṣṇuḥ / cariṣṇuḥ / alaṅakṛño maṇḍanārthād yucaḥ pūrvavipratiṣedheneṣṇuj vaktavyaḥ / ṇeś chandasi
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.