भ्राजादिभ्यः धातुभ्यस् तच्छीलादिषु कर्तृषु क्विप् प्रत्ययो भवति । विभ्राट्, विभ्राजौ, विभ्राजः । भाः, भासौ, भसः । धूः, धुरौ, धुरः । विद्युत्, विद्युतौ, विद्युतः । ऊर्क्, ऊर्जौ, ऊर्जः । पूः, पुरौ, पुरः । जवतेर् दीर्घश् च निपात्यते । जूः जुवौ, जुवः । ग्रावस्तुत्, ग्रावस्तुतौ, ग्रावस्तुतः । किमर्थम् इदम् उच्यते, यावता अन्येभ्यो ऽपि दृश्यन्ते (*३,२।७५), क्विप् च (*३,२।७६) इति क्विप् सिद्ध एव ? ताच्छीलिकैर् बाध्यते । वा ऽसरूपविधिर् न अस्ति इत्य् उक्तम् । अथ तु प्रायिकम् एतत् । ततस् तस्य+एव अयं प्रप्ञ्चः ॥ अन्येभ्यो ऽपि दृश्यते
bhrājādibhyaḥ dhātubhyas tacchīlādiṣu kartṛṣu kvip pratyayo bhavati / vibhrāṭ, vibhrājau, vibhrājaḥ / bhāḥ, bhāsau, bhasaḥ / dhūḥ, dhurau, dhuraḥ / vidyut, vidyutau, vidyutaḥ / ūrk, ūrjau, ūrjaḥ / pūḥ, purau, puraḥ / javater dīrghaś ca nipātyate / jūḥ juvau, juvaḥ / grāvastut, grāvastutau, grāvastutaḥ / kimartham idam ucyate, yāvatā anyebhyo 'pi dṛśyante (*3,2.75), kvip ca (*3,2.76) iti kvip siddha eva ? tācchīlikair bādhyate / vā 'sarūpavidhir na asti ity uktam / atha tu prāyikam etat / tatas tasya+eva ayaṃ prapñcaḥ // anyebhyo 'pi dṛśyate
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.