त्रिविधं कर्म, निर्वर्त्यं, विकार्यं, प्राप्यं च+इति । सर्वत्र कर्मणि उपपदे धातोः अण् प्रत्ययो भवति । निर्वर्त्यं तावत् -- कुम्भकारः । नगरकारः । विकार्यम् -- काण्डलावः । शरलावः । प्राप्यम् - वेदाध्यायः । चर्चापारः । ग्रामं गच्छति, आदित्यं पश्यति, हिमवन्तं शृणोति इत्य् अत्र न भवति, अनभिधानात् । शीलिकामिभक्ष्याचरिभ्यो णः पूर्वपद-प्रकृतिस्वरत्वं च वक्तव्यम् । मांसशीलः, मांसशीला । मांसकामः, मांसकामा । मांसभक्षः, मांसभक्षा । कल्याणाचारः, कल्याणाचारा । ईक्षक्षमिभ्यां च+इति वक्तव्यम् । सुखप्रतीक्षः, सुखप्रतीक्षा । बहुक्षमः, बहुक्षमा ॥ ह्वा-वा-अमश् च
trividhaṃ karma, nirvartyaṃ, vikāryaṃ, prāpyaṃ ca+iti / sarvatra karmaṇi upapade dhātoḥ aṇ pratyayo bhavati / nirvartyaṃ tāvat -- kumbhakāraḥ / nagarakāraḥ / vikāryam -- kāṇḍalāvaḥ / śaralāvaḥ / prāpyam - vedādhyāyaḥ / carcāpāraḥ / grāmaṃ gacchati, ādityaṃ paśyati, himavantaṃ śṛṇoti ity atra na bhavati, anabhidhānāt / śīlikāmibhakṣyācaribhyo ṇaḥ pūrvapada-prakṛtisvaratvaṃ ca vaktavyam / māṃsaśīlaḥ, māṃsaśīlā / māṃsakāmaḥ, māṃsakāmā / māṃsabhakṣaḥ, māṃsabhakṣā / kalyāṇācāraḥ, kalyāṇācārā / īkṣakṣamibhyāṃ ca+iti vaktavyam / sukhapratīkṣaḥ, sukhapratīkṣā / bahukṣamaḥ, bahukṣamā // hvā-vā-amaś ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.