ऋत्विगादयः पञ्च-शब्दाः क्विन्-प्रत्ययान्ताः निपात्यन्ते, अपरे त्रयो धात्वो निर्दिष्यन्ते । ऋतु-शब्द उपपदे यजेर् धतोः क्विन् प्रत्ययो निपात्यते । ऋतौ यजति, ऋतुं वा यजति, ऋतुप्रयुक्तो वा यजति ऋत्विक् । रूढिरेषा यथा कथंचिद् अनुगन्तव्या । धृषेः क्विन् प्रत्ययः, द्विर्वचनम्, अन्तोदात्तत्वं च निपात्यते । धृष्णोति इति दधृक् । सृजेः कर्मणि क्विन्, अमागमः च निपात्यते । सृजन्ति तम् इति स्रक् । दिषेः कर्मणि क्विन् निपात्यते । दिशन्ति ताम् इति दिक् । उत्पूर्वात् स्निहेः क्विन्, उपसर्गान्त-लोपः, षत्वं च निपात्यते । उष्णिक् । अञ्चु युजि क्रुञ्च इत्य् एतेषां धातूनां क्विन् प्रत्ययो भवति । निपातनैः सह निर्देशात् अत्र अपि किंचिद् अलाक्षणिकं कार्यम् अस्ति । अञ्चतेः सुब्नत-मात्र उपपदे क्विन् प्रत्ययो भवति । प्राङ् । प्रत्यङ् । उदङ् । युजेः क्रुञ्चेश् च केवलाद् एव । युङ्, युञ्जौ, युञ्जः । सोपपदात् तु सत्सूद्विष (*३,२।६१) इत्य् आदिना क्विप् भवति । अश्वयुक्, अश्वयुजौ, अश्वयुजः । क्रुङ्, क्रुञ्चौ, क्रुञ्चः । नलोपः कस्मान् न भवति ? निपातन-साहचर्यात् ॥ त्यदादिषु दृशो ऽनालोचने कञ् च
ṛtvigādayaḥ pañca-śabdāḥ kvin-pratyayāntāḥ nipātyante, apare trayo dhātvo nirdiṣyante / ṛtu-śabda upapade yajer dhatoḥ kvin pratyayo nipātyate / ṛtau yajati, ṛtuṃ vā yajati, ṛtuprayukto vā yajati ṛtvik / rūḍhireṣā yathā kathaṃcid anugantavyā / dhṛṣeḥ kvin pratyayaḥ, dvirvacanam, antodāttatvaṃ ca nipātyate / dhṛṣṇoti iti dadhṛk / sṛjeḥ karmaṇi kvin, amāgamaḥ ca nipātyate / sṛjanti tam iti srak / diṣeḥ karmaṇi kvin nipātyate / diśanti tām iti dik / utpūrvāt sniheḥ kvin, upasargānta-lopaḥ, ṣatvaṃ ca nipātyate / uṣṇik / añcu yuji kruñca ity eteṣāṃ dhātūnāṃ kvin pratyayo bhavati / nipātanaiḥ saha nirdeśāt atra api kiṃcid alākṣaṇikaṃ kāryam asti / añcateḥ subnata-mātra upapade kvin pratyayo bhavati / prāṅ / pratyaṅ / udaṅ / yujeḥ kruñceś ca kevalād eva / yuṅ, yuñjau, yuñjaḥ / sopapadāt tu satsūdviṣa (*3,2.61) ity ādinā kvip bhavati / aśvayuk, aśvayujau, aśvayujaḥ / kruṅ, kruñcau, kruñcaḥ / nalopaḥ kasmān na bhavati ? nipātana-sāhacaryāt // tyadādiṣu dṛśo 'nālocane kañ ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.