कर्म-ग्रहणं तु स्पृशो ऽनुदके क्विन् (*३,२।५८) इत्य् अतः प्रभृति न व्याप्रियते । सदादिभ्यः धातुभ्यः सुबन्ते उपपदे उपसर्गे ऽपि अनुपसर्गे ऽपि क्विप् प्रत्ययो भवति । उपसर्ग-ग्रहणम् ज्ञापनार्थम्, अन्यत्र सुब्-ग्रहणे उपसर्ग-ग्रहणं न भवति इति, वदः सुपि क्यप् च (*३,१।१०६) इति । सू इति द्विषा साहचर्यात् सूतेः आदादिकस्य ग्रहणं, न सुवतेः तौदादिकस्य । युजिर् योगे, युज समाधौ, द्वयोर् अपि ग्रहणम् । विद ज्ञाने, विद सत्तायाम्, विद विचारणे, त्रयाणाम् अपि ग्रहणम् । न लाभ-अर्थस्य विदेः, अकारस्य विवक्षतत्वात् । सद् - शुचिषत् । अन्तरिक्षसत् । उपसत् । सू - अण्डसूः । शतसूः । प्रसूः । द्विष - मित्रद्विट् । प्रद्विट् । द्रुह - मित्रध्रुक् । प्रध्रुक् । दुह - गोधुक् । प्रधुक् । युज - अश्वयुक् । प्रयुक् । विद - वेदवित् । प्रवित् । ब्रह्मवित् । भिद - काष्ठभित् । प्रभित् । छिद - रज्जुच्छिद् । प्रच्छिद् । जि - शत्रुजित् । प्रजित् । नी - सेनानीः । प्रणीः । ग्रामणीः । अग्रणीः । कथम् अत्र णत्वम् ? स एषां ग्रामणीः (*५,२।७८) इति निपातनात्, नयतेः पूर्वपदात् सज्ञायाम् अगः (*८,४।३) इति णत्वम् । राज - राट् । विराट् । सम्राट् । मो राजि समः क्वौ (*८,२।३५) इति मत्वम् । अन्येभ्यो ऽपि दृश्यते (*३,२।१७८), क्विप् च (*३,२।७६) इति सामान्येन वक्ष्यति, तस्य+एव अयं प्रपञ्चः ॥ भजो ण्विः
karma-grahaṇaṃ tu spṛśo 'nudake kvin (*3,2.58) ity ataḥ prabhṛti na vyāpriyate / sadādibhyaḥ dhātubhyaḥ subante upapade upasarge 'pi anupasarge 'pi kvip pratyayo bhavati / upasarga-grahaṇam jñāpanārtham, anyatra sub-grahaṇe upasarga-grahaṇaṃ na bhavati iti, vadaḥ supi kyap ca (*3,1.106) iti / sū iti dviṣā sāhacaryāt sūteḥ ādādikasya grahaṇaṃ, na suvateḥ taudādikasya / yujir yoge, yuja samādhau, dvayor api grahaṇam / vida jñāne, vida sattāyām, vida vicāraṇe, trayāṇām api grahaṇam / na lābha-arthasya videḥ, akārasya vivakṣatatvāt / sad - śuciṣat / antarikṣasat / upasat / sū - aṇḍasūḥ / śatasūḥ / prasūḥ / dviṣa - mitradviṭ / pradviṭ / druha - mitradhruk / pradhruk / duha - godhuk / pradhuk / yuja - aśvayuk / prayuk / vida - vedavit / pravit / brahmavit / bhida - kāṣṭhabhit / prabhit / chida - rajjucchid / pracchid / ji - śatrujit / prajit / nī - senānīḥ / praṇīḥ / grāmaṇīḥ / agraṇīḥ / katham atra ṇatvam ? sa eṣāṃ grāmaṇīḥ (*5,2.78) iti nipātanāt, nayateḥ pūrvapadāt sajñāyām agaḥ (*8,4.3) iti ṇatvam / rāja - rāṭ / virāṭ / samrāṭ / mo rāji samaḥ kvau (*8,2.35) iti matvam / anyebhyo 'pi dṛśyate (*3,2.178), kvip ca (*3,2.76) iti sāmānyena vakṣyati, tasya+eva ayaṃ prapañcaḥ // bhajo ṇviḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.