रोगाख्यायां गम्यमानायां धातोः ण्वुल् प्रत्ययो बहुलं भवति । क्तिन्नादीनाम् अपवादः । आख्या-ग्रहणं रोगस्य चेत् प्रत्ययान्तेन सञ्ज्ञा भवति । बहुल-ग्रहणं व्यभिचर-अर्थम् । प्रच्छर्दिका । प्रवाहिका । विचर्चिका । न च भवति । शिरोर्तिः । धात्वर्थ-निर्देशे ण्वुल् वक्तव्यः । आशिका । शायिका वर्तते । इक्श्तिपौ धातु-निर्देशे । भिदिः । छिदिः । पचतिः । पठतिः । वर्णात् कारः । निर्देश इति प्रकृतम् । अकारः । इकारः । रादिफः । रेफः । मत्वर्थाच् छः । अकारलोपः । मत्वर्थीयः । इणजादिभ्यः । आजिः । आतिः । आदिः । इक् कृष्यादिभ्यः । कृषिः । किरिः ॥ सञ्ज्ञायाम्
rogākhyāyāṃ gamyamānāyāṃ dhātoḥ ṇvul pratyayo bahulaṃ bhavati / ktinnādīnām apavādaḥ / ākhyā-grahaṇaṃ rogasya cet pratyayāntena sañjñā bhavati / bahula-grahaṇaṃ vyabhicara-artham / pracchardikā / pravāhikā / vicarcikā / na ca bhavati / śirortiḥ / dhātvartha-nirdeśe ṇvul vaktavyaḥ / āśikā / śāyikā vartate / ikśtipau dhātu-nirdeśe / bhidiḥ / chidiḥ / pacatiḥ / paṭhatiḥ / varṇāt kāraḥ / nirdeśa iti prakṛtam / akāraḥ / ikāraḥ / rādiphaḥ / rephaḥ / matvarthāc chaḥ / akāralopaḥ / matvarthīyaḥ / iṇajādibhyaḥ / ājiḥ / ātiḥ / ādiḥ / ik kṛṣyādibhyaḥ / kṛṣiḥ / kiriḥ // sañjñāyām
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.