इच्छार्थेषु धातुषु समान-कर्तृकेषु उपपदेषु धातोः तुमुन् प्रत्ययो भवति । तुमुन् प्रकृत्य्-अपेक्षम् एव समान-कर्तृट्वम् । इच्छति भोक्तुम् । कामयते भोक्तुम् । विष्टि भोक्तुम् । वाञ्छति बोक्तुम् । समान-कर्तृकेषु इति किम् ? देवदत्तम् भुञ्जानम् इच्छति यज्ञदत्तः । इह कस्मान् न भवति, इच्छन् करोति ? अनभिधानात् ॥ लिङ् च
icchārtheṣu dhātuṣu samāna-kartṛkeṣu upapadeṣu dhātoḥ tumun pratyayo bhavati / tumun prakṛty-apekṣam eva samāna-kartṛṭvam / icchati bhoktum / kāmayate bhoktum / viṣṭi bhoktum / vāñchati boktum / samāna-kartṛkeṣu iti kim ? devadattam bhuñjānam icchati yajñadattaḥ / iha kasmān na bhavati, icchan karoti ? anabhidhānāt // liṅ ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.