ग्रहः इत्य् एव । समि उपपदे ग्रहेर् धातोः घञ् भवति, मुष्टिविषयश् चेद् धात्वर्थो भवति । मुष्टिः अङ्गुलिसन्निवेशः । अहो मल्लस्य सङ्ग्राहः । अहो मुष्टिकस्य सङ्ग्राहः । दृढमुष्टिता आख्यायते । मुष्टौ इति किम् ? सङ्ग्रहो धान्यस्य ॥ परि-न्योर् नी-णोर् द्यूत-अभ्रेषयोः
grahaḥ ity eva / sami upapade graher dhātoḥ ghañ bhavati, muṣṭiviṣayaś ced dhātvartho bhavati / muṣṭiḥ aṅgulisanniveśaḥ / aho mallasya saṅgrāhaḥ / aho muṣṭikasya saṅgrāhaḥ / dṛḍhamuṣṭitā ākhyāyate / muṣṭau iti kim ? saṅgraho dhānyasya // pari-nyor nī-ṇor dyūta-abhreṣayoḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.