भावे, अकर्तरि च कारके इति प्रकृतम् अनुवर्तते यावत् कृत्य-ल्युटो बहुलम् (*३,३।११३) इति । इ-वर्णान्ताद् धातोः भावे, अकर्तरि च कारके सञ्ज्ञायाम् अच् प्रत्ययो भवति । घञो ऽपवादः । चकारो विशेषण-अर्थः, अन्तः (*६,२।१४३) था ऽथ-घञ्-क्त-अज्-अब्-इत्र-कणाम् (*६,२।१४४) इति । चयः । अयः । जयः । क्षयः । अज्-विधौ भयादीनाम् उपसङ्ख्यानम् । नपुंसके क्तादि-निवृत्त्य्-अर्थम् । भयम् । वर्षम् । जवसवौ छन्दसि वक्तव्यौ । ऊर्वोरस्तुम् मे जवः । पञ्चौदनः सवः ॥ ॠदोर् अप्
bhāve, akartari ca kārake iti prakṛtam anuvartate yāvat kṛtya-lyuṭo bahulam (*3,3.113) iti / i-varṇāntād dhātoḥ bhāve, akartari ca kārake sañjñāyām ac pratyayo bhavati / ghaño 'pavādaḥ / cakāro viśeṣaṇa-arthaḥ, antaḥ (*6,2.143) thā 'tha-ghañ-kta-aj-ab-itra-kaṇām (*6,2.144) iti / cayaḥ / ayaḥ / jayaḥ / kṣayaḥ / aj-vidhau bhayādīnām upasaṅkhyānam / napuṃsake ktādi-nivṛtty-artham / bhayam / varṣam / javasavau chandasi vaktavyau / ūrvorastum me javaḥ / pañcaudanaḥ savaḥ // ṝdor ap
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.