समुदोर् उपपदयोः अजएर् धातोः पशु-विषये धात्व्-अर्थे अप् प्रत्ययो भवति । घञो ऽपवादः । अज गति-क्षेपणयोः इति पठ्यते । स सम्पूर्वः समुदाये वर्तते, उत्पूर्वश् च प्रेरणे । संजः पशूनाम् । समुदायः इत्य् अर्थः । उदजः पशूनाम् । प्रेरणम् इत्य् अर्थः । पशुषु इति किम् ? समाजो ब्राह्मणानाम् । उदाजः क्षत्रियाणाम् ॥ अक्षेषु ग्लहः
samudor upapadayoḥ ajaer dhātoḥ paśu-viṣaye dhātv-arthe ap pratyayo bhavati / ghaño 'pavādaḥ / aja gati-kṣepaṇayoḥ iti paṭhyate / sa sampūrvaḥ samudāye vartate, utpūrvaś ca preraṇe / saṃjaḥ paśūnām / samudāyaḥ ity arthaḥ / udajaḥ paśūnām / preraṇam ity arthaḥ / paśuṣu iti kim ? samājo brāhmaṇānām / udājaḥ kṣatriyāṇām // akṣeṣu glahaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.