भावे ऽकर्तरि च कारके इति वर्तते । डु इत् यस्य तस्माद् ड्वितो धातोः क्त्रिः प्रत्ययो भवति । त्रेर्मम् नित्यम् (*४,४।२०) इति वचनात् केवलो न प्रयुज्यते । डुपचष् पाके - पक्त्रिमम् । डुवप् बीजसन्ताने - उप्त्रिमम् । डुकृञ् - कृत्रिमम् ॥ ट्वितो ऽथुच्
bhāve 'kartari ca kārake iti vartate / ḍu it yasya tasmād ḍvito dhātoḥ ktriḥ pratyayo bhavati / trermam nityam (*4,4.20) iti vacanāt kevalo na prayujyate / ḍupacaṣ pāke - paktrimam / ḍuvap bījasantāne - uptrimam / ḍukṛñ - kṛtrimam // ṭvito 'thuc
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.