करणे इत्य् एव । हस्ते इत्य् अर्थ-ग्रहणम् । वर्तिः ण्यन्तः । हस्त-वाचिनि करणे उपपदे वर्तयतेः गृह्णातेश् च णमुल् प्रत्ययो भवति । हस्तेन वर्तयति, हस्तवर्तं वर्तयति । करवर्तम् । पाणिवर्तम् । ग्रहेः खल्व् अपि - हस्तेन गृह्णाति, हस्तग्राहं गृह्णाति । करग्राहम् । पाणिग्राहम् ॥ स्वे पुषः
karaṇe ity eva / haste ity artha-grahaṇam / vartiḥ ṇyantaḥ / hasta-vācini karaṇe upapade vartayateḥ gṛhṇāteś ca ṇamul pratyayo bhavati / hastena vartayati, hastavartaṃ vartayati / karavartam / pāṇivartam / graheḥ khalv api - hastena gṛhṇāti, hastagrāhaṃ gṛhṇāti / karagrāham / pāṇigrāham // sve puṣaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.