अव्यये उपपदे अयथभिप्रेत-आख्याने गम्यमाने करोतेः क्त्वा-णमुलौ भवतः । ब्राह्मण, पुत्रस्ते जातः । किं तर्हि वृषल, नीचैः कृट्याचक्षे, नीचैः कृत्वा, नीचैः कारम् । उच्चैर् नाम प्रियम् आख्येयम् । ब्राहमण, कन्या ते गर्भिणी । किं तर्हि वृषल, उच्चैः कृत्याचक्षे, उच्चैः कृत्वा, उच्चैः कारम् । नीचैर् नामाप्रियम् आख्येयम् । अयथाभिप्रेत-आख्याने इति किम् ? उच्चैः कृत्वाचष्टे पुत्रस्ते जातः इति । क्त्वा-ग्रहणं किम्, यावता सर्वस्मिन्न् एव अत्र प्रकरणे वासरूपेण क्त्वा भवति इत्य् उक्तम् ? समास-अर्थं वचनम् । तथा च क्त्वा च (*२,२।२२) इत्य् अस्मिन् सूत्रे तृतीया-प्रभृतीन्य्-अन्यतरस्याम् (*२,२।२१) इति वर्तते । णमुल्-अधिकारे पुनर् णमुल्-ग्रहणं तुल्यकक्षत्वज्ञापन-अर्थम्, तेन+उत्तरत्र द्वयोर् अप्य् अनुवृत्तिर् भविष्यति ॥ तिर्यच्य् अपवर्गे
avyaye upapade ayathabhipreta-ākhyāne gamyamāne karoteḥ ktvā-ṇamulau bhavataḥ / brāhmaṇa, putraste jātaḥ / kiṃ tarhi vṛṣala, nīcaiḥ kṛṭyācakṣe, nīcaiḥ kṛtvā, nīcaiḥ kāram / uccair nāma priyam ākhyeyam / brāhamaṇa, kanyā te garbhiṇī / kiṃ tarhi vṛṣala, uccaiḥ kṛtyācakṣe, uccaiḥ kṛtvā, uccaiḥ kāram / nīcair nāmāpriyam ākhyeyam / ayathābhipreta-ākhyāne iti kim ? uccaiḥ kṛtvācaṣṭe putraste jātaḥ iti / ktvā-grahaṇaṃ kim, yāvatā sarvasminn eva atra prakaraṇe vāsarūpeṇa ktvā bhavati ity uktam ? samāsa-arthaṃ vacanam / tathā ca ktvā ca (*2,2.22) ity asmin sūtre tṛtīyā-prabhṛtīny-anyatarasyām (*2,2.21) iti vartate / ṇamul-adhikāre punar ṇamul-grahaṇaṃ tulyakakṣatvajñāpana-artham, tena+uttaratra dvayor apy anuvṛttir bhaviṣyati // tiryacy apavarge
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.