कल्याणी इत्य् एवम् आदीनां शब्दानाम् अपत्ये ढक् प्रत्ययो भवति, तत्संनियोगेन च इनङ्-आदेशः । स्त्रीप्रत्यय-अन्तानाम् आदेश-अर्थं ग्रहणं, प्रत्ययस्य सिद्धत्वाद् । अन्येषाम् उभयार्थम् । काल्याणिनेयः । सौभागिनेयः । दौर्भागिनेयः । हृद्भगसिन्ध्वन्ते पूर्वपदस्य च (*७,३।१९) इत्य् उभयपदवृद्धिः । कल्याणी । सुभगा । दुर्भगा । बन्धकी । अनुदृष्टि । अनुसृष्टि । जरती । बलीवर्दी । ज्येष्ठा । कन्ष्ठा । मध्यमा । परस्त्री ॥ कुलटाया
kalyāṇī ity evam ādīnāṃ śabdānām apatye ḍhak pratyayo bhavati, tatsaṃniyogena ca inaṅ-ādeśaḥ / strīpratyaya-antānām ādeśa-arthaṃ grahaṇaṃ, pratyayasya siddhatvād / anyeṣām ubhayārtham / kālyāṇineyaḥ / saubhāgineyaḥ / daurbhāgineyaḥ / hṛdbhagasindhvante pūrvapadasya ca (*7,3.19) ity ubhayapadavṛddhiḥ / kalyāṇī / subhagā / durbhagā / bandhakī / anudṛṣṭi / anusṛṣṭi / jaratī / balīvardī / jyeṣṭhā / kanṣṭhā / madhyamā / parastrī // kulaṭāyā
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.