Library·Jayaditya & Vamana: Kasikavrtti·4·4.1

Jayaditya & Vamana: Kasikavrtti 4.1

चतुर्थो ऽध्यायः प्रथमः पादः । ङ्य्-आप्-प्रातिपदिकात्

caturtho 'dhyāyaḥ prathamaḥ pādaḥ / ṅy-āp-prātipadikāt

Sanskrit only: no published translation is held for this verse.

अधिकारो ऽयम् । यदित ऊर्ध्वम् अनुक्रमिष्यामः आअपञ्वमाध्याय-परिसमाप्तेः ङ्य्-आप्-प्रातिपदिकाद् इत्य् एवं तद् वेदितव्यम् । स्व-आदिषु कप्पर्यंतेषु प्रकृतिर् अधिक्रियते । ङीब्-ङीष्-ङीनां सामान्येन ग्रहणं ङी इति, टाब्-डाप्-चापाम् आप् इति, प्रातिपदिकम् उक्तम् अर्थवत्, कृत्-तद्धित-समासाश् च (*१,२।४६) इति, तेषां समाहार-निर्देशो ङ्य्-आप्-प्रातिपदिकात् इति । यद्य् अपि च प्रत्यय-परत्वेन पारिशेष्याद् इयम् एव प्रकृतिर् लभ्यते, तथा अपि वृद्धावृद्धावर्णस्वरद्व्यज्-लक्षण-प्रत्यय-विधौ तत्-संप्रत्यय-अर्थं ङ्य्-आप्-प्रातिपदिक-ग्रहणं कर्तव्यम्, इतरथा हि समर्थ-विशेषणम् एतत् स्यात् । अथ ङ्य्-आप्-ग्रहणं किम्, न प्रातिपदिक-ग्रहणे लिङ्ग-विशिष्टस्य अपि ग्रहणं भवति इत्य् एव सिद्धम् ? न+एतद् अस्ति । स्वरूपविधि-विषये परिभाषेयं प्रातिपदिक-स्वरूप-ग्रहणे सति लिङ्ग-विशिष्त-ग्रहणं भवति इति । तथा च युवा खलति-पलित-वलिन-जरतीभिः (*२,१।६७) इति ज्ञापकमस्यास्तादृशम् एव । किं च तदन्तात् तद्धित-विधान-अर्थं ङ्य्-आब्-ग्रहणम्, कालितरा, हरिणितरा, खट्वातरा, मालातरा इति । विप्रतिषेधाद् धि तद्धित-बलीयस् त्वं स्यात् ॥ स्व्-औ-जस्-अम्-औट्-छष्-टा-भ्यां-भिस्-ङेभ्याम्-भ्यस्-ङसि-भ्यां-भ्यस्-ङस्-ओस्-आम्-ङ्य्-ओस्-सुप्

adhikāro 'yam / yadita ūrdhvam anukramiṣyāmaḥ āapañvamādhyāya-parisamāpteḥ ṅy-āp-prātipadikād ity evaṃ tad veditavyam / sva-ādiṣu kapparyaṃteṣu prakṛtir adhikriyate / ṅīb-ṅīṣ-ṅīnāṃ sāmānyena grahaṇaṃ ṅī iti, ṭāb-ḍāp-cāpām āp iti, prātipadikam uktam arthavat, kṛt-taddhita-samāsāś ca (*1,2.46) iti, teṣāṃ samāhāra-nirdeśo ṅy-āp-prātipadikāt iti / yady api ca pratyaya-paratvena pāriśeṣyād iyam eva prakṛtir labhyate, tathā api vṛddhāvṛddhāvarṇasvaradvyaj-lakṣaṇa-pratyaya-vidhau tat-saṃpratyaya-arthaṃ ṅy-āp-prātipadika-grahaṇaṃ kartavyam, itarathā hi samartha-viśeṣaṇam etat syāt / atha ṅy-āp-grahaṇaṃ kim, na prātipadika-grahaṇe liṅga-viśiṣṭasya api grahaṇaṃ bhavati ity eva siddham ? na+etad asti / svarūpavidhi-viṣaye paribhāṣeyaṃ prātipadika-svarūpa-grahaṇe sati liṅga-viśiṣta-grahaṇaṃ bhavati iti / tathā ca yuvā khalati-palita-valina-jaratībhiḥ (*2,1.67) iti jñāpakamasyāstādṛśam eva / kiṃ ca tadantāt taddhita-vidhāna-arthaṃ ṅy-āb-grahaṇam, kālitarā, hariṇitarā, khaṭvātarā, mālātarā iti / vipratiṣedhād dhi taddhita-balīyas tvaṃ syāt // sv-au-jas-am-auṭ-chaṣ-ṭā-bhyāṃ-bhis-ṅebhyām-bhyas-ṅasi-bhyāṃ-bhyas-ṅas-os-ām-ṅy-os-sup

Sanskrit only: no published translation is held for this verse.

खट्वा, खट्वे, खट्वाः । खट्वाम्, खट्वे, खट्वाः । खट्वया, खट्वाभ्याम्, खट्वाभिः । खट्वायै, खट्वाभ्याम्, खट्वाभ्यः । खट्वायाः, खट्वाभ्याम्, खट्वाभ्यः । खट्वायाः खट्वयोः, खट्वानाम् । खट्वायाम्, खट्वयोः, खट्वासु । एवं बहुराजाकारीषगन्ध्ये च+उदाहार्ये । एवं प्रातिपदिकात् - दृषद्, दृषदौ, दृषदः । दृषदम्, दृषदौ, दृषदः । दृषदा, दृषद्भ्याम्, दृषद्भिः । दृसदे, दृषद्भ्याम्, दृषद्भ्यः । दृषदः, दृषद्भ्याम्, दृषद्भ्यः । दृषदः, दृषदोः, दृषदाम् । दृषदि, दृषदोः, दृषत्सु ॥ स्त्रियाम्

khaṭvā, khaṭve, khaṭvāḥ / khaṭvām, khaṭve, khaṭvāḥ / khaṭvayā, khaṭvābhyām, khaṭvābhiḥ / khaṭvāyai, khaṭvābhyām, khaṭvābhyaḥ / khaṭvāyāḥ, khaṭvābhyām, khaṭvābhyaḥ / khaṭvāyāḥ khaṭvayoḥ, khaṭvānām / khaṭvāyām, khaṭvayoḥ, khaṭvāsu / evaṃ bahurājākārīṣagandhye ca+udāhārye / evaṃ prātipadikāt - dṛṣad, dṛṣadau, dṛṣadaḥ / dṛṣadam, dṛṣadau, dṛṣadaḥ / dṛṣadā, dṛṣadbhyām, dṛṣadbhiḥ / dṛsade, dṛṣadbhyām, dṛṣadbhyaḥ / dṛṣadaḥ, dṛṣadbhyām, dṛṣadbhyaḥ / dṛṣadaḥ, dṛṣadoḥ, dṛṣadām / dṛṣadi, dṛṣadoḥ, dṛṣatsu // striyām

Sanskrit only: no published translation is held for this verse.

अधिकारो ऽयम् । यद् इति ऊर्ध्वम् अनुक्रमिष्यामः स्त्रियाम् इत्य् एवं तद् वेदितव्यम् । ङ्य्-आप्-प्रातिपदिकात् (*४,१।१) इति सर्वाधिकारे ऽपि प्रातिपदिक-मात्रम् अत्र प्रकरणे सम्बध्यते, ण्य्-आपोर् अनेन+एव विधानात् । स्त्रियाम् इत्य् उच्यते । केयं स्त्री नाम ? सामान्य-विशेषाः स्त्रीत्वादयो गोत्वादय इव बहुप्रकारा व्यक्तयः । क्वचिद् आश्रय-विशेषाभावात् उपदेश-व्यङ्गया एव भवन्ति, यथा ब्राह्मणत्वादयः । स्त्रीत्वं च प्रत्यय-अर्थः । प्रकृत्यर्थ-विशेषणं च इत्य् उभयथा अपि प्रयुज्यते, स्त्रियाम् अभिधेयायां स्त्रियां वा यत् प्रातिपदिकं वर्तते इति । वक्ष्यति - अजाद्य्-अतष् टाप्

adhikāro 'yam / yad iti ūrdhvam anukramiṣyāmaḥ striyām ity evaṃ tad veditavyam / ṅy-āp-prātipadikāt (*4,1.1) iti sarvādhikāre 'pi prātipadika-mātram atra prakaraṇe sambadhyate, ṇy-āpor anena+eva vidhānāt / striyām ity ucyate / keyaṃ strī nāma ? sāmānya-viśeṣāḥ strītvādayo gotvādaya iva bahuprakārā vyaktayaḥ / kvacid āśraya-viśeṣābhāvāt upadeśa-vyaṅgayā eva bhavanti, yathā brāhmaṇatvādayaḥ / strītvaṃ ca pratyaya-arthaḥ / prakṛtyartha-viśeṣaṇaṃ ca ity ubhayathā api prayujyate, striyām abhidheyāyāṃ striyāṃ vā yat prātipadikaṃ vartate iti / vakṣyati - ajādy-ataṣ ṭāp

Sanskrit only: no published translation is held for this verse.

अजा, एडका, चटका, अश्वा, मूसिका इति जातिः । बाला, होढा, पाका, वत्सा, मन्दा, विलाता इति वयः । पूर्वापहाणा, अपरापहाणा । टित्, निपतनाण् णत्वम् । संभस्त्राजीनशणपिण्डेभ्यः फलात् । सम्फला । भस्त्रफला । अजिनफला । शणफला । पिण्डफला । त्रिफला द्विगौ । बहुव्रीहौ त्रिफली संहतिः । सदच्प्राक्काण्डप्रान्तश्तैकेभ्यः पुष्पात् । सत्पुष्पा । प्राक्पुष्पा । कान्डपुष्पा । प्रान्तपुष्पा । शतपुष्पा । एकपुष्पा । पाककर्ण इति ङीषो ऽपवादः । शूद्रा च अमहत्पूर्वा जातिः । क्रुञ्चा, उष्णिहा, देवविशा हलन्ताः । ज्येष्टा, कनिष्ता, मध्यमा पुंयोगः । कोकिला जातिः । मूलान्नञः । अमूला ॥ ऋन्-नेभ्यो ङीप्

ajā, eḍakā, caṭakā, aśvā, mūsikā iti jātiḥ / bālā, hoḍhā, pākā, vatsā, mandā, vilātā iti vayaḥ / pūrvāpahāṇā, aparāpahāṇā / ṭit, nipatanāṇ ṇatvam / saṃbhastrājīnaśaṇapiṇḍebhyaḥ phalāt / samphalā / bhastraphalā / ajinaphalā / śaṇaphalā / piṇḍaphalā / triphalā dvigau / bahuvrīhau triphalī saṃhatiḥ / sadacprākkāṇḍaprāntaśtaikebhyaḥ puṣpāt / satpuṣpā / prākpuṣpā / kānḍapuṣpā / prāntapuṣpā / śatapuṣpā / ekapuṣpā / pākakarṇa iti ṅīṣo 'pavādaḥ / śūdrā ca amahatpūrvā jātiḥ / kruñcā, uṣṇihā, devaviśā halantāḥ / jyeṣṭā, kaniṣtā, madhyamā puṃyogaḥ / kokilā jātiḥ / mūlānnañaḥ / amūlā // ṛn-nebhyo ṅīp

Sanskrit only: no published translation is held for this verse.

ऋ-कारान्तेभ्यो न-कारान्तेभ्यश् च प्रातिपदिकेभ्यः स्त्रियां ङीप् प्रत्ययो भवति ङ-कारः सामान्यग्रहण-अर्थः । कर्त्री । हर्त्री । दण्डिनी । छत्रिणी ॥ उगितश् च

ṛ-kārāntebhyo na-kārāntebhyaś ca prātipadikebhyaḥ striyāṃ ṅīp pratyayo bhavati ṅa-kāraḥ sāmānyagrahaṇa-arthaḥ / kartrī / hartrī / daṇḍinī / chatriṇī // ugitaś ca

Sanskrit only: no published translation is held for this verse.

उग् इति यत्र सम्भवति यथाकथंचित् तदुगिच्-छाब्द-रूपं, तदन्तात् स्त्रियां ङीप् प्रत्ययो भवति । भवती । अतिभवती । पचन्ती । यजन्ती । धातोर् उगितः प्रतिषेधो वक्तव्यः । उखास्रत् । पर्णध्वत् ब्राह्मणी । अञ्चतेश् च+उपसङ्ख्यानम् । प्राची । प्रतीची । उदीची ॥ वनो र च

ug iti yatra sambhavati yathākathaṃcit tadugic-chābda-rūpaṃ, tadantāt striyāṃ ṅīp pratyayo bhavati / bhavatī / atibhavatī / pacantī / yajantī / dhātor ugitaḥ pratiṣedho vaktavyaḥ / ukhāsrat / parṇadhvat brāhmaṇī / añcateś ca+upasaṅkhyānam / prācī / pratīcī / udīcī // vano ra ca

Sanskrit only: no published translation is held for this verse.

पादो ऽन्यतरस्याम्

pādo 'nyatarasyām

Sanskrit only: no published translation is held for this verse.

पादः इति कृत-समासान्तः पाद-शब्दो निर्दिश्यते । पादन्तात् प्रातिपदिकाद् अन्यतरस्यां स्त्रियां ङीप् प्रत्ययो भवति । द्विपात्, द्विपदी । त्रिपात् । त्रिपदी । चतुष्पाद्, चतुष्पदी ॥ टाब् ऋचि

pādaḥ iti kṛta-samāsāntaḥ pāda-śabdo nirdiśyate / pādantāt prātipadikād anyatarasyāṃ striyāṃ ṅīp pratyayo bhavati / dvipāt, dvipadī / tripāt / tripadī / catuṣpād, catuṣpadī // ṭāb ṛci

Sanskrit only: no published translation is held for this verse.

पादः इत्य् एव । ऋचि इत्य् अभिधेय-निर्देशः । ऋचि वाच्यायां पादन्तात् प्रातिपदिकात् स्त्रियां टाप् प्रत्ययो भवति । ङीपो ऽपवादः । द्विपदा ऋक् । त्रिपदा ऋक् । चतुष्पदा ऋक् । ऋचि इति किम् ? द्विपदी देवदत्ता ॥ न षट्स्वस्रादिभ्यः

pādaḥ ity eva / ṛci ity abhidheya-nirdeśaḥ / ṛci vācyāyāṃ pādantāt prātipadikāt striyāṃ ṭāp pratyayo bhavati / ṅīpo 'pavādaḥ / dvipadā ṛk / tripadā ṛk / catuṣpadā ṛk / ṛci iti kim ? dvipadī devadattā // na ṣaṭsvasrādibhyaḥ

Sanskrit only: no published translation is held for this verse.

षट्-सञ्ज्ञाकेभ्यः स्वस्रादिभ्यश् च प्रातिपदिकेभ्यः स्त्री-प्रत्ययो न भवति । यो यतः प्राप्नोति स सर्वः प्रतिषिध्यते । पञ्च ब्राह्मण्यः । सप्त । नव । दश । स्वस्रादिभ्यः - स्वसा । दुहिता । ननान्दा । याता । माता । तिस्रः । चतस्रः । षट्सञ्ज्ञानामन्ते लुप्ते टाबुत्पत्तिः कस्मान् न स्यत् । प्रत्याहाराच् चापा सिद्धं दोषस्त्वित्त्वे तस्मान् न+उभौ ॥ मनः

ṣaṭ-sañjñākebhyaḥ svasrādibhyaś ca prātipadikebhyaḥ strī-pratyayo na bhavati / yo yataḥ prāpnoti sa sarvaḥ pratiṣidhyate / pañca brāhmaṇyaḥ / sapta / nava / daśa / svasrādibhyaḥ - svasā / duhitā / nanāndā / yātā / mātā / tisraḥ / catasraḥ / ṣaṭsañjñānāmante lupte ṭābutpattiḥ kasmān na syat / pratyāhārāc cāpā siddhaṃ doṣastvittve tasmān na+ubhau // manaḥ

Sanskrit only: no published translation is held for this verse.

मन्नन्तात् प्रातिपदिकात् ङीप् प्रत्ययो न भवति । ऋन्-नेम्यो ङीप् (*४,१।५) इति ङीप् प्राप्तो मनः इति सूत्रेण प्रतिषिध्यते । दामा, दामानौ, दामानः । पामा, पामानौ, पामानः । अनिनस्मङ्ग्रहणान्यर्थवता च अनर्थकेन च तदन्तविधिं प्रयोजयन्ति । सीमा, सीमानौ, सीमानः । अतिमहिमा, अतिमहिमानौ, अतिमहिमानः ॥ अनो बहुव्रीहेः

mannantāt prātipadikāt ṅīp pratyayo na bhavati / ṛn-nemyo ṅīp (*4,1.5) iti ṅīp prāpto manaḥ iti sūtreṇa pratiṣidhyate / dāmā, dāmānau, dāmānaḥ / pāmā, pāmānau, pāmānaḥ / aninasmaṅgrahaṇānyarthavatā ca anarthakena ca tadantavidhiṃ prayojayanti / sīmā, sīmānau, sīmānaḥ / atimahimā, atimahimānau, atimahimānaḥ // ano bahuvrīheḥ

Sanskrit only: no published translation is held for this verse.

डाब् उभाभ्याम् अन्यतरस्याम्

ḍāb ubhābhyām anyatarasyām

Sanskrit only: no published translation is held for this verse.

डाप् प्रत्ययो भवति उभाभ्यां मन्नन्तात् प्रातिपदिकात् अनन्ताच् च बहुव्रीहेर् अन्यतरस्याम् । पामा, पामे, पामाः । सीमा, सीमे, सीमाः । न च भवति । पामानः । सीमानः । बहुव्रीहौ - बहुराजा, बहुराजे, बहुराजाः । बहुतक्षा, बहुतक्षे, बहुतक्षाः । न च भवति । बहुराजानः । बहुतक्षाणः । अन्यतरस्यां-ग्रहणं किमर्थम् ? बहुव्रीहौ, वनो र च (*४,१।७) इत्य् अस्य अपि विकओपो यथा यात् । बहुधीवा, बहुधीवरी । बहुपीवा, बहुपीवरी ॥ अनुपसर्जनात्

ḍāp pratyayo bhavati ubhābhyāṃ mannantāt prātipadikāt anantāc ca bahuvrīher anyatarasyām / pāmā, pāme, pāmāḥ / sīmā, sīme, sīmāḥ / na ca bhavati / pāmānaḥ / sīmānaḥ / bahuvrīhau - bahurājā, bahurāje, bahurājāḥ / bahutakṣā, bahutakṣe, bahutakṣāḥ / na ca bhavati / bahurājānaḥ / bahutakṣāṇaḥ / anyatarasyāṃ-grahaṇaṃ kimartham ? bahuvrīhau, vano ra ca (*4,1.7) ity asya api vikaopo yathā yāt / bahudhīvā, bahudhīvarī / bahupīvā, bahupīvarī // anupasarjanāt

Sanskrit only: no published translation is held for this verse.

अधिकारो ऽयम् । उत्तरसूत्रेषु उपसर्जने प्रतिषेधं करोति । यद् इति ऊर्ध्वम् अनुक्रमिष्यामो ऽनुपसर्जनात् इत्य् एवं तद् वेदितव्यम् । टिड्-ढ-अण्-अञ् इति ङीप् । कुरुचरी । मद्रचरी । अनुपसर्जनात् इति किम् ? बहुकुरुचरा, बहुमद्रचरा मधुरा । जातेः इति ङीष् । कुक्कुटीइ । शूकरी । अनुपसर्जनात् इति किम् ? बहुकुक्कुटा, बहुशूकरा मधुरा । कथं पुनर् उपसर्जनात् प्रत्ययप्रस्ङ्गः ? तद् अन्तविधिना । ज्ञापितं च+एतद् अस्त्य् अत्र प्रकरणे तदन्तविधिः इति । तथा च प्रधानेन तदनतविधिर् भवति । कुम्भकारी । नगरकारी । न च अण् इति कृद्-ग्रहणं, तद्धितो ऽप्य् अण् अस्ति ॥ टिड्-ढ-अण्-अञ्-द्वयसज्-दघ्नञ्-मात्रच्-तयप्-ठक्-ठञ्-कञ्-क्वरप्ख्युनाम्

adhikāro 'yam / uttarasūtreṣu upasarjane pratiṣedhaṃ karoti / yad iti ūrdhvam anukramiṣyāmo 'nupasarjanāt ity evaṃ tad veditavyam / ṭiḍ-ḍha-aṇ-añ iti ṅīp / kurucarī / madracarī / anupasarjanāt iti kim ? bahukurucarā, bahumadracarā madhurā / jāteḥ iti ṅīṣ / kukkuṭīi / śūkarī / anupasarjanāt iti kim ? bahukukkuṭā, bahuśūkarā madhurā / kathaṃ punar upasarjanāt pratyayaprasṅgaḥ ? tad antavidhinā / jñāpitaṃ ca+etad asty atra prakaraṇe tadantavidhiḥ iti / tathā ca pradhānena tadanatavidhir bhavati / kumbhakārī / nagarakārī / na ca aṇ iti kṛd-grahaṇaṃ, taddhito 'py aṇ asti // ṭiḍ-ḍha-aṇ-añ-dvayasaj-daghnañ-mātrac-tayap-ṭhak-ṭhañ-kañ-kvarapkhyunām

Sanskrit only: no published translation is held for this verse.

मात्रच् - ऊरुमात्री । जानुमात्री । तयप् - पञ्चतयी । दशतयी । ठक् - आक्षिकी । शालाकिकी । ठञ् - लावणिकी । ठक्ठञोर् भेदेन ग्रहणं ठनादि-निवृत्त्य्-अर्थम् । कञ् - यादृशी । तादृशी । क्वरप् - इत्वरी । नश्वरी । ख्युन् - आढ्यङ्करणी । सुभगंकरणी । नञ्स्नञीकक्तरुणतलुनानाम् उपसङ्ख्यानम् । स्त्रैणी । पौंस्नी । शाक्तीकी । याष्टीकी । तरुणी । तलुनी ॥ यञश् च

mātrac - ūrumātrī / jānumātrī / tayap - pañcatayī / daśatayī / ṭhak - ākṣikī / śālākikī / ṭhañ - lāvaṇikī / ṭhakṭhañor bhedena grahaṇaṃ ṭhanādi-nivṛtty-artham / kañ - yādṛśī / tādṛśī / kvarap - itvarī / naśvarī / khyun - āḍhyaṅkaraṇī / subhagaṃkaraṇī / nañsnañīkaktaruṇatalunānām upasaṅkhyānam / straiṇī / pauṃsnī / śāktīkī / yāṣṭīkī / taruṇī / talunī // yañaś ca

Sanskrit only: no published translation is held for this verse.

ङीप् इत्य् एव । यञन्ताच् च प्रातिपदिकात् स्त्रियां ङीप् प्रत्ययो भवति । गार्गी । वात्सी । अपत्यग्रहणं कर्तव्यम् । इह मा भूत्, द्वीपाद् अनुसमुद्रं यञ् (*४,३।१०) द्वैप्या । योग-विभागः उत्तर-अर्थः ॥ प्राचां ष्फ तद्धितः

ṅīp ity eva / yañantāc ca prātipadikāt striyāṃ ṅīp pratyayo bhavati / gārgī / vātsī / apatyagrahaṇaṃ kartavyam / iha mā bhūt, dvīpād anusamudraṃ yañ (*4,3.10) dvaipyā / yoga-vibhāgaḥ uttara-arthaḥ // prācāṃ ṣpha taddhitaḥ

Sanskrit only: no published translation is held for this verse.

यञः इत्य् एव । प्राचाम् आचार्याणां मतेन यञन्तात् स्त्रियां ष्फः प्रत्ययो भवति, स च तद्धित-सञ्ज्ञः । षकारो ङीष्-अर्थः । प्रत्ययद्वयेन+इह स्त्रीत्वं व्यज्यते । तद्धित-ग्रहणं प्रातिपदिकसञ्ज्ञ-अर्थम् । गार्ग्यायणी । वात्स्यायनी । अन्येषाम् - गार्गी । वात्सी । सर्वत्र-ग्रहणम् उत्तरसूत्राद् इह अपकृष्यते बाधकबाधन-अर्थम् । आवट्यात् चापं वक्ष्यति, तम् अपि बाधित्वा प्राचां ष्फ एव यथा स्यात् । आवट्यायनी ॥ सर्वत्र लोहितादि-कतन्तेभ्यः

yañaḥ ity eva / prācām ācāryāṇāṃ matena yañantāt striyāṃ ṣphaḥ pratyayo bhavati, sa ca taddhita-sañjñaḥ / ṣakāro ṅīṣ-arthaḥ / pratyayadvayena+iha strītvaṃ vyajyate / taddhita-grahaṇaṃ prātipadikasañjña-artham / gārgyāyaṇī / vātsyāyanī / anyeṣām - gārgī / vātsī / sarvatra-grahaṇam uttarasūtrād iha apakṛṣyate bādhakabādhana-artham / āvaṭyāt cāpaṃ vakṣyati, tam api bādhitvā prācāṃ ṣpha eva yathā syāt / āvaṭyāyanī // sarvatra lohitādi-katantebhyaḥ

Sanskrit only: no published translation is held for this verse.

कौरव्य-माण्डूकाभ्यां च

kauravya-māṇḍūkābhyāṃ ca

Sanskrit only: no published translation is held for this verse.

कौरव्य माण्डूक इत्य् एताभ्यां स्त्रियां ष्फः प्रत्ययो भवति । कुर्वादिभ्यो ण्ये कृते, ढक् च म्ण्डूकात् (*४,१।११९) इत्य् अणि च । यथाक्रमं टाब्-ङीपोर् अपवादः । कौरव्यायणी । माण्डूकायनी । कथं कौरवी सेना ? तस्य+इदं विवक्षायाम् अणि कृते भविष्यति । कौरव्य-माण्डूकयोर् आसुरेर् उपसङ्ख्यानम् । आसुरायणी । शैषिकेष्व् अर्थेषु इञ्श् च (*४,२।११२) इत्य् अणि प्राप्ते छप्रत्यय इष्यते । आसुरीयः कल्पः ॥ वयसि प्रथमे

kauravya māṇḍūka ity etābhyāṃ striyāṃ ṣphaḥ pratyayo bhavati / kurvādibhyo ṇye kṛte, ḍhak ca mṇḍūkāt (*4,1.119) ity aṇi ca / yathākramaṃ ṭāb-ṅīpor apavādaḥ / kauravyāyaṇī / māṇḍūkāyanī / kathaṃ kauravī senā ? tasya+idaṃ vivakṣāyām aṇi kṛte bhaviṣyati / kauravya-māṇḍūkayor āsurer upasaṅkhyānam / āsurāyaṇī / śaiṣikeṣv artheṣu iñś ca (*4,2.112) ity aṇi prāpte chapratyaya iṣyate / āsurīyaḥ kalpaḥ // vayasi prathame

Sanskrit only: no published translation is held for this verse.

कालकृतशसीरावस्था यौवनादिः वयः । प्रथमे वयसि यत् प्रातिपदिकं श्रुत्या वर्तते ततः स्त्रियां ङीप् प्रत्ययो भवति । कुमारी । किशोरी । बर्करी । प्रथमे इति किन् ? स्थविरा । वृद्धा । अतः इत्य् एव, शिशुः । वयस्यचरम इति वक्तव्यम् । वधूटी । चिरण्टी । द्वितीयवयोवचनाव् एतौ । प्राप्त-यौवना स्त्री अभिधीयते । कथं कन्या ? कन्यायाः कनीन च (*४,१।११६) इति ज्ञापकात् । उत्तानशया, लोहितपादिका इति ? नैताः वयःश्रुतयः ॥ द्विगोः

kālakṛtaśasīrāvasthā yauvanādiḥ vayaḥ / prathame vayasi yat prātipadikaṃ śrutyā vartate tataḥ striyāṃ ṅīp pratyayo bhavati / kumārī / kiśorī / barkarī / prathame iti kin ? sthavirā / vṛddhā / ataḥ ity eva, śiśuḥ / vayasyacarama iti vaktavyam / vadhūṭī / ciraṇṭī / dvitīyavayovacanāv etau / prāpta-yauvanā strī abhidhīyate / kathaṃ kanyā ? kanyāyāḥ kanīna ca (*4,1.116) iti jñāpakāt / uttānaśayā, lohitapādikā iti ? naitāḥ vayaḥśrutayaḥ // dvigoḥ

Sanskrit only: no published translation is held for this verse.

द्विगु-सञ्ज्ञकात् प्रातिपदिकात् स्त्रियां ङीप् प्रत्ययो भवति । पञ्चपूली । दशपूली । कथं त्रिफला ? अजादिषु दृश्यते ॥ अपरिमाण-बिस्त-आचित-कम्बल्येभ्यो न तद्धितलुकि

dvigu-sañjñakāt prātipadikāt striyāṃ ṅīp pratyayo bhavati / pañcapūlī / daśapūlī / kathaṃ triphalā ? ajādiṣu dṛśyate // aparimāṇa-bista-ācita-kambalyebhyo na taddhitaluki

Sanskrit only: no published translation is held for this verse.

काण्ड-अन्तात् क्षेत्रे

kāṇḍa-antāt kṣetre

Sanskrit only: no published translation is held for this verse.

काण्ड-शब्द-अन्तात् द्विगोस् तद्धितलुकि सति क्षेत्रे वाच्ये ङीप् प्रत्ययो न भवति । द्वे कण्डे प्रमाणम् अस्याः क्षेत्र-भक्तेः, प्रमणे द्वयसज्-दघ्नञ्-मात्रचः (*५,२।३७) इति विहितस्य तद्धितस्य प्रमाणे लो द्विगोर् नित्यम् इति लुकि कृते, द्विकाण्डा क्षेत्र-भक्तिः । त्रिकाण्डा क्षेत्रभक्तिः । काण्ड-शब्दस्य अपरिमाणवाचित्वात् पूर्वेण+एव प्रतिषेधे सिद्धे क्षेत्रे नियम-अर्थं वचनम् । इह मा भूत्, द्विकाण्डी रज्जुः, त्रिकाण्डी रज्जुः इति । प्रमाण-विशेषः काण्डम् ॥ पुरुषात् प्रमाणे ऽन्यतरस्याम्

kāṇḍa-śabda-antāt dvigos taddhitaluki sati kṣetre vācye ṅīp pratyayo na bhavati / dve kaṇḍe pramāṇam asyāḥ kṣetra-bhakteḥ, pramaṇe dvayasaj-daghnañ-mātracaḥ (*5,2.37) iti vihitasya taddhitasya pramāṇe lo dvigor nityam iti luki kṛte, dvikāṇḍā kṣetra-bhaktiḥ / trikāṇḍā kṣetrabhaktiḥ / kāṇḍa-śabdasya aparimāṇavācitvāt pūrveṇa+eva pratiṣedhe siddhe kṣetre niyama-arthaṃ vacanam / iha mā bhūt, dvikāṇḍī rajjuḥ, trikāṇḍī rajjuḥ iti / pramāṇa-viśeṣaḥ kāṇḍam // puruṣāt pramāṇe 'nyatarasyām

Sanskrit only: no published translation is held for this verse.

द्विगोः तद्धितलुकि इत्य् एव । प्रमाणे यः पुरुष-शब्दः, तदन्ताद् द्विगोः तद्धितलुकि सति अन्यतरस्यां न ङीप् प्रत्ययो भवति । द्वौ पुरुषौ प्रमाणम् अस्याः परिखायाः द्विपुरुषा, द्विपुरुषी । त्रिपुरुषा, त्रिपुरुषी । अपरिमाणान्तत्वान् नित्ये प्रतिषेधे प्राप्ते विकल्पार्थं वचनम् । प्रमाणे इति किम् ? द्वाभ्यां पुरुषाभ्यां क्रीता द्विपुरुषा । क्रिपुरुषा । तद्धितलुकि इत्य् एव । समाहारे द्विपुरुषी । त्रिपुरुषी ॥ बहुव्रीहेर् ऊधसो ङीष्

dvigoḥ taddhitaluki ity eva / pramāṇe yaḥ puruṣa-śabdaḥ, tadantād dvigoḥ taddhitaluki sati anyatarasyāṃ na ṅīp pratyayo bhavati / dvau puruṣau pramāṇam asyāḥ parikhāyāḥ dvipuruṣā, dvipuruṣī / tripuruṣā, tripuruṣī / aparimāṇāntatvān nitye pratiṣedhe prāpte vikalpārthaṃ vacanam / pramāṇe iti kim ? dvābhyāṃ puruṣābhyāṃ krītā dvipuruṣā / kripuruṣā / taddhitaluki ity eva / samāhāre dvipuruṣī / tripuruṣī // bahuvrīher ūdhaso ṅīṣ

Sanskrit only: no published translation is held for this verse.

ऊधस्-शब्दान्ताद् बहुव्रीहेः स्त्रियां ङीष् प्रत्ययो भवति । ऊधसो ऽनङ् (*५,४।१३१) इति समासान्ते कृते अनो बहुव्रीहेः (*४,१।१२) इति डाप्-प्रतिषेधयोः प्राप्तयोर् इदम् उच्यते । घटोध्नी । कुण्डोध्नी । बहुव्रीहेः इति किम् ? प्राप्ता ऊधः प्राप्तोधाः । अन उपधालोपिनो ऽन्यतरस्याम् (*४,१।२८) इत्य् अस्य अपि ङीपो ऽयम् उत्तरत्र अनुवृत्तेर् बाधक इष्यते । समासान्तश् च स्त्रियाम् एव । इह न भवति, महोधाः पर्जन्यः इति ॥ सङ्ख्याव्ययादेर्ङीप्

ūdhas-śabdāntād bahuvrīheḥ striyāṃ ṅīṣ pratyayo bhavati / ūdhaso 'naṅ (*5,4.131) iti samāsānte kṛte ano bahuvrīheḥ (*4,1.12) iti ḍāp-pratiṣedhayoḥ prāptayor idam ucyate / ghaṭodhnī / kuṇḍodhnī / bahuvrīheḥ iti kim ? prāptā ūdhaḥ prāptodhāḥ / ana upadhālopino 'nyatarasyām (*4,1.28) ity asya api ṅīpo 'yam uttaratra anuvṛtter bādhaka iṣyate / samāsāntaś ca striyām eva / iha na bhavati, mahodhāḥ parjanyaḥ iti // saṅkhyāvyayāderṅīp

Sanskrit only: no published translation is held for this verse.

पूर्वेण ङीषि प्राप्ते ङीब् वधीयते । सङ्ख्यादेः अव्ययादेश् च बहुव्रीहेर् ऊधस्-शब्दान्ताद् ङीप् प्रत्ययो भवति । सङ्ख्यादेः तावत् - द्व्यूध्नी । त्र्यूध्नी । अव्ययादेः - अत्यूध्नी । निरूध्नी । आदि-ग्रहणं किम् ? द्विविधोध्नी, त्रिविधोध्नी इत्य् अत्र अपि यथा स्यात् ॥ दाम-हायन-अनाच् च

pūrveṇa ṅīṣi prāpte ṅīb vadhīyate / saṅkhyādeḥ avyayādeś ca bahuvrīher ūdhas-śabdāntād ṅīp pratyayo bhavati / saṅkhyādeḥ tāvat - dvyūdhnī / tryūdhnī / avyayādeḥ - atyūdhnī / nirūdhnī / ādi-grahaṇaṃ kim ? dvividhodhnī, trividhodhnī ity atra api yathā syāt // dāma-hāyana-anāc ca

Sanskrit only: no published translation is held for this verse.

अन उपधालोपिनो ऽन्यतरस्याम्

ana upadhālopino 'nyatarasyām

Sanskrit only: no published translation is held for this verse.

बहुव्रीहेर् इत्य् एव । अन्न्-अन्तो यो बहुव्रीहिः उपधालोपी, तस्माद् अन्यतरस्यां ङीप् प्रत्ययो भवति । ङीपा मुक्ते ङाप्-प्रतिषेधौ भवतः । किमर्थं तर्हि इदम् उच्यते, ननु सिद्धा एव डाप्-प्रतिषेधङीपः ? अनुपधालोपिनः ङीप्-प्रतिषेध-अर्थं वचनम् । बहुराजा, बहुराज्ञी, बहुराजे । बहुतक्षा, बहुतक्ष्णी, बहुतक्षे । अनः इति किम् ? बहुमत्स्या । उपधालोपिनः इति किम् ? सुपर्वा, सुपर्वे, सुपर्वाः । सुपर्वाणौ, सुपर्वाणः । डाप्-प्रतिषेधाव् एव अत्र भवतः ॥ नित्यं सञ्ज्ञा-छन्दसोः

bahuvrīher ity eva / ann-anto yo bahuvrīhiḥ upadhālopī, tasmād anyatarasyāṃ ṅīp pratyayo bhavati / ṅīpā mukte ṅāp-pratiṣedhau bhavataḥ / kimarthaṃ tarhi idam ucyate, nanu siddhā eva ḍāp-pratiṣedhaṅīpaḥ ? anupadhālopinaḥ ṅīp-pratiṣedha-arthaṃ vacanam / bahurājā, bahurājñī, bahurāje / bahutakṣā, bahutakṣṇī, bahutakṣe / anaḥ iti kim ? bahumatsyā / upadhālopinaḥ iti kim ? suparvā, suparve, suparvāḥ / suparvāṇau, suparvāṇaḥ / ḍāp-pratiṣedhāv eva atra bhavataḥ // nityaṃ sañjñā-chandasoḥ

Sanskrit only: no published translation is held for this verse.

अन्नन्ताद् बहुव्रीहेर् उपधा-लोपिनः सञ्ज्ञायां विषये छन्दसि च नित्यं ङीप् प्रत्ययो भवति । विकल्पस्य अपवादः । सुराज्ञी, अतिराज्ञी नामः ग्राम । छन्दसि - गौः पञ्चदाम्नी । एकदाम्नी । द्विदाम्नी । एकमूर्ध्नी । समानमूर्ध्नी ॥ केवल-मामक-भागधेय-पाप-अपर-समान-आर्यकृत-सुमङ्गल-भेषजाच् च

annantād bahuvrīher upadhā-lopinaḥ sañjñāyāṃ viṣaye chandasi ca nityaṃ ṅīp pratyayo bhavati / vikalpasya apavādaḥ / surājñī, atirājñī nāmaḥ grāma / chandasi - gauḥ pañcadāmnī / ekadāmnī / dvidāmnī / ekamūrdhnī / samānamūrdhnī // kevala-māmaka-bhāgadheya-pāpa-apara-samāna-āryakṛta-sumaṅgala-bheṣajāc ca

Sanskrit only: no published translation is held for this verse.

सञ्ज्ञा-छन्दसोः इत्य् एव । केवल-आदिभ्यः प्रातिपदिकेभ्यः सञ्ज्ञायां, छन्दसि विषये स्त्रियां ङीप् प्रत्ययो भवति । केवली । केवला इति भाषायाम् । मामकी । मामिका इति भाषायाम् । मित्रावरुणयोर् भागधेयीः स्थ । भागधेया इति भाषायाम् । सा पापी । पापा इति भाषायाम् । उता+अपरीभ्यो मघवा विजिग्ये । अपरा इति भाषायाम् । समानी प्रवाणी । समाना इति भाषायाम् । आर्यकृती । आर्यकृता इति भाषायाम् । सुमङ्गली । सुमङ्गला इति भाषायाम् । भेषजी । भेषजा इति भाषायाम् ॥ रात्रेश् च अजसौ

sañjñā-chandasoḥ ity eva / kevala-ādibhyaḥ prātipadikebhyaḥ sañjñāyāṃ, chandasi viṣaye striyāṃ ṅīp pratyayo bhavati / kevalī / kevalā iti bhāṣāyām / māmakī / māmikā iti bhāṣāyām / mitrāvaruṇayor bhāgadheyīḥ stha / bhāgadheyā iti bhāṣāyām / sā pāpī / pāpā iti bhāṣāyām / utā+aparībhyo maghavā vijigye / aparā iti bhāṣāyām / samānī pravāṇī / samānā iti bhāṣāyām / āryakṛtī / āryakṛtā iti bhāṣāyām / sumaṅgalī / sumaṅgalā iti bhāṣāyām / bheṣajī / bheṣajā iti bhāṣāyām // rātreś ca ajasau

Sanskrit only: no published translation is held for this verse.

अन्तर्वत्-पतिवतोर् नुक्

antarvat-pativator nuk

Sanskrit only: no published translation is held for this verse.

प्रकृतिर् निपात्यते, नुगागम् अस्तु विधीयते । अन्तर्वत्-पतिवतोर् नुक् भवति ङीप् च प्रत्ययः, स तु नकारान्तत्वाद् एव सिद्धः । निपातन-सामर्थ्याच् च विशेषे वृत्तिर् भवति । अन्तर्वत् पतिवत् इति गर्भ-भर्तृ-संयोगे । इह न भवति, अन्तरस्यां शालायां विद्यते । पतिमती पॄथीवी । अन्तर्वत् इति मतुब् निपात्यते, वत्वं सिद्धम् । पतिवत् इति वत्वं निपात्यते, मतुप् सिद्धः । अन्तर्वत्नी गर्भिणी । पतिवत्नी जीवपतिः । अन्तर्वत्-पतिवतोस् तु मतुब्वत्वे निपातनात् । गर्भिण्यां जीवपत्यां च वा छन्दसि तु नुग्-विधिः ॥ सान्तर्वत्नी देवानुपैत् । सान्तर्वती देवानुपैत । पतिवत्नी तरुणवत्सा । पतिवती तरुणवत्सा ॥ पत्युर् नो यज्ञसंयोगे

prakṛtir nipātyate, nugāgam astu vidhīyate / antarvat-pativator nuk bhavati ṅīp ca pratyayaḥ, sa tu nakārāntatvād eva siddhaḥ / nipātana-sāmarthyāc ca viśeṣe vṛttir bhavati / antarvat pativat iti garbha-bhartṛ-saṃyoge / iha na bhavati, antarasyāṃ śālāyāṃ vidyate / patimatī pṝthīvī / antarvat iti matub nipātyate, vatvaṃ siddham / pativat iti vatvaṃ nipātyate, matup siddhaḥ / antarvatnī garbhiṇī / pativatnī jīvapatiḥ / antarvat-pativatos tu matubvatve nipātanāt / garbhiṇyāṃ jīvapatyāṃ ca vā chandasi tu nug-vidhiḥ // sāntarvatnī devānupait / sāntarvatī devānupaita / pativatnī taruṇavatsā / pativatī taruṇavatsā // patyur no yajñasaṃyoge

Sanskrit only: no published translation is held for this verse.

पतिशब्दस्य नकारादेशः स्त्रियां विधीयते, ङीप् प्रत्ययस् तु नकारान्तत्वाद् एव सिद्धः यज्ञसंयोगे । यज्ञेन संयोगः यज्ञसंयोगः । तत्साधनत्वात् फलग्रहीतृत्वात् वा यजमानस्य पत्नी । पत्नी वाचं यच्छ । यज्ञसंयोगे इति किम् ? ग्रामस्य पतिरियं ब्राह्मणी कथं वृषलस्य पत्नी ? उपमानाद् भविष्यति ॥ विभाषा सपूर्वस्य

patiśabdasya nakārādeśaḥ striyāṃ vidhīyate, ṅīp pratyayas tu nakārāntatvād eva siddhaḥ yajñasaṃyoge / yajñena saṃyogaḥ yajñasaṃyogaḥ / tatsādhanatvāt phalagrahītṛtvāt vā yajamānasya patnī / patnī vācaṃ yaccha / yajñasaṃyoge iti kim ? grāmasya patiriyaṃ brāhmaṇī kathaṃ vṛṣalasya patnī ? upamānād bhaviṣyati // vibhāṣā sapūrvasya

Sanskrit only: no published translation is held for this verse.

पत्युर्नः इति वर्तते । पति-शब्द-अन्तस्य प्रातिपदिकस्य सपूर्वस्य अनुपसर्जनस्य स्त्रियां विभाषा नकार-आदेशो भवति, ङीप् तु लभ्यते एव । वृद्धप्त्नी, वृद्धपतिः । स्थूलपत्नी, स्थूलपतिः । अप्राप्तविभाषेयमयज्ञसंयोगत्वात् । सपूर्वस्य इति किम् ? पतिरियं ब्राह्मणी ग्रामस्य ॥ नित्यं सपत्न्यादिषु

patyurnaḥ iti vartate / pati-śabda-antasya prātipadikasya sapūrvasya anupasarjanasya striyāṃ vibhāṣā nakāra-ādeśo bhavati, ṅīp tu labhyate eva / vṛddhaptnī, vṛddhapatiḥ / sthūlapatnī, sthūlapatiḥ / aprāptavibhāṣeyamayajñasaṃyogatvāt / sapūrvasya iti kim ? patiriyaṃ brāhmaṇī grāmasya // nityaṃ sapatnyādiṣu

Sanskrit only: no published translation is held for this verse.

पूतक्रतोर् ऐ च

pūtakrator ai ca

Sanskrit only: no published translation is held for this verse.

पूतक्रतु-शब्दस्य स्त्रियाम् ऐकारश्चान्तादेशो भवति, ङीप् प्रत्ययः । पूतक्रतोः स्त्री पूतक्रतायी । त्रय एते योगाः पुंयोग-प्रकरने द्रष्टव्याः । यया हि पूताः क्रतवः पूतक्रतुः सा भवति ॥ वृषाकप्य्-अग्नि-कुसित-कुसिदानाम् उदात्तः

pūtakratu-śabdasya striyām aikāraścāntādeśo bhavati, ṅīp pratyayaḥ / pūtakratoḥ strī pūtakratāyī / traya ete yogāḥ puṃyoga-prakarane draṣṭavyāḥ / yayā hi pūtāḥ kratavaḥ pūtakratuḥ sā bhavati // vṛṣākapy-agni-kusita-kusidānām udāttaḥ

Sanskrit only: no published translation is held for this verse.

वृषाकप्य्-आदीनाम् उदात्त ऐकारादेशो भवति स्त्रियाम्, ङीप् च प्रत्ययः । वृषाकपि-शब्दो मद्योदात्त उदात्तत्वं प्रयोजयति । अग्न्य्-आदिषु पुनरन्तोदात्तेषु स्थानिवद्भावाद् एव सिद्धम् । वृषाकपेः स्त्री वृषाकपायी । अग्नायी । कुसितायी । कुसिदायी । पुंयोगे इत्य् एव, वृषाकपिः स्त्री ॥ मनोर् औ वा

vṛṣākapy-ādīnām udātta aikārādeśo bhavati striyām, ṅīp ca pratyayaḥ / vṛṣākapi-śabdo madyodātta udāttatvaṃ prayojayati / agny-ādiṣu punarantodātteṣu sthānivadbhāvād eva siddham / vṛṣākapeḥ strī vṛṣākapāyī / agnāyī / kusitāyī / kusidāyī / puṃyoge ity eva, vṛṣākapiḥ strī // manor au vā

Sanskrit only: no published translation is held for this verse.

ऐ उदात्तः इति वर्तते । मनु-शब्दात् स्त्रियां ङीप् प्रत्ययो भवति, औकारश्चान्तादेशः, ऐकारश्च उदात्तः । वाग्रहणेन द्वाव् अपि विकल्प्येते । तेन त्रैरूप्यं भवति । मनोः स्त्री मनायी । मनावी । मनुः । मनु-शब्दः आद्युदात्तः ॥ वर्णाद् अनुदात्तात् तोपधात्तो नः

ai udāttaḥ iti vartate / manu-śabdāt striyāṃ ṅīp pratyayo bhavati, aukāraścāntādeśaḥ, aikāraśca udāttaḥ / vāgrahaṇena dvāv api vikalpyete / tena trairūpyaṃ bhavati / manoḥ strī manāyī / manāvī / manuḥ / manu-śabdaḥ ādyudāttaḥ // varṇād anudāttāt topadhātto naḥ

Sanskrit only: no published translation is held for this verse.

अन्यतो ङीष्

anyato ṅīṣ

Sanskrit only: no published translation is held for this verse.

वा इति निवृत्तम् । वर्णाद् अनुदात्तात् इति वर्तते, तोपधापेक्षम् अन्यत्वम् । वर्ण-वाचिनः प्रातिपदिकाद् अनुदात्तान्तात् स्त्रियां ङीष् प्रत्ययो भवति । स्वरे विशेषः । सारङ्गी । कल्माषी । शबली । वर्णात् इत्य् एव, खट्वा । अनुदात्तात् इत्य् एव, कृष्णा । कपिला ॥ षिद्-गौरादिभ्यश् च

vā iti nivṛttam / varṇād anudāttāt iti vartate, topadhāpekṣam anyatvam / varṇa-vācinaḥ prātipadikād anudāttāntāt striyāṃ ṅīṣ pratyayo bhavati / svare viśeṣaḥ / sāraṅgī / kalmāṣī / śabalī / varṇāt ity eva, khaṭvā / anudāttāt ity eva, kṛṣṇā / kapilā // ṣid-gaurādibhyaś ca

Sanskrit only: no published translation is held for this verse.

आधिकरण । एत । अधिकार । आग्रहायणी । प्रत्यवरोहिणी । सेवन । सुमङ्गलात् सञ्ज्ञायाम् । सुन्दर । मण्डल । पिण्ड । विटक । कुर्द । गूर्द । पट । पाण्ट । लोफाण्ट । कन्दर । कन्दल । तरुण । तलुन । बृहत् । महत् । सौधर्म । रोहिणी नक्षत्रे । रेवती नक्षत्रे । विकल । निष्फल । पुष्कल । कटाच्छ्रोणिवचने । पिप्पल्यादयश्च । पिप्पली । हरीतकी । कोशातकी । शमी । करीरी । पृथिवी । क्रोष्ट्री । मातामह । पितामह । मातामह-पितामहयोः मातरि षिच् च (*४,२।३६) इति षित्त्वाद् एव सिद्धे ज्ञापन-अर्थं वचनम्, अनित्यः षिल्-लक्षणो ङीष् इति, तेन दंष्ट्रा इत्य् उपपन्नं भवति ॥ जानपद-कुण्ड-गोण-स्थल-भाज-नाग-काल-नील-कुश-कामुक-कबराद् वृत्त्य्-अमत्र-आवपन-अकृत्रिमा-श्राणा-स्थौल्य-वर्ण-अनाच्छादन-अयोविकार-मैथुनेच्छा-केशवेशेषु

ādhikaraṇa / eta / adhikāra / āgrahāyaṇī / pratyavarohiṇī / sevana / sumaṅgalāt sañjñāyām / sundara / maṇḍala / piṇḍa / viṭaka / kurda / gūrda / paṭa / pāṇṭa / lophāṇṭa / kandara / kandala / taruṇa / taluna / bṛhat / mahat / saudharma / rohiṇī nakṣatre / revatī nakṣatre / vikala / niṣphala / puṣkala / kaṭācchroṇivacane / pippalyādayaśca / pippalī / harītakī / kośātakī / śamī / karīrī / pṛthivī / kroṣṭrī / mātāmaha / pitāmaha / mātāmaha-pitāmahayoḥ mātari ṣic ca (*4,2.36) iti ṣittvād eva siddhe jñāpana-arthaṃ vacanam, anityaḥ ṣil-lakṣaṇo ṅīṣ iti, tena daṃṣṭrā ity upapannaṃ bhavati // jānapada-kuṇḍa-goṇa-sthala-bhāja-nāga-kāla-nīla-kuśa-kāmuka-kabarād vṛtty-amatra-āvapana-akṛtrimā-śrāṇā-sthaulya-varṇa-anācchādana-ayovikāra-maithunecchā-keśaveśeṣu

Sanskrit only: no published translation is held for this verse.

वृत्तिश् चेत् । जानपदी अन्या । स्वरे विशेसः । उत्सादिपाठादञि कृते ङीपाद्य्-उदात्तत्वं भवति । कुण्डी भवति, अमत्रं चेत् । कुण्डा ऽन्या । गोणी भवति, आवपनं चेत् । गोणा अन्या । स्थली भवति, अकृत्रिमा चेत् । स्थला अन्या । भाजी भवति, श्राणा चेत् । पक्वा इत्यर्थः । भाजा अन्या । नागी भवति, स्थौल्यं चेत् । नागा अन्या । नागशब्दो गुणवचनः स्थौल्ये ङीषमुत्पादयति, अन्यत्र गुण एव टापम् । जातिवचनात्तु जातिलक्षणो ङीष् एव भवति । नागी । काली भवति, वर्णश् चेत् । काला अन्या । नीली भवति, अनाच्छादनं चेत् । नीला अन्या । न च सर्वस्मिन्ननाच्छादन इष्यते । किं तर्हि ? नीलादोषधौ प्राणिनि च । नीली ओषधिः । नीली गौः । नीली वडवा । सञ्ज्ञायां वा । नीली, नीला । कुशी भवति, अयोविकारश् चेत् । कुशा अन्या । कामुकी भवति मैथुनेच्छा चेत् । कामुका अन्या । मैथुनेच्छावती भण्यते, नेच्छामात्रम् । कबरी भवति, केशवेशश् चेत् । कबरा अन्या ॥ शोणात् प्राचाम्

vṛttiś cet / jānapadī anyā / svare viśesaḥ / utsādipāṭhādañi kṛte ṅīpādy-udāttatvaṃ bhavati / kuṇḍī bhavati, amatraṃ cet / kuṇḍā 'nyā / goṇī bhavati, āvapanaṃ cet / goṇā anyā / sthalī bhavati, akṛtrimā cet / sthalā anyā / bhājī bhavati, śrāṇā cet / pakvā ityarthaḥ / bhājā anyā / nāgī bhavati, sthaulyaṃ cet / nāgā anyā / nāgaśabdo guṇavacanaḥ sthaulye ṅīṣamutpādayati, anyatra guṇa eva ṭāpam / jātivacanāttu jātilakṣaṇo ṅīṣ eva bhavati / nāgī / kālī bhavati, varṇaś cet / kālā anyā / nīlī bhavati, anācchādanaṃ cet / nīlā anyā / na ca sarvasminnanācchādana iṣyate / kiṃ tarhi ? nīlādoṣadhau prāṇini ca / nīlī oṣadhiḥ / nīlī gauḥ / nīlī vaḍavā / sañjñāyāṃ vā / nīlī, nīlā / kuśī bhavati, ayovikāraś cet / kuśā anyā / kāmukī bhavati maithunecchā cet / kāmukā anyā / maithunecchāvatī bhaṇyate, necchāmātram / kabarī bhavati, keśaveśaś cet / kabarā anyā // śoṇāt prācām

Sanskrit only: no published translation is held for this verse.

शोण-शब्दात् प्राचाम् आचार्याणां मतेन स्त्रियां ङीष् प्रत्ययो भवति । शोणी, शोणा वडवा ॥ वा+उतो गुणवचनात्

śoṇa-śabdāt prācām ācāryāṇāṃ matena striyāṃ ṅīṣ pratyayo bhavati / śoṇī, śoṇā vaḍavā // vā+uto guṇavacanāt

Sanskrit only: no published translation is held for this verse.

गुणम् उक्तवान् गुणवचनः । गुणवचनात् प्रातिपदिकाद् उकारान्तात् स्त्रियां वा ङीष् प्रत्ययो भवति । पट्वी, पटुः । मृद्वी, मृदुः । उतः इति किम् ? शुचिरियं ब्राहमणी । गुणवचनात् इति किम् ? आखुः । वसु-शब्दाद् गुणवचनाद् ङीबाद्य्-उदात्तार्थम् । वस्वी । खरुसंयोगोपधात् प्रतिषेधो वक्तव्यः । खरुरियं ब्राह्मणी । पाण्डुरियं ब्राह्मणी । सत्त्वे निविशते ऽपैति पृथग् जातिषु दृश्यते । आधेयश् च अक्रियाजश् च सो ऽसत्त्वप्रकृतिर् गुणः ॥ बह्व-आदिभ्यश् च

guṇam uktavān guṇavacanaḥ / guṇavacanāt prātipadikād ukārāntāt striyāṃ vā ṅīṣ pratyayo bhavati / paṭvī, paṭuḥ / mṛdvī, mṛduḥ / utaḥ iti kim ? śuciriyaṃ brāhamaṇī / guṇavacanāt iti kim ? ākhuḥ / vasu-śabdād guṇavacanād ṅībādy-udāttārtham / vasvī / kharusaṃyogopadhāt pratiṣedho vaktavyaḥ / kharuriyaṃ brāhmaṇī / pāṇḍuriyaṃ brāhmaṇī / sattve niviśate 'paiti pṛthag jātiṣu dṛśyate / ādheyaś ca akriyājaś ca so 'sattvaprakṛtir guṇaḥ // bahva-ādibhyaś ca

Sanskrit only: no published translation is held for this verse.

नित्यं छन्दसि

nityaṃ chandasi

Sanskrit only: no published translation is held for this verse.

बह्व्-आदिभ्यः छन्दसि विषये नित्यं स्त्रियां ङीष् प्रत्ययो भवति । बह्वीषु हित्वा प्रपिबन् । बह्वी नाम ओषधी भवति । नित्य-ग्रहणम् उत्तरार्थम् ॥ भुवश् च

bahv-ādibhyaḥ chandasi viṣaye nityaṃ striyāṃ ṅīṣ pratyayo bhavati / bahvīṣu hitvā prapiban / bahvī nāma oṣadhī bhavati / nitya-grahaṇam uttarārtham // bhuvaś ca

Sanskrit only: no published translation is held for this verse.

छन्दसि विषये स्त्रियां भुवो नित्यं ङीष् प्रत्ययो भवति । विभ्वी च । प्रभ्वी च । संभ्वी च । इह कस्मान् न भवति, स्वयम्भूः ? उतः इति तपरकरणम् अनुवर्तते । ह्रस्वाद् एव+इयं पञ्चमी । भुवः इति सौत्रो निर्देशः ॥ पुंयोगाद् आख्यायाम्

chandasi viṣaye striyāṃ bhuvo nityaṃ ṅīṣ pratyayo bhavati / vibhvī ca / prabhvī ca / saṃbhvī ca / iha kasmān na bhavati, svayambhūḥ ? utaḥ iti taparakaraṇam anuvartate / hrasvād eva+iyaṃ pañcamī / bhuvaḥ iti sautro nirdeśaḥ // puṃyogād ākhyāyām

Sanskrit only: no published translation is held for this verse.

पुंसा योगः पुंयोगः । पुंयोगाद् धेतोर् यत् प्रातिपदिकं स्त्रियां वर्तते पुंस आख्याभूतं तस्माद् ङीष् प्रत्ययो भवति । गणकस्य स्त्री गणकी । महामात्री । प्रष्ठी । प्रचरी । पुंसि शब्दप्रवृत्ति-निमित्तस्य सम्भवात् पुंशब्दा एते, तद्योगात् स्त्रियां वर्तन्ते । पुंयोगात् इति किम् ? देवदत्ता । यज्ञदत्ता । आख्या-ग्रहणात् किम् ? परिसृष्टा । प्रजाता । पुंयोगाद् एते शब्दाः स्त्रियां वर्तन्ते, न तु पुमांसमाचक्षते । गोपालिकादीनां प्रतिषेधः । गोपालकस्य स्त्री गोपालिका । सूर्याद् देवतायां चाब् वक्तव्यः । सूर्यस्य स्त्री देवता सूर्या । देवतायाम् इति किम् ? सुरी ॥ इन्द्र-वरुण-भव-शर्व-रुद्र-मृड-हिम-अरण्य-यव-यवन-मातुल-आचार्याणामानुक्

puṃsā yogaḥ puṃyogaḥ / puṃyogād dhetor yat prātipadikaṃ striyāṃ vartate puṃsa ākhyābhūtaṃ tasmād ṅīṣ pratyayo bhavati / gaṇakasya strī gaṇakī / mahāmātrī / praṣṭhī / pracarī / puṃsi śabdapravṛtti-nimittasya sambhavāt puṃśabdā ete, tadyogāt striyāṃ vartante / puṃyogāt iti kim ? devadattā / yajñadattā / ākhyā-grahaṇāt kim ? parisṛṣṭā / prajātā / puṃyogād ete śabdāḥ striyāṃ vartante, na tu pumāṃsamācakṣate / gopālikādīnāṃ pratiṣedhaḥ / gopālakasya strī gopālikā / sūryād devatāyāṃ cāb vaktavyaḥ / sūryasya strī devatā sūryā / devatāyām iti kim ? surī // indra-varuṇa-bhava-śarva-rudra-mṛḍa-hima-araṇya-yava-yavana-mātula-ācāryāṇāmānuk

Sanskrit only: no published translation is held for this verse.

यवाद् दोषे । दुष्टो यवः यवानी । यवनाल्लिप्याम् । यवनानी लिपिः । उपाध्यायमातुलाभ्यां वा । उपाध्यायानी, उपाध्यायी । मतुलानी, मतुली । आचार्यादणत्वं च । आचार्यानी, आचार्या । अर्यक्षत्रियाभ्यां वा । अर्याणी, अर्या । क्षत्रियाणी, क्षत्रिया । विना पुंयोगेन स्वार्थ एव अयं विधिः । पुंयोगे तु ङीषा एव भवितव्यम् । अर्यी । क्षत्रियी । मुद्गलाच्छन्दसि लिच्च । रथीरभून्मुद्गलानी गविष्टौ ॥ क्रीतात् करण-पूर्वात्

yavād doṣe / duṣṭo yavaḥ yavānī / yavanāllipyām / yavanānī lipiḥ / upādhyāyamātulābhyāṃ vā / upādhyāyānī, upādhyāyī / matulānī, matulī / ācāryādaṇatvaṃ ca / ācāryānī, ācāryā / aryakṣatriyābhyāṃ vā / aryāṇī, aryā / kṣatriyāṇī, kṣatriyā / vinā puṃyogena svārtha eva ayaṃ vidhiḥ / puṃyoge tu ṅīṣā eva bhavitavyam / aryī / kṣatriyī / mudgalācchandasi licca / rathīrabhūnmudgalānī gaviṣṭau // krītāt karaṇa-pūrvāt

Sanskrit only: no published translation is held for this verse.

करणं पूर्वम् अस्मिन्न् इति करणपूर्वं प्रतिपदिकम् । क्रीत-शब्दान्तात् प्रातिपदिकात् करण-पूर्वात् स्त्रियां ङीप् प्रत्ययो भवति । वस्त्रेण क्रियते सा वस्त्रक्रीती । वसनक्रीती । करणपूर्वात् इति किम् ? सुक्रीता । दुष्क्रीता । इह कस्मान् न भवति, सा ही तस्य धनक्रीती प्राणेभ्यो ऽपि गरीयसी इति ? टाबन्तेन समसः । अतः इति चातुवर्तते । गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः इति बहुलं तदुच्यते, कर्तृकरणे कृता बहुलम् (*२,१।३२) इति ॥ क्ताद् अल्पाअख्यायाम्

karaṇaṃ pūrvam asminn iti karaṇapūrvaṃ pratipadikam / krīta-śabdāntāt prātipadikāt karaṇa-pūrvāt striyāṃ ṅīp pratyayo bhavati / vastreṇa kriyate sā vastrakrītī / vasanakrītī / karaṇapūrvāt iti kim ? sukrītā / duṣkrītā / iha kasmān na bhavati, sā hī tasya dhanakrītī prāṇebhyo 'pi garīyasī iti ? ṭābantena samasaḥ / ataḥ iti cātuvartate / gatikārakopapadānāṃ kṛdbhiḥ saha samāsavacanaṃ prāk subutpatteḥ iti bahulaṃ taducyate, kartṛkaraṇe kṛtā bahulam (*2,1.32) iti // ktād alpāakhyāyām

Sanskrit only: no published translation is held for this verse.

बहुव्रीहेश् च अन्तोदत्तात्

bahuvrīheś ca antodattāt

Sanskrit only: no published translation is held for this verse.

क्तात् इत्य् एव । बहुव्रीहिर् यो ऽन्तोदात्तः, तस्मात् स्त्रियां ङीष् प्रत्ययो भवति । स्वाङ्ग-पूर्व-पदो बहुव्रीहिर् इह+उदाहरणम् । अस्वाङ्ग-पूर्वपदाद् विकल्पं वक्ष्यति । शङ्ख्यभिन्नी । ऊरुभिन्नी । गललोत्कृत्ती । केशलूनी । बहुव्रीहेः इति किम् ? पादपतिता । अन्तोदात्ताज् जातप्रतिषेधः । दन्तजाता । स्तनजाता । पाणिगृहीत्यादीनाम् अर्थविशेषे । पाणिगृहीती भार्या । यस्य अस्तु कथञ्चित् पाणिर् गृह्यते पाणिगृहीता सा भवति । अबहुनञ्सुइआलसुखादि-पूर्वाद् इति वक्तव्यम् । बहुकृता । नङ् - अकृता । सु - सुकृता । काल - मासजाता । संवत्सर-जाता । सुखादि - सुखजाता । दुःखजाता । जाति-काल-सुख-आदिभ्यो ऽनाच्छादनात् क्तो ऽकृत-मित। प्रतिपन्नाः (*६,२।१७०) इत्य् एवम् आदिना भौव्रीहेर् अन्तोदात्तत्वम् ॥ अस्वाङ्ग-पूर्वपदाद् वा

ktāt ity eva / bahuvrīhir yo 'ntodāttaḥ, tasmāt striyāṃ ṅīṣ pratyayo bhavati / svāṅga-pūrva-pado bahuvrīhir iha+udāharaṇam / asvāṅga-pūrvapadād vikalpaṃ vakṣyati / śaṅkhyabhinnī / ūrubhinnī / galalotkṛttī / keśalūnī / bahuvrīheḥ iti kim ? pādapatitā / antodāttāj jātapratiṣedhaḥ / dantajātā / stanajātā / pāṇigṛhītyādīnām arthaviśeṣe / pāṇigṛhītī bhāryā / yasya astu kathañcit pāṇir gṛhyate pāṇigṛhītā sā bhavati / abahunañsuiālasukhādi-pūrvād iti vaktavyam / bahukṛtā / naṅ - akṛtā / su - sukṛtā / kāla - māsajātā / saṃvatsara-jātā / sukhādi - sukhajātā / duḥkhajātā / jāti-kāla-sukha-ādibhyo 'nācchādanāt kto 'kṛta-mita. pratipannāḥ (*6,2.170) ity evam ādinā bhauvrīher antodāttatvam // asvāṅga-pūrvapadād vā

Sanskrit only: no published translation is held for this verse.

अन्तोदात्तात् क्तात् इति अनुवर्तते । अस्वाङ्गपूर्वपदाद् अन्तोदात्तात् क्तान्ताद् बहुव्रीहेः स्त्रियां वा ङीष् प्रत्ययो भवति । पूर्वेण नित्ये प्राप्ते विकल्प उच्यते । शार्ङ्गजग्धी, शार्ङ्गजग्धा । पलाण्डुभक्षिती, पलाण्डुभक्षिता । सुरापीती, सुरापीता । अस्वाङ्गपूर्वपदात् इति किम् ? शङ्खभिन्नी । ऊरुभिन्नी । अन्तोदात्तात् इत्य् एव, वस्त्रच्छन्ना । वसनच्छन्न । बहुलं सञ्ज्ञाछन्दसोर् इति वक्तव्यम् । प्रवृद्धविलूनी, प्रवृद्धविलूना । प्रवृद्धा च असौ विलूना च इति । न अयं बहुव्रीहिः ॥ स्वाङ्गाच् च+उपसर्जनाद् असंयोग-उपधात्

antodāttāt ktāt iti anuvartate / asvāṅgapūrvapadād antodāttāt ktāntād bahuvrīheḥ striyāṃ vā ṅīṣ pratyayo bhavati / pūrveṇa nitye prāpte vikalpa ucyate / śārṅgajagdhī, śārṅgajagdhā / palāṇḍubhakṣitī, palāṇḍubhakṣitā / surāpītī, surāpītā / asvāṅgapūrvapadāt iti kim ? śaṅkhabhinnī / ūrubhinnī / antodāttāt ity eva, vastracchannā / vasanacchanna / bahulaṃ sañjñāchandasor iti vaktavyam / pravṛddhavilūnī, pravṛddhavilūnā / pravṛddhā ca asau vilūnā ca iti / na ayaṃ bahuvrīhiḥ // svāṅgāc ca+upasarjanād asaṃyoga-upadhāt

Sanskrit only: no published translation is held for this verse.

अङ्गगात्रकण्ठेभ्य इति वक्तव्यम् । मृद्वङ्गी, मृद्वङ्गा । सुगात्री, सुगात्रा । स्निग्धकण्ठी, स्निग्धकण्ठा । अद्रवं मूर्तिमत् स्वाङ्गं प्राणिस्थमविकारजम् । अतत्स्थं तत्र दृष्टं चेत् तेन चेत्तत्तथायुतम् ॥ नासिका-उदर-ओष्ठ-जङ्घा-दन्त-कर्ण-शृङ्गाच् च

aṅgagātrakaṇṭhebhya iti vaktavyam / mṛdvaṅgī, mṛdvaṅgā / sugātrī, sugātrā / snigdhakaṇṭhī, snigdhakaṇṭhā / adravaṃ mūrtimat svāṅgaṃ prāṇisthamavikārajam / atatsthaṃ tatra dṛṣṭaṃ cet tena cettattathāyutam // nāsikā-udara-oṣṭha-jaṅghā-danta-karṇa-śṛṅgāc ca

Sanskrit only: no published translation is held for this verse.

स्वाङ्गाच् च+उपसर्जनात् इत्य् एव । बह्वज्-लक्षणे संयोगोपध-लक्षणे च प्रतिषेधे प्राप्ते वचनम् । सहनञ्-विद्यमान-लक्षणस् तु प्रतिषेधो भवत्य् एव । नासिका-आद्यन्तात् प्रातिपदिकात् स्त्रियां वा ङीष् प्रत्ययो भवति । तुङ्गनासिकी, तुङ्गनासिका । तिलोदरी, तिलोदरा । बम्बोष्ठी, बम्बोष्ठा । दीर्घजङ्घी, दीर्घजङ्घा । समदन्ती, समदन्ता । चारुकर्णी, चारुकर्णा । तीक्षणशृङ्गी, तीक्ष्णशृङ्गा । पुच्छाच् च+इति वक्तवय्म् । कल्याणपुच्छी, कल्याणपुच्छा । कबर-मणि-विष-शरेभ्यो नित्यम् । कबरपुच्छी । मणिपुच्छी । विषयुच्छी । शरपुच्छी । उपमानात् पक्षाच् च पुच्छात् च । उलूकपक्षीसेना । उलूकपुच्छी शाला ॥ न क्रोडादि-बह्वचः

svāṅgāc ca+upasarjanāt ity eva / bahvaj-lakṣaṇe saṃyogopadha-lakṣaṇe ca pratiṣedhe prāpte vacanam / sahanañ-vidyamāna-lakṣaṇas tu pratiṣedho bhavaty eva / nāsikā-ādyantāt prātipadikāt striyāṃ vā ṅīṣ pratyayo bhavati / tuṅganāsikī, tuṅganāsikā / tilodarī, tilodarā / bamboṣṭhī, bamboṣṭhā / dīrghajaṅghī, dīrghajaṅghā / samadantī, samadantā / cārukarṇī, cārukarṇā / tīkṣaṇaśṛṅgī, tīkṣṇaśṛṅgā / pucchāc ca+iti vaktavaym / kalyāṇapucchī, kalyāṇapucchā / kabara-maṇi-viṣa-śarebhyo nityam / kabarapucchī / maṇipucchī / viṣayucchī / śarapucchī / upamānāt pakṣāc ca pucchāt ca / ulūkapakṣīsenā / ulūkapucchī śālā // na kroḍādi-bahvacaḥ

Sanskrit only: no published translation is held for this verse.

स्वाङ्गात् इति ङिष् प्राप्तः प्रतिषेध्यते । क्रोडाद्यन्तात् बह्वजन्तात् प्रातिपदिकात् स्त्रियां ङीष् प्रत्ययो न भवति । कल्याणक्रोडा । कल्याणाखुरा । कल्याणोखा । कल्याणबाला । कल्याणशफा । कल्याणगुदा । कल्याणघोणा । कल्याणनखा । कल्याणमुखा । क्रोडादिर् आकृतिगणः । सुभगा । सुगला । बह्वचः खल्व् अपि - पृथुजघना । महाललाटा ॥ सह-नञ्-विद्यमान-पूर्वाच् च

svāṅgāt iti ṅiṣ prāptaḥ pratiṣedhyate / kroḍādyantāt bahvajantāt prātipadikāt striyāṃ ṅīṣ pratyayo na bhavati / kalyāṇakroḍā / kalyāṇākhurā / kalyāṇokhā / kalyāṇabālā / kalyāṇaśaphā / kalyāṇagudā / kalyāṇaghoṇā / kalyāṇanakhā / kalyāṇamukhā / kroḍādir ākṛtigaṇaḥ / subhagā / sugalā / bahvacaḥ khalv api - pṛthujaghanā / mahālalāṭā // saha-nañ-vidyamāna-pūrvāc ca

Sanskrit only: no published translation is held for this verse.

नख-मुखात् सञ्ज्ञायाम्

nakha-mukhāt sañjñāyām

Sanskrit only: no published translation is held for this verse.

नख-मुखान्तात् प्रातिपदिकात् सञ्ज्ञायाम् विषये स्त्रियां ङीष् प्रत्ययो न भवति । शूर्पणखा । वज्रनखा । गौरमुखा । कालमुखा । सञ्ज्ञायाम् इति किम् ? ताम्रनखी कन्या । चन्द्रमुखी ॥ दीर्घजिह्वी च च्छन्दसि

nakha-mukhāntāt prātipadikāt sañjñāyām viṣaye striyāṃ ṅīṣ pratyayo na bhavati / śūrpaṇakhā / vajranakhā / gauramukhā / kālamukhā / sañjñāyām iti kim ? tāmranakhī kanyā / candramukhī // dīrghajihvī ca cchandasi

Sanskrit only: no published translation is held for this verse.

दीर्घजिह्वी इति छन्दसि विषये निपात्यते । संयोगोपधत्वाद् अप्राप्तो ङीष् विधीयते । दीर्घजिह्वी वै देवानां हव्यमवालेट् । चकारः सञ्ज्ञ-अनुकर्षण-अर्थः । दीर्घजिह्वी इति निपातनं नित्य-अर्थम् ॥ दिक्-पूर्वपदान् ङीप्

dīrghajihvī iti chandasi viṣaye nipātyate / saṃyogopadhatvād aprāpto ṅīṣ vidhīyate / dīrghajihvī vai devānāṃ havyamavāleṭ / cakāraḥ sañjña-anukarṣaṇa-arthaḥ / dīrghajihvī iti nipātanaṃ nitya-artham // dik-pūrvapadān ṅīp

Sanskrit only: no published translation is held for this verse.

स्वाङ्गाच् च+उपसर्जनात् इत्य् एवम् आदिविधि-प्रतिषेध-विषयः सर्वो ऽप्य् अपेक्ष्यते । यत्र ङीष् विहितस् तत्र तद् अपवादः । दिक्-पूर्वपदात् प्रातिपदिकात् ङीप् प्रत्ययो भवति । स्वरे विशेषः । प्राङ्मुखी, प्राङ्मुखा । प्राङ्नासिकी, प्राङ्नासिका । इह न भवति, प्राग्गुल्फा, प्राक्क्रोडा, प्राग्जघना इति ॥ वाहः

svāṅgāc ca+upasarjanāt ity evam ādividhi-pratiṣedha-viṣayaḥ sarvo 'py apekṣyate / yatra ṅīṣ vihitas tatra tad apavādaḥ / dik-pūrvapadāt prātipadikāt ṅīp pratyayo bhavati / svare viśeṣaḥ / prāṅmukhī, prāṅmukhā / prāṅnāsikī, prāṅnāsikā / iha na bhavati, prāggulphā, prākkroḍā, prāgjaghanā iti // vāhaḥ

Sanskrit only: no published translation is held for this verse.

ङीष् एव स्वर्यते, न ङीप् । वहेरयं ण्वि-प्रत्ययान्तस्य निर्देशः । सामार्थ्यात् तदन्तनिधेर् विज्ञानम् । बहन्तात् प्रातिपदिकात् स्त्रियां ङीष् प्रत्ययो भवति । दित्यौही । प्रष्ठौही ॥ सख्य् अशिष्वी इति भाषायाम्

ṅīṣ eva svaryate, na ṅīp / vaherayaṃ ṇvi-pratyayāntasya nirdeśaḥ / sāmārthyāt tadantanidher vijñānam / bahantāt prātipadikāt striyāṃ ṅīṣ pratyayo bhavati / dityauhī / praṣṭhauhī // sakhy aśiṣvī iti bhāṣāyām

Sanskrit only: no published translation is held for this verse.

सखी अशिश्वी इत्य् एतौ शब्दौ ङीषन्तौ भाषायां निपात्येते । सखीयं मे ब्राह्मणी । न अस्याः शिशुर् अस्ति इति अशिश्वी । भाषायाम् इति किम् ? सखा सप्तपदी भव । अशिशुम् इव मामयं शिशुरभिमन्यते ॥ जातेर् अस्त्रीविषयाद् अय-उपधात्

sakhī aśiśvī ity etau śabdau ṅīṣantau bhāṣāyāṃ nipātyete / sakhīyaṃ me brāhmaṇī / na asyāḥ śiśur asti iti aśiśvī / bhāṣāyām iti kim ? sakhā saptapadī bhava / aśiśum iva māmayaṃ śiśurabhimanyate // jāter astrīviṣayād aya-upadhāt

Sanskrit only: no published translation is held for this verse.

कुक्कुटी । सूकरी । ब्राह्मणी । वृषली । नाडायनी । चारायणी । कठी । बह्वृची । जातेः इति किम् ? मुण्डा । अस्त्रीविषयात् इति किम् ? मक्षिका । अयोपधात् इति किम् ? क्षत्रिया । योपध-प्रतिषेधे हयगवयमुकयमत्स्यमनुष्याणम् अप्रतिषेधः । हयी । गवयी । मुकयी । मत्सी । मनुषी ॥ पाक-कर्ण-पर्ण-पुष्प-फल-मूल-वाल-उत्तरपदाच् च

kukkuṭī / sūkarī / brāhmaṇī / vṛṣalī / nāḍāyanī / cārāyaṇī / kaṭhī / bahvṛcī / jāteḥ iti kim ? muṇḍā / astrīviṣayāt iti kim ? makṣikā / ayopadhāt iti kim ? kṣatriyā / yopadha-pratiṣedhe hayagavayamukayamatsyamanuṣyāṇam apratiṣedhaḥ / hayī / gavayī / mukayī / matsī / manuṣī // pāka-karṇa-parṇa-puṣpa-phala-mūla-vāla-uttarapadāc ca

Sanskrit only: no published translation is held for this verse.

पाक-आद्य्-उत्तरपदात् जातिवाचिनः प्रातिपदिकात् स्त्रियां ङीष् प्रत्ययो भवति । स्त्री-विषयत्वाद् एतेषां पूर्वेण अप्राप्तः प्रत्ययो बिधीयते । ओदनपादी । शङ्कुकर्णी । शालपर्णी । शङ्खपुष्पी । दासीफली । दर्भमूली । गोबाली । पुष्प-फल-मूल-उत्तरपदात् तु यतो नेष्यते तदजादिषु पठ्यते, सत्प्राक्काण्डप्रान्तशतैकेभ्यः पुष्पात्, सम्भस्त्राजिनशणपिण्डेभ्यः फलात्, मूलान्नञः इति ॥ इतो मनुस्य-जातेः

pāka-ādy-uttarapadāt jātivācinaḥ prātipadikāt striyāṃ ṅīṣ pratyayo bhavati / strī-viṣayatvād eteṣāṃ pūrveṇa aprāptaḥ pratyayo bidhīyate / odanapādī / śaṅkukarṇī / śālaparṇī / śaṅkhapuṣpī / dāsīphalī / darbhamūlī / gobālī / puṣpa-phala-mūla-uttarapadāt tu yato neṣyate tadajādiṣu paṭhyate, satprākkāṇḍaprāntaśataikebhyaḥ puṣpāt, sambhastrājinaśaṇapiṇḍebhyaḥ phalāt, mūlānnañaḥ iti // ito manusya-jāteḥ

Sanskrit only: no published translation is held for this verse.

इकारान्तात् प्रातिपदिकात् मनुष्यजाति-वाचिनः स्त्रियां ङीष् प्रत्ययो भवति । अवन्ती । कुन्ती । दीक्षी । प्लाक्षी । इतः इति किम् ? विट् । दरत् । मनुष्य-ग्रहणं किम् ? तित्तिरिः । जातेः इति वर्तमाने पुनर् जाति-ग्रहणं योपधाद् अपि यथा स्यात् । औदमेयी । इञ उपसङ्ख्यानम् अजात्य्-अर्थम् । सौतङ्गमी । मौनचित्ती । सुतङ्गमादिभ्यश् चातुरर्थिक इञ् न जातिः ॥ ऊङ् उतः

ikārāntāt prātipadikāt manuṣyajāti-vācinaḥ striyāṃ ṅīṣ pratyayo bhavati / avantī / kuntī / dīkṣī / plākṣī / itaḥ iti kim ? viṭ / darat / manuṣya-grahaṇaṃ kim ? tittiriḥ / jāteḥ iti vartamāne punar jāti-grahaṇaṃ yopadhād api yathā syāt / audameyī / iña upasaṅkhyānam ajāty-artham / sautaṅgamī / maunacittī / sutaṅgamādibhyaś cāturarthika iñ na jātiḥ // ūṅ utaḥ

Sanskrit only: no published translation is held for this verse.

मनुस्यजातेः इति वर्तते । उकारान्तात् मनुस्यजाति-वाचिनः प्रातिपदिकात् स्त्रियाम् ऊङ् प्रत्ययो भवति । कुरूः । बह्मबन्धूः । वीरबन्धूः । ङकारो नोङ्धात्वोः (*६,१।१७५) इति विशेषण-अर्थः । दीर्घोच्चारणं कपो बाधन-अर्थम् । अयोपधात् इत्य् एतद् अत्र अपेक्ष्यते । अध्वर्युर् ब्राह्मणी । अप्राणिजातेश् चारज्ज्वादीनाम् इति वक्तव्यम् । अलाबूः । कर्कन्धूः । अप्राणि-ग्रहणं किम् ? कृकवाकुः । अरज्ज्वादीनाम् इति किम् ? रज्जुः । हनुः ॥ बाह्वन्तात् सञ्ज्ञायाम्

manusyajāteḥ iti vartate / ukārāntāt manusyajāti-vācinaḥ prātipadikāt striyām ūṅ pratyayo bhavati / kurūḥ / bahmabandhūḥ / vīrabandhūḥ / ṅakāro noṅdhātvoḥ (*6,1.175) iti viśeṣaṇa-arthaḥ / dīrghoccāraṇaṃ kapo bādhana-artham / ayopadhāt ity etad atra apekṣyate / adhvaryur brāhmaṇī / aprāṇijāteś cārajjvādīnām iti vaktavyam / alābūḥ / karkandhūḥ / aprāṇi-grahaṇaṃ kim ? kṛkavākuḥ / arajjvādīnām iti kim ? rajjuḥ / hanuḥ // bāhvantāt sañjñāyām

Sanskrit only: no published translation is held for this verse.

पङ्गोश् च

paṅgoś ca

Sanskrit only: no published translation is held for this verse.

पङ्गु-शब्दात् स्त्रियां ऊङ् प्रत्ययो भवति । पङ्गूः । श्वशुर् अस्य+उकाराकारलोपश् च वक्तव्यः । श्वश्रूः ॥ ऊरु-उत्तरपदाद् औपम्ये

paṅgu-śabdāt striyāṃ ūṅ pratyayo bhavati / paṅgūḥ / śvaśur asya+ukārākāralopaś ca vaktavyaḥ / śvaśrūḥ // ūru-uttarapadād aupamye

Sanskrit only: no published translation is held for this verse.

ऊरु-उत्तरपदात् प्रातिपदिकात् औपम्ये गम्यमाने स्त्रियाम् ऊङ् प्रत्ययो भवति । कदलीस्तम्भोरूः । नागनासोरूः । करभोरूः । औपम्ये इति किम् ? वृत्तोरुः स्त्री ॥ संहित-शफ-लक्षण-वाम-आदेश् च

ūru-uttarapadāt prātipadikāt aupamye gamyamāne striyām ūṅ pratyayo bhavati / kadalīstambhorūḥ / nāganāsorūḥ / karabhorūḥ / aupamye iti kim ? vṛttoruḥ strī // saṃhita-śapha-lakṣaṇa-vāma-ādeś ca

Sanskrit only: no published translation is held for this verse.

संहित शफ लक्षण वाम इत्य् एवम् आदेः प्रातिपदिकाद् ऊरु-उत्तरपदात् स्त्रियाम् ऊङ् प्रत्ययो भवति । अनौपम्य-अर्थ आरम्भः । संहितोरूः । शफोरूः । लक्षणोरूः । वामोरूः । सहितसहाभ्यां च+इति वक्तव्यम् । सहितोरूः । सहोरूः ॥ कद्रु-कमण्डल्वोश् छन्दसि

saṃhita śapha lakṣaṇa vāma ity evam ādeḥ prātipadikād ūru-uttarapadāt striyām ūṅ pratyayo bhavati / anaupamya-artha ārambhaḥ / saṃhitorūḥ / śaphorūḥ / lakṣaṇorūḥ / vāmorūḥ / sahitasahābhyāṃ ca+iti vaktavyam / sahitorūḥ / sahorūḥ // kadru-kamaṇḍalvoś chandasi

Sanskrit only: no published translation is held for this verse.

कद्रु-शब्दात् कमण्डलु-शब्दाच् च छन्दसि चिषये स्त्रियां ऊङ् प्रत्ययो भवति । कद्रूश् च वै सुपर्णी अ । मा स्म कमण्डलूं शूद्राय दद्यात् । छन्दसि इति किम् ? कद्रुः । कमण्दलुः । गुग्गुलुमधुजतुपतयालूनाम् इति वक्तव्यम् । गुगुलूः । मधूः । जतूः । पतयालूः ॥ सञ्ज्ञायाम्

kadru-śabdāt kamaṇḍalu-śabdāc ca chandasi ciṣaye striyāṃ ūṅ pratyayo bhavati / kadrūś ca vai suparṇī a / mā sma kamaṇḍalūṃ śūdrāya dadyāt / chandasi iti kim ? kadruḥ / kamaṇdaluḥ / guggulumadhujatupatayālūnām iti vaktavyam / gugulūḥ / madhūḥ / jatūḥ / patayālūḥ // sañjñāyām

Sanskrit only: no published translation is held for this verse.

शार्ङ्गरव-आद्य्-अञो ङीन्

śārṅgarava-ādy-año ṅīn

Sanskrit only: no published translation is held for this verse.

शार्ङ्गरवादिभ्यो ऽञन्तेभ्यश् च प्रातिपदिकेभ्यः स्त्रियां ङीन् प्रत्ययो भवति । शार्ङ्गरवी । कापटवी । अञनतेभ्यः - बैदी । और्वी । जातिग्रहणम् अत्र अनुवर्तते । तेन जाति-लक्षणो ङीष् अनेन बाध्यते, न पुंयोग-लक्षणः, बैदस्य स्त्री बैदी । शार्ङ्गरव । कापटव । गौगुलव । ब्राह्मण । गौतम । एते ऽणन्ताः । कामण्डलेय । ब्राहमकृतेय । आनिचेय । आनिधेय । आशोकेय । एते ढगन्ता । वात्स्यायन । मौञ्जायन । एतौ फगन्तौ जातिः । कैकसेयो ढगन्तः । काव्यशैव्यौ यञन्तौ । एहि, पर्येहि कृदिकारान्तौ । आश्मरथ्यो यञन्तः । औदपानः । उदपानशब्दः शुण्डिकाद्यणन्तः प्रयोजयति । अराल । चण्डाल । वतण्ड । जातिः । भोगवद्गौरिमतोः सञ्ज्ञायाम् घादिषु नित्यं ह्रस्वार्थम् । नृनरयोर् वृद्धिश् च । अत्र यथायोगं ङीबादिषु प्राप्तेषु ङीन् विधीयते ॥ यङश् चाप्

śārṅgaravādibhyo 'ñantebhyaś ca prātipadikebhyaḥ striyāṃ ṅīn pratyayo bhavati / śārṅgaravī / kāpaṭavī / añanatebhyaḥ - baidī / aurvī / jātigrahaṇam atra anuvartate / tena jāti-lakṣaṇo ṅīṣ anena bādhyate, na puṃyoga-lakṣaṇaḥ, baidasya strī baidī / śārṅgarava / kāpaṭava / gaugulava / brāhmaṇa / gautama / ete 'ṇantāḥ / kāmaṇḍaleya / brāhamakṛteya / āniceya / ānidheya / āśokeya / ete ḍhagantā / vātsyāyana / mauñjāyana / etau phagantau jātiḥ / kaikaseyo ḍhagantaḥ / kāvyaśaivyau yañantau / ehi, paryehi kṛdikārāntau / āśmarathyo yañantaḥ / audapānaḥ / udapānaśabdaḥ śuṇḍikādyaṇantaḥ prayojayati / arāla / caṇḍāla / vataṇḍa / jātiḥ / bhogavadgaurimatoḥ sañjñāyām ghādiṣu nityaṃ hrasvārtham / nṛnarayor vṛddhiś ca / atra yathāyogaṃ ṅībādiṣu prāpteṣu ṅīn vidhīyate // yaṅaś cāp

Sanskrit only: no published translation is held for this verse.

यङन्तात् प्रातिपदिकात् स्त्रियां चाप् प्रत्ययो भवति । ञ्यङः ष्यङश् च सामान्य-ग्रहणम् एतत् । आम्बष्ठ्या । सौवीर्या । कौसल्या । ष्यङ् - कारीषगन्ध्या । वाराह्या । बालाक्या । षाच् च यञः । षात् परो यो यञ् तदन्ताच् चाप् वक्तव्यः । शार्कराक्ष्या । अपुतिमाष्या । गौकक्ष्या । उत्तरसूत्रे चकारो ऽनुक्त-समुच्चय-अर्थः, तेन वा भविष्यति ॥ आवङ्याच् च

yaṅantāt prātipadikāt striyāṃ cāp pratyayo bhavati / ñyaṅaḥ ṣyaṅaś ca sāmānya-grahaṇam etat / āmbaṣṭhyā / sauvīryā / kausalyā / ṣyaṅ - kārīṣagandhyā / vārāhyā / bālākyā / ṣāc ca yañaḥ / ṣāt paro yo yañ tadantāc cāp vaktavyaḥ / śārkarākṣyā / aputimāṣyā / gaukakṣyā / uttarasūtre cakāro 'nukta-samuccaya-arthaḥ, tena vā bhaviṣyati // āvaṅyāc ca

Sanskrit only: no published translation is held for this verse.

अवट-शब्दो गर्गादिः, तस्माद् यञि कृते ङीपि प्राप्ते वचनम् एतत् । आवट्याच् च स्त्रियां चाप् प्रत्ययो भवति । आवट्या प्राचां ष्फ एव, सर्वत्र ग्रहणात् । आवट्यायनी ॥ तद्धिताः

avaṭa-śabdo gargādiḥ, tasmād yañi kṛte ṅīpi prāpte vacanam etat / āvaṭyāc ca striyāṃ cāp pratyayo bhavati / āvaṭyā prācāṃ ṣpha eva, sarvatra grahaṇāt / āvaṭyāyanī // taddhitāḥ

Sanskrit only: no published translation is held for this verse.

यूनस् तिः

yūnas tiḥ

Sanskrit only: no published translation is held for this verse.

युवन्-शब्दात् प्रातिपदिकात् स्त्रियां तिः प्रत्ययो भवति । स च तद्धितसञ्ज्ञो भवति । ङीपो ऽपवादः । युवतिः ॥ अण्-इञोर् अनार्षयोर् गुरु-उपोत्तमयोः ष्यङ् गोत्रे

yuvan-śabdāt prātipadikāt striyāṃ tiḥ pratyayo bhavati / sa ca taddhitasañjño bhavati / ṅīpo 'pavādaḥ / yuvatiḥ // aṇ-iñor anārṣayor guru-upottamayoḥ ṣyaṅ gotre

Sanskrit only: no published translation is held for this verse.

गोत्रे याव् अणिञौ विहिताव् अनार्षौ तदन्तयोः प्रातिपदिकयोर् गुरूपोत्तमयोः स्त्रियां ष्यङ् आदेशो भवति । निर्दिष्यमानस्य आदेशा भवन्ति इत्य् अणिञोर् एव विज्ञायते, न तु समुदायस्य । ङकारः सामान्य-ग्रहण-अर्थः । षकारस् तदविघातार्थः, यङश् चाप् (*४,१।७४) इति । उत्तम-शब्दः स्वभावात् त्रिप्रभृतीनामन्त्यमक्षरमाह । उत्तमस्य समीपम् उपोत्तमम् । गुरु उपोत्तमं यस्य तद् गुरूपोत्तमं प्रातिपदिकम् । करीषस्य+इव गन्धो ऽस्य करीषगन्धिः । कुमुदगन्धिः । तस्यापत्यम् इत्यण् । तस्य ष्यङ् आदेशः । कारीषगन्ध्या । कौमुदगन्ध्या । वराहस्यापत्यम् । अत इञ् (*४,१।९५) । वाराहिः । तस्य ष्यङ् आदेशः । वाराह्या । बालाक्या । अणिञोः इति किम् ? ऋतभागस्यापत्यं, बदादित्वादञ्, आर्तभागी । गुरूपोत्तमादिकं सर्वम् अस्ति इति न स्तणिञौ । टिड्ढाणञ् (*४,१।१५) इति ङीब् एव भवति । अनार्षयोः इति किम् ? वासिष्ठी । वैश्वामित्री । गुरूपोत्तमयोः इति किम् ? औपगवी । कापटवी । गोत्रे इति किम् ? तत्र जाताः (*४,३।२५) - आहिच्छत्री । कान्यकुब्जी ॥ गोर-अवयवात्

gotre yāv aṇiñau vihitāv anārṣau tadantayoḥ prātipadikayor gurūpottamayoḥ striyāṃ ṣyaṅ ādeśo bhavati / nirdiṣyamānasya ādeśā bhavanti ity aṇiñor eva vijñāyate, na tu samudāyasya / ṅakāraḥ sāmānya-grahaṇa-arthaḥ / ṣakāras tadavighātārthaḥ, yaṅaś cāp (*4,1.74) iti / uttama-śabdaḥ svabhāvāt triprabhṛtīnāmantyamakṣaramāha / uttamasya samīpam upottamam / guru upottamaṃ yasya tad gurūpottamaṃ prātipadikam / karīṣasya+iva gandho 'sya karīṣagandhiḥ / kumudagandhiḥ / tasyāpatyam ityaṇ / tasya ṣyaṅ ādeśaḥ / kārīṣagandhyā / kaumudagandhyā / varāhasyāpatyam / ata iñ (*4,1.95) / vārāhiḥ / tasya ṣyaṅ ādeśaḥ / vārāhyā / bālākyā / aṇiñoḥ iti kim ? ṛtabhāgasyāpatyaṃ, badāditvādañ, ārtabhāgī / gurūpottamādikaṃ sarvam asti iti na staṇiñau / ṭiḍḍhāṇañ (*4,1.15) iti ṅīb eva bhavati / anārṣayoḥ iti kim ? vāsiṣṭhī / vaiśvāmitrī / gurūpottamayoḥ iti kim ? aupagavī / kāpaṭavī / gotre iti kim ? tatra jātāḥ (*4,3.25) - āhicchatrī / kānyakubjī // gora-avayavāt

Sanskrit only: no published translation is held for this verse.

अण्-इञोः इत्य् एव । गोत्र-अवयवाः गोत्राभिमताः कुलाख्याः पुणिकभुणिकमुखरप्रभृतयः । ततो गोत्रे विहितयोर् अणिञोः स्त्रियां ष्यङ् आदेशो भवति । अगुरूपोत्तमार्थ आरम्भः । पौणिक्या । भौणिक्या । मौखर्या । येषां स्वनन्तरापत्ये ऽपि इष्यते दैवदत्त्या, याज्ञादत्त्या इति , ते क्रौड्यादिषु द्रष्टव्याः ॥ क्रौड्य्-आदिभ्यश् च

aṇ-iñoḥ ity eva / gotra-avayavāḥ gotrābhimatāḥ kulākhyāḥ puṇikabhuṇikamukharaprabhṛtayaḥ / tato gotre vihitayor aṇiñoḥ striyāṃ ṣyaṅ ādeśo bhavati / agurūpottamārtha ārambhaḥ / pauṇikyā / bhauṇikyā / maukharyā / yeṣāṃ svanantarāpatye 'pi iṣyate daivadattyā, yājñādattyā iti , te krauḍyādiṣu draṣṭavyāḥ // krauḍy-ādibhyaś ca

Sanskrit only: no published translation is held for this verse.

दैवयज्ञि-शौचिवृक्षि-सात्यमुग्रि-काण्ठेविद्धिभ्यो ऽन्यतरस्याम्

daivayajñi-śaucivṛkṣi-sātyamugri-kāṇṭheviddhibhyo 'nyatarasyām

Sanskrit only: no published translation is held for this verse.

दैवयज्ञि शौचिवृक्षि सात्यमुग्रि काण्ठेविद्धि इत्य् एतेषाम् अन्यतरस्यां ष्यङ् प्रत्ययो भवति । इञन्ता एते, गोत्र-ग्रहणं च न अनुवर्तते । तेन+उभयत्रविभाषेयम् । गोत्रे पूर्वेण ष्यङादेशः प्राप्तो विकल्प्यते, अगोत्रे त्वनन्तरे ऽपत्ये पक्षे विधीयते । तेन मुक्ते इतो मनुस्यजाते (*४,१।६५) इति ङीष् एव भवति । दैवयज्ञ्या, दैवयज्ञी । शौचिवृक्ष्या, शौचिवृक्षी । सात्यमुग्र्या, सात्यमुग्री । काण्ठेविद्ध्या, काण्ठेविद्धी ॥ समर्थानां प्रथमाद् वा

daivayajñi śaucivṛkṣi sātyamugri kāṇṭheviddhi ity eteṣām anyatarasyāṃ ṣyaṅ pratyayo bhavati / iñantā ete, gotra-grahaṇaṃ ca na anuvartate / tena+ubhayatravibhāṣeyam / gotre pūrveṇa ṣyaṅādeśaḥ prāpto vikalpyate, agotre tvanantare 'patye pakṣe vidhīyate / tena mukte ito manusyajāte (*4,1.65) iti ṅīṣ eva bhavati / daivayajñyā, daivayajñī / śaucivṛkṣyā, śaucivṛkṣī / sātyamugryā, sātyamugrī / kāṇṭheviddhyā, kāṇṭheviddhī // samarthānāṃ prathamād vā

Sanskrit only: no published translation is held for this verse.

त्रयम् अप्य् अधिक्रियते समर्थानाम् इति च, प्रथमाद् इति च, वा इति च । स्वार्थिक-प्रत्ययावधिश्चायम् अधिकारः, प्राग्दिशो विभक्तिः (*५,३।१) इति वावत् । स्वार्थिकेषु ह्य् अस्य+उपयोगो न अस्ति, विकल्पो ऽपि तत्र अनवस्थितः । केचिन् नित्यम् एव भवन्ति । लक्षणवाक्यानि तस्य अपत्यम् (*४,१।९२), तेन रक्तं रागात् (*४,२।१) तत्र भवः (*४,३।५३) इत्य् एवम् आदीनि भविष्यन्ति । तेषु सामर्थ्ये सति प्रथम-निर्दिष्टाद् एव विकल्पेन प्रत्ययो भवति इति वेदितव्यम् । समर्थानाम् इति विर्धारणे षष्ठी । समर्थानां मद्ये प्रथमः प्रत्यय-प्रकृतित्वेन निर्धार्यते । तस्य इति सामान्यं विशेषलक्षण-अर्थम् । तदीयं प्राथम्यं विशेषाणां विज्ञायते । उपगोः अपत्यम् औपगवः । समर्थानाम् इति किम् ? कम्बल उपगोः, अपत्यं देवदत्तस्य । प्रथमात् इति किम् ? षष्ठ्यान्ताद् यथा स्यात्, प्रथमान्तान् मा भूत् । वा इति किम् ? वाक्यम् अपि यथा स्यात् उपगोर् अपत्यम् इति । यद्य् एवं समास-वृत्तिः तद्धित-वृत्त्या बाध्येत उपग्वपत्यम् इति । न+एष दोषः । पूर्वसूत्राद् अन्यतरस्यां ग्रहणम् अनुवर्तते । तेन+एतद् अपि भविष्यति ॥ प्राग् दीव्यतो ऽण्

trayam apy adhikriyate samarthānām iti ca, prathamād iti ca, vā iti ca / svārthika-pratyayāvadhiścāyam adhikāraḥ, prāgdiśo vibhaktiḥ (*5,3.1) iti vāvat / svārthikeṣu hy asya+upayogo na asti, vikalpo 'pi tatra anavasthitaḥ / kecin nityam eva bhavanti / lakṣaṇavākyāni tasya apatyam (*4,1.92), tena raktaṃ rāgāt (*4,2.1) tatra bhavaḥ (*4,3.53) ity evam ādīni bhaviṣyanti / teṣu sāmarthye sati prathama-nirdiṣṭād eva vikalpena pratyayo bhavati iti veditavyam / samarthānām iti virdhāraṇe ṣaṣṭhī / samarthānāṃ madye prathamaḥ pratyaya-prakṛtitvena nirdhāryate / tasya iti sāmānyaṃ viśeṣalakṣaṇa-artham / tadīyaṃ prāthamyaṃ viśeṣāṇāṃ vijñāyate / upagoḥ apatyam aupagavaḥ / samarthānām iti kim ? kambala upagoḥ, apatyaṃ devadattasya / prathamāt iti kim ? ṣaṣṭhyāntād yathā syāt, prathamāntān mā bhūt / vā iti kim ? vākyam api yathā syāt upagor apatyam iti / yady evaṃ samāsa-vṛttiḥ taddhita-vṛttyā bādhyeta upagvapatyam iti / na+eṣa doṣaḥ / pūrvasūtrād anyatarasyāṃ grahaṇam anuvartate / tena+etad api bhaviṣyati // prāg dīvyato 'ṇ

Sanskrit only: no published translation is held for this verse.

तेन दीव्यति इति वक्ष्यति । तद् एकदेशो दीव्यच्छब्दो अवधित्वेन गृह्यते । प्राग् - दीव्यत्संशब्दनाद् यानित ऊर्ध्वम् अनुक्रमिष्यमः, अण् प्रत्ययस् तत्र भवति इति वेदितव्यम् । अधिकारः, परिभाषा, चिधिर्वा इति त्रिष्व् अपि दर्शनेष्व् अपवादविषयं परिगृत्य अण् प्रवर्तते । वक्ष्यति, तस्य अपत्यम् (*४,१।९२) - औपगवः । कापटवः ॥ अश्वपत्यादिभ्यश् च

tena dīvyati iti vakṣyati / tad ekadeśo dīvyacchabdo avadhitvena gṛhyate / prāg - dīvyatsaṃśabdanād yānita ūrdhvam anukramiṣyamaḥ, aṇ pratyayas tatra bhavati iti veditavyam / adhikāraḥ, paribhāṣā, cidhirvā iti triṣv api darśaneṣv apavādaviṣayaṃ parigṛtya aṇ pravartate / vakṣyati, tasya apatyam (*4,1.92) - aupagavaḥ / kāpaṭavaḥ // aśvapatyādibhyaś ca

Sanskrit only: no published translation is held for this verse.

दित्य्-अदित्य्-आदित्य-पत्य्-उत्तरपदाण् ण्यः

dity-adity-āditya-paty-uttarapadāṇ ṇyaḥ

Sanskrit only: no published translation is held for this verse.

उत्स-आदिभ्यो ऽञ्

utsa-ādibhyo 'ñ

Sanskrit only: no published translation is held for this verse.

विकर । विनोद । महानद । महानस । महाप्राण । तरुण । तलुन । बष्कया ऽसे । धेनु । पृथिवी । पङ्क्ति । जगती । तिर्ष्टुप् । अनुष्टुप् । जनपद । भरत । उशीनर । ग्रीष्म । पीलु । कुल । उदस्थानात् देशे । पृषदंशे । भल्लकीय । रथान्तर । मध्यन्दिन । बृहत् । महत् । सत्त्वन्तु । सच्छब्दो मतुबन्त आगतनुङ्को गृह्यते सत्त्वन्तु इति । कुरु । पञ्चाल । इन्द्रावसान । उष्णिक् । ककुब्ः । सुवर्ण । देव । ग्रीष्माच्छन्दसि इति वक्तव्यम् । इह मा भूत् । ग्रैष्ंई त्रिष्टुप् । छन्दश् च+इह वृत्तं गृह्यते, न वेदः ॥ स्त्री-पुंसाभ्यां नञ्-स्नञौ भवनात्

vikara / vinoda / mahānada / mahānasa / mahāprāṇa / taruṇa / taluna / baṣkayā 'se / dhenu / pṛthivī / paṅkti / jagatī / tirṣṭup / anuṣṭup / janapada / bharata / uśīnara / grīṣma / pīlu / kula / udasthānāt deśe / pṛṣadaṃśe / bhallakīya / rathāntara / madhyandina / bṛhat / mahat / sattvantu / sacchabdo matubanta āgatanuṅko gṛhyate sattvantu iti / kuru / pañcāla / indrāvasāna / uṣṇik / kakubḥ / suvarṇa / deva / grīṣmācchandasi iti vaktavyam / iha mā bhūt / graiṣṃī triṣṭup / chandaś ca+iha vṛttaṃ gṛhyate, na vedaḥ // strī-puṃsābhyāṃ nañ-snañau bhavanāt

Sanskrit only: no published translation is held for this verse.

धान्यानां भवने क्षेत्रे खञ् (*५,२।१) इति वक्ष्यति । तस्य प्राग् इत्य् अनेन+एव सम्बन्धः । प्राग्भवनसंशब्दनाद् ये ऽर्थास् तेषु स्त्री-शब्दात् पुंस्-शब्दाच् च यथाक्रमं नञ्स्नञौ प्रत्ययु भवतः । स्त्रीषु भवं स्त्रैणम् । पौंस्नम् । स्त्रिणां समूहः स्त्रैणम् । पौंस्नम् । स्त्रीभ्य आगतं स्त्रैणम् । अपुंस्नम् । स्त्रीभ्यो हितं स्त्रैणम् । पौंस्नम् । स्त्रियाः पुंवत् इति ज्ञापकाद् वत्यर्थे न भवति । योग-अपेक्षं च ज्ञापकम् इति स्त्रीवद् इत्य् अपि सिद्धम् ॥ द्विगोर् लुग्-अनपत्ये

dhānyānāṃ bhavane kṣetre khañ (*5,2.1) iti vakṣyati / tasya prāg ity anena+eva sambandhaḥ / prāgbhavanasaṃśabdanād ye 'rthās teṣu strī-śabdāt puṃs-śabdāc ca yathākramaṃ nañsnañau pratyayu bhavataḥ / strīṣu bhavaṃ straiṇam / pauṃsnam / striṇāṃ samūhaḥ straiṇam / pauṃsnam / strībhya āgataṃ straiṇam / apuṃsnam / strībhyo hitaṃ straiṇam / pauṃsnam / striyāḥ puṃvat iti jñāpakād vatyarthe na bhavati / yoga-apekṣaṃ ca jñāpakam iti strīvad ity api siddham // dvigor lug-anapatye

Sanskrit only: no published translation is held for this verse.

वाक्यम् एव भवति । त्रैशब्द्यं हि साध्यं, पञ्चसु कपालेषु संस्कृतः, पञ्चकपाल्यां संस्कृतः पञ्चकपालः इति । तत्र द्वयोः शब्दयोः समानार्थयोर् एकेन विग्रहः । अपरस्माद् उत्पत्तिर् भविष्यति । अथ+इह कस्मान् न भवति, पञ्चभ्यो गर्गेभ्य आगतं पज्चगर्गरूपयम्, पञ्चगर्गम् अयम् इति वा इत्य् अनुवर्तते । सा च व्यवस्थित-विभाषा विज्ञायते ॥ गोत्रे ऽलुग्-अचि

vākyam eva bhavati / traiśabdyaṃ hi sādhyaṃ, pañcasu kapāleṣu saṃskṛtaḥ, pañcakapālyāṃ saṃskṛtaḥ pañcakapālaḥ iti / tatra dvayoḥ śabdayoḥ samānārthayor ekena vigrahaḥ / aparasmād utpattir bhaviṣyati / atha+iha kasmān na bhavati, pañcabhyo gargebhya āgataṃ pajcagargarūpayam, pañcagargam ayam iti vā ity anuvartate / sā ca vyavasthita-vibhāṣā vijñāyate // gotre 'lug-aci

Sanskrit only: no published translation is held for this verse.

प्राग्दीव्यतः इत्य् एव । यस्कादिभ्यो गोत्रे (*२,४।६३) । इत्य् आदिना येषां गोत्रप्रत्ययानां लुग् उक्तः, तेषामजादौ प्राग्दीव्यतीये विशयभूते प्रतिषिध्यते । गर्गाणाम् छात्राः गार्गीयाः । वात्सीयाः । आत्रेयीयाः । खारपायणीयाः । गोत्रे इति किम् ? कौबलम् । बादरम् । अचि इति किम् ? गर्गेभ्य आगतम् गर्गरूप्यम् । गर्गमयम् । प्राग्दीव्यतः इत्य् एव, गर्गेभ्यो हि तम् गार्गीयम् । गोत्रस्य बहुषु लोपिनो बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोर् अलुक् । बिदानाम् अपत्यं युवा, युवानौ बैदः, बैदौ । वैद-शब्दात् अतः इञ् कृते तस्य च इञः ण्य-क्षत्रिय-आर्ष-ञितो यूनि लुग्-अण्-इञोः (*२,४।५८) इति लुकि रूपम् । एकवचन-द्विवचन-अन्तस्य प्रवृत्तौ बहुषु लोपो यूनि, बैदस्य बैदयोर् वा अपत्यं बहवो माणवकाः बिदाः । नह्यत्राण् बहुषूत्पन्नः ॥ यूनि लुक्

prāgdīvyataḥ ity eva / yaskādibhyo gotre (*2,4.63) / ity ādinā yeṣāṃ gotrapratyayānāṃ lug uktaḥ, teṣāmajādau prāgdīvyatīye viśayabhūte pratiṣidhyate / gargāṇām chātrāḥ gārgīyāḥ / vātsīyāḥ / ātreyīyāḥ / khārapāyaṇīyāḥ / gotre iti kim ? kaubalam / bādaram / aci iti kim ? gargebhya āgatam gargarūpyam / gargamayam / prāgdīvyataḥ ity eva, gargebhyo hi tam gārgīyam / gotrasya bahuṣu lopino bahuvacanāntasya pravṛttau dvyekayor aluk / bidānām apatyaṃ yuvā, yuvānau baidaḥ, baidau / vaida-śabdāt ataḥ iñ kṛte tasya ca iñaḥ ṇya-kṣatriya-ārṣa-ñito yūni lug-aṇ-iñoḥ (*2,4.58) iti luki rūpam / ekavacana-dvivacana-antasya pravṛttau bahuṣu lopo yūni, baidasya baidayor vā apatyaṃ bahavo māṇavakāḥ bidāḥ / nahyatrāṇ bahuṣūtpannaḥ // yūni luk

Sanskrit only: no published translation is held for this verse.

फक्-फिञोर् अन्यतरस्याम्

phak-phiñor anyatarasyām

Sanskrit only: no published translation is held for this verse.

यूनि इत्य् एव । पूर्वसूत्रेण नित्ये लुकि प्राप्ते विकल्प उच्यते । फक्फिञोर् युव-प्रत्यययोः प्राग्दीव्यतीये ऽजादौ प्रत्यये विवक्षिते ऽन्यतरस्यां लुग् भवति । गर्गादिभ्यो यञि कृते यञिञोश् च (*४,१।१०१) इति फक्, गार्ग्यायणः । तस्य छात्राः गार्गीयाः, गार्ग्यायणीयाः । वात्सीयाः, वात्स्यायनीयाः । फिञः खल्व् अपि यस्कस्य अपत्यं, शिवादिभ्यो ऽण् (*४,१।११२), यास्कः । तस्य अपत्यं युवा, अणो द्व्यचः (*४,१।१५६) इति फिञ्, यास्कायनिः । तस्य छात्राः यास्कीयाः, यास्कायनीयाः ॥ तस्य अपत्यम्

yūni ity eva / pūrvasūtreṇa nitye luki prāpte vikalpa ucyate / phakphiñor yuva-pratyayayoḥ prāgdīvyatīye 'jādau pratyaye vivakṣite 'nyatarasyāṃ lug bhavati / gargādibhyo yañi kṛte yañiñoś ca (*4,1.101) iti phak, gārgyāyaṇaḥ / tasya chātrāḥ gārgīyāḥ, gārgyāyaṇīyāḥ / vātsīyāḥ, vātsyāyanīyāḥ / phiñaḥ khalv api yaskasya apatyaṃ, śivādibhyo 'ṇ (*4,1.112), yāskaḥ / tasya apatyaṃ yuvā, aṇo dvyacaḥ (*4,1.156) iti phiñ, yāskāyaniḥ / tasya chātrāḥ yāskīyāḥ, yāskāyanīyāḥ // tasya apatyam

Sanskrit only: no published translation is held for this verse.

अर्थ-निर्देशो ऽयं, पूर्वैर् उत्तरैश् च प्रत्ययैर् अभिसम्बध्यते । तस्य इति षष्ठीसमर्थात् अपत्यम् इत्य् एतस्मिन्न् अर्थे यथाविहितं प्रत्ययो भवति । प्रकृत्यर्थ-विशिष्टः षष्ठ्यर्थो ऽपत्यम् आत्रञ्चेह गृह्यते । लिङ्गवचनादिकमन्यत् सर्वमविवक्षितम् । उपगोरपत्यम् औपगवः । आश्वपतः । दैत्यः । औत्सः । स्त्रैणः । पौंस्नः । तस्य+इदम् अपत्ये ऽपि बाधन-अर्थं कृतं भवेत् । उत्सर्गः शेष एव असौ वृद्धान्य् अस्य प्रयोजनम् ॥ भानोर् अपत्यम् भानवः । श्यामगवः ॥ एको गोत्रे

artha-nirdeśo 'yaṃ, pūrvair uttaraiś ca pratyayair abhisambadhyate / tasya iti ṣaṣṭhīsamarthāt apatyam ity etasminn arthe yathāvihitaṃ pratyayo bhavati / prakṛtyartha-viśiṣṭaḥ ṣaṣṭhyartho 'patyam ātrañceha gṛhyate / liṅgavacanādikamanyat sarvamavivakṣitam / upagorapatyam aupagavaḥ / āśvapataḥ / daityaḥ / autsaḥ / straiṇaḥ / pauṃsnaḥ / tasya+idam apatye 'pi bādhana-arthaṃ kṛtaṃ bhavet / utsargaḥ śeṣa eva asau vṛddhāny asya prayojanam // bhānor apatyam bhānavaḥ / śyāmagavaḥ // eko gotre

Sanskrit only: no published translation is held for this verse.

अपत्यं पौत्र-प्रभृति गोत्रम् (*४,१।१६२) । तस्मन् विवक्षिते भेदेन प्रत्यपत्यं प्रत्ययोत्पत्ति-प्रस्ङ्गे नियमः क्रियते, गोत्रे एक एव प्रत्ययो भवति, सर्वे ऽपत्येन युज्यन्ते । अपतनाद् अपत्यम् । यो ऽपि व्यवहितेन जनितः, सो ऽपि प्रथमप्रकृतेर् अपत्यं भवत्य् एव । गर्गस्य अपत्यं गार्गिः । गार्गेर् अपत्यं गार्ग्यः । तत्पुत्रो ऽपि व्यवहितेन जनितः, सो ऽपि प्रथमप्रकृतेर् अपत्यं भवत्य् एव । गर्गस्य अपत्यं गार्गिः । गार्गेर् अपत्यं गार्ग्यः । तत्पुत्रो ऽपि गार्ग्यः । सर्वस्मिन् व्यवहितजनिते ऽपि गोत्रापत्ये गर्ग-शब्दाद् यञ् एव भवति इति प्रत्ययो नियम्यते । अथवा गोत्रापत्ये विवक्षिते एक एव शब्दः प्रथमा प्रकृतिः प्रत्ययम् उत्पादयति इति प्रकृतिर् नियम्यते । गार्ग्यः । नाडायनः ॥ गोत्राद् यून्य् अस्त्रियां

apatyaṃ pautra-prabhṛti gotram (*4,1.162) / tasman vivakṣite bhedena pratyapatyaṃ pratyayotpatti-prasṅge niyamaḥ kriyate, gotre eka eva pratyayo bhavati, sarve 'patyena yujyante / apatanād apatyam / yo 'pi vyavahitena janitaḥ, so 'pi prathamaprakṛter apatyaṃ bhavaty eva / gargasya apatyaṃ gārgiḥ / gārger apatyaṃ gārgyaḥ / tatputro 'pi vyavahitena janitaḥ, so 'pi prathamaprakṛter apatyaṃ bhavaty eva / gargasya apatyaṃ gārgiḥ / gārger apatyaṃ gārgyaḥ / tatputro 'pi gārgyaḥ / sarvasmin vyavahitajanite 'pi gotrāpatye garga-śabdād yañ eva bhavati iti pratyayo niyamyate / athavā gotrāpatye vivakṣite eka eva śabdaḥ prathamā prakṛtiḥ pratyayam utpādayati iti prakṛtir niyamyate / gārgyaḥ / nāḍāyanaḥ // gotrād yūny astriyāṃ

Sanskrit only: no published translation is held for this verse.

अत इञ्

ata iñ

Sanskrit only: no published translation is held for this verse.

तस्य अपत्यम् इत्य् एव । अकारान्तात् प्रातिपदिकात् इञ् प्रत्ययो भवति । अणो ऽपवादः । दक्षस्य अपत्यं दाक्षिः । तपरकरणं किम् ? शुभंयाः, कीलालपाः इत्य् अतो मा भूत् । कथं प्रदीयतां दाशरथाय मैथिलि ? शेषविवक्षया भविष्यति ॥ बाह्व्-आदिभ्यश् च

tasya apatyam ity eva / akārāntāt prātipadikāt iñ pratyayo bhavati / aṇo 'pavādaḥ / dakṣasya apatyaṃ dākṣiḥ / taparakaraṇaṃ kim ? śubhaṃyāḥ, kīlālapāḥ ity ato mā bhūt / kathaṃ pradīyatāṃ dāśarathāya maithili ? śeṣavivakṣayā bhaviṣyati // bāhv-ādibhyaś ca

Sanskrit only: no published translation is held for this verse.

पुष्करसत् । अनुहरत् । देवशर्मन् । अग्निशर्मन् । कुनामन् । सुनामन् । पञ्चन् । सप्तन् । अष्टन् । अमितौजसः सलोपश् च । उदञ्चु । शिरस् । शराविन् । क्षेमवृद्धिन् । शृङ्खलातोदिन् । खरनादिन् । नगरमर्दिन् । प्राकारमर्दिन् । लोमन् । अजीगर्त । कृष्ण । सलक । युधिष्ठिर । अर्जुन । साम्ब । गद । प्रद्युम्न । राम । उदङ्कः सञ्ज्ञायाम् । अम्भूयो ऽम्भसोः सलोपश् च । बाह्वादिप्रभृतिषु येषां दर्शनं गोत्रभावे लौकिके ततो ऽन्यत्र तेषां प्रतिषेधः । बाहुर्नाम कश्चित्, तस्य अपत्यं बाहवः । सम्बन्धिशब्दानां च तत्सदृशात् प्रतिषेधः । सञ्ज्ञा - श्वशुरस्य अपत्यं श्वाशुरिः । चकारो ऽनुक्त-समुच्चय-अर्थः आकृतिगणतामस्य बोधयति । जाम्बिः । ऐन्द्रशर्मिः । आजधेनविः । आजबन्धविः । औडुलोमिः ॥ सुधातुर् अकङ् च

puṣkarasat / anuharat / devaśarman / agniśarman / kunāman / sunāman / pañcan / saptan / aṣṭan / amitaujasaḥ salopaś ca / udañcu / śiras / śarāvin / kṣemavṛddhin / śṛṅkhalātodin / kharanādin / nagaramardin / prākāramardin / loman / ajīgarta / kṛṣṇa / salaka / yudhiṣṭhira / arjuna / sāmba / gada / pradyumna / rāma / udaṅkaḥ sañjñāyām / ambhūyo 'mbhasoḥ salopaś ca / bāhvādiprabhṛtiṣu yeṣāṃ darśanaṃ gotrabhāve laukike tato 'nyatra teṣāṃ pratiṣedhaḥ / bāhurnāma kaścit, tasya apatyaṃ bāhavaḥ / sambandhiśabdānāṃ ca tatsadṛśāt pratiṣedhaḥ / sañjñā - śvaśurasya apatyaṃ śvāśuriḥ / cakāro 'nukta-samuccaya-arthaḥ ākṛtigaṇatāmasya bodhayati / jāmbiḥ / aindraśarmiḥ / ājadhenaviḥ / ājabandhaviḥ / auḍulomiḥ // sudhātur akaṅ ca

Sanskrit only: no published translation is held for this verse.

गोत्रे कुञ्ज-आदिभ्यश् च्फञ्

gotre kuñja-ādibhyaś cphañ

Sanskrit only: no published translation is held for this verse.

तस्य अपत्यम् इत्य् एव । गोत्रसञ्ज्ञके ऽपत्ये वाच्ये कुञ्जादिभ्यः च्फञ् प्रत्ययो भवति । इञो ऽपवादः । चकारो विशेषण-अर्थः व्रात-च्फञोर् अस्त्रियाम् (*५,३।११३) इति । ञकारो वृद्ध्य्-अर्थः । कौञ्जायन्यः, कौजायन्यौ, कौञ्जायनाः । ब्राध्नायन्यः, ब्राध्नायन्यौ, ब्राध्नायनाः । गोत्रे इति किम् ? कुञ्जस्य अपत्यम् अनन्तरं कौञ्जिः । एकवचन-द्विवचनयोः सतिशिष्टत्वात् ञित्स्वरेण+एव भवितव्यम् । बहुवचने तु कौञ्जायनाः इति, परम् अपि ञित्स्वरं त्यक्त्वा चित्स्वर एव+इष्यते । गोत्र-अधिकारश् च शिवादिभ्यो ऽण् (*४,१।११२) इति यावत् । कुञ्ज । ब्रध्न । शङ्ख । भस्मन् । गण । लोमन् । शठ । शाक । शाकट । शुण्डा । शुभ । विपाश । स्कन्द । स्तम्भ ॥ नडादिभ्यः फक्

tasya apatyam ity eva / gotrasañjñake 'patye vācye kuñjādibhyaḥ cphañ pratyayo bhavati / iño 'pavādaḥ / cakāro viśeṣaṇa-arthaḥ vrāta-cphañor astriyām (*5,3.113) iti / ñakāro vṛddhy-arthaḥ / kauñjāyanyaḥ, kaujāyanyau, kauñjāyanāḥ / brādhnāyanyaḥ, brādhnāyanyau, brādhnāyanāḥ / gotre iti kim ? kuñjasya apatyam anantaraṃ kauñjiḥ / ekavacana-dvivacanayoḥ satiśiṣṭatvāt ñitsvareṇa+eva bhavitavyam / bahuvacane tu kauñjāyanāḥ iti, param api ñitsvaraṃ tyaktvā citsvara eva+iṣyate / gotra-adhikāraś ca śivādibhyo 'ṇ (*4,1.112) iti yāvat / kuñja / bradhna / śaṅkha / bhasman / gaṇa / loman / śaṭha / śāka / śākaṭa / śuṇḍā / śubha / vipāśa / skanda / stambha // naḍādibhyaḥ phak

Sanskrit only: no published translation is held for this verse.

काव्य । अज । अमुष्य । कृष्णरणौ ब्राह्मणवासिष्ठयोः । अमित्र । लिगु । चित्र । कुमार । क्रोष्टु क्रोष्टं च । लोह । दुर्ग । स्तम्भ । शिंशिपा । अग्र । तृण । शकट । सुमनस् । सुमत । मिमत । ऋक् । जत् । युगन्धर । हंसक । दण्डिन् । हस्तिन् । पञ्चाल । चमसिन् । सुकृत्य । स्थिरक । ब्राह्मण । चटक । बदर । अश्वक । खरप । कामुक । व्रह्मदत्त । उदुम्बर । शोण । अलोह । दण्ड ॥ हरित-आदिभ्यो ऽञः

kāvya / aja / amuṣya / kṛṣṇaraṇau brāhmaṇavāsiṣṭhayoḥ / amitra / ligu / citra / kumāra / kroṣṭu kroṣṭaṃ ca / loha / durga / stambha / śiṃśipā / agra / tṛṇa / śakaṭa / sumanas / sumata / mimata / ṛk / jat / yugandhara / haṃsaka / daṇḍin / hastin / pañcāla / camasin / sukṛtya / sthiraka / brāhmaṇa / caṭaka / badara / aśvaka / kharapa / kāmuka / vrahmadatta / udumbara / śoṇa / aloha / daṇḍa // harita-ādibhyo 'ñaḥ

Sanskrit only: no published translation is held for this verse.

इह तु गोत्राधिकारे ऽपि सामर्थ्याद् यूनि प्रत्ययो विज्ञायते । गोत्राधिकारस् तु उत्तरार्थः ॥ यञ्-इञोश् च

iha tu gotrādhikāre 'pi sāmarthyād yūni pratyayo vijñāyate / gotrādhikāras tu uttarārthaḥ // yañ-iñoś ca

Sanskrit only: no published translation is held for this verse.

यञन्तात् इञन्ताच् च प्रातिपदिकाद् अपत्ये फक् प्रत्ययो भवति । गार्ग्यायणः । वात्स्यायनः । इञन्तात् - दाक्षायणः । प्लाक्षायणः । द्वीपाद् अनुसमुद्रं यञ् (*४,३।१०), सुतङ्-गमादिभ्य इञ् (*४,२।८०) इत्य् अतो न भवति । गोत्र-ग्रहणेन यञिञौ विशेष्येते । तदन्तात् तु यून्य् एव अयं प्रत्ययः, गोत्राद् यूनि प्रत्ययो भवति इति वचनात् ॥ शरद्वच्-छुनक-दर्भाद् भृगु-वत्स-आग्रायणेषु

yañantāt iñantāc ca prātipadikād apatye phak pratyayo bhavati / gārgyāyaṇaḥ / vātsyāyanaḥ / iñantāt - dākṣāyaṇaḥ / plākṣāyaṇaḥ / dvīpād anusamudraṃ yañ (*4,3.10), sutaṅ-gamādibhya iñ (*4,2.80) ity ato na bhavati / gotra-grahaṇena yañiñau viśeṣyete / tadantāt tu yūny eva ayaṃ pratyayaḥ, gotrād yūni pratyayo bhavati iti vacanāt // śaradvac-chunaka-darbhād bhṛgu-vatsa-āgrāyaṇeṣu

Sanskrit only: no published translation is held for this verse.

गोत्रे इत्य् एव । शरद्वत् शुनक दर्भ इत्य् एतेभ्यो गोत्रापत्ये फक् प्रत्ययो भवति यथासङ्ख्यं भृगुवत्साग्रायणेषु अर्थेषु अपत्य-विशेषेषु । शारद्वतायनो भवति भार्गवश् चेत् । शारद्वतो ऽन्यः । शौनकायनो भवति वात्स्यश् चेत् । शौनको ऽन्यः । दार्भायणो भवति आग्रायणश् चेत् । दार्भिरन्यः । शरद्वच्-छुनक-शब्दौ बिदादी । ताभ्याम् अञो ऽपवादः फक् ॥ द्रोण-पर्वत-जीवन्ताद् अन्यतरस्याम्

gotre ity eva / śaradvat śunaka darbha ity etebhyo gotrāpatye phak pratyayo bhavati yathāsaṅkhyaṃ bhṛguvatsāgrāyaṇeṣu artheṣu apatya-viśeṣeṣu / śāradvatāyano bhavati bhārgavaś cet / śāradvato 'nyaḥ / śaunakāyano bhavati vātsyaś cet / śaunako 'nyaḥ / dārbhāyaṇo bhavati āgrāyaṇaś cet / dārbhiranyaḥ / śaradvac-chunaka-śabdau bidādī / tābhyām año 'pavādaḥ phak // droṇa-parvata-jīvantād anyatarasyām

Sanskrit only: no published translation is held for this verse.

गोत्रे इत्य् एव । द्रोणादिभ्यः प्रातिपदिकेभ्यो गोत्रापत्ये ऽन्यतरस्यां फक् प्रत्ययो भवति । इञो ऽपवादः । द्रौणायनः, द्रौणिः । पार्वतायनः, पार्वतिः । जैवन्तायनः, जैवन्तिः । कथम् अनन्तरः अश्वत्थामा द्रौणायनः इत्य् उच्यते । न+एव अत्र महाभारतद्रोणो गृह्यते । किं तर्हि ? अनादिः । तत इदं गोत्रे प्रत्ययविधानम् । इदानींतनात् तु श्रुतिसामान्यादध्यारोपेण तथाभिधानं भवति ॥ अनृष्य्-आनन्तर्ये बिद-आदिभ्यो ऽञ्

gotre ity eva / droṇādibhyaḥ prātipadikebhyo gotrāpatye 'nyatarasyāṃ phak pratyayo bhavati / iño 'pavādaḥ / drauṇāyanaḥ, drauṇiḥ / pārvatāyanaḥ, pārvatiḥ / jaivantāyanaḥ, jaivantiḥ / katham anantaraḥ aśvatthāmā drauṇāyanaḥ ity ucyate / na+eva atra mahābhāratadroṇo gṛhyate / kiṃ tarhi ? anādiḥ / tata idaṃ gotre pratyayavidhānam / idānīṃtanāt tu śrutisāmānyādadhyāropeṇa tathābhidhānaṃ bhavati // anṛṣy-ānantarye bida-ādibhyo 'ñ

Sanskrit only: no published translation is held for this verse.

गर्ग-आदिभ्यो यञ्

garga-ādibhyo yañ

Sanskrit only: no published translation is held for this verse.

कुण्डिन । यज्ञवल्क । उभय । जात । विरोहित । वृषगण । रहूगण । शण्डिल । वण । कचुलुक । मुद्गल । मुसल । पराशर । जतूकर्ण । मान्त्रित । संहित । अश्मरथ । शर्कराक्ष । पूतिमाष । स्थूण । अररक । पिङ्गल । कृष्ण । गोलुन्द । उलूक । तितिक्ष । भिषज् । भडित । भण्डित । दल्भ । चिकित । देवहू । इन्द्रहू । एकलू । पिप्पलू । वृदग्नि । जमदग्नि । सुलोभिन् । उकत्थ । कुटीगु ॥ मधु-बभ्व्रोर् ब्राह्मण-कौशिकयोः

kuṇḍina / yajñavalka / ubhaya / jāta / virohita / vṛṣagaṇa / rahūgaṇa / śaṇḍila / vaṇa / kaculuka / mudgala / musala / parāśara / jatūkarṇa / māntrita / saṃhita / aśmaratha / śarkarākṣa / pūtimāṣa / sthūṇa / araraka / piṅgala / kṛṣṇa / golunda / ulūka / titikṣa / bhiṣaj / bhaḍita / bhaṇḍita / dalbha / cikita / devahū / indrahū / ekalū / pippalū / vṛdagni / jamadagni / sulobhin / ukattha / kuṭīgu // madhu-babhvror brāhmaṇa-kauśikayoḥ

Sanskrit only: no published translation is held for this verse.

मधु-शब्दाद् बभ्रु-शब्दाच् च गोत्रापत्ये यञ् प्रत्ययो भवति यथासङ्ख्यम् ब्राह्मणे कौशिके वाच्ये । माध्व्यो भवति बाह्मणः चेत् । माधव एव अन्यः । बाभ्रव्यो भवति कौशिकश् चेत् । बाभ्रव एव अन्यः । बभ्रु-शब्दो गर्गादिषु पठ्यते, ततः सिद्धे यञि कौशिके नियम-अर्थं वचनम् । गर्गादिषु पठो ऽप्यन्तर्गणकार्यार्थः, सर्वत्र लोहितादि-कतन्तेभ्यः (*४,१।१८) इति । बाभ्रव्यायणी ॥ कपि-बोधाद् आङ्गिरसे

madhu-śabdād babhru-śabdāc ca gotrāpatye yañ pratyayo bhavati yathāsaṅkhyam brāhmaṇe kauśike vācye / mādhvyo bhavati bāhmaṇaḥ cet / mādhava eva anyaḥ / bābhravyo bhavati kauśikaś cet / bābhrava eva anyaḥ / babhru-śabdo gargādiṣu paṭhyate, tataḥ siddhe yañi kauśike niyama-arthaṃ vacanam / gargādiṣu paṭho 'pyantargaṇakāryārthaḥ, sarvatra lohitādi-katantebhyaḥ (*4,1.18) iti / bābhravyāyaṇī // kapi-bodhād āṅgirase

Sanskrit only: no published translation is held for this verse.

कपि-बोध-शब्दाभ्याम् आङ्गिरसे ऽपत्य-विशेषे गोत्रे यञ् प्रत्ययो भवति । काप्यः । बौध्यः । आङ्गिरसे इति किम् ? कापेयः । बौधिः । कपि-शब्दो गर्गादिषु पठ्यते । तस्य नियमर्थं वचनम्, आङ्गिरसे यथा स्यात् । लोहितादिकार्यार्थं गणे पाठः । काप्यायनी ॥ वतण्डाच् च

kapi-bodha-śabdābhyām āṅgirase 'patya-viśeṣe gotre yañ pratyayo bhavati / kāpyaḥ / baudhyaḥ / āṅgirase iti kim ? kāpeyaḥ / baudhiḥ / kapi-śabdo gargādiṣu paṭhyate / tasya niyamarthaṃ vacanam, āṅgirase yathā syāt / lohitādikāryārthaṃ gaṇe pāṭhaḥ / kāpyāyanī // vataṇḍāc ca

Sanskrit only: no published translation is held for this verse.

लुक् स्त्रियाम्

luk striyām

Sanskrit only: no published translation is held for this verse.

आङ्गिरसे इत्य् एव । वतण्ड-शब्दाद् आङ्गिरस्यां स्त्रियां यप्रत्ययस्य लुक् भवति । लुकि कृते शार्ङ्गरवादिपाठान् ङीन् भवति । वतण्डी । आङ्गिरसे इति किम् ? वातण्ड्यायनी । शिवाद्यणि तु वातण्डी ॥ अश्वादिभ्यः फञ्

āṅgirase ity eva / vataṇḍa-śabdād āṅgirasyāṃ striyāṃ yapratyayasya luk bhavati / luki kṛte śārṅgaravādipāṭhān ṅīn bhavati / vataṇḍī / āṅgirase iti kim ? vātaṇḍyāyanī / śivādyaṇi tu vātaṇḍī // aśvādibhyaḥ phañ

Sanskrit only: no published translation is held for this verse.

धूम्र । वाग्मिन् । विश्वानर । कुट । वेश । शप आत्रेये । नत्त । तड । नड । ग्रीष्म । अर्ह । विशम्य । विशाला । गिरि । चपल । चुनम । दासक । वैल्य । धर्म । आनडुह्य । पुंसिजात । अर्जुन । शूद्रक । सुमनस् । दुर्मनस् । क्षान्त । प्राच्य । कित । काण । चुम्प । श्रविष्ठा । वीक्ष्य । पविन्दा । आत्रेय भारद्वाजे । कुत्स । आतव । कितव । शिव । खदिर । भारद्वाज आत्रेये ॥ भर्गात् त्रैगर्ते

dhūmra / vāgmin / viśvānara / kuṭa / veśa / śapa ātreye / natta / taḍa / naḍa / grīṣma / arha / viśamya / viśālā / giri / capala / cunama / dāsaka / vailya / dharma / ānaḍuhya / puṃsijāta / arjuna / śūdraka / sumanas / durmanas / kṣānta / prācya / kita / kāṇa / cumpa / śraviṣṭhā / vīkṣya / pavindā / ātreya bhāradvāje / kutsa / ātava / kitava / śiva / khadira / bhāradvāja ātreye // bhargāt traigarte

Sanskrit only: no published translation is held for this verse.

भर्ग-शब्दाद् अपत्ये विशेषे त्रैगर्ते गोत्रे फञ् प्रत्ययो भवति । भार्गायणो भवति त्रैगर्तः चेत् । भार्गिः अन्यः ॥ शिव-आदिभ्यो ऽण्

bharga-śabdād apatye viśeṣe traigarte gotre phañ pratyayo bhavati / bhārgāyaṇo bhavati traigartaḥ cet / bhārgiḥ anyaḥ // śiva-ādibhyo 'ṇ

Sanskrit only: no published translation is held for this verse.

अवृद्धाभ्यो नदी-मानुषीभ्यस् तन्नामिकाभ्यः

avṛddhābhyo nadī-mānuṣībhyas tannāmikābhyaḥ

Sanskrit only: no published translation is held for this verse.

वृद्धिर् यस्य अचाम् आदिस् तद् वृद्धम् (*१,१।७३) । अवृद्धाभ्यः इति शब्द-धर्मः, नदी-मानुषीभ्यः इति अर्थधर्मः, तेन अभेदात् प्रकृतयो निर्दिश्यन्ते । तन्नामिकाभ्यः इति सर्वनाम्ना प्रत्यय-प्रकृतेः परामर्शः । अवृद्धानि यानि नदीनां मानुषीणां च नामधेयानि, तेभ्यो ऽपत्ये अण् प्रत्ययो भवति । ढको ऽपवादः । यमुनाया अपत्यं यामुनः । इरावत्याः अपत्यम् ऐरावतः । वैतस्तः । नार्मदः । मानुषीभ्यः खल्व् अपि - शिक्षितायाः अपत्यं शैक्षितः । चिन्तितायाः अपत्य चैन्तितः । अवृद्धाभ्यः इति किम् ? चन्द्रभागायाः अपत्यं चान्द्रभागेयः । वासवद्त्तेयः । नदीमानुषीभ्यः इति किम् ? सौपर्णेयः । वैनतेयः । तन्नामिकाभ्यः इति किम् ? शोभनायाः, शौभनेयः ॥ ऋष्य्-अन्धक-वृष्णि-कुरुभ्यश् च

vṛddhir yasya acām ādis tad vṛddham (*1,1.73) / avṛddhābhyaḥ iti śabda-dharmaḥ, nadī-mānuṣībhyaḥ iti arthadharmaḥ, tena abhedāt prakṛtayo nirdiśyante / tannāmikābhyaḥ iti sarvanāmnā pratyaya-prakṛteḥ parāmarśaḥ / avṛddhāni yāni nadīnāṃ mānuṣīṇāṃ ca nāmadheyāni, tebhyo 'patye aṇ pratyayo bhavati / ḍhako 'pavādaḥ / yamunāyā apatyaṃ yāmunaḥ / irāvatyāḥ apatyam airāvataḥ / vaitastaḥ / nārmadaḥ / mānuṣībhyaḥ khalv api - śikṣitāyāḥ apatyaṃ śaikṣitaḥ / cintitāyāḥ apatya caintitaḥ / avṛddhābhyaḥ iti kim ? candrabhāgāyāḥ apatyaṃ cāndrabhāgeyaḥ / vāsavadtteyaḥ / nadīmānuṣībhyaḥ iti kim ? sauparṇeyaḥ / vainateyaḥ / tannāmikābhyaḥ iti kim ? śobhanāyāḥ, śaubhaneyaḥ // ṛṣy-andhaka-vṛṣṇi-kurubhyaś ca

Sanskrit only: no published translation is held for this verse.

ऋषयः प्रसिद्धा वसिष्ठादयः । अन्धकाः वृष्णयः कुरवः इति वंशाख्याः । ऋष्यादि-कुर्वन्तेभ्यः प्रातिपदिकेभ्यो ऽपत्ये अण् प्रत्ययो भवति । इञो+आवादः । अत्र्यादिभ्यस् तु परत्वाड् ढगादिभिर् एव भवितव्यम् । ऋषिभ्यस् तावत् - वासिष्ठः । वैश्वामित्रः । अन्धकेभ्यः - श्वाफल्कः । रान्धसः । वृष्णिभ्यः - वासुदेवः । आनिरुद्धः । कुरुभ्यः - नाकुलः । साहदेवः । कथं पुनर् नित्यानां शब्दानामन्धकादिवंशसमाश्रयेण अन्वाख्यानं युज्यते ? केचिद् आहुः कथम् अपि काकतालीयन्यायेन कुर्वादिवंशेष्वसंकरेण+एव नकुलसहदेवादयः शब्दाः सुबहवः सङ्कलिताः, तानुपादाय पाणिनिना स्मृतिर् उपनिबद्धा इति । अथवान्धकवृष्णिकुरुवंशा अपि नित्या एव, तेषु ये शब्दाः प्रयुज्यन्ते नकुलसहदेवादयः, तत्र+इदं प्रत्ययविधानम् इत्य् अदोषः ॥ मातुर् उत् सङ्ख्या-सं-भद्र-पूर्वायाः

ṛṣayaḥ prasiddhā vasiṣṭhādayaḥ / andhakāḥ vṛṣṇayaḥ kuravaḥ iti vaṃśākhyāḥ / ṛṣyādi-kurvantebhyaḥ prātipadikebhyo 'patye aṇ pratyayo bhavati / iño+āvādaḥ / atryādibhyas tu paratvāḍ ḍhagādibhir eva bhavitavyam / ṛṣibhyas tāvat - vāsiṣṭhaḥ / vaiśvāmitraḥ / andhakebhyaḥ - śvāphalkaḥ / rāndhasaḥ / vṛṣṇibhyaḥ - vāsudevaḥ / āniruddhaḥ / kurubhyaḥ - nākulaḥ / sāhadevaḥ / kathaṃ punar nityānāṃ śabdānāmandhakādivaṃśasamāśrayeṇa anvākhyānaṃ yujyate ? kecid āhuḥ katham api kākatālīyanyāyena kurvādivaṃśeṣvasaṃkareṇa+eva nakulasahadevādayaḥ śabdāḥ subahavaḥ saṅkalitāḥ, tānupādāya pāṇininā smṛtir upanibaddhā iti / athavāndhakavṛṣṇikuruvaṃśā api nityā eva, teṣu ye śabdāḥ prayujyante nakulasahadevādayaḥ, tatra+idaṃ pratyayavidhānam ity adoṣaḥ // mātur ut saṅkhyā-saṃ-bhadra-pūrvāyāḥ

Sanskrit only: no published translation is held for this verse.

मतृ-शब्दात् सङ्ख्या-पूर्वात् सं-पूर्वात् भद्र-पूर्वाच् च अपत्ये अण् प्रत्ययो भवति, उकारश् च अन्तादेशः । द्वयोर् मात्रोर् अपत्यं द्वैमातुरः । षाण्मातुरः । सांमातुरः । भाद्रमातुरः । उकार-अदेश-अर्थं वचनं, प्रत्ययः पुनर् उत्सर्गेण+एव सिद्धः । स्त्रीलिङ्ग-निर्देशो ऽर्थ-अपेक्षः, तेन धान्यमातुर् ग्रहणं न भवति । सङ्ख्या-सं-भद्र-पूर्वायाः इति किम् ? सौमात्रः ॥ कन्यायाः कनीन च

matṛ-śabdāt saṅkhyā-pūrvāt saṃ-pūrvāt bhadra-pūrvāc ca apatye aṇ pratyayo bhavati, ukāraś ca antādeśaḥ / dvayor mātror apatyaṃ dvaimāturaḥ / ṣāṇmāturaḥ / sāṃmāturaḥ / bhādramāturaḥ / ukāra-adeśa-arthaṃ vacanaṃ, pratyayaḥ punar utsargeṇa+eva siddhaḥ / strīliṅga-nirdeśo 'rtha-apekṣaḥ, tena dhānyamātur grahaṇaṃ na bhavati / saṅkhyā-saṃ-bhadra-pūrvāyāḥ iti kim ? saumātraḥ // kanyāyāḥ kanīna ca

Sanskrit only: no published translation is held for this verse.

विकर्ण-शुङ्ग-छङ्गलाद् वत्स-भरद्वाज-अत्रिषु

vikarṇa-śuṅga-chaṅgalād vatsa-bharadvāja-atriṣu

Sanskrit only: no published translation is held for this verse.

विकर्ण्-अशुङ्ग-छङ्गल-शब्देभ्यः यथासङ्ख्यं वत्सभरद्वाजात्रिषु अपत्य-विशेषेषु अण् प्रत्ययो भवति । वैकर्णो भवति वात्स्यश् चेत् । वैकर्णिः अन्यः । शौङ्गो भवति भारद्वाजश् चेत् । शौङ्गिः अन्यः । छागलो भवति आत्रेयश् चेत् । छागलिः अन्यः । शुङ्गा-शब्दं स्त्रीलिङ्ग-मन्ये पठन्ति, ततो ढकं प्रत्युदाहरन्ति शौङ्गेयः इति । द्वयम् अपि च+एतत् प्रमाणम्, उभयथा सूत्र-प्रणयनात् ॥ पीलाया वा

vikarṇ-aśuṅga-chaṅgala-śabdebhyaḥ yathāsaṅkhyaṃ vatsabharadvājātriṣu apatya-viśeṣeṣu aṇ pratyayo bhavati / vaikarṇo bhavati vātsyaś cet / vaikarṇiḥ anyaḥ / śauṅgo bhavati bhāradvājaś cet / śauṅgiḥ anyaḥ / chāgalo bhavati ātreyaś cet / chāgaliḥ anyaḥ / śuṅgā-śabdaṃ strīliṅga-manye paṭhanti, tato ḍhakaṃ pratyudāharanti śauṅgeyaḥ iti / dvayam api ca+etat pramāṇam, ubhayathā sūtra-praṇayanāt // pīlāyā vā

Sanskrit only: no published translation is held for this verse.

तन्नामिकाणो बाधके द्व्यच इति ढकि प्राप्ते अण् प्रत्ययः पक्षे विधीयते । पीलायाः अपत्ये वा अण् प्रत्ययो भवति । पीलायाः अपत्यं पैलः, पैलेयः ॥ ठक् च मण्डूकात्

tannāmikāṇo bādhake dvyaca iti ḍhaki prāpte aṇ pratyayaḥ pakṣe vidhīyate / pīlāyāḥ apatye vā aṇ pratyayo bhavati / pīlāyāḥ apatyaṃ pailaḥ, paileyaḥ // ṭhak ca maṇḍūkāt

Sanskrit only: no published translation is held for this verse.

मण्डूक-शब्दात् अपत्ये ढक् प्रत्ययो भवति । चकारात् अण् च वा । तेन त्रैरूप्यं भवति । माण्डूकेयः, माण्डूकः, माण्डूकिः ॥ स्त्रीभ्यो ढक्

maṇḍūka-śabdāt apatye ḍhak pratyayo bhavati / cakārāt aṇ ca vā / tena trairūpyaṃ bhavati / māṇḍūkeyaḥ, māṇḍūkaḥ, māṇḍūkiḥ // strībhyo ḍhak

Sanskrit only: no published translation is held for this verse.