गृष्ट्यादिभ्यः शब्देभ्यो ऽपत्ये ढञ् प्रत्ययो भवति । अणादीनाम् अपवादः । गार्ष्टेयः । हार्ष्टेयः । गृष्टिशब्दो यश्चतुष्पादवचनः, ततः पूर्वेण+एव सिद्धः । अच्तुष्पाद्-अर्थं वचनम् । गृष्टि । हृष्टि । हलि । बलि । विश्रि । कुद्रि । अजबस्ति । मित्रयु ॥ राज-श्वशुराद् यत्
gṛṣṭyādibhyaḥ śabdebhyo 'patye ḍhañ pratyayo bhavati / aṇādīnām apavādaḥ / gārṣṭeyaḥ / hārṣṭeyaḥ / gṛṣṭiśabdo yaścatuṣpādavacanaḥ, tataḥ pūrveṇa+eva siddhaḥ / actuṣpād-arthaṃ vacanam / gṛṣṭi / hṛṣṭi / hali / bali / viśri / kudri / ajabasti / mitrayu // rāja-śvaśurād yat
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.