प्रस्थोत्तरपदात पलद्यादिभ्यः ककारोपधात् च प्रातिपदिकाद् अण् प्रत्ययो भवति शैसिकः । उदीच्यग्रामलक्षणस्य अञो ऽपवादः । माद्रीप्रस्थः । माहकीरस्थः । पलद्यादिभ्यः - पालदः । पारिषदः । ककारोपधात् - नैलीनकः । चैयातकः । पलद्यादिषु यो वाहीकग्रामः, ततः ठञ्ञिठयोः अपवादः । यथा - गौष्ठी, नैतकी इति । गोमती-शब्दः पठ्यते, ततो रोपधेतोः प्राचाम् (*४,२।१२३) इति वुञो ऽपवादः । वाहीक-शब्दः कोपधो ऽपि पुनः पठ्यते परं छं (*४,२।११४) बाधितुम् । अण्ग्रहणं बाधकबाधनार्थम् । पलदी । परिषत् । यकृल्लोमन् । रोमक । कालकूट । पटच्चर । वाहीक । कलकीट । मलकीट । कमलकीट । कमलभिदा । गोष्ठी । कमलकीर । बाहुकीत । नैतकी । परिखा । शूरसेन । गोमती । उदयान । पलद्यादिः ॥ कण्व-आदिभ्यो गोत्रे
prasthottarapadāta paladyādibhyaḥ kakāropadhāt ca prātipadikād aṇ pratyayo bhavati śaisikaḥ / udīcyagrāmalakṣaṇasya año 'pavādaḥ / mādrīprasthaḥ / māhakīrasthaḥ / paladyādibhyaḥ - pāladaḥ / pāriṣadaḥ / kakāropadhāt - nailīnakaḥ / caiyātakaḥ / paladyādiṣu yo vāhīkagrāmaḥ, tataḥ ṭhaññiṭhayoḥ apavādaḥ / yathā - gauṣṭhī, naitakī iti / gomatī-śabdaḥ paṭhyate, tato ropadhetoḥ prācām (*4,2.123) iti vuño 'pavādaḥ / vāhīka-śabdaḥ kopadho 'pi punaḥ paṭhyate paraṃ chaṃ (*4,2.114) bādhitum / aṇgrahaṇaṃ bādhakabādhanārtham / paladī / pariṣat / yakṛlloman / romaka / kālakūṭa / paṭaccara / vāhīka / kalakīṭa / malakīṭa / kamalakīṭa / kamalabhidā / goṣṭhī / kamalakīra / bāhukīta / naitakī / parikhā / śūrasena / gomatī / udayāna / paladyādiḥ // kaṇva-ādibhyo gotre
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.