काशिकी । काशिका । बैदिकी । बैदिका । वृद्धात् इत्य् अत्र अनुवर्तते । ये तु अवृद्धाः पठ्यन्ते, वचनप्रामाण्यात् तेभ्यः प्रत्यय-विधिः । देवदत्त-शब्दः पठ्यते, तस्य एङ् प्राचां देशे (*१,१।७५) इति वृद्धसञ्ज्ञा । दैवदत्तिकः । वाहीकग्रामस्य तु न अस्ति वृद्धसञ्ज्ञा । दैवदत्तः । कथं भाष्ये उदाहृतं वा नामधेयस्य वृद्धसञ्ज्ञा वेदितव्या देवदत्तीयाः, दैवदत्ताः इति, यावता वृद्धसञ्ज्ञा-अपक्षे काश्यादित्वात् ठञ्ञिठाभ्यां भवितव्यम् ? तत्र+एवं वर्णयन्ति, वा नामधेयस्य इति व्यवस्थित-विभाषेयम्, सा छे कर्तव्ये भवति, ठञ्ञिठयोर् न भवति इति । काशि । चेति । सञ्ज्ञा । संवाह । अच्युत । मोहमान । शकुलाद । हस्तिकर्षू । कुदामन् । हिरण्य । करण । गोधाशन । भौरिकि । भौलिङ्गि । अरिन्दम । सर्वमित्र । देवदत्त । साधुमित्र । दासमित्र । दासग्राम । सौधावतान । युवराज । उपराज । सिन्धुमित्र । देवराज । आपदादिपूर्वपदात् कालात् । आपत्कालिकी, आपत्कालिका । और्ध्वकालिकी, और्ध्वकालिका । तात्कालिकी, तात्कालिका ॥ वाहीकग्रामेभ्यश् च
kāśikī / kāśikā / baidikī / baidikā / vṛddhāt ity atra anuvartate / ye tu avṛddhāḥ paṭhyante, vacanaprāmāṇyāt tebhyaḥ pratyaya-vidhiḥ / devadatta-śabdaḥ paṭhyate, tasya eṅ prācāṃ deśe (*1,1.75) iti vṛddhasañjñā / daivadattikaḥ / vāhīkagrāmasya tu na asti vṛddhasañjñā / daivadattaḥ / kathaṃ bhāṣye udāhṛtaṃ vā nāmadheyasya vṛddhasañjñā veditavyā devadattīyāḥ, daivadattāḥ iti, yāvatā vṛddhasañjñā-apakṣe kāśyāditvāt ṭhaññiṭhābhyāṃ bhavitavyam ? tatra+evaṃ varṇayanti, vā nāmadheyasya iti vyavasthita-vibhāṣeyam, sā che kartavye bhavati, ṭhaññiṭhayor na bhavati iti / kāśi / ceti / sañjñā / saṃvāha / acyuta / mohamāna / śakulāda / hastikarṣū / kudāman / hiraṇya / karaṇa / godhāśana / bhauriki / bhauliṅgi / arindama / sarvamitra / devadatta / sādhumitra / dāsamitra / dāsagrāma / saudhāvatāna / yuvarāja / uparāja / sindhumitra / devarāja / āpadādipūrvapadāt kālāt / āpatkālikī, āpatkālikā / aurdhvakālikī, aurdhvakālikā / tātkālikī, tātkālikā // vāhīkagrāmebhyaś ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.