सोम-शब्दात् ट्यण् प्रत्ययो भवति सा ऽस्य देवता इत्य् अस्मिन् विषये । अणो ऽपवादः । ण-कारो वृद्ध्य्-अर्थः । ट-कारो ङीब्-अर्थः । सोमो देवता अस्य सौम्यं हविः । सौम्यं सूक्तम् । सौम्यी ऋक् ॥ वाय्व्-ऋतु-पित्र्-उषसो यत्
soma-śabdāt ṭyaṇ pratyayo bhavati sā 'sya devatā ity asmin viṣaye / aṇo 'pavādaḥ / ṇa-kāro vṛddhy-arthaḥ / ṭa-kāro ṅīb-arthaḥ / somo devatā asya saumyaṃ haviḥ / saumyaṃ sūktam / saumyī ṛk // vāyv-ṛtu-pitr-uṣaso yat
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.