द्यावापृथिव्य्-आदिब्भ्यः छः प्रत्ययो भवति सा ऽस्य देवता इत्य् अस्मिन् विषये, चकाराद् यच् च । अणो ण्यस्य च अपवादः । द्यौश् च पृथिवी च द्यावापृथिव्यौ देवते अस्य द्यावापृथिवीयम्, द्यावापृथिव्यम्, । शुनश् च सीरश् च तौ देवते अस्य इति शुनासीरीयम्, शौनासीर्यम् । शुनो वायुः । सीरः आदित्यः । मरुत्वान् देवता अस्य मरुत्वतीयम्, मरुत्वत्यम् । अग्नीषोमीयम्, अग्नीशोम्यम् । वास्तोष्पतीयम्, वास्तोष्पत्यम् । गृहमेधीयम्, गृहमेध्यम् ॥ अग्नेर् ढक्
dyāvāpṛthivy-ādibbhyaḥ chaḥ pratyayo bhavati sā 'sya devatā ity asmin viṣaye, cakārād yac ca / aṇo ṇyasya ca apavādaḥ / dyauś ca pṛthivī ca dyāvāpṛthivyau devate asya dyāvāpṛthivīyam, dyāvāpṛthivyam, / śunaś ca sīraś ca tau devate asya iti śunāsīrīyam, śaunāsīryam / śuno vāyuḥ / sīraḥ ādityaḥ / marutvān devatā asya marutvatīyam, marutvatyam / agnīṣomīyam, agnīśomyam / vāstoṣpatīyam, vāstoṣpatyam / gṛhamedhīyam, gṛhamedhyam // agner ḍhak
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.