कालविशेष-वाचिभ्यः शब्देभ्यो भववत् प्रत्यया भवन्ति सा ऽस्य देवता इत्य् अस्मिन् विषये । कालाट् ठञ् (*४,३।११) इति प्रकरणे भवे प्रत्यया विधास्यन्ते ते सा ऽस्य देवता इत्य् अस्मिन् अर्थे तथा+एव+इष्यन्ते, तदर्थम् इदम् उच्यते । वत्-करणं सर्वसादृश्य-परिग्रह-अर्थम् । मासे भवम् मासिकम् । आर्धमासिकम् । सांवत्सरिकम् । वासन्तम् । प्रावृषेण्यम् । तथा मासो देवता ऽस्य मासिकम् । आर्धमासिकम् । सांवत्सरिकम् । वासन्तम् । प्रावृषेण्यम् ॥ महाराज-प्रोष्ठपदाट् ठञ्
kālaviśeṣa-vācibhyaḥ śabdebhyo bhavavat pratyayā bhavanti sā 'sya devatā ity asmin viṣaye / kālāṭ ṭhañ (*4,3.11) iti prakaraṇe bhave pratyayā vidhāsyante te sā 'sya devatā ity asmin arthe tathā+eva+iṣyante, tadartham idam ucyate / vat-karaṇaṃ sarvasādṛśya-parigraha-artham / māse bhavam māsikam / ārdhamāsikam / sāṃvatsarikam / vāsantam / prāvṛṣeṇyam / tathā māso devatā 'sya māsikam / ārdhamāsikam / sāṃvatsarikam / vāsantam / prāvṛṣeṇyam // mahārāja-proṣṭhapadāṭ ṭhañ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.