पितृव्यादयो निपात्यन्ते । समर्थविभक्तिः, प्रत्ययः, प्रत्ययार्थो ऽनुबन्धः इति सर्वं निपातनाद् विज्ञेयम् । पितृमातृभ्यां भ्रातर्यभिधेये व्यत् डुलच् इत्य् एतौ प्रत्ययु निपात्येते । पित्रुर् भ्राता पितृव्यः । मातुर् भ्राता मातुलः । ताभ्यां पितरि डामहच् मातरि षिच्च । ताभ्याम् एव पितरि डामहच् प्रत्ययो भवति । पितुः पिता पितामहः । मातुः पिता मातामहः । मातरि षिच्च । पितामही । मातामही । अवेर्दुग्धे सोढदूसमरीसचो वक्तव्याः । अवेर्दुग्धम् अविसोढम्, अविदूसम्, अविमरीसम् । तिलान्निष्फलात् पिञ्जपेजौ प्रत्ययौ वक्तव्यौ । निष्फलस्तिलः तिलपिञ्जः, तिलपेजः । पिञ्जश्छन्दसि डिच्च । तिल्पिञ्जं दण्डनं नडम् ॥ तस्य समूहः
pitṛvyādayo nipātyante / samarthavibhaktiḥ, pratyayaḥ, pratyayārtho 'nubandhaḥ iti sarvaṃ nipātanād vijñeyam / pitṛmātṛbhyāṃ bhrātaryabhidheye vyat ḍulac ity etau pratyayu nipātyete / pitrur bhrātā pitṛvyaḥ / mātur bhrātā mātulaḥ / tābhyāṃ pitari ḍāmahac mātari ṣicca / tābhyām eva pitari ḍāmahac pratyayo bhavati / pituḥ pitā pitāmahaḥ / mātuḥ pitā mātāmahaḥ / mātari ṣicca / pitāmahī / mātāmahī / averdugdhe soḍhadūsamarīsaco vaktavyāḥ / averdugdham avisoḍham, avidūsam, avimarīsam / tilānniṣphalāt piñjapejau pratyayau vaktavyau / niṣphalastilaḥ tilapiñjaḥ, tilapejaḥ / piñjaśchandasi ḍicca / tilpiñjaṃ daṇḍanaṃ naḍam // tasya samūhaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.