ब्राह्मणादिभ्यः शब्देभ्यो यन् प्रत्ययो भवति तस्य समूहः इत्य् एतस्मिन् विषये । नकारः स्वरार्थः । ब्राह्मणानां समूहः ब्राह्मण्यम् । माणव्यम् । वाडव्यम् । यन्-प्रकरणे पृष्ठाद् उपसङ्ख्यानम् । पृष्ठानां समूहः पृष्ठ्यः । अह्नः खः क्रतौ । अह्णां समूहः अहीनः क्रतुः । क्रतौ इति किम् ? आह्नः । खण्डिकादिषु दर्शनादञ् भवति । पर्श्वा णस् वक्तव्यः । पर्शूनां समूहः पार्श्वम् । पदसञ्ज्ञकत्वाद् गुणो न भवति । वातादूलः । वातानां समूहः वातूलः ॥ ग्राम-जन-बन्धु-सहायेभ्यस् तल्
brāhmaṇādibhyaḥ śabdebhyo yan pratyayo bhavati tasya samūhaḥ ity etasmin viṣaye / nakāraḥ svarārthaḥ / brāhmaṇānāṃ samūhaḥ brāhmaṇyam / māṇavyam / vāḍavyam / yan-prakaraṇe pṛṣṭhād upasaṅkhyānam / pṛṣṭhānāṃ samūhaḥ pṛṣṭhyaḥ / ahnaḥ khaḥ kratau / ahṇāṃ samūhaḥ ahīnaḥ kratuḥ / kratau iti kim ? āhnaḥ / khaṇḍikādiṣu darśanādañ bhavati / parśvā ṇas vaktavyaḥ / parśūnāṃ samūhaḥ pārśvam / padasañjñakatvād guṇo na bhavati / vātādūlaḥ / vātānāṃ samūhaḥ vātūlaḥ // grāma-jana-bandhu-sahāyebhyas tal
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.