अविशेषे लुप् विहितः पूर्वेण, विशेष-अर्थो ऽयम् आरम्भः । श्रवन-शब्दाद् अश्वत्थ-शब्दाच् च+उत्पन्नस्य प्रत्ययस्य लुब् भवति सञ्ज्ञायां विषये । श्रवणारात्रिः । अश्वत्थो मुहूर्तः । लुपि युक्तवद्-भावः कस्मान् न भवति ? निपातनात् विभाषा फाल्गुनी-श्रवणा-कार्तिकी-चैत्रीभ्यः (*४,२।२३) इति । सञ्ज्ञायाम् इति किम् ? श्रावणी, आश्वत्थी रात्रिः ॥ द्वन्वाच् छः
aviśeṣe lup vihitaḥ pūrveṇa, viśeṣa-artho 'yam ārambhaḥ / śravana-śabdād aśvattha-śabdāc ca+utpannasya pratyayasya lub bhavati sañjñāyāṃ viṣaye / śravaṇārātriḥ / aśvattho muhūrtaḥ / lupi yuktavad-bhāvaḥ kasmān na bhavati ? nipātanāt vibhāṣā phālgunī-śravaṇā-kārtikī-caitrībhyaḥ (*4,2.23) iti / sañjñāyām iti kim ? śrāvaṇī, āśvatthī rātriḥ // dvanvāc chaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.