नदी इत्य् एवम् आदिभ्यो ढक् प्रत्ययो भवति । नादेयम् । माहेयम् । पूर्वनगरी-शब्दो ऽत्र पठ्यते । पौर्वनगरेयम् । केचित् तु पूर्वनगिरी इति पठन्ति, विच्छिद्य च प्रत्ययं कुर्वन्ति, पौरेयम्, वानेयम्, गैरेयम् इति । तद् उभयम् अपि दर्शनं प्रमाणम् । नदी । मही । वाराणसी । श्रावस्ती । कौशाम्बी । नवकौशाम्बी । काशफरी । खादिरी । पूर्वनगरी । पावा । मावा । साल्वा । दार्वा । दाल्वा । वासेनकी । वडवाया वृषे ॥ दक्षिणा-पश्चात्-पुरसस् त्यक्
nadī ity evam ādibhyo ḍhak pratyayo bhavati / nādeyam / māheyam / pūrvanagarī-śabdo 'tra paṭhyate / paurvanagareyam / kecit tu pūrvanagirī iti paṭhanti, vicchidya ca pratyayaṃ kurvanti, paureyam, vāneyam, gaireyam iti / tad ubhayam api darśanaṃ pramāṇam / nadī / mahī / vārāṇasī / śrāvastī / kauśāmbī / navakauśāmbī / kāśapharī / khādirī / pūrvanagarī / pāvā / māvā / sālvā / dārvā / dālvā / vāsenakī / vaḍavāyā vṛṣe // dakṣiṇā-paścāt-purasas tyak
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.