प्रत्ययार्थ-विशेषणम् एतत् । तृतीया-समर्थात् प्रोक्ते णिनिः प्रत्ययो भवति यत् प्रोक्तं पुराण-प्रोक्ताश् चेद् ब्राह्मण-कल्पास् ते भवन्ति । पुराणेन चिरन्तनेन मुनिना प्रोक्ताः । ब्राह्मणेषु तावत् - भाल्लविनः । शाट्यायनिनः । ऐतरेयिणः । कल्पेषु - पैङ्गी कल्पः । आरुणपराजी । पुराण-प्रोक्तेषु इति किम् ? याज्ञवल्कानि ब्राह्मणानि । आश्मरथः कल्पः याज्ञवल्क्यादयो ऽचिरकाला इत्य् आख्यानेषु वार्ता । तथा व्यवहरति सूत्रकारः । तद्विषयता कस्मान् न भवति ? प्रतिपदं ब्राह्मणेसु यः प्रत्ययस् तस्य तद्विषयता विधीयते णिनेः । अयं तु याज्ञवल्क्य-शब्दस्य कण्वादिषु पाठादण् । न वा ऽयं योगश् छन्दो ऽधिकारम् अनुवर्तयति, तेन कल्पेष्व् अपि न भवति । पुराण इति निपातनात् तुड् अभावः । न वा+अत्यन्तबाधैव, तेन पुरातनम् इत्य् अपि भवति ॥ शौनक-आदिभ्यश् छन्दसि
pratyayārtha-viśeṣaṇam etat / tṛtīyā-samarthāt prokte ṇiniḥ pratyayo bhavati yat proktaṃ purāṇa-proktāś ced brāhmaṇa-kalpās te bhavanti / purāṇena cirantanena muninā proktāḥ / brāhmaṇeṣu tāvat - bhāllavinaḥ / śāṭyāyaninaḥ / aitareyiṇaḥ / kalpeṣu - paiṅgī kalpaḥ / āruṇaparājī / purāṇa-prokteṣu iti kim ? yājñavalkāni brāhmaṇāni / āśmarathaḥ kalpaḥ yājñavalkyādayo 'cirakālā ity ākhyāneṣu vārtā / tathā vyavaharati sūtrakāraḥ / tadviṣayatā kasmān na bhavati ? pratipadaṃ brāhmaṇesu yaḥ pratyayas tasya tadviṣayatā vidhīyate ṇineḥ / ayaṃ tu yājñavalkya-śabdasya kaṇvādiṣu pāṭhādaṇ / na vā 'yaṃ yogaś chando 'dhikāram anuvartayati, tena kalpeṣv api na bhavati / purāṇa iti nipātanāt tuḍ abhāvaḥ / na vā+atyantabādhaiva, tena purātanam ity api bhavati // śaunaka-ādibhyaś chandasi
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.