तेन इत्य् एव । तृतीया-समर्थात् कृते इत्य् एतस्मिन्न् अर्थे यथाविहितं प्रत्ययो भवति, यत् तत्कृतं ग्रन्थश् चेत् स भवति । वररुचिना कृताः वाररुचाः श्लोकाः । हैकुपादो ग्रन्थः । भैकुराटो ग्रन्थः । जालूकः । ग्रन्थे इति किम् ? तक्षकृतः प्रासादः । उत्पादितं कृतं, विद्यामानाम् एव ज्ञातम् औपज्ञातम् इत्य् अयम् अनयोर् विशेषः ॥ सञ्ज्ञायाम्
tena ity eva / tṛtīyā-samarthāt kṛte ity etasminn arthe yathāvihitaṃ pratyayo bhavati, yat tatkṛtaṃ granthaś cet sa bhavati / vararucinā kṛtāḥ vārarucāḥ ślokāḥ / haikupādo granthaḥ / bhaikurāṭo granthaḥ / jālūkaḥ / granthe iti kim ? takṣakṛtaḥ prāsādaḥ / utpāditaṃ kṛtaṃ, vidyāmānām eva jñātam aupajñātam ity ayam anayor viśeṣaḥ // sañjñāyām
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.