तेन, कृते, सञ्ज्ञायाम् इति च+एतत् सर्वम् अनुवर्तते । कुलालादिभ्यः वुञ् प्रत्ययो भवति तेन कृतम् इत्य् एतस्मिन्न् अर्थे सञ्ज्ञायां गम्यमानायाम् । कौलालकम् । वारुडकम् । कुलाल । वरुद । चण्डाल । निषाद । कर्मार । सेना । सिरघ्र । सेन्द्रिय । देवराज । परिषत् । वधू । रुरु । ध्रुव । रुद्र । अनडुः । ब्रह्मन् । कुम्भकार । श्वपाक । कुलालादिः ॥ क्षुद्रा-भ्रमर-वटर-पादपाद् अञ्
tena, kṛte, sañjñāyām iti ca+etat sarvam anuvartate / kulālādibhyaḥ vuñ pratyayo bhavati tena kṛtam ity etasminn arthe sañjñāyāṃ gamyamānāyām / kaulālakam / vāruḍakam / kulāla / varuda / caṇḍāla / niṣāda / karmāra / senā / siraghra / sendriya / devarāja / pariṣat / vadhū / ruru / dhruva / rudra / anaḍuḥ / brahman / kumbhakāra / śvapāka / kulālādiḥ // kṣudrā-bhramara-vaṭara-pādapād añ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.