कालात् इत्य् एव । सन्धिवेल-आदिभ्यः ऋतुभ्यो नक्षत्रेभ्यश् च काल-वृत्तिभ्यो ऽण् प्रत्ययो भवति शैषिकः । ठञो ऽपवादः । अण्-ग्रहणम् वृद्धाच्छस्य (*४,२।११४) बाधन-अर्थम् । सन्धिवेलादिभ्यस् तावत् - सान्धिवेलम् । सांध्यम् । ऋतुभ्यः - ग्रैष्मम् । शैशिरम् । नक्ष्त्रेभ्यः - तैषम् । पौषम् । सन्धिवेला । सन्ध्या । अमावास्या । त्रयोदशी । चतुर्दशी । पञ्चदशी । पौर्णमसी । प्रतिपद् । संवत्सरात् फलपर्वणोः - सांवत्सरं फलम् । सांवत्सरं पर्व ॥ प्रावृष एण्यः
kālāt ity eva / sandhivela-ādibhyaḥ ṛtubhyo nakṣatrebhyaś ca kāla-vṛttibhyo 'ṇ pratyayo bhavati śaiṣikaḥ / ṭhaño 'pavādaḥ / aṇ-grahaṇam vṛddhācchasya (*4,2.114) bādhana-artham / sandhivelādibhyas tāvat - sāndhivelam / sāṃdhyam / ṛtubhyaḥ - graiṣmam / śaiśiram / nakṣtrebhyaḥ - taiṣam / pauṣam / sandhivelā / sandhyā / amāvāsyā / trayodaśī / caturdaśī / pañcadaśī / paurṇamasī / pratipad / saṃvatsarāt phalaparvaṇoḥ - sāṃvatsaraṃ phalam / sāṃvatsaraṃ parva // prāvṛṣa eṇyaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.