द्व्यजादिभ्यः प्रातिपदिकेभ्यो व्याख्यातव्यनामभ्यो भवव्याख्यानयोर् अर्थयोः ठक् प्रत्ययो भवति । अणादेर् अपवादः । द्व्यचस् तावत् - ऐष्टिकः । पाशुकः । ऋकारान्तात् - चातुर्होतृकः । पाञ्चहोतृकः । ब्राह्मण - ब्राह्मणिकः । ऋक् - आर्चिकः । प्रथम - प्राथमिकः । अध्वर - आध्वरिकः । पुरश्चरण - पौरश्चरणिकः । नामाख्यात-ग्रहणं सङ्घातविगृहीतार्थम् । नामिकः । आख्यातिकः । नामख्यातिकः ॥ अण् ऋगयन-आदिभ्यः
dvyajādibhyaḥ prātipadikebhyo vyākhyātavyanāmabhyo bhavavyākhyānayor arthayoḥ ṭhak pratyayo bhavati / aṇāder apavādaḥ / dvyacas tāvat - aiṣṭikaḥ / pāśukaḥ / ṛkārāntāt - cāturhotṛkaḥ / pāñcahotṛkaḥ / brāhmaṇa - brāhmaṇikaḥ / ṛk - ārcikaḥ / prathama - prāthamikaḥ / adhvara - ādhvarikaḥ / puraścaraṇa - pauraścaraṇikaḥ / nāmākhyāta-grahaṇaṃ saṅghātavigṛhītārtham / nāmikaḥ / ākhyātikaḥ / nāmakhyātikaḥ // aṇ ṛgayana-ādibhyaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.