हेतुभ्यो मनुस्येभ्यश् च अन्यतरस्यां रुप्यः प्रत्ययो भवति तत आगतः इत्य् एतस्मिन् विषये । मनुष्य-ग्रहणम् अहेत्वर्थम् । हेतुः कारणम् । हेतुभ्यस् तावत् - समादागतम् समरूप्यम्, समीयम् । विषमरूप्यम्, विषमीयम् । गहादित्य्वाच् छः । मनुस्येभ्यः - देवदत्तरूप्यम् । यज्ञदत्तरूप्यम् दैवदत्तम् । याज्ञदत्तम् । बहुवचनं स्वरूपविधिनिरासार्थम् ॥ मयट् च
hetubhyo manusyebhyaś ca anyatarasyāṃ rupyaḥ pratyayo bhavati tata āgataḥ ity etasmin viṣaye / manuṣya-grahaṇam ahetvartham / hetuḥ kāraṇam / hetubhyas tāvat - samādāgatam samarūpyam, samīyam / viṣamarūpyam, viṣamīyam / gahādityvāc chaḥ / manusyebhyaḥ - devadattarūpyam / yajñadattarūpyam daivadattam / yājñadattam / bahuvacanaṃ svarūpavidhinirāsārtham // mayaṭ ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.