यस्मिन्न् अर्थे मतुब् विहितः, तस्मिन्श् छन्दसि विषये यत् प्रत्ययो भवति मासतन्वोः प्रत्ययार्थ-विशेषणयोः । प्रथमासमर्थाद् अस्त्य् उपाधिकात् षष्ठ्यार्थे सप्तम्यर्थे च यत्प्रत्ययो भवति । मत्वर्थीयानाम् अपवादः । नभांसि विद्यन्ते अस्मिन् मासे अभस्यो मासः । सहस्यः । तपस्यः । मधव्यः । नभःशदो ऽभ्रेषु वर्तते । तन्वा खल्व् अपि - ओजो ऽस्यां विद्यते ओजस्या तनूः । रक्षस्या तनूः । मासतन्वोः इति किम् ? मधुमता पात्रेण चरति मासतन्वोर् अनन्तरार्थे वा । मध्व् अस्मिन्न् अस्ति मध्व् अस्मिन्न् अनन्तरम् इति वा मध्व्यो मासः । लुगकारेकाररेफाश् च वक्तव्याः । लुक् तावत् - तपश्च तपस्यश्च । नभश्च नभस्यश्च । सहश्च सहस्यश्च । नपुंसकलिङ्गं छन्दसत्वात् । अकारः - इषो मासः । ऊर्जो मासः । इकारः - शुचिर्मासः । रेफः - शुक्रो मासः ॥ मधोर् ञ च
yasminn arthe matub vihitaḥ, tasminś chandasi viṣaye yat pratyayo bhavati māsatanvoḥ pratyayārtha-viśeṣaṇayoḥ / prathamāsamarthād asty upādhikāt ṣaṣṭhyārthe saptamyarthe ca yatpratyayo bhavati / matvarthīyānām apavādaḥ / nabhāṃsi vidyante asmin māse abhasyo māsaḥ / sahasyaḥ / tapasyaḥ / madhavyaḥ / nabhaḥśado 'bhreṣu vartate / tanvā khalv api - ojo 'syāṃ vidyate ojasyā tanūḥ / rakṣasyā tanūḥ / māsatanvoḥ iti kim ? madhumatā pātreṇa carati māsatanvor anantarārthe vā / madhv asminn asti madhv asminn anantaram iti vā madhvyo māsaḥ / lugakārekārarephāś ca vaktavyāḥ / luk tāvat - tapaśca tapasyaśca / nabhaśca nabhasyaśca / sahaśca sahasyaśca / napuṃsakaliṅgaṃ chandasatvāt / akāraḥ - iṣo māsaḥ / ūrjo māsaḥ / ikāraḥ - śucirmāsaḥ / rephaḥ - śukro māsaḥ // madhor ña ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.