Library·Jayaditya & Vamana: Kasikavrtti·4·4.4

Jayaditya & Vamana: Kasikavrtti 4.4

चतुर्थाध्यायस्य चतुर्थः पादः । प्राग् वहतेष् ठक्

caturthādhyāyasya caturthaḥ pādaḥ / prāg vahateṣ ṭhak

Sanskrit only: no published translation is held for this verse.

तद् वहति रथ-युग-प्रासङ्गम् (*४,४।७६) इति वक्ष्यति । प्रागेतस्माद् वहतिसंशब्दनाद् यानर्थान् अनुक्रममिष्यामः, ठक् प्रत्ययस् तेष्व् अधिकृतो वेदितव्यः । वक्ष्यति - तेन दीव्यति खनति जयति जितम् (*४,४।२) इति । अक्षैर् दीव्यति आक्षिकः । ठक्-प्रकरणे तदाहेति माशब्दादिभ्य उपसङ्ख्यानम् । माशब्दः इत्य् आह माशब्दिकः । नैत्यशब्दिकः कार्यशब्दिकः । वाक्याद् एतत् प्रत्ययविधानम् । आहौ प्रभूतादिभ्यः । प्रभूतम् आह प्राभूतिकः । पार्याप्तिकः । क्रियाविशेषणत् प्रत्ययः । पृच्छतौ सुस्नातादिभ्यः । सुस्नतं पृच्छति सौस्नातिकः । सौखरात्रिकः । सौखशायनिकः । गच्छति परदारादिभ्यः । परदारान् गच्छति पारदारिकः । गौरुतल्पिकः ॥ तेन दीव्यति खनति जयति जितम्

tad vahati ratha-yuga-prāsaṅgam (*4,4.76) iti vakṣyati / prāgetasmād vahatisaṃśabdanād yānarthān anukramamiṣyāmaḥ, ṭhak pratyayas teṣv adhikṛto veditavyaḥ / vakṣyati - tena dīvyati khanati jayati jitam (*4,4.2) iti / akṣair dīvyati ākṣikaḥ / ṭhak-prakaraṇe tadāheti māśabdādibhya upasaṅkhyānam / māśabdaḥ ity āha māśabdikaḥ / naityaśabdikaḥ kāryaśabdikaḥ / vākyād etat pratyayavidhānam / āhau prabhūtādibhyaḥ / prabhūtam āha prābhūtikaḥ / pāryāptikaḥ / kriyāviśeṣaṇat pratyayaḥ / pṛcchatau susnātādibhyaḥ / susnataṃ pṛcchati sausnātikaḥ / saukharātrikaḥ / saukhaśāyanikaḥ / gacchati paradārādibhyaḥ / paradārān gacchati pāradārikaḥ / gaurutalpikaḥ // tena dīvyati khanati jayati jitam

Sanskrit only: no published translation is held for this verse.

संस्कृतम्

saṃskṛtam

Sanskrit only: no published translation is held for this verse.

तेन इति तृतीया-समर्थात् संस्कृतम् इत्य् एतस्मिन्न् अर्थे ठक् प्रत्ययो भवति । सत उत्कर्षाधानं संस्कारः । दध्ना संस्कृतम् दाधिकम् । शार्ङ्गवेरिकम् । मारीचिकम् । योगविभाग उत्तरार्थः ॥ कुलत्थ-क-उपधाद् अण्

tena iti tṛtīyā-samarthāt saṃskṛtam ity etasminn arthe ṭhak pratyayo bhavati / sata utkarṣādhānaṃ saṃskāraḥ / dadhnā saṃskṛtam dādhikam / śārṅgaverikam / mārīcikam / yogavibhāga uttarārthaḥ // kulattha-ka-upadhād aṇ

Sanskrit only: no published translation is held for this verse.

कुलत्थ-शब्दात् क-कारोपधात् शब्दाच् च प्रातिपदिकाद् अण् प्रत्ययो ह्बवति संस्कृतम् इत्य् एतस्मिन् विषये । ठको ऽपवादः । कुलत्थैः संस्कृतम् कौलत्थम् । ककारोपधात् - तैत्तिडीकम् । दार्दभकम् ॥ तरति

kulattha-śabdāt ka-kāropadhāt śabdāc ca prātipadikād aṇ pratyayo hbavati saṃskṛtam ity etasmin viṣaye / ṭhako 'pavādaḥ / kulatthaiḥ saṃskṛtam kaulattham / kakāropadhāt - taittiḍīkam / dārdabhakam // tarati

Sanskrit only: no published translation is held for this verse.

तेन इति तृतीयासमर्थात् तरति इत्य् एतस्मिन्न् अर्थे ठक् प्रत्ययो ह्बवति । तरति प्लवते इत्य् अर्थः । काण्डप्लवेन तरति काण्डप्लविकः । औडुपिकः ॥ गोपुच्छाट् ठञ्

tena iti tṛtīyāsamarthāt tarati ity etasminn arthe ṭhak pratyayo hbavati / tarati plavate ity arthaḥ / kāṇḍaplavena tarati kāṇḍaplavikaḥ / auḍupikaḥ // gopucchāṭ ṭhañ

Sanskrit only: no published translation is held for this verse.

गोपुच्छ-शब्दाट् ठञ् प्रत्ययो भवति तरति इत्य् एतस्मिन्न् अर्थे । ठको ऽपवादः । स्वरे विशेषः । गौपुच्छिकः ॥ नौ-द्व्यचष् ठन्

gopuccha-śabdāṭ ṭhañ pratyayo bhavati tarati ity etasminn arthe / ṭhako 'pavādaḥ / svare viśeṣaḥ / gaupucchikaḥ // nau-dvyacaṣ ṭhan

Sanskrit only: no published translation is held for this verse.

नौ-शब्दाद् द्व्यचश् च प्रातिपदिकाट् ठन् प्रत्ययो ह्बवति तरति इत्य् एतस्मिन् अर्थे । ठको ऽपवादः । नावा तरति नाविकः । द्व्यचः खल्व् अपि - घटिकः । प्लविकः । बाहुकः । षकारः सांहितिको नानुबन्धः । बाहुका स्त्री । आकर्षात् पर्पादेर् भस्त्रादिभ्यः कुसीद-सूत्राच् च । आवसथात् किशरादेः षितः षडेते ठग्-अधिकारे ॥ विधिवाक्यापेक्षं च षट्त्वं, प्रत्ययास् तु सप्त ॥ परति

nau-śabdād dvyacaś ca prātipadikāṭ ṭhan pratyayo hbavati tarati ity etasmin arthe / ṭhako 'pavādaḥ / nāvā tarati nāvikaḥ / dvyacaḥ khalv api - ghaṭikaḥ / plavikaḥ / bāhukaḥ / ṣakāraḥ sāṃhitiko nānubandhaḥ / bāhukā strī / ākarṣāt parpāder bhastrādibhyaḥ kusīda-sūtrāc ca / āvasathāt kiśarādeḥ ṣitaḥ ṣaḍete ṭhag-adhikāre // vidhivākyāpekṣaṃ ca ṣaṭtvaṃ, pratyayās tu sapta // parati

Sanskrit only: no published translation is held for this verse.

आकर्षात् ष्ठल्

ākarṣāt ṣṭhal

Sanskrit only: no published translation is held for this verse.

आकर्ष-शब्दाद् ष्थल् प्रत्ययो भवति चरति इत्य् एतस्मिन्न् अर्थे । ठको ऽपवादः । लकारः स्वरार्थः । षकारो ङीषर्थः । आकर्षेण चरति आकर्षिकः । आकर्षिकी । आकर्षः इति सुवर्ण-परीक्षार्थो निकषोपलः उच्यते ॥ पर्प-आदिभ्यः ष्ठन्

ākarṣa-śabdād ṣthal pratyayo bhavati carati ity etasminn arthe / ṭhako 'pavādaḥ / lakāraḥ svarārthaḥ / ṣakāro ṅīṣarthaḥ / ākarṣeṇa carati ākarṣikaḥ / ākarṣikī / ākarṣaḥ iti suvarṇa-parīkṣārtho nikaṣopalaḥ ucyate // parpa-ādibhyaḥ ṣṭhan

Sanskrit only: no published translation is held for this verse.

पर्प इत्य् एवम् आदिभ्यः ष्ठन् प्रत्ययो भवति चरति इत्य् एतस्मिन्न् अर्थे । ठको ऽपवादः । नकारः स्वरार्थः । षकारो ङीषर्थः । पर्पिकः । पर्पिकी । अश्विकः । अश्विकी । पर्प । अश्व । अश्वत्थ । रथ । जाल । न्यास । व्याल । पाद । पञ्च । पदिक । पर्पादिः ॥ श्वगणाट् ठञ्च

parpa ity evam ādibhyaḥ ṣṭhan pratyayo bhavati carati ity etasminn arthe / ṭhako 'pavādaḥ / nakāraḥ svarārthaḥ / ṣakāro ṅīṣarthaḥ / parpikaḥ / parpikī / aśvikaḥ / aśvikī / parpa / aśva / aśvattha / ratha / jāla / nyāsa / vyāla / pāda / pañca / padika / parpādiḥ // śvagaṇāṭ ṭhañca

Sanskrit only: no published translation is held for this verse.

श्वगण-शब्दात् ठञ् प्रत्ययो भवति, चकारात् ष्ठन्, चरति इत्य् एतस्मिन्न् अर्थे । ठको ऽपवादः । श्वगणेन चरति श्वागणिकः । श्वागणिकी । ठन् - श्वगणिकः । श्वगणिका । श्व-आदेर् इञि (*७,३।८) इत् यत्र वक्ष्यति, इकारादि-ग्रहणं च कर्तव्यम् श्वागणिकाद्य्-अर्थम् (*७,३।८) इति । तेन थत्रि द्वरादिकार्यं न भवति ॥ वेतन-आदिभ्यो जीवति

śvagaṇa-śabdāt ṭhañ pratyayo bhavati, cakārāt ṣṭhan, carati ity etasminn arthe / ṭhako 'pavādaḥ / śvagaṇena carati śvāgaṇikaḥ / śvāgaṇikī / ṭhan - śvagaṇikaḥ / śvagaṇikā / śva-āder iñi (*7,3.8) it yatra vakṣyati, ikārādi-grahaṇaṃ ca kartavyam śvāgaṇikādy-artham (*7,3.8) iti / tena thatri dvarādikāryaṃ na bhavati // vetana-ādibhyo jīvati

Sanskrit only: no published translation is held for this verse.

तेन इति तृतीयासमर्थेभ्यः वेतनादिभ्यः शब्देभ्यः जीवति इत्य् एतस्मिन्न् अर्थे ठक् प्रत्ययो भवति । वेतनेन जीवति वैतनिकः कर्मकरः । धनुर्दण्डग्रहणम् अत्र सङ्घातविगृहीतार्थम् । धनुर्दण्डिकः । धानुष्कः । दाण्डिकः । वेतन । वाह । अर्धवाह । धनुर्दण्ड । जाल । वेस । उपवेस । प्रेषन । उपस्ति । सुख । शय्या । शक्ति । उपनिषत् । उपवेष । स्रक् । पाद । उपस्थान । वेतनादिः ॥ वस्न-क्रय-विक्रयाट् ठन्

tena iti tṛtīyāsamarthebhyaḥ vetanādibhyaḥ śabdebhyaḥ jīvati ity etasminn arthe ṭhak pratyayo bhavati / vetanena jīvati vaitanikaḥ karmakaraḥ / dhanurdaṇḍagrahaṇam atra saṅghātavigṛhītārtham / dhanurdaṇḍikaḥ / dhānuṣkaḥ / dāṇḍikaḥ / vetana / vāha / ardhavāha / dhanurdaṇḍa / jāla / vesa / upavesa / preṣana / upasti / sukha / śayyā / śakti / upaniṣat / upaveṣa / srak / pāda / upasthāna / vetanādiḥ // vasna-kraya-vikrayāṭ ṭhan

Sanskrit only: no published translation is held for this verse.

आयुधच् छ च

āyudhac cha ca

Sanskrit only: no published translation is held for this verse.

आयुध-शब्दात् छ प्रत्ययो भवति, चकाराट् ठंश् च, जीवति इत्य् एतस्मिन् विषये । आयुधेन जीर्वात आयुधीयः, आयुधिकः ॥ हरत्य् उत्सङ्ग-आदिभ्यः

āyudha-śabdāt cha pratyayo bhavati, cakārāṭ ṭhaṃś ca, jīvati ity etasmin viṣaye / āyudhena jīrvāta āyudhīyaḥ, āyudhikaḥ // haraty utsaṅga-ādibhyaḥ

Sanskrit only: no published translation is held for this verse.

तेन इत्य् एव । उत्सङ्गादिभ्यस् तृतियासमर्थेभ्यो हरति इत्य् एतस्मिन्न् अर्थे ठक् प्रत्ययो भवति । हरतिर् देशान्तरप्रापणे वर्तते । उत्सङ्गेन हरति औत्सङ्गिकः । औडुपिकः । उत्सङ्ग । उडुप । उत्पत । पिटक । उत्सङ्गादिः ॥ भस्त्रादिभ्यः ष्ठन्

tena ity eva / utsaṅgādibhyas tṛtiyāsamarthebhyo harati ity etasminn arthe ṭhak pratyayo bhavati / haratir deśāntaraprāpaṇe vartate / utsaṅgena harati autsaṅgikaḥ / auḍupikaḥ / utsaṅga / uḍupa / utpata / piṭaka / utsaṅgādiḥ // bhastrādibhyaḥ ṣṭhan

Sanskrit only: no published translation is held for this verse.

भस्त्रा इत्य् एवम् आदिभ्यः तृतीयासम्र्थेभ्यः हरति तियेतस्मिन्नर्थे ष्ठन् प्रत्ययो भवति । भस्त्रया हरति भस्त्रिकः । भस्त्रिकी । भरटिकः । भरटिकी । भस्त्रा । भरट । भरण । शीर्षभार । शीर्षेभार । अंसभार । अंसेभार । भस्त्रादिः ॥ विभाषा विवध-वीवधात्

bhastrā ity evam ādibhyaḥ tṛtīyāsamrthebhyaḥ harati tiyetasminnarthe ṣṭhan pratyayo bhavati / bhastrayā harati bhastrikaḥ / bhastrikī / bharaṭikaḥ / bharaṭikī / bhastrā / bharaṭa / bharaṇa / śīrṣabhāra / śīrṣebhāra / aṃsabhāra / aṃsebhāra / bhastrādiḥ // vibhāṣā vivadha-vīvadhāt

Sanskrit only: no published translation is held for this verse.

हरति इत्य् एव । विवध-वीवध-शब्दाभ्याम् तृतीयासमर्थाभ्यां विभाषा ष्ठन् प्रत्ययो भवति । तेन मुक्ते प्रकृतः ठग् भवति । विवधेन हरति विवधिकः । विवधिकी । वीवधिकः । विवधिकी । ठक् खल्व् अपि - वैवधिकः । वैवधिकी । विवध-वीवध-शब्दौ समानार्थौ पथि पर्याहारे च वर्तेते ॥ अण् कुटिलिकायाः

harati ity eva / vivadha-vīvadha-śabdābhyām tṛtīyāsamarthābhyāṃ vibhāṣā ṣṭhan pratyayo bhavati / tena mukte prakṛtaḥ ṭhag bhavati / vivadhena harati vivadhikaḥ / vivadhikī / vīvadhikaḥ / vivadhikī / ṭhak khalv api - vaivadhikaḥ / vaivadhikī / vivadha-vīvadha-śabdau samānārthau pathi paryāhāre ca vartete // aṇ kuṭilikāyāḥ

Sanskrit only: no published translation is held for this verse.

निर्वृत्ते ऽक्षद्यूत-आदिभ्यः

nirvṛtte 'kṣadyūta-ādibhyaḥ

Sanskrit only: no published translation is held for this verse.

तेन इत्य् एव । अक्षद्यूतादिभ्यः तृतीयासमर्थेभ्यो निर्वृत्ते इत्य् एतस्मिन्न् अर्थे ठक् प्रत्ययो भवति । अक्षद्यूतेन निर्वृत्तम् आक्षद्यूतिकं वैरम् । जानुप्रहृतिकम् । अक्षद्यूत । जानुप्रहृत । जङ्घाप्रहृत । पादस्वेदन । कण्टकमर्दन । गतागत । यातोपयात । अनुगत । अक्षद्यूतादिः ॥ त्रेर्मम् नित्यम्

tena ity eva / akṣadyūtādibhyaḥ tṛtīyāsamarthebhyo nirvṛtte ity etasminn arthe ṭhak pratyayo bhavati / akṣadyūtena nirvṛttam ākṣadyūtikaṃ vairam / jānuprahṛtikam / akṣadyūta / jānuprahṛta / jaṅghāprahṛta / pādasvedana / kaṇṭakamardana / gatāgata / yātopayāta / anugata / akṣadyūtādiḥ // trermam nityam

Sanskrit only: no published translation is held for this verse.

निर्वृत्त इत्य् एव । ड्वितः क्त्रिः (*३,३।८८) इत्य् अयं त्रिशब्दो गृह्यते । त्र्यन्तान् नित्यं मप् प्रत्ययो भवति तेन विर्वृत्ते इत्य् एतस्मिन्न् अर्थे । डुपचष् पाके - पक्त्रिमम् । डुवप् - उप्त्रिमम् । डुकृञ् - कृत्रिमम् । नित्य-ग्रहणं स्वातन्त्र्यनिवृत्त्य्-अर्थम्, तेन त्र्यन्तं नित्यं मप्-प्रत्ययान्तम् एव भवति, विषयान्तरे न प्रयोक्तव्यम् इति । भाव-प्रत्ययान्तादिम् अब्वक्तव्यः । पाकेन निर्वृत्तम् पाकिमम् । त्यागिमम् । सेकिमम् । कुट्टिमम् ॥ अपमित्य-याचिताभ्यां कक् कनौ

nirvṛtta ity eva / ḍvitaḥ ktriḥ (*3,3.88) ity ayaṃ triśabdo gṛhyate / tryantān nityaṃ map pratyayo bhavati tena virvṛtte ity etasminn arthe / ḍupacaṣ pāke - paktrimam / ḍuvap - uptrimam / ḍukṛñ - kṛtrimam / nitya-grahaṇaṃ svātantryanivṛtty-artham, tena tryantaṃ nityaṃ map-pratyayāntam eva bhavati, viṣayāntare na prayoktavyam iti / bhāva-pratyayāntādim abvaktavyaḥ / pākena nirvṛttam pākimam / tyāgimam / sekimam / kuṭṭimam // apamitya-yācitābhyāṃ kak kanau

Sanskrit only: no published translation is held for this verse.

निर्वृत्त इत्य् एव । अपमित्य-याचित-शब्दाभ्यां यथासङ्ख्यं कक् कन् इत्य् एतौ प्रत्ययौ भवतः निर्वृत्ते इत्य् एतस्मिन्न् अर्थे । आपमित्यकम् । याचितकम् ॥ संसृष्टे

nirvṛtta ity eva / apamitya-yācita-śabdābhyāṃ yathāsaṅkhyaṃ kak kan ity etau pratyayau bhavataḥ nirvṛtte ity etasminn arthe / āpamityakam / yācitakam // saṃsṛṣṭe

Sanskrit only: no published translation is held for this verse.

तेन इत्य् एव । तृतीयासमर्थात् संसृष्टे इत्य् एतस्मिन्न् अर्थे ठक् प्रत्ययो भवति । संसृष्टम् एकीभूतम् अभिन्नम् इत्य् अर्थः । दध्ना संसृष्टं दाधिकम् । मारिचिकम् । शार्ङ्गवेरिकम् । पैप्पलिकम् ॥ चूर्णादिनिः

tena ity eva / tṛtīyāsamarthāt saṃsṛṣṭe ity etasminn arthe ṭhak pratyayo bhavati / saṃsṛṣṭam ekībhūtam abhinnam ity arthaḥ / dadhnā saṃsṛṣṭaṃ dādhikam / māricikam / śārṅgaverikam / paippalikam // cūrṇādiniḥ

Sanskrit only: no published translation is held for this verse.

लवणाल् लुक्

lavaṇāl luk

Sanskrit only: no published translation is held for this verse.

संसृष्ते (*४,३।२२) इत्य् अनेन+उत्पन्नस्य ठको लवण-शब्दाल् लुक् भवति । लवणः सूपः । लवणं शाकम् । लवणा यवागूः । द्रव्य-वाची लवण-शब्दो लुकं प्रयोजयति, न गुणवाची ॥ मुद्गाद् अण्

saṃsṛṣte (*4,3.22) ity anena+utpannasya ṭhako lavaṇa-śabdāl luk bhavati / lavaṇaḥ sūpaḥ / lavaṇaṃ śākam / lavaṇā yavāgūḥ / dravya-vācī lavaṇa-śabdo lukaṃ prayojayati, na guṇavācī // mudgād aṇ

Sanskrit only: no published translation is held for this verse.

मुद्ग-शब्दाद् अण् प्रत्ययो भवति संसृष्टे इत्य् एतस्मिन् विषये । ठको ऽपवादः । मौद्ग ओदनः । मौद्गी यवागूः ॥ व्यञ्जनैर् उपसिक्ते

mudga-śabdād aṇ pratyayo bhavati saṃsṛṣṭe ity etasmin viṣaye / ṭhako 'pavādaḥ / maudga odanaḥ / maudgī yavāgūḥ // vyañjanair upasikte

Sanskrit only: no published translation is held for this verse.

तेन इत्य् एव । व्यञ्जन-वाचिभ्यः प्रातिपदिकेभ्यः तृतीयासमर्थेभ्यः उपसिक्ते इत्य् एतस्मिन्न् अर्थे ठक् प्रत्ययो भवति । दध्ना उपसिक्तं दाधिकम् । सौपिकम् । खारिकम् । व्यञ्जनैः इति किम् ? उदकेन+उपसिक्त ओदनः ॥ ओजःसहो ऽम्भसा वर्तते

tena ity eva / vyañjana-vācibhyaḥ prātipadikebhyaḥ tṛtīyāsamarthebhyaḥ upasikte ity etasminn arthe ṭhak pratyayo bhavati / dadhnā upasiktaṃ dādhikam / saupikam / khārikam / vyañjanaiḥ iti kim ? udakena+upasikta odanaḥ // ojaḥsaho 'mbhasā vartate

Sanskrit only: no published translation is held for this verse.

ओजस् सहस् अम्भस् इत्य् एतेभ्यः तृतीयासमर्थेभ्यो वर्तते इत्य् अर्थे ठक् प्रत्ययो भवति । ओजसा वर्तते औजसिकः शूरः । साहसिकश्चौरः । आम्भसिको मत्स्यः ॥ तत् प्रत्य्-अनु-पूर्वम् ईप-लोम-कूलम्

ojas sahas ambhas ity etebhyaḥ tṛtīyāsamarthebhyo vartate ity arthe ṭhak pratyayo bhavati / ojasā vartate aujasikaḥ śūraḥ / sāhasikaścauraḥ / āmbhasiko matsyaḥ // tat praty-anu-pūrvam īpa-loma-kūlam

Sanskrit only: no published translation is held for this verse.

तद् इति द्वितीयासमर्थ-विभक्तिः । प्रति अनु इत्य् एवं पूर्वेभ्यः ईप-लोम-कूल-शब्देभ्यो द्वितियासमर्थेभ्यो वर्तते इत्य् एतस्मिन्न् अर्थे ठक् प्रत्ययो भवति । ननु च वृतिर् अकर्मकः, तस्य कथं कर्मणा सम्बन्धः ? क्रियाविश्षणम् अकर्मकाणाम् अपि कर्म भवति । प्रतीपं वर्तते प्रातीपिकः । आन्वीपिकः । प्रातिलोमिकः । आनुलोमिकः । प्रातिकूलिकः । आनुकूलिकः ॥ परिमुखं च

tad iti dvitīyāsamartha-vibhaktiḥ / prati anu ity evaṃ pūrvebhyaḥ īpa-loma-kūla-śabdebhyo dvitiyāsamarthebhyo vartate ity etasminn arthe ṭhak pratyayo bhavati / nanu ca vṛtir akarmakaḥ, tasya kathaṃ karmaṇā sambandhaḥ ? kriyāviśṣaṇam akarmakāṇām api karma bhavati / pratīpaṃ vartate prātīpikaḥ / ānvīpikaḥ / prātilomikaḥ / ānulomikaḥ / prātikūlikaḥ / ānukūlikaḥ // parimukhaṃ ca

Sanskrit only: no published translation is held for this verse.

प्रयच्छति गर्ह्यम्

prayacchati garhyam

Sanskrit only: no published translation is held for this verse.

तत् इति द्वितीयासमर्थात् प्रयच्छति इत्य् एतस्मिन्न् अर्थे ठक् प्रत्ययो भवति, यत् तद् द्वितीयासमर्थं गर्ह्यं चेत् तद् भवति । द्विगुणार्थ द्विगुणं, तादर्थ्यात् ताच्छब्द्यम् । द्विगुणं प्रयच्छति द्वैगुणिकः । त्रिगुणिकः । वृद्धेर् वृधुशिभावो वक्तव्यः । वार्धुषिकः । प्रकृत्यनतरं वा वृद्धिपर्यायो वृधुषिशब्दः । गर्ह्यम् इति किम् ? द्विगुणं प्रयच्छत्य् अधमर्णः ॥ कुसीद-दश-एकादशात् ष्ठन्ष्ठचौ

tat iti dvitīyāsamarthāt prayacchati ity etasminn arthe ṭhak pratyayo bhavati, yat tad dvitīyāsamarthaṃ garhyaṃ cet tad bhavati / dviguṇārtha dviguṇaṃ, tādarthyāt tācchabdyam / dviguṇaṃ prayacchati dvaiguṇikaḥ / triguṇikaḥ / vṛddher vṛdhuśibhāvo vaktavyaḥ / vārdhuṣikaḥ / prakṛtyanataraṃ vā vṛddhiparyāyo vṛdhuṣiśabdaḥ / garhyam iti kim ? dviguṇaṃ prayacchaty adhamarṇaḥ // kusīda-daśa-ekādaśāt ṣṭhanṣṭhacau

Sanskrit only: no published translation is held for this verse.

प्रयच्छति गर्ह्यम् इत्य् एव । कुसीदं वृद्धिः, तदर्थं द्रव्यं कुसिदम् । एकादशार्था दश दशैकादशशब्देन+उच्यन्ते । कुसीद-दश-एकादशशब्दाभ्यां यथासङ्ख्यं ष्ठन् ष्ठच् इत्य् एतौ प्रत्ययौ भवतः प्रयच्छति गर्ह्यम् इत्य् एतस्मिन् विषये । ठको ऽपवादौ । कुसिदं प्रयच्छति कुसीदिकः । कुसीदिकी । दशैकादशिकः । दशैकादशिकी ॥ उच्छति

prayacchati garhyam ity eva / kusīdaṃ vṛddhiḥ, tadarthaṃ dravyaṃ kusidam / ekādaśārthā daśa daśaikādaśaśabdena+ucyante / kusīda-daśa-ekādaśaśabdābhyāṃ yathāsaṅkhyaṃ ṣṭhan ṣṭhac ity etau pratyayau bhavataḥ prayacchati garhyam ity etasmin viṣaye / ṭhako 'pavādau / kusidaṃ prayacchati kusīdikaḥ / kusīdikī / daśaikādaśikaḥ / daśaikādaśikī // ucchati

Sanskrit only: no published translation is held for this verse.

तद् इति द्वितीयासमर्थाद् उच्छति इत्य् एतस्मिन्न् अर्थे ठक् प्रत्ययो भवति । बदराणि उच्छति बादरिकः । श्यामाकिकः । भूमौ पतितस्यैकैकस्य कणस्योपादानमुञ्छः । कणानुञ्छति काणिकः ॥ रक्षति

tad iti dvitīyāsamarthād ucchati ity etasminn arthe ṭhak pratyayo bhavati / badarāṇi ucchati bādarikaḥ / śyāmākikaḥ / bhūmau patitasyaikaikasya kaṇasyopādānamuñchaḥ / kaṇānuñchati kāṇikaḥ // rakṣati

Sanskrit only: no published translation is held for this verse.

तद् इति द्वितीयासमर्थाद् रक्षति इत्य् एतस्मिन्न् अर्थे ठक् प्रत्ययो भवति । समाजं रक्षति सामाजिकः । सांनिवेशिकः ॥ शब्द-दर्दुरं करोति

tad iti dvitīyāsamarthād rakṣati ity etasminn arthe ṭhak pratyayo bhavati / samājaṃ rakṣati sāmājikaḥ / sāṃniveśikaḥ // śabda-darduraṃ karoti

Sanskrit only: no published translation is held for this verse.

तद् इति द्वितीयासमर्थाभ्यां शब्द-दर्दुर-शब्दाभ्यां करोति इत्य् एतस्मिन्न् अर्थे ठक् प्रत्ययो भवति । शब्दं करोति शाब्दिको वैयाकरणः । दार्दुरिकः कुम्भकारः ॥ पक्षि-मत्स्य-मृगान् हन्ति

tad iti dvitīyāsamarthābhyāṃ śabda-dardura-śabdābhyāṃ karoti ity etasminn arthe ṭhak pratyayo bhavati / śabdaṃ karoti śābdiko vaiyākaraṇaḥ / dārdurikaḥ kumbhakāraḥ // pakṣi-matsya-mṛgān hanti

Sanskrit only: no published translation is held for this verse.

परिपन्थं च तिष्ठति

paripanthaṃ ca tiṣṭhati

Sanskrit only: no published translation is held for this verse.

परिपन्थ-शब्दात् तद् इति द्वितीयासमर्थात् तिष्ठति इत्य् एतस्मिन्न् अर्थे ठक् प्रत्ययो भवति । परिपन्थं तिष्ठति पारिपन्थिकश्चौरः । चकारो भिन्नक्रमः प्रत्ययार्थं समुच्चिनोति । परिपन्थं हन्ति पारिपन्थिकः । समर्थविभक्तिप्रकरणे पुनर् द्वितियोच्चारणं लौकिकवाक्य-प्रदर्शन-अर्थम् । परिपथशब्द-पर्यायः परिपन्थ-शब्दो ऽस्ति इति ज्ञापयति । स विषयान्तरे ऽपि प्रयोक्तव्यः ॥ माथ-उत्तरपद-पदव्य्-अनुपदं धावति

paripantha-śabdāt tad iti dvitīyāsamarthāt tiṣṭhati ity etasminn arthe ṭhak pratyayo bhavati / paripanthaṃ tiṣṭhati pāripanthikaścauraḥ / cakāro bhinnakramaḥ pratyayārthaṃ samuccinoti / paripanthaṃ hanti pāripanthikaḥ / samarthavibhaktiprakaraṇe punar dvitiyoccāraṇaṃ laukikavākya-pradarśana-artham / paripathaśabda-paryāyaḥ paripantha-śabdo 'sti iti jñāpayati / sa viṣayāntare 'pi prayoktavyaḥ // mātha-uttarapada-padavy-anupadaṃ dhāvati

Sanskrit only: no published translation is held for this verse.

माथ-शब्द-उत्तरपदात् प्रातिपैकात् पदवी अनुपद इत्य् एताभ्यां च धावति इत्य् एतस्मिन्नर्थे ठक् प्रत्ययो भवति । दण्डमाथं धावति दाण्डमाथिकः । शौल्कमाथिकः । पादविकः । आनुपदिकः । मथशब्दः पथिपर्यायः ॥ आक्रन्दाट् ठञ् च

mātha-śabda-uttarapadāt prātipaikāt padavī anupada ity etābhyāṃ ca dhāvati ity etasminnarthe ṭhak pratyayo bhavati / daṇḍamāthaṃ dhāvati dāṇḍamāthikaḥ / śaulkamāthikaḥ / pādavikaḥ / ānupadikaḥ / mathaśabdaḥ pathiparyāyaḥ // ākrandāṭ ṭhañ ca

Sanskrit only: no published translation is held for this verse.

आक्रन्दन्ति एतस्मिन् नित्याक्रन्दो देशः । अथ वा आक्रन्द्यते इत्य् आक्रन्दः आर्तायनम् उच्यते । विशेषाभावाद् द्वयोर् अपि ग्रहणम् । आक्रन्द-शब्दात् तद् इति द्वितीयासमर्थाद् धावति इत्य् एतस्मिन्न् अर्थे ठञ् प्रत्ययो भवति, चकाराट् ठक् च । स्वरे विशेषः । आक्रन्दं धावति आक्रन्दिकः । आक्रन्दिकी ॥ पद-उत्तरपदं गृह्णाति

ākrandanti etasmin nityākrando deśaḥ / atha vā ākrandyate ity ākrandaḥ ārtāyanam ucyate / viśeṣābhāvād dvayor api grahaṇam / ākranda-śabdāt tad iti dvitīyāsamarthād dhāvati ity etasminn arthe ṭhañ pratyayo bhavati, cakārāṭ ṭhak ca / svare viśeṣaḥ / ākrandaṃ dhāvati ākrandikaḥ / ākrandikī // pada-uttarapadaṃ gṛhṇāti

Sanskrit only: no published translation is held for this verse.

पदशब्दः उत्तरपदं यस्य तस्मात् पदोत्तरपद-शब्दात् तद् इति द्वितीयासमर्थाद् गृह्णाति इत्य् एतस्मिन्न् अर्थे ठक् प्रत्ययो भवति । पूर्वपदं गृह्णाति पौर्वपदिकः । औत्तरपदिकः । पदानतात् इति न+उक्तं, बहुच्पूर्वान् मा भूत् इति ॥ प्रतिकण्ठ-अर्थ-ललामं च

padaśabdaḥ uttarapadaṃ yasya tasmāt padottarapada-śabdāt tad iti dvitīyāsamarthād gṛhṇāti ity etasminn arthe ṭhak pratyayo bhavati / pūrvapadaṃ gṛhṇāti paurvapadikaḥ / auttarapadikaḥ / padānatāt iti na+uktaṃ, bahucpūrvān mā bhūt iti // pratikaṇṭha-artha-lalāmaṃ ca

Sanskrit only: no published translation is held for this verse.

प्रतिकण्ठ-अर्थ-ललाम-शब्देभ्यः तद् इति द्वितीयासमर्थेभ्यः गृह्णाति इत्य् एतस्मिन्न् अर्थे ठक् प्रत्ययो भवति । प्रतिकण्ठं गृह्णाति प्रातिकण्ठिकः । आर्थिकः । लालामिकः ॥ धर्मं चरति

pratikaṇṭha-artha-lalāma-śabdebhyaḥ tad iti dvitīyāsamarthebhyaḥ gṛhṇāti ity etasminn arthe ṭhak pratyayo bhavati / pratikaṇṭhaṃ gṛhṇāti prātikaṇṭhikaḥ / ārthikaḥ / lālāmikaḥ // dharmaṃ carati

Sanskrit only: no published translation is held for this verse.

प्रतिपथम् एति ठंश् च

pratipatham eti ṭhaṃś ca

Sanskrit only: no published translation is held for this verse.

प्रतिपथ-शब्दाद् द्वितीयासमर्थाद् एति इत्य् अस्मिन्न् अर्थे ठन् प्रत्ययो भवति, चकाराट् ठक् च । प्रतिपथम् एति प्रतिपथिकः, प्रातिपथिकः ॥ समवायान् समवैति

pratipatha-śabdād dvitīyāsamarthād eti ity asminn arthe ṭhan pratyayo bhavati, cakārāṭ ṭhak ca / pratipatham eti pratipathikaḥ, prātipathikaḥ // samavāyān samavaiti

Sanskrit only: no published translation is held for this verse.

समवाया-वाचिभ्यः शब्देभ्यः तद् इति द्वितीयासमर्थेभ्यः समवैति इत्य् एतस्मिन्न् अर्थे ठक् प्रत्ययो भवति । समवायः समूहः उच्यते, न संप्रधारणा । समवायान् इति बहुवचनं सरूपविधिनिरासार्थम् । समवैति आगत्य तदेकदेशी भवति इत्य् अर्थः । समवायान् समवैति सामवायिकः । सामाजिकः । सामूहिकः । सान्निवेशिकः ॥ परिषदो ण्यः

samavāyā-vācibhyaḥ śabdebhyaḥ tad iti dvitīyāsamarthebhyaḥ samavaiti ity etasminn arthe ṭhak pratyayo bhavati / samavāyaḥ samūhaḥ ucyate, na saṃpradhāraṇā / samavāyān iti bahuvacanaṃ sarūpavidhinirāsārtham / samavaiti āgatya tadekadeśī bhavati ity arthaḥ / samavāyān samavaiti sāmavāyikaḥ / sāmājikaḥ / sāmūhikaḥ / sānniveśikaḥ // pariṣado ṇyaḥ

Sanskrit only: no published translation is held for this verse.

परिषदः ण्यः प्रत्ययो भवति समवायान् समवैति इत्य् एतस्मिन् विषये । ठको ऽपवादः । परिषदं समवैति पारिषद्यः ॥ सेनाया वा

pariṣadaḥ ṇyaḥ pratyayo bhavati samavāyān samavaiti ity etasmin viṣaye / ṭhako 'pavādaḥ / pariṣadaṃ samavaiti pāriṣadyaḥ // senāyā vā

Sanskrit only: no published translation is held for this verse.

सेना-शब्दाद् वा ण्यः प्रत्ययो भवति समवायान् समवैति इत्य् एतस्मिन्न् अर्थे । ठको ऽपवादः । पक्षे सो ऽपि भवति । सेनां समवैति सैन्यः, सैनिकः ॥ सञ्ज्ञायां ललाट-कुक्कुट्यौ पश्यति

senā-śabdād vā ṇyaḥ pratyayo bhavati samavāyān samavaiti ity etasminn arthe / ṭhako 'pavādaḥ / pakṣe so 'pi bhavati / senāṃ samavaiti sainyaḥ, sainikaḥ // sañjñāyāṃ lalāṭa-kukkuṭyau paśyati

Sanskrit only: no published translation is held for this verse.

तस्य धर्म्यम्

tasya dharmyam

Sanskrit only: no published translation is held for this verse.

तस्य इति षष्ठीसमर्थाद् धर्म्यम् इत्य् एतस्मिन्न् अर्थे ठक् प्रत्ययो भवति । धर्म्यं न्याय्यम् । आचारयुक्तम् इत्य् अर्थः । शुल्कशालायाः धर्म्यं शौल्कशालिकम् । आकरिकम् । आपणिकम् । गौल्मिकम् ॥ अण् महिष्य्-आदिभ्यः

tasya iti ṣaṣṭhīsamarthād dharmyam ity etasminn arthe ṭhak pratyayo bhavati / dharmyaṃ nyāyyam / ācārayuktam ity arthaḥ / śulkaśālāyāḥ dharmyaṃ śaulkaśālikam / ākarikam / āpaṇikam / gaulmikam // aṇ mahiṣy-ādibhyaḥ

Sanskrit only: no published translation is held for this verse.

महिषी इत्य् एवम् आदिभ्यः अण् प्रत्ययो भवति तस्य धर्म्यम् इत्य् एतस्मिन् विषये । ठको ऽपवादः । महिस्याः धर्म्यम् माहिषम् । प्राजावतम् । महिषी । प्रजावती । प्रलेपिका । विलेपिका । अनुलेपिका । पुरोहित । मणिपाली । अनुचारक । होतृ । यजमान । महिष्यादिः ॥ ऋतो ऽञ्

mahiṣī ity evam ādibhyaḥ aṇ pratyayo bhavati tasya dharmyam ity etasmin viṣaye / ṭhako 'pavādaḥ / mahisyāḥ dharmyam māhiṣam / prājāvatam / mahiṣī / prajāvatī / pralepikā / vilepikā / anulepikā / purohita / maṇipālī / anucāraka / hotṛ / yajamāna / mahiṣyādiḥ // ṛto 'ñ

Sanskrit only: no published translation is held for this verse.

ऋकारान्तात् प्रातिपदिकात् अञ् प्रत्ययो भवति तस्य धर्म्यम् इत्य् एतस्मिन् विषये । ठको ऽपवादः । पोतुर् ध्र्म्यं पौत्रम् । औद्गात्रम् । नरच् च+एति वक्तव्यम् । नरस्य धर्म्या नारी । विशसितुर् इड्लोपश् च । विशसितुः धर्म्यम् वैशस्त्रम् । विभाजयितुर्णिलोपश् च । विभाजयितुर् ध्र्म्यम् वैभाजित्रम् ॥ अवक्रयः

ṛkārāntāt prātipadikāt añ pratyayo bhavati tasya dharmyam ity etasmin viṣaye / ṭhako 'pavādaḥ / potur dhrmyaṃ pautram / audgātram / narac ca+eti vaktavyam / narasya dharmyā nārī / viśasitur iḍlopaś ca / viśasituḥ dharmyam vaiśastram / vibhājayiturṇilopaś ca / vibhājayitur dhrmyam vaibhājitram // avakrayaḥ

Sanskrit only: no published translation is held for this verse.

तद् अस्य पण्यम्

tad asya paṇyam

Sanskrit only: no published translation is held for this verse.

तद् इति प्रथमासमर्थाद् अस्य इति षष्ठ्यर्थे ठक् प्रत्ययो भवति यत्तत्प्रथमासमर्थं पण्यं चेत् तद् भवति । अपूपाः पण्यम् अस्य आपूपिकः । शाष्कुलिकः । मौदकिकः । पण्यम् इति विशेषनं तद्धितवृत्ताव् अन्तर्भूतम् अतः पण्य-शब्दो न प्रयुज्यते ॥ लवणाट् ठञ्

tad iti prathamāsamarthād asya iti ṣaṣṭhyarthe ṭhak pratyayo bhavati yattatprathamāsamarthaṃ paṇyaṃ cet tad bhavati / apūpāḥ paṇyam asya āpūpikaḥ / śāṣkulikaḥ / maudakikaḥ / paṇyam iti viśeṣanaṃ taddhitavṛttāv antarbhūtam ataḥ paṇya-śabdo na prayujyate // lavaṇāṭ ṭhañ

Sanskrit only: no published translation is held for this verse.

लवण-शब्दाट् ठञ् प्रत्ययो भवति तद् अस्य पण्यम् इत्य् एतस्मिन् विषये । ठको ऽपवादः । स्वरे विशेषः । लवणं पण्यम् अस्य लावणिकः ॥ किशरादिभ्यः ष्ठन्

lavaṇa-śabdāṭ ṭhañ pratyayo bhavati tad asya paṇyam ity etasmin viṣaye / ṭhako 'pavādaḥ / svare viśeṣaḥ / lavaṇaṃ paṇyam asya lāvaṇikaḥ // kiśarādibhyaḥ ṣṭhan

Sanskrit only: no published translation is held for this verse.

किशर इत्य् एवम् आदिभ्यः ष्ठन् प्रत्ययो तद् अस्य पण्यम् इत्य् एतस्मिन् विषये । ठको ऽपवादः । किशरादयो गन्धविशेष-वचनाः । किशराः पण्यम् अस्य किशरिकः । किशरिकी । निरदिकः । नरदिकी । किशर । नरद । नलद । सुमङ्गल । तगर । गुग्गुलु । उशीर । हरिद्रा । हरिद्रायणी । किशरादिः ॥ शलालुनो ऽन्यतरस्याम्

kiśara ity evam ādibhyaḥ ṣṭhan pratyayo tad asya paṇyam ity etasmin viṣaye / ṭhako 'pavādaḥ / kiśarādayo gandhaviśeṣa-vacanāḥ / kiśarāḥ paṇyam asya kiśarikaḥ / kiśarikī / niradikaḥ / naradikī / kiśara / narada / nalada / sumaṅgala / tagara / guggulu / uśīra / haridrā / haridrāyaṇī / kiśarādiḥ // śalāluno 'nyatarasyām

Sanskrit only: no published translation is held for this verse.

शलालु-शब्दाद् अन्यतरस्यां ष्ठन् प्रत्ययो भवति तद् अस्य पण्यम् इत्य् एतस्मिन् विषये । ठको ऽपवादः । पक्षे सो ऽपि भवति । शलालु-शब्दो गन्धविशेष-वचनः । शलालु पण्यम् अस्य शलालुकः । शलालुकी । शालालुकः । शालालुकी ॥ शिल्पम्

śalālu-śabdād anyatarasyāṃ ṣṭhan pratyayo bhavati tad asya paṇyam ity etasmin viṣaye / ṭhako 'pavādaḥ / pakṣe so 'pi bhavati / śalālu-śabdo gandhaviśeṣa-vacanaḥ / śalālu paṇyam asya śalālukaḥ / śalālukī / śālālukaḥ / śālālukī // śilpam

Sanskrit only: no published translation is held for this verse.

मड्डुक-झर्झराद् अण् अन्यतरस्याम्

maḍḍuka-jharjharād aṇ anyatarasyām

Sanskrit only: no published translation is held for this verse.

मड्डुक-झर्झर-शब्दाभ्याम् अन्यतरस्याम् अण् प्रत्ययो भवति तद् अस्य शिल्पम् इत्य् एतस्मिन् विषये । पक्षे सो ऽपि भवति । मड्डुकवादनं शिल्पमस्थ माड्डुकः, माड्डुकिकः । झार्झरः, झार्झरिकः ॥ प्रहरणम्

maḍḍuka-jharjhara-śabdābhyām anyatarasyām aṇ pratyayo bhavati tad asya śilpam ity etasmin viṣaye / pakṣe so 'pi bhavati / maḍḍukavādanaṃ śilpamastha māḍḍukaḥ, māḍḍukikaḥ / jhārjharaḥ, jhārjharikaḥ // praharaṇam

Sanskrit only: no published translation is held for this verse.

तद् अस्य इत्य् एव । तद् इति प्रथमासमर्थाद् अस्य इति षष्ठ्यर्थे ठक् प्रत्ययो भवति, यत्तत् प्रथमासमर्थं प्रहरणं चेत् तद् भवति । असिः प्रहरणम् अस्य आसिकः । प्रासिकः । चाक्रिकः धानुष्कः ॥ परश्वधाट् ठञ् च

tad asya ity eva / tad iti prathamāsamarthād asya iti ṣaṣṭhyarthe ṭhak pratyayo bhavati, yattat prathamāsamarthaṃ praharaṇaṃ cet tad bhavati / asiḥ praharaṇam asya āsikaḥ / prāsikaḥ / cākrikaḥ dhānuṣkaḥ // paraśvadhāṭ ṭhañ ca

Sanskrit only: no published translation is held for this verse.

परश्वध-शब्दात् ठञ् प्रत्ययो भवति, चकारात् ठक् । स्वरे विशेषः । परश्वधः प्रहरणम् अस्य पारश्वधिकः ॥ शक्ति-यष्ट्योर् ईकक्

paraśvadha-śabdāt ṭhañ pratyayo bhavati, cakārāt ṭhak / svare viśeṣaḥ / paraśvadhaḥ praharaṇam asya pāraśvadhikaḥ // śakti-yaṣṭyor īkak

Sanskrit only: no published translation is held for this verse.

शक्ति-यष्टि-शब्दाभ्याम् ईकक् प्रत्ययो भवति तद् अस्य प्रहरणम् इत्य् एतस्मिन् विषये । ठको ऽपवादः । शक्तिः प्रहरणम् अस्य शाक्तीकः । याष्टीकः ॥ अस्ति-नास्ति-दिष्टं मतिः

śakti-yaṣṭi-śabdābhyām īkak pratyayo bhavati tad asya praharaṇam ity etasmin viṣaye / ṭhako 'pavādaḥ / śaktiḥ praharaṇam asya śāktīkaḥ / yāṣṭīkaḥ // asti-nāsti-diṣṭaṃ matiḥ

Sanskrit only: no published translation is held for this verse.

तद् अस्य इत्य् एव । तद् इति प्रथमासमर्थेभ्यः अस्ति नास्ति दिष्ट इत्य् एतेभ्यः शब्देभ्यः अस्य इति षष्ठ्यर्थे ठक् प्रत्ययो भवति यत् तत् प्रथमासमर्थं मतिश् चेत् तद् भवति । अस्ति मतिः अस्य आस्तिकः । नास्ति मतिः अस्य नास्तिकः । दैष्टिकः । न च मतिसत्तामात्रे प्रत्यय इष्यते, किं तर्हि, परलोको ऽस्ति इति यस्य मतिः स आस्तिकः । तद्विपरीतो नास्तिकः । प्रमाण-अनुपातिनी यस्य मतिः स दैष्टिकः । तद् एतद् अभिधान-शक्ति-स्वभावाल् लभ्यते । अस्ति-नास्ति-शब्दौ निपातौ, वचनसामर्थ्याद् वा आख्याताद् वाक्याच् च प्रत्ययः ॥ शीलं

tad asya ity eva / tad iti prathamāsamarthebhyaḥ asti nāsti diṣṭa ity etebhyaḥ śabdebhyaḥ asya iti ṣaṣṭhyarthe ṭhak pratyayo bhavati yat tat prathamāsamarthaṃ matiś cet tad bhavati / asti matiḥ asya āstikaḥ / nāsti matiḥ asya nāstikaḥ / daiṣṭikaḥ / na ca matisattāmātre pratyaya iṣyate, kiṃ tarhi, paraloko 'sti iti yasya matiḥ sa āstikaḥ / tadviparīto nāstikaḥ / pramāṇa-anupātinī yasya matiḥ sa daiṣṭikaḥ / tad etad abhidhāna-śakti-svabhāvāl labhyate / asti-nāsti-śabdau nipātau, vacanasāmarthyād vā ākhyātād vākyāc ca pratyayaḥ // śīlaṃ

Sanskrit only: no published translation is held for this verse.

छत्रादिभ्यो णः

chatrādibhyo ṇaḥ

Sanskrit only: no published translation is held for this verse.

छत्र इत्य् एवम् आदिभ्यः प्रातिपदिकेभ्यो णः प्रत्ययो भवति तद् अस्य शीलम् इत्य् एतस्मिन् विषये । ठको ऽपवादः । छत्रं शीलम् अस्य छात्रः । छादनादावरणाच् छत्रम् । गुरुकार्येष्वहितः तच्छिद्रावरणप्रवृत्तः छत्रशीलः शीष्यः छात्रः । स्था-शब्दो ऽत्र पठ्यते, स उपसर्ग-पूर्वो ऽत्र गृह्यते आस्था संस्था अवस्था इति । छत्र । बुभुक्षा । शिक्षा । पुरोह । स्था । चुरा । उपस्थान । ऋषि । कर्मन् । विश्वधा । तपस् । सत्य । अनृत । शिबिका । छत्रादिः ॥ कर्माध्ययने वृत्तम्

chatra ity evam ādibhyaḥ prātipadikebhyo ṇaḥ pratyayo bhavati tad asya śīlam ity etasmin viṣaye / ṭhako 'pavādaḥ / chatraṃ śīlam asya chātraḥ / chādanādāvaraṇāc chatram / gurukāryeṣvahitaḥ tacchidrāvaraṇapravṛttaḥ chatraśīlaḥ śīṣyaḥ chātraḥ / sthā-śabdo 'tra paṭhyate, sa upasarga-pūrvo 'tra gṛhyate āsthā saṃsthā avasthā iti / chatra / bubhukṣā / śikṣā / puroha / sthā / curā / upasthāna / ṛṣi / karman / viśvadhā / tapas / satya / anṛta / śibikā / chatrādiḥ // karmādhyayane vṛttam

Sanskrit only: no published translation is held for this verse.

तद् अस्य इत्य् एव । तद् इति प्रथमासमर्थाद् अस्य इति षष्ठ्यर्थे ठक् प्रत्ययो भवति, यत् तत्प्रथमास्मर्थं कर्म चेत् तद् वृत्तम् अध्ययनविषयं भवति । एकमन्यदध्ययने कर्म वृत्तम् अस्य ऐकान्यिकः । द्वैयन्यिकः । त्रैयन्यिकः । एकमन्यत् इति विगृह्य तद्धितार्थ इति समासः । ततश् च ठक् प्रत्ययः । अध्ययने कर्म वृत्तम् इत्य् एतत् सर्वं तद्धितवृत्तावन्तर्भवति । यस्य अध्ययनप्रयुक्तस्य परीक्षाकाले पठतः स्खलितम् अपपाठरूपम् एकं जातं स उच्यते ऐकान्यिकः इति । एवं द्वैयन्यिकः त्रैयन्यिक इति ॥ बह्व्-अच्-पूर्वपदाट् ठच्

tad asya ity eva / tad iti prathamāsamarthād asya iti ṣaṣṭhyarthe ṭhak pratyayo bhavati, yat tatprathamāsmarthaṃ karma cet tad vṛttam adhyayanaviṣayaṃ bhavati / ekamanyadadhyayane karma vṛttam asya aikānyikaḥ / dvaiyanyikaḥ / traiyanyikaḥ / ekamanyat iti vigṛhya taddhitārtha iti samāsaḥ / tataś ca ṭhak pratyayaḥ / adhyayane karma vṛttam ity etat sarvaṃ taddhitavṛttāvantarbhavati / yasya adhyayanaprayuktasya parīkṣākāle paṭhataḥ skhalitam apapāṭharūpam ekaṃ jātaṃ sa ucyate aikānyikaḥ iti / evaṃ dvaiyanyikaḥ traiyanyika iti // bahv-ac-pūrvapadāṭ ṭhac

Sanskrit only: no published translation is held for this verse.

बह्वच् पूर्वपदं यस्य तस्माद् बह्वच्पूर्वपदात् प्रातिपदिकात् ठच् प्रत्ययो भवति तद् अस्य कर्माध्ययने वृत्तम् इत्य् एतस्मिन्न् अर्थे ठको ऽपवादः । द्वादशान्यानि कर्माण्यध्ययने वृत्तान्य् अस्य द्वादशान्यिकः । त्रयोदशान्यिकः । चतुर्दशान्यिकः । चतुर्दशापपाठा अस्य जाता इत्य् अर्थः । उदात्ते कर्तव्ये यो ऽनुदात्तं करोति स उच्यते अन्यत् त्वं करोषि इति ॥ हितं भक्षाः

bahvac pūrvapadaṃ yasya tasmād bahvacpūrvapadāt prātipadikāt ṭhac pratyayo bhavati tad asya karmādhyayane vṛttam ity etasminn arthe ṭhako 'pavādaḥ / dvādaśānyāni karmāṇyadhyayane vṛttāny asya dvādaśānyikaḥ / trayodaśānyikaḥ / caturdaśānyikaḥ / caturdaśāpapāṭhā asya jātā ity arthaḥ / udātte kartavye yo 'nudāttaṃ karoti sa ucyate anyat tvaṃ karoṣi iti // hitaṃ bhakṣāḥ

Sanskrit only: no published translation is held for this verse.

त दस्मै दीयते नियुक्तम्

ta dasmai dīyate niyuktam

Sanskrit only: no published translation is held for this verse.

तत् इति प्रथमासमर्थाद् अस्मा इति चतुर्थ्यर्थ ठक् प्रत्ययो भवति यत् तत् प्रथमासमर्थं तच् चेद् दीयते नियुक्तम् । नियोगेन अव्यभिचारेण दीयते इत्य् अर्थः । अव्यभिचारो नियोगः । अग्रे भोजनम् अस्मै नियुक्तं दीयते आग्रभोजनिकः । आपूपिकः । शाष्कुलिकः । केचित् तु नियुक्तं नित्यम् आहुः । अपूपा नित्यम् अस्मै दीयन्ते आपूपिकः ॥ श्राणा-मांस-ओदनाट् टिठन्

tat iti prathamāsamarthād asmā iti caturthyartha ṭhak pratyayo bhavati yat tat prathamāsamarthaṃ tac ced dīyate niyuktam / niyogena avyabhicāreṇa dīyate ity arthaḥ / avyabhicāro niyogaḥ / agre bhojanam asmai niyuktaṃ dīyate āgrabhojanikaḥ / āpūpikaḥ / śāṣkulikaḥ / kecit tu niyuktaṃ nityam āhuḥ / apūpā nityam asmai dīyante āpūpikaḥ // śrāṇā-māṃsa-odanāṭ ṭiṭhan

Sanskrit only: no published translation is held for this verse.

श्राणा-मांस-ओदन-शब्दाभ्यां टिठन् प्रत्ययो भवति तद् अस्मै दीयते नियुक्तम् इत्य् एतस्मिन्न् अर्थे । ठको ऽपवादः । इकार उच्चारण-अर्थः । टकारो ङीब्-अर्थः । श्राणा नियुक्तम् अस्मै दीयते श्राणिकः । श्राणिकी । मांसौदनिकः । मांसौदनिकी । अथ ठञ् एव कस्मान् न+उक्तः, न ह्य् अत्र ठञष् टिठनो वा विशेषो ऽस्ति ? मांसौदन-ग्रहणं सङ्घातविगृहीत-अर्थं केचिद् इच्छन्ति, तत्र वृद्ध्यभावो विशेषः । ओदनिकः । ओदनिकी ॥ भक्टाद् अण् आन्यतरस्याम्

śrāṇā-māṃsa-odana-śabdābhyāṃ ṭiṭhan pratyayo bhavati tad asmai dīyate niyuktam ity etasminn arthe / ṭhako 'pavādaḥ / ikāra uccāraṇa-arthaḥ / ṭakāro ṅīb-arthaḥ / śrāṇā niyuktam asmai dīyate śrāṇikaḥ / śrāṇikī / māṃsaudanikaḥ / māṃsaudanikī / atha ṭhañ eva kasmān na+uktaḥ, na hy atra ṭhañaṣ ṭiṭhano vā viśeṣo 'sti ? māṃsaudana-grahaṇaṃ saṅghātavigṛhīta-arthaṃ kecid icchanti, tatra vṛddhyabhāvo viśeṣaḥ / odanikaḥ / odanikī // bhakṭād aṇ ānyatarasyām

Sanskrit only: no published translation is held for this verse.

भक्त-शब्दाद् अण् प्रत्ययो भवति अन्यत्रस्याम् तद् असमि दीयते नियुक्तम् इत्य् एतस्मिन् विषये । ठको ऽपवादः । पक्षे सो ऽपि भवति । भक्तम् अस्मै दीयते नियुक्तम् भाक्तः, भक्तिकः ॥ तत्र नियुक्तः

bhakta-śabdād aṇ pratyayo bhavati anyatrasyām tad asami dīyate niyuktam ity etasmin viṣaye / ṭhako 'pavādaḥ / pakṣe so 'pi bhavati / bhaktam asmai dīyate niyuktam bhāktaḥ, bhaktikaḥ // tatra niyuktaḥ

Sanskrit only: no published translation is held for this verse.

तत्र इति सप्तमीसमर्थान् नियुक्त इत्य् एतस्मिन्न् अर्थे ठक् प्रत्ययो भवति । नियुक्तः आधिकृतो व्यापारितः इत्य् अर्थः । शुल्कशालायां नियुक्तः शौल्कशालिकः । आकरिकः । आपणिकः । गौल्मिकः । दौवारिकः ॥ अगार-अन्ताट् ठन्

tatra iti saptamīsamarthān niyukta ity etasminn arthe ṭhak pratyayo bhavati / niyuktaḥ ādhikṛto vyāpāritaḥ ity arthaḥ / śulkaśālāyāṃ niyuktaḥ śaulkaśālikaḥ / ākarikaḥ / āpaṇikaḥ / gaulmikaḥ / dauvārikaḥ // agāra-antāṭ ṭhan

Sanskrit only: no published translation is held for this verse.

अध्यायिन्य् अदेश-कालात्

adhyāyiny adeśa-kālāt

Sanskrit only: no published translation is held for this verse.

तत्र इत्य् एव । सप्तमीसमर्थाद् अदेश-वाचिनः परतिपदिकाद् अकाल-वाचिनः च अध्यायिन्यभिधेये ठक् प्रत्ययो भवति । अध्ययनस्य यौ देशकालौ शास्त्रण प्रतिषिद्धौ तावदेशकाल-शब्देन+उच्येते, तत इदं प्रत्ययविधानम् । श्माशाने ऽधीते श्माशानिकः । चातुष्पथिकः । अकालात् - चतुरदश्यमधीते चातुर्दशिकः । आमावास्यिकः । अदेशकालात् इति किम् ? स्रुघ्ने ऽधीते । पूर्वाह्णे ऽधीते ॥ कठिनान्त-प्रस्तार-संस्थानेषु व्यवहरति

tatra ity eva / saptamīsamarthād adeśa-vācinaḥ paratipadikād akāla-vācinaḥ ca adhyāyinyabhidheye ṭhak pratyayo bhavati / adhyayanasya yau deśakālau śāstraṇa pratiṣiddhau tāvadeśakāla-śabdena+ucyete, tata idaṃ pratyayavidhānam / śmāśāne 'dhīte śmāśānikaḥ / cātuṣpathikaḥ / akālāt - caturadaśyamadhīte cāturdaśikaḥ / āmāvāsyikaḥ / adeśakālāt iti kim ? srughne 'dhīte / pūrvāhṇe 'dhīte // kaṭhinānta-prastāra-saṃsthāneṣu vyavaharati

Sanskrit only: no published translation is held for this verse.

तत्र इत्य् एव । कठिन-शब्दान्तात् सप्तमीसमर्थात् प्रस्तार-संस्थान-शब्दाभ्यां च ठक् प्रत्ययो भवति व्यवहरति इत्य् एतस्म्न्न् अर्थे । व्यवहारः क्रियातत्त्वम् यथा लौकिकव्यवहारः इति । वंशकठिने व्यवहरति वांशकठिनिकः चक्रचरः । वार्ध्रकठिनिकः । प्रास्तारिकः । सांस्थानिकः ॥ निकटे वसति

tatra ity eva / kaṭhina-śabdāntāt saptamīsamarthāt prastāra-saṃsthāna-śabdābhyāṃ ca ṭhak pratyayo bhavati vyavaharati ity etasmnn arthe / vyavahāraḥ kriyātattvam yathā laukikavyavahāraḥ iti / vaṃśakaṭhine vyavaharati vāṃśakaṭhinikaḥ cakracaraḥ / vārdhrakaṭhinikaḥ / prāstārikaḥ / sāṃsthānikaḥ // nikaṭe vasati

Sanskrit only: no published translation is held for this verse.

निकट-शाब्दात् सप्तमीस्मर्थात् वसति इत्य् एतस्मिन्न् अर्थे ठक् प्रत्ययो भवति । यस्य शास्त्रतो निकटवासस् तत्र अयं विधिः । आरण्यकेन भिक्षुणा ग्रामात् क्रोशे वस्तव्यम् इति शास्त्रम् । निकटे वसति नैकटिको भिक्षुः ॥ आवसथात् ष्ठल्

nikaṭa-śābdāt saptamīsmarthāt vasati ity etasminn arthe ṭhak pratyayo bhavati / yasya śāstrato nikaṭavāsas tatra ayaṃ vidhiḥ / āraṇyakena bhikṣuṇā grāmāt krośe vastavyam iti śāstram / nikaṭe vasati naikaṭiko bhikṣuḥ // āvasathāt ṣṭhal

Sanskrit only: no published translation is held for this verse.

तत्र इत्य् एव । आवसथ-शब्दात् सप्तमीसमर्थात् वसति इत्य् एतस्मिन्न् अर्थे ष्ठल् प्रत्ययो भवति । लकारः स्वरार्थः । षकारो ङीषर्थः । आवसथे वसति आवसथिकः । आवसथिकी । ठकः पूर्णो ऽवधिः, अतः परमन्यः प्रत्ययो विधीयते ॥ प्राग् घिताद् यत्

tatra ity eva / āvasatha-śabdāt saptamīsamarthāt vasati ity etasminn arthe ṣṭhal pratyayo bhavati / lakāraḥ svarārthaḥ / ṣakāro ṅīṣarthaḥ / āvasathe vasati āvasathikaḥ / āvasathikī / ṭhakaḥ pūrṇo 'vadhiḥ, ataḥ paramanyaḥ pratyayo vidhīyate // prāg ghitād yat

Sanskrit only: no published translation is held for this verse.

तस्मै हितम् (*५,१।५) इति वक्ष्यति । प्राग् एतस्माद् धितसंशब्दनाद् यानित ऊर्ध्वम् अनुक्रमिष्यामो यत् प्रत्ययस्तेष्वधिकृतो वेदितव्यः । वक्ष्यति - तद्वहति रथयुगप्रासङ्गम्

tasmai hitam (*5,1.5) iti vakṣyati / prāg etasmād dhitasaṃśabdanād yānita ūrdhvam anukramiṣyāmo yat pratyayasteṣvadhikṛto veditavyaḥ / vakṣyati - tadvahati rathayugaprāsaṅgam

Sanskrit only: no published translation is held for this verse.

धुरो यड्-ढकौ

dhuro yaḍ-ḍhakau

Sanskrit only: no published translation is held for this verse.

तद् वहति इत्य् एव । धुर् इत्य् एतस्माद् द्वितीयासमर्थाद् वहति इत्य् एतस्मिन्न् अर्थे यत् ढक् इत्य् एतौ प्रत्ययौ भवतः । धुरं वहति धुर्यः, धौरेयः ॥ खः सर्वधुरात्

tad vahati ity eva / dhur ity etasmād dvitīyāsamarthād vahati ity etasminn arthe yat ḍhak ity etau pratyayau bhavataḥ / dhuraṃ vahati dhuryaḥ, dhaureyaḥ // khaḥ sarvadhurāt

Sanskrit only: no published translation is held for this verse.

तद्वहति इत्य् एव । सर्वधुरा-शब्दाद् द्वितीयासमर्थात् वहति इत्य् एतस्मिन्न् अर्थे खः प्रत्ययो भवति । सर्वधुरां वहति सर्वधुरीणः । स्त्रीलिङ्गे न्याय्ये सर्वधुरात् इति प्रातिपदिकमात्र-अपेक्षो निर्देशः । खः इति योगविभागः कर्तव्यः इष्टसङ्ग्रहार्थः । उत्तरधुरीणः । दक्षिणधुरीणः ॥ एकधुराल् लुक् च

tadvahati ity eva / sarvadhurā-śabdād dvitīyāsamarthāt vahati ity etasminn arthe khaḥ pratyayo bhavati / sarvadhurāṃ vahati sarvadhurīṇaḥ / strīliṅge nyāyye sarvadhurāt iti prātipadikamātra-apekṣo nirdeśaḥ / khaḥ iti yogavibhāgaḥ kartavyaḥ iṣṭasaṅgrahārthaḥ / uttaradhurīṇaḥ / dakṣiṇadhurīṇaḥ // ekadhurāl luk ca

Sanskrit only: no published translation is held for this verse.

तद् वहति इत्य् एव । एकधुरा-शब्दाद् द्वितीयासमर्थाद् वहति इत्य् एतस्मिन्न् अर्थे खः प्रत्ययो भवति, तस्य च लुग् भवति । वचनसमार्थ्यात् पक्षे लुग् विधीयते । एकधुराम् वहति एकधुरीणः, एकधुरः ॥ शकटाद् अण्

tad vahati ity eva / ekadhurā-śabdād dvitīyāsamarthād vahati ity etasminn arthe khaḥ pratyayo bhavati, tasya ca lug bhavati / vacanasamārthyāt pakṣe lug vidhīyate / ekadhurām vahati ekadhurīṇaḥ, ekadhuraḥ // śakaṭād aṇ

Sanskrit only: no published translation is held for this verse.

तद्वहति इत्य् एव । शकट-शब्दाद् द्वितीयासमर्थाद् वहति इत्य् एतस्मिन्न् अर्थे अण् प्रत्ययो भवति । शकटम् वहति शाकटो गौः ॥ हलसीराट् ठक्

tadvahati ity eva / śakaṭa-śabdād dvitīyāsamarthād vahati ity etasminn arthe aṇ pratyayo bhavati / śakaṭam vahati śākaṭo gauḥ // halasīrāṭ ṭhak

Sanskrit only: no published translation is held for this verse.

तद्वहति इत्य् एव । हल-सीर-शब्दाभ्यां द्वितीयास्मर्थाभ्यां वहति इत्य् एतस्मिन्न् अर्थे ठक् प्रत्ययो भवति । हलं वहति हालिकः । सैरिकः ॥ सञ्ज्ञायां जन्याः

tadvahati ity eva / hala-sīra-śabdābhyāṃ dvitīyāsmarthābhyāṃ vahati ity etasminn arthe ṭhak pratyayo bhavati / halaṃ vahati hālikaḥ / sairikaḥ // sañjñāyāṃ janyāḥ

Sanskrit only: no published translation is held for this verse.

विध्यत्यधनुषा

vidhyatyadhanuṣā

Sanskrit only: no published translation is held for this verse.

तत् इति द्वितीयासमर्थाद् विध्यति इत्य् एतस्मिन्न् अर्थे यत् प्रत्ययो भवति, न चेद् धनुष्करणं भवति । पादौ विध्यन्ति पद्याः शर्कराः । ऊरव्याः कण्टकाः । अधनुषा इति किम् ? पादौ विध्यति धनुषा । ननु असमर्थत्वाद् अनभिधानाच् च प्रत्ययो न भवति, न हि धनुषा पद्य इति विवक्षितो ऽर्थः प्रतीयते ? एवं तर्हि धनुष्प्रतिषेधेन व्यधनक्रिया विशेष्यते, यस्यां धनुष्करणम् न सम्भाव्यते इति । तेन इह न भवति, चौरं विध्यति, शत्रुं विध्यति देवदत्तः इति ॥ धन-गणं लब्धा

tat iti dvitīyāsamarthād vidhyati ity etasminn arthe yat pratyayo bhavati, na ced dhanuṣkaraṇaṃ bhavati / pādau vidhyanti padyāḥ śarkarāḥ / ūravyāḥ kaṇṭakāḥ / adhanuṣā iti kim ? pādau vidhyati dhanuṣā / nanu asamarthatvād anabhidhānāc ca pratyayo na bhavati, na hi dhanuṣā padya iti vivakṣito 'rthaḥ pratīyate ? evaṃ tarhi dhanuṣpratiṣedhena vyadhanakriyā viśeṣyate, yasyāṃ dhanuṣkaraṇam na sambhāvyate iti / tena iha na bhavati, cauraṃ vidhyati, śatruṃ vidhyati devadattaḥ iti // dhana-gaṇaṃ labdhā

Sanskrit only: no published translation is held for this verse.

तद् इत्य् एव । धनगण-शब्दाभ्यां द्वितीयासमर्थाभ्याम् लब्धा इत्य् एतस्मिन्न् अर्थे यत् प्रत्ययो भवति । धन्यः । गण्यः । लब्धा इति तृन्नन्तं, तेन द्वितीया समर्था विभक्तिर् युज्यते ॥ अन्नाण् णः

tad ity eva / dhanagaṇa-śabdābhyāṃ dvitīyāsamarthābhyām labdhā ity etasminn arthe yat pratyayo bhavati / dhanyaḥ / gaṇyaḥ / labdhā iti tṛnnantaṃ, tena dvitīyā samarthā vibhaktir yujyate // annāṇ ṇaḥ

Sanskrit only: no published translation is held for this verse.

अन्न-शब्दात् तद् इति द्वितीयासमर्थात् लब्धा इत्य् एतस्मिन् अर्थे णः प्रत्ययो भवति । अन्नं लब्धा आन्नः ॥ वशं गतः

anna-śabdāt tad iti dvitīyāsamarthāt labdhā ity etasmin arthe ṇaḥ pratyayo bhavati / annaṃ labdhā ānnaḥ // vaśaṃ gataḥ

Sanskrit only: no published translation is held for this verse.

वश-शब्दात् तद् इति द्वितीयासमर्थाद् गतः इत्य् एतस्मिन्न् अर्थे यत् प्रत्ययो भवति । वशं गतः वश्यः । कामप्राप्तो विधेयः इत्य् अर्थः ॥ पदम् अस्मिन् दृश्यम्

vaśa-śabdāt tad iti dvitīyāsamarthād gataḥ ity etasminn arthe yat pratyayo bhavati / vaśaṃ gataḥ vaśyaḥ / kāmaprāpto vidheyaḥ ity arthaḥ // padam asmin dṛśyam

Sanskrit only: no published translation is held for this verse.

निर्देशात् एव प्रथमा समर्थविभक्तिः । पदशब्दात् प्रथमासमर्थाद् दृश्यार्थोपाधिकाद् अस्मिन्निति सप्तम्यर्थे यत् प्रत्ययो भवति । पदं दृश्यम् अस्मिन् पद्यः कर्दमः । पद्याः पांसवः । शक्यार्थे कृत्यः । शक्यते यस्मिन् पदं मूल्याः, सुष्ठु द्रष्टुं प्रतिमुद्रोत्पादनेन स पद्यः कर्दमः । कर्दमस्य अवस्था+उच्यते नातिद्रवो नातिशुष्क इति ॥ मूलम् अस्य आवर्हि

nirdeśāt eva prathamā samarthavibhaktiḥ / padaśabdāt prathamāsamarthād dṛśyārthopādhikād asminniti saptamyarthe yat pratyayo bhavati / padaṃ dṛśyam asmin padyaḥ kardamaḥ / padyāḥ pāṃsavaḥ / śakyārthe kṛtyaḥ / śakyate yasmin padaṃ mūlyāḥ, suṣṭhu draṣṭuṃ pratimudrotpādanena sa padyaḥ kardamaḥ / kardamasya avasthā+ucyate nātidravo nātiśuṣka iti // mūlam asya āvarhi

Sanskrit only: no published translation is held for this verse.

सञ्ज्ञायां धेनुष्या

sañjñāyāṃ dhenuṣyā

Sanskrit only: no published translation is held for this verse.

धेनुष्या इति निपात्यते सञ्ज्ञायां विषये । सञ्ज्ञा-ग्रहणम् अभिधेयनियम-अर्थम् । धेनोः सुगागमो यश् च प्रत्ययः निपात्यते । अन्तोदात्तो ऽपि ह्य् अयम् इष्यते । या धेनुर् उत्तमर्णाय ऋणप्रदानाद् दोहनार्थं दीयते सा धेनुष्या । पीतदुग्धा इति यस्याः प्रसिद्धिः । धेनुस्यां भवति ददाअमि ॥ गृहपतिना संयुक्ते ञ्यः

dhenuṣyā iti nipātyate sañjñāyāṃ viṣaye / sañjñā-grahaṇam abhidheyaniyama-artham / dhenoḥ sugāgamo yaś ca pratyayaḥ nipātyate / antodātto 'pi hy ayam iṣyate / yā dhenur uttamarṇāya ṛṇapradānād dohanārthaṃ dīyate sā dhenuṣyā / pītadugdhā iti yasyāḥ prasiddhiḥ / dhenusyāṃ bhavati dadāami // gṛhapatinā saṃyukte ñyaḥ

Sanskrit only: no published translation is held for this verse.

निर्देशाद् एव तृतीया समर्थविभक्तिः । गृहपति-शब्दात् तृतीयासमर्थात् संयुक्ते इत्य् एतस्मिन्न् अर्थे ञ्यः प्रत्ययो भवति । गृहपतिना संयुक्तः गार्हपत्यो ऽग्निः । अन्यस्य अपि गृहपतिना संयोगो ऽस्ति, तत्र सञ्ज्ञाधिकाराद् अतिप्रसङ्ग-निवृत्तिः ॥ नौ-वयो-धर्म-विष-मूल-मूल-सीता-तुलाभ्यस् तार्य-तुल्य-प्राप्य-वध्य-आनाम्य-सम-समित-संमितेषु

nirdeśād eva tṛtīyā samarthavibhaktiḥ / gṛhapati-śabdāt tṛtīyāsamarthāt saṃyukte ity etasminn arthe ñyaḥ pratyayo bhavati / gṛhapatinā saṃyuktaḥ gārhapatyo 'gniḥ / anyasya api gṛhapatinā saṃyogo 'sti, tatra sañjñādhikārād atiprasaṅga-nivṛttiḥ // nau-vayo-dharma-viṣa-mūla-mūla-sītā-tulābhyas tārya-tulya-prāpya-vadhya-ānāmya-sama-samita-saṃmiteṣu

Sanskrit only: no published translation is held for this verse.

नावाधिभ्यो ऽष्टभ्यः शब्देभ्यो ऽष्टस्व् एव तार्यादिष्व् अर्थेषु यथासङ्ख्यं यत् प्रत्ययो भवति । प्रत्ययार्थद्वारेण तृतीया समर्थविभक्तिर् लभ्यते । नावा तार्यम् नव्यम् उदकम् । नव्या नदी । शक्यार्थे कृत्यः । वयसा तुल्यः वयस्यः सखा । सञ्ज्ञाधिकारो ऽभिधेयनियमार्थः । तेन वयसा तुल्ये शत्रौ न भवति । धर्मेण प्राप्यं धर्म्यम् । ननु च धर्मादनपेते इति वक्ष्यमाणेन+एव सिद्धम् ? न+एतद् अस्ति । धर्मं यद् अनुवर्तते तद् धर्माद् अनपेतम् इत्य् उच्यते । फलं तु धर्माद् अपेत्य् एव, कार्यविरोधित्वाद् धर्मस्य । विषेण वध्यः विष्यः । विषेण वधम् अर्हति इत्य् अर्थः । मूलेन आनाम्यम् मूल्यम् । आनाम्यम् अभिभवनीयम् । पटादीनाम् उत्पत्तिकारणं मूलं तेन तदभिभूयते शेषीक्रियते । मूलं हि सगुणं मुल्यं करोति । पोरदुपधात् (*३,१।९८) इति यति प्राप्ते आनाम्यम् इति निपातनात् ण्यत् । मूलेन समः मूल्यः पटः । उपदानेन समानफलः इत्य् अर्थः । सीतया समितं सीत्यम् क्षेत्रम् । समितं सङ्गतम् इत्य् अर्थः । रथसीताहलेभ्यो यद् विधौ इति तद् अन्तविधिर् अपि इष्यते । परमसीत्यम् । उत्तरसीत्यम् । द्विसीत्यम् । त्रिसीत्यम् । तुल्या संमितं तुल्यम् । संमितं समानं, सदृशम् इत्य् अर्थः । यथा तुला परिच्छिनत्ति परम् एवं तद् अपि इति ॥ धर्म-पथ्य्-अर्थ-न्यायाद् अनपेते

nāvādhibhyo 'ṣṭabhyaḥ śabdebhyo 'ṣṭasv eva tāryādiṣv artheṣu yathāsaṅkhyaṃ yat pratyayo bhavati / pratyayārthadvāreṇa tṛtīyā samarthavibhaktir labhyate / nāvā tāryam navyam udakam / navyā nadī / śakyārthe kṛtyaḥ / vayasā tulyaḥ vayasyaḥ sakhā / sañjñādhikāro 'bhidheyaniyamārthaḥ / tena vayasā tulye śatrau na bhavati / dharmeṇa prāpyaṃ dharmyam / nanu ca dharmādanapete iti vakṣyamāṇena+eva siddham ? na+etad asti / dharmaṃ yad anuvartate tad dharmād anapetam ity ucyate / phalaṃ tu dharmād apety eva, kāryavirodhitvād dharmasya / viṣeṇa vadhyaḥ viṣyaḥ / viṣeṇa vadham arhati ity arthaḥ / mūlena ānāmyam mūlyam / ānāmyam abhibhavanīyam / paṭādīnām utpattikāraṇaṃ mūlaṃ tena tadabhibhūyate śeṣīkriyate / mūlaṃ hi saguṇaṃ mulyaṃ karoti / poradupadhāt (*3,1.98) iti yati prāpte ānāmyam iti nipātanāt ṇyat / mūlena samaḥ mūlyaḥ paṭaḥ / upadānena samānaphalaḥ ity arthaḥ / sītayā samitaṃ sītyam kṣetram / samitaṃ saṅgatam ity arthaḥ / rathasītāhalebhyo yad vidhau iti tad antavidhir api iṣyate / paramasītyam / uttarasītyam / dvisītyam / trisītyam / tulyā saṃmitaṃ tulyam / saṃmitaṃ samānaṃ, sadṛśam ity arthaḥ / yathā tulā paricchinatti param evaṃ tad api iti // dharma-pathy-artha-nyāyād anapete

Sanskrit only: no published translation is held for this verse.

छन्दसो निर्मिते

chandaso nirmite

Sanskrit only: no published translation is held for this verse.

प्रत्ययार्थसामर्थ्यलभ्या समर्थ-विभक्तिः । छन्दः-शब्दात् तृतीयासमर्थान् निर्मिते इत्य् एतस्मिन्न् अर्थे यत् प्रत्ययो भवति । निर्मितः उत्पादितः । छन्दसा निर्मितः छन्दस्यः । छन्दसा इच्छया कृतः इत्य् अर्थः । इच्छा-पर्याय छन्दः-शब्दः इह गृह्यते ॥ उरसो ऽण् च

pratyayārthasāmarthyalabhyā samartha-vibhaktiḥ / chandaḥ-śabdāt tṛtīyāsamarthān nirmite ity etasminn arthe yat pratyayo bhavati / nirmitaḥ utpāditaḥ / chandasā nirmitaḥ chandasyaḥ / chandasā icchayā kṛtaḥ ity arthaḥ / icchā-paryāya chandaḥ-śabdaḥ iha gṛhyate // uraso 'ṇ ca

Sanskrit only: no published translation is held for this verse.

उरःशब्दात् तृतीयासमर्थान् निर्मिते इत्य् एतस्मिन्न् अर्थे ऽण् प्रत्ययो भवति, चकारात् यत् च । उरसा निर्मितः औरसः पुत्रः, उरस्यः पुत्रः । सञ्ज्ञाधिकाराद् अभिधेयनियमः ॥ हृदयस्य प्रियः

uraḥśabdāt tṛtīyāsamarthān nirmite ity etasminn arthe 'ṇ pratyayo bhavati, cakārāt yat ca / urasā nirmitaḥ aurasaḥ putraḥ, urasyaḥ putraḥ / sañjñādhikārād abhidheyaniyamaḥ // hṛdayasya priyaḥ

Sanskrit only: no published translation is held for this verse.

निर्देशाद् एव समर्थविभक्तिः । हृदय-शब्दात् षष्ठीसमर्थात् प्रियः इत्य् एतस्मिन्न् अर्थे यत् प्रत्ययो भवति । हृदयस्य प्रियः हृद्यः देशः । हृद्यं वनम् । सञ्ज्ञाधिकाराद् अभिधेयनियमः । इह न भवति, हृदयस्य प्रियः पुत्रः इति ॥ बन्धने चर्षौ

nirdeśād eva samarthavibhaktiḥ / hṛdaya-śabdāt ṣaṣṭhīsamarthāt priyaḥ ity etasminn arthe yat pratyayo bhavati / hṛdayasya priyaḥ hṛdyaḥ deśaḥ / hṛdyaṃ vanam / sañjñādhikārād abhidheyaniyamaḥ / iha na bhavati, hṛdayasya priyaḥ putraḥ iti // bandhane carṣau

Sanskrit only: no published translation is held for this verse.

हृदयस्य इत्य् एव । बन्धने इति प्रत्ययार्थः । तद्विशेषणम् ऋषिग्रहनम् । वध्यते येन तद् बन्धनम् । हृदय-शब्दात् षष्ठीसमर्थाद् बन्धने ऋषावभिधेये यत् प्रत्ययो भवति । ऋषिर् वेदो गृह्यते । हृदयस्य बन्धनम् ऋषिः हृद्यः । परहृदयं येन बध्यते वशीक्रियते स वशीकरणमन्त्रो हृद्यः इत्य् उच्यते ॥ मतजनहलात् करणजल्पकर्षेषु

hṛdayasya ity eva / bandhane iti pratyayārthaḥ / tadviśeṣaṇam ṛṣigrahanam / vadhyate yena tad bandhanam / hṛdaya-śabdāt ṣaṣṭhīsamarthād bandhane ṛṣāvabhidheye yat pratyayo bhavati / ṛṣir vedo gṛhyate / hṛdayasya bandhanam ṛṣiḥ hṛdyaḥ / parahṛdayaṃ yena badhyate vaśīkriyate sa vaśīkaraṇamantro hṛdyaḥ ity ucyate // matajanahalāt karaṇajalpakarṣeṣu

Sanskrit only: no published translation is held for this verse.

मतादिभ्यः त्रिभ्यः शब्देभ्यः त्रिष्व् एव करणादिष्व् अर्थेषु यथासङ्ख्यं यत् प्रत्ययो भवति । प्रत्ययार्थसामर्थ्याल् लब्धा षष्ठी समर्थविभक्तिः । मतं ज्ञानं तस्य करणं मत्यम् । भावसाधनं वा । जनस्य जल्पः जन्यः । हलस्यः कर्षः हल्यः । द्विहल्यः । त्रिहल्यः । कर्षणं कर्षः, भावसाधनं वा ॥ तत्र साधुः

matādibhyaḥ tribhyaḥ śabdebhyaḥ triṣv eva karaṇādiṣv artheṣu yathāsaṅkhyaṃ yat pratyayo bhavati / pratyayārthasāmarthyāl labdhā ṣaṣṭhī samarthavibhaktiḥ / mataṃ jñānaṃ tasya karaṇaṃ matyam / bhāvasādhanaṃ vā / janasya jalpaḥ janyaḥ / halasyaḥ karṣaḥ halyaḥ / dvihalyaḥ / trihalyaḥ / karṣaṇaṃ karṣaḥ, bhāvasādhanaṃ vā // tatra sādhuḥ

Sanskrit only: no published translation is held for this verse.

प्रतिजन-आदिभ्यः खञ्

pratijana-ādibhyaḥ khañ

Sanskrit only: no published translation is held for this verse.

प्रतिजनादिभ्यः शब्देभ्यः खञ् प्रत्ययो भवति तत्र साधुः इत्य् एतस्मिन्न् अर्थे । यतो ऽपवादः । प्रतिजने साधुः प्रातिजनीनः । जने जने साधुः इत्य् अर्थः । ऐदंहुगीनः । सांयुगीनः । प्रतिजन । इदंयुग । संयुग । समयुग । परयुग । परकुल । परस्यकुल । अमुष्यकुल । सर्वजन । विश्वजन । पञ्चजन । महाजन । प्रतिजनादिः । यत्र हितार्थ एव साध्वर्थस्तत्र वचनात् प्राक्क्रीतीया बाध्यन्ते ॥ भक्ताण् णः

pratijanādibhyaḥ śabdebhyaḥ khañ pratyayo bhavati tatra sādhuḥ ity etasminn arthe / yato 'pavādaḥ / pratijane sādhuḥ prātijanīnaḥ / jane jane sādhuḥ ity arthaḥ / aidaṃhugīnaḥ / sāṃyugīnaḥ / pratijana / idaṃyuga / saṃyuga / samayuga / parayuga / parakula / parasyakula / amuṣyakula / sarvajana / viśvajana / pañcajana / mahājana / pratijanādiḥ / yatra hitārtha eva sādhvarthastatra vacanāt prākkrītīyā bādhyante // bhaktāṇ ṇaḥ

Sanskrit only: no published translation is held for this verse.

भक्त-शब्दात् णः प्रत्ययो भवति तत्र साधुः इत्य् एतस्मिन् विषये । यतो ऽपवादः । भक्ते साधुः भक्तः शालिः । भाक्ताः तण्डुलाः ॥ परिषदो ण्यः

bhakta-śabdāt ṇaḥ pratyayo bhavati tatra sādhuḥ ity etasmin viṣaye / yato 'pavādaḥ / bhakte sādhuḥ bhaktaḥ śāliḥ / bhāktāḥ taṇḍulāḥ // pariṣado ṇyaḥ

Sanskrit only: no published translation is held for this verse.

परिषच्-छब्दाद् ण्यः प्रत्ययो भवति तत्र साधुः इत्य् एतस्मिन् विषये । यतो ऽपवादः । परिषदि साधुः पारिषद्यः । ण-प्रत्ययो ऽप्य् अत्र+इष्यते । तदर्थं योगविभागः क्रियते । परिषदः णो भवति, परिषदि साधुः पारिषदः । ततः ण्यः । परिषदः इत्य् एव ॥ कथादिभ्यष् ठक्

pariṣac-chabdād ṇyaḥ pratyayo bhavati tatra sādhuḥ ity etasmin viṣaye / yato 'pavādaḥ / pariṣadi sādhuḥ pāriṣadyaḥ / ṇa-pratyayo 'py atra+iṣyate / tadarthaṃ yogavibhāgaḥ kriyate / pariṣadaḥ ṇo bhavati, pariṣadi sādhuḥ pāriṣadaḥ / tataḥ ṇyaḥ / pariṣadaḥ ity eva // kathādibhyaṣ ṭhak

Sanskrit only: no published translation is held for this verse.

कथादिभ्यः शब्देभ्यः ठक् प्रत्ययो भवति तत्र साधुः इत्य् एतस्मिन् विषये । यतो ऽपवादः । कथायां साधुः काथिकः । वैकथिकः । कथा । विकथा । वितण्डा । कुष्टचित् । जनवाद । जनेवाद । वृत्ति । सद्गृह । गुण । गण । आयुर्वेद । कथादिः ॥ गुड-आदिभ्यष् ठञ्

kathādibhyaḥ śabdebhyaḥ ṭhak pratyayo bhavati tatra sādhuḥ ity etasmin viṣaye / yato 'pavādaḥ / kathāyāṃ sādhuḥ kāthikaḥ / vaikathikaḥ / kathā / vikathā / vitaṇḍā / kuṣṭacit / janavāda / janevāda / vṛtti / sadgṛha / guṇa / gaṇa / āyurveda / kathādiḥ // guḍa-ādibhyaṣ ṭhañ

Sanskrit only: no published translation is held for this verse.

गुड-आदिभ्यः शब्देभ्यः ठञ् प्रत्ययो भवति तत्र साधुः इत्य् एतस्मिन् विषये । यतो ऽपवादः । गुडे साधुः गौदिकः इक्षुः । कौल्माषिको मुद्गः । साक्तुको यवः । गुड । कुल्माष । सक्तु । अपूप । मांसौदन । इअक्षु । वेणु सङ्ग्राम । सङ्घात । प्रवास । निवास । उपवास । गुडादिः ॥ पथ्य्-अतिथि-वसति-स्वपतेर् ढञ्

guḍa-ādibhyaḥ śabdebhyaḥ ṭhañ pratyayo bhavati tatra sādhuḥ ity etasmin viṣaye / yato 'pavādaḥ / guḍe sādhuḥ gaudikaḥ ikṣuḥ / kaulmāṣiko mudgaḥ / sāktuko yavaḥ / guḍa / kulmāṣa / saktu / apūpa / māṃsaudana / iakṣu / veṇu saṅgrāma / saṅghāta / pravāsa / nivāsa / upavāsa / guḍādiḥ // pathy-atithi-vasati-svapater ḍhañ

Sanskrit only: no published translation is held for this verse.

सभायाः यः

sabhāyāḥ yaḥ

Sanskrit only: no published translation is held for this verse.

सभा-शब्दाद् यः प्रत्ययो भवति तत्र साधुः इत्य् एतस्मिन् विषये । यतो ऽपवादः । स्वरे विशेषः । सभायां साधुः सभ्यः ॥ ढश् छन्दसि

sabhā-śabdād yaḥ pratyayo bhavati tatra sādhuḥ ity etasmin viṣaye / yato 'pavādaḥ / svare viśeṣaḥ / sabhāyāṃ sādhuḥ sabhyaḥ // ḍhaś chandasi

Sanskrit only: no published translation is held for this verse.

सभा-शब्दाड् ढः प्रत्ययो भवति तत्र साधुः इत्य् एतस्मिन् विषये छन्दसि । यस्य अपवादः । सभेयो युवा ऽस्य यजमानस्य वीरो जायताम् ॥ समानातीर्थे वासी

sabhā-śabdāḍ ḍhaḥ pratyayo bhavati tatra sādhuḥ ity etasmin viṣaye chandasi / yasya apavādaḥ / sabheyo yuvā 'sya yajamānasya vīro jāyatām // samānātīrthe vāsī

Sanskrit only: no published translation is held for this verse.

साधुः इति निवृत्तम् । वासी इति प्रत्ययार्थः । समाअनतीर्थ-शब्दात् तत्र इति सप्तमीसमर्थाद् वासि इत्य् एतस्मिन्न् अर्थे यत् प्रत्ययो भवति । समानतीर्थे वासी इति सतीर्थ्यः । समनोपध्यायः इत्य् अर्थः । तीर्थश्-अब्देन+इह गुरुर् उच्यते ॥ समान-उदरे शयित ओ चोदात्तः

sādhuḥ iti nivṛttam / vāsī iti pratyayārthaḥ / samāanatīrtha-śabdāt tatra iti saptamīsamarthād vāsi ity etasminn arthe yat pratyayo bhavati / samānatīrthe vāsī iti satīrthyaḥ / samanopadhyāyaḥ ity arthaḥ / tīrthaś-abdena+iha gurur ucyate // samāna-udare śayita o codāttaḥ

Sanskrit only: no published translation is held for this verse.

समानोदर-शब्दात् सप्तमीसमर्थात् शयितः इत्य् एतस्मिन्न् अर्थे यत् प्रत्ययो भवति, ओकारश् च+उदात्तः । शयितः स्थितः इत्य् अर्थः । समानोदरे शयितः समानोदर्यः भ्राता ॥ सोदराद् यः

samānodara-śabdāt saptamīsamarthāt śayitaḥ ity etasminn arthe yat pratyayo bhavati, okāraś ca+udāttaḥ / śayitaḥ sthitaḥ ity arthaḥ / samānodare śayitaḥ samānodaryaḥ bhrātā // sodarād yaḥ

Sanskrit only: no published translation is held for this verse.

सोदर-शब्दात् सप्तमीसमर्थात् शयितः इत्य् एत्स्मिन्न् अर्थे यः प्रत्ययो भवति । विभाषोदरे (*६,३।८८) । इति सूत्रेण यकारादौ प्रत्यये विवक्षिते प्राग् एव समानस्य सभावः । समानोदरे शयितः सोदर्यः भ्राता । ओ च+उदात्तः इति न अनुवर्तते । यकारे स्वरः ॥ भवे छन्दसि

sodara-śabdāt saptamīsamarthāt śayitaḥ ity etsminn arthe yaḥ pratyayo bhavati / vibhāṣodare (*6,3.88) / iti sūtreṇa yakārādau pratyaye vivakṣite prāg eva samānasya sabhāvaḥ / samānodare śayitaḥ sodaryaḥ bhrātā / o ca+udāttaḥ iti na anuvartate / yakāre svaraḥ // bhave chandasi

Sanskrit only: no published translation is held for this verse.

पाथो-नदीभ्यां ड्यण्

pātho-nadībhyāṃ ḍyaṇ

Sanskrit only: no published translation is held for this verse.

पाथः-शब्दान् नदी-शब्दाच् च ड्यण् प्रत्ययो भवति तत्र भवः इत्य् एतस्मिन्न् अर्थे । यतो ऽपवादः । पाथसि भवः पाथ्यो वृषा । च नो दधीत नाद्यो गिरो मे । पाथः अन्तरिक्षम् ॥ वेशन्त-हिमवद्भ्याम् अण्

pāthaḥ-śabdān nadī-śabdāc ca ḍyaṇ pratyayo bhavati tatra bhavaḥ ity etasminn arthe / yato 'pavādaḥ / pāthasi bhavaḥ pāthyo vṛṣā / ca no dadhīta nādyo giro me / pāthaḥ antarikṣam // veśanta-himavadbhyām aṇ

Sanskrit only: no published translation is held for this verse.

वेशन्त-शब्दाद् धिमवच्छ-शब्दाच् च अण् प्रत्ययो भवति तत्र भवः इत्य् एतस्मिन् विषये । यतो ऽपवादः वैशन्तीभ्यः स्वाहा । हैमवतीभ्यः स्वाहा ॥ स्रोतसो विभाषा ड्यड्-ड्यौ

veśanta-śabdād dhimavaccha-śabdāc ca aṇ pratyayo bhavati tatra bhavaḥ ity etasmin viṣaye / yato 'pavādaḥ vaiśantībhyaḥ svāhā / haimavatībhyaḥ svāhā // srotaso vibhāṣā ḍyaḍ-ḍyau

Sanskrit only: no published translation is held for this verse.

स्रोतः-शब्दाद् विभाषा ड्यत् द्य इत्य् एतौ प्रत्ययौ भवतः तत्र भवः इत्य् एतस्मिन् विषये । यतो ऽपवादः । पक्षे सो ऽपि भवति । स्रोतसि भवः स्रोत्यः । स्रोतस्यः । ड्यड्-ड्ययोः स्वरे विशेषः ॥ सगर्भ-सयूथ-सनुताद् यन्

srotaḥ-śabdād vibhāṣā ḍyat dya ity etau pratyayau bhavataḥ tatra bhavaḥ ity etasmin viṣaye / yato 'pavādaḥ / pakṣe so 'pi bhavati / srotasi bhavaḥ srotyaḥ / srotasyaḥ / ḍyaḍ-ḍyayoḥ svare viśeṣaḥ // sagarbha-sayūtha-sanutād yan

Sanskrit only: no published translation is held for this verse.

सगर्भ-सयूथ-सनुत-शब्देभ्यो यन् प्रत्ययो भवति तत्र भवः इत्य् एतस्मिन् विषये । यतो ऽपवादः । स्वरे विशेषः । अनु भ्राता सगर्भ्यः । अनु सहा सयूथ्यः । यो नः सनुत्यः । सर्वत्र समानस्य छन्दसि इति सभावः ॥ तुग्राद् घन्

sagarbha-sayūtha-sanuta-śabdebhyo yan pratyayo bhavati tatra bhavaḥ ity etasmin viṣaye / yato 'pavādaḥ / svare viśeṣaḥ / anu bhrātā sagarbhyaḥ / anu sahā sayūthyaḥ / yo naḥ sanutyaḥ / sarvatra samānasya chandasi iti sabhāvaḥ // tugrād ghan

Sanskrit only: no published translation is held for this verse.

तुग्र-शब्दाद् घन् प्रत्ययो भवति तत्र भवः इत्य् एतस्मिन् विषये । यतो ऽपवादः । त्वमग्ने वृषभस्तुग्रियाणाम् । अन्नाकाशयज्ञविरिष्ठेषु तुग्रशब्दः ॥ अग्राद् यत्

tugra-śabdād ghan pratyayo bhavati tatra bhavaḥ ity etasmin viṣaye / yato 'pavādaḥ / tvamagne vṛṣabhastugriyāṇām / annākāśayajñaviriṣṭheṣu tugraśabdaḥ // agrād yat

Sanskrit only: no published translation is held for this verse.

अग्र-शब्दात् यत् प्रत्ययो भवति तत्र भवः इत्य् एतस्मिन् विषये । अग्रे भवम् अग्र्यम् । किम् अर्थम् इदं यावता सामान्येन यद् विहित एव ? घच्छौ च (*४,४।११७) इति वक्ष्यति ताभ्यां बाधा मा भूत् इति पुनर् विधीयते ॥ घ-च्छौ च

agra-śabdāt yat pratyayo bhavati tatra bhavaḥ ity etasmin viṣaye / agre bhavam agryam / kim artham idaṃ yāvatā sāmānyena yad vihita eva ? ghacchau ca (*4,4.117) iti vakṣyati tābhyāṃ bādhā mā bhūt iti punar vidhīyate // gha-cchau ca

Sanskrit only: no published translation is held for this verse.

समुद्र-अभ्राद् घः

samudra-abhrād ghaḥ

Sanskrit only: no published translation is held for this verse.

समुद्र-शब्दात् अभ्र-शब्दाच् च घः प्रत्ययो भवति तत्र भवः इत्य् एतस्मिन्न् अर्थे । यतो ऽपवादः । समुद्रिया नदीनाम् । अभ्रियस्येव घोषाः । अभ्र । शब्दस्य अपूर्वनिपातः, तस्य लक्षणस्य व्यभिचारित्वात् ॥ बर्हिषि दत्तम्

samudra-śabdāt abhra-śabdāc ca ghaḥ pratyayo bhavati tatra bhavaḥ ity etasminn arthe / yato 'pavādaḥ / samudriyā nadīnām / abhriyasyeva ghoṣāḥ / abhra / śabdasya apūrvanipātaḥ, tasya lakṣaṇasya vyabhicāritvāt // barhiṣi dattam

Sanskrit only: no published translation is held for this verse.

भवः इति निवृत्तम् । बर्हिः-शब्दात् सप्तमीसमर्थात् दत्तम् इत्य् एतस्मिन् अर्थे यत् प्रत्ययो भवति । बर्हिष्येषु निधिसु प्रियेषु ॥ दुतस्य भाग-कर्मणी

bhavaḥ iti nivṛttam / barhiḥ-śabdāt saptamīsamarthāt dattam ity etasmin arthe yat pratyayo bhavati / barhiṣyeṣu nidhisu priyeṣu // dutasya bhāga-karmaṇī

Sanskrit only: no published translation is held for this verse.