तद् अस्य परिमाणम् इत्य् एव । वर्गे इति निवृत्तम् । त्रिंशच्-चत्वरिंशच्-छब्दाभ्यां सञ्ज्ञायां विषये डण् प्रत्ययो भवति तद् अस्य परिमाणम् इत्य् एतस्मिन् विषये ब्राह्मणे ऽभिधेये । अभिधेयसप्तमी एषा, न विषयसप्तमी । तेन मन्त्रभाषयोर् अपि भवति । त्रिंशद्-अध्यायाः परिमाणम् एषां ब्राहमणानां त्रैशानि ब्राह्मणानि । चात्वारिंशानि ब्राह्मणानि । कानिचिद् एव ब्राह्मणान्य् उच्यन्ते ॥ तद् अर्हति
tad asya parimāṇam ity eva / varge iti nivṛttam / triṃśac-catvariṃśac-chabdābhyāṃ sañjñāyāṃ viṣaye ḍaṇ pratyayo bhavati tad asya parimāṇam ity etasmin viṣaye brāhmaṇe 'bhidheye / abhidheyasaptamī eṣā, na viṣayasaptamī / tena mantrabhāṣayor api bhavati / triṃśad-adhyāyāḥ parimāṇam eṣāṃ brāhamaṇānāṃ traiśāni brāhmaṇāni / cātvāriṃśāni brāhmaṇāni / kānicid eva brāhmaṇāny ucyante // tad arhati
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.