पञ्चमो ऽध्यायः प्रथमः पादः । प्राक्-क्रीताच् छः
pañcamo 'dhyāyaḥ prathamaḥ pādaḥ / prāk-krītāc chaḥ
Sanskrit only: no published translation is held for this verse.
Library·Jayaditya & Vamana: Kasikavrtti·5·5.1
पञ्चमो ऽध्यायः प्रथमः पादः । प्राक्-क्रीताच् छः
pañcamo 'dhyāyaḥ prathamaḥ pādaḥ / prāk-krītāc chaḥ
Sanskrit only: no published translation is held for this verse.
तेन क्रीतम् (*५,१।३७) इति वक्ष्यति । प्राग् एतस्मात् क्रीत-संशब्दनाद् यान् इत ऊर्ध्वम् अनुक्रमिष्यामः छ-प्रत्ययस्तेष्व् अधिकृतो वेदितव्यः । वक्ष्यति तस्मै हितम् (*५,१।५) इति । वत्सेभ्यो हितः वत्सीयो गोधुक् । करभीयः उष्ट्रः । अकरभीयः । अवत्सीयः । अर्थो ऽवधित्वेन गृहीतः, न प्रत्ययः । तेन प्राक् ठञः छन्ः इति नोक्तम् ॥ उ-गवादिभ्यो यत्
tena krītam (*5,1.37) iti vakṣyati / prāg etasmāt krīta-saṃśabdanād yān ita ūrdhvam anukramiṣyāmaḥ cha-pratyayasteṣv adhikṛto veditavyaḥ / vakṣyati tasmai hitam (*5,1.5) iti / vatsebhyo hitaḥ vatsīyo godhuk / karabhīyaḥ uṣṭraḥ / akarabhīyaḥ / avatsīyaḥ / artho 'vadhitvena gṛhītaḥ, na pratyayaḥ / tena prāk ṭhañaḥ chanḥ iti noktam // u-gavādibhyo yat
Sanskrit only: no published translation is held for this verse.
कंवलाच् च सञ्ज्ञायाम्
kaṃvalāc ca sañjñāyām
Sanskrit only: no published translation is held for this verse.
कम्बलात् प्राक्क्रीतीयेष्व् अर्थेषु यत् प्रत्ययो भवति सञ्ज्ञायां विषये । छस्य अपवादः । कम्बल्यम् ऊर्णापलशतम् । सञ्ज्ञायाम् इति किम् ? कम्बलीया ऊर्णा ॥ विभाषा हविर्-अपूप-आदिभ्यः
kambalāt prākkrītīyeṣv artheṣu yat pratyayo bhavati sañjñāyāṃ viṣaye / chasya apavādaḥ / kambalyam ūrṇāpalaśatam / sañjñāyām iti kim ? kambalīyā ūrṇā // vibhāṣā havir-apūpa-ādibhyaḥ
Sanskrit only: no published translation is held for this verse.
हविर्-विशेष-वाचिभ्यो ऽपूप-आदिभ्यश् च प्रातिपदिकेभ्यः प्रक्क्रीतीयेष्व् अर्थेषु विभाषा यत् प्रत्ययो भवति । आमिक्ष्यं दधि, आमिक्षीयं दधि । पुरोडाश्यास्तण्डुलाः, पूरोडाशीयाः । हविश्शब्दात् तु गवादिषु पठान् नित्यम् एव भवति । अपूपादिभ्यः - अपूप्यम्, अपूपीयम् । तण्डुल्यम्, तण्डुलीयम् । अपूप । तण्डुल । अभ्यूष । अभ्योष । पृथुक । अभ्येष । अर्गल । मुसल । सूप । कटक । कर्णवेष्टक । किण्व । अन्नविकारेभ्यः । पूप । स्थूणा । पीप । अश्व । पत्र । अपूपादिः ॥ तस्मै हितम्
havir-viśeṣa-vācibhyo 'pūpa-ādibhyaś ca prātipadikebhyaḥ prakkrītīyeṣv artheṣu vibhāṣā yat pratyayo bhavati / āmikṣyaṃ dadhi, āmikṣīyaṃ dadhi / puroḍāśyāstaṇḍulāḥ, pūroḍāśīyāḥ / haviśśabdāt tu gavādiṣu paṭhān nityam eva bhavati / apūpādibhyaḥ - apūpyam, apūpīyam / taṇḍulyam, taṇḍulīyam / apūpa / taṇḍula / abhyūṣa / abhyoṣa / pṛthuka / abhyeṣa / argala / musala / sūpa / kaṭaka / karṇaveṣṭaka / kiṇva / annavikārebhyaḥ / pūpa / sthūṇā / pīpa / aśva / patra / apūpādiḥ // tasmai hitam
Sanskrit only: no published translation is held for this verse.
तस्मै इति चतुर्थी-समर्थाद् ह्तम् इत्य् एतस्मिन्न् अर्थे यथाविहितं प्रत्ययो भवति । वत्सेभ्यो हितो गोधुक् वत्सीयः । अवत्सीयः । पटव्यम् । गव्यम् । हविष्यम् । अपूप्यम् । अपूपीयम् ॥ शरीर-अवयवाद् यत्
tasmai iti caturthī-samarthād htam ity etasminn arthe yathāvihitaṃ pratyayo bhavati / vatsebhyo hito godhuk vatsīyaḥ / avatsīyaḥ / paṭavyam / gavyam / haviṣyam / apūpyam / apūpīyam // śarīra-avayavād yat
Sanskrit only: no published translation is held for this verse.
शरीर प्राणिकायः । शरीर-अवयव-वाचिनः प्रातिपदिकात् यत् प्रत्ययो भवति तस्मै हितम् इत्य् एतस्मिन् विषये । छस्य अपवादः । दन्त्यम् । कण्ठ्यम् । ओष्ठ्यम् । नाभ्यम् । नस्यम् ॥ खल-यव-माष-तिल-वृष-ब्रह्मणश् च
śarīra prāṇikāyaḥ / śarīra-avayava-vācinaḥ prātipadikāt yat pratyayo bhavati tasmai hitam ity etasmin viṣaye / chasya apavādaḥ / dantyam / kaṇṭhyam / oṣṭhyam / nābhyam / nasyam // khala-yava-māṣa-tila-vṛṣa-brahmaṇaś ca
Sanskrit only: no published translation is held for this verse.
अजाविभ्यां थ्यन्
ajāvibhyāṃ thyan
Sanskrit only: no published translation is held for this verse.
आत्मन्-विश्वजन-भोग-उत्तरपदात् खः
ātman-viśvajana-bhoga-uttarapadāt khaḥ
Sanskrit only: no published translation is held for this verse.
सर्व-पुरुषाभ्यां ण-ढञौ
sarva-puruṣābhyāṃ ṇa-ḍhañau
Sanskrit only: no published translation is held for this verse.
सर्व-पुरुषाभ्यां यथासङ्ख्यं णडञौ प्रत्ययौ भवतः तस्मै हितम् इत्य् एतस्मिन् विषये । छस्य अपवादः । सर्वस्मै हितम् सार्वम् । पौरुषेयम् । सर्वाण्णस्य वा वचनम् । सार्वम्, सर्वीयम् । पुरुषाद्वधविकारसमूहतेन कृतेष्व् इति वक्तव्यम् । पौरुषेयो वधः, पौरुषेयो विकारः, पौरुषेयः समूहो वा । तेन कृते पौरुषेयो ग्रन्थः ॥ माणव-चरकाभ्यां खञ्
sarva-puruṣābhyāṃ yathāsaṅkhyaṃ ṇaḍañau pratyayau bhavataḥ tasmai hitam ity etasmin viṣaye / chasya apavādaḥ / sarvasmai hitam sārvam / pauruṣeyam / sarvāṇṇasya vā vacanam / sārvam, sarvīyam / puruṣādvadhavikārasamūhatena kṛteṣv iti vaktavyam / pauruṣeyo vadhaḥ, pauruṣeyo vikāraḥ, pauruṣeyaḥ samūho vā / tena kṛte pauruṣeyo granthaḥ // māṇava-carakābhyāṃ khañ
Sanskrit only: no published translation is held for this verse.
माणवचरक-शब्दाभ्यां खञ् प्रत्ययो भवति तस्मै हितम् इत्य् एतस्मिन् विषये । छस्य अपवादः । माणवाय हितम् माणवीनम् । चारकीणम् ॥ तद्-अर्थं विकृतेः प्रकृतौ
māṇavacaraka-śabdābhyāṃ khañ pratyayo bhavati tasmai hitam ity etasmin viṣaye / chasya apavādaḥ / māṇavāya hitam māṇavīnam / cārakīṇam // tad-arthaṃ vikṛteḥ prakṛtau
Sanskrit only: no published translation is held for this verse.
छदिर्-उपधि-बलेर् ढञ्
chadir-upadhi-baler ḍhañ
Sanskrit only: no published translation is held for this verse.
छदिर्-आदिभ्यः शब्देभ्यः ढञ् प्रत्ययो भवति तदर्थं विकृतेः प्रकृतौ (*५,१।१२) इत्य् एतस्मिन् विषये । छस्य अपवादः । छादिषेयाणि तृणानि । औपधेयं दारु । बालेयास्तण्डुलाः । उपधि-शब्दात् स्वार्थे प्रत्ययः । उपधीयते इति उपधिः रथाङ्गं औपधेयम् अपि तद् एव दारु ॥ ऋषभ-उपानहोर् ञ्यः
chadir-ādibhyaḥ śabdebhyaḥ ḍhañ pratyayo bhavati tadarthaṃ vikṛteḥ prakṛtau (*5,1.12) ity etasmin viṣaye / chasya apavādaḥ / chādiṣeyāṇi tṛṇāni / aupadheyaṃ dāru / bāleyāstaṇḍulāḥ / upadhi-śabdāt svārthe pratyayaḥ / upadhīyate iti upadhiḥ rathāṅgaṃ aupadheyam api tad eva dāru // ṛṣabha-upānahor ñyaḥ
Sanskrit only: no published translation is held for this verse.
ऋषभ उपानः इत्य् रथाङ्गं औपधेयम् अपि एताभ्यां ञ्यः प्रत्ययो भवति तदर्थं विकृटेः प्रकृतौ (*५,१।१२) इत्य् एतस्मिन् विषये । छस्य अपवादः । आर्षभ्यो वत्सः । औपानह्यो मुञ्जः । चर्मण्य् अपि प्रकृतित्वेन विवक्षिते पूर्वविप्रतिषेधाद् अयम् एव+इष्यते । औपानह्यं चर्म ॥ चर्मणो ऽञ्
ṛṣabha upānaḥ ity rathāṅgaṃ aupadheyam api etābhyāṃ ñyaḥ pratyayo bhavati tadarthaṃ vikṛṭeḥ prakṛtau (*5,1.12) ity etasmin viṣaye / chasya apavādaḥ / ārṣabhyo vatsaḥ / aupānahyo muñjaḥ / carmaṇy api prakṛtitvena vivakṣite pūrvavipratiṣedhād ayam eva+iṣyate / aupānahyaṃ carma // carmaṇo 'ñ
Sanskrit only: no published translation is held for this verse.
चर्मणः इति षष्ठी । चर्मणो या विकृतिः तद्वाचिनः प्रातिपदिकात् अञ् प्रत्ययो भवति तदर्थं विकृतेः प्रकृतौ (*५,१।१२) इत्य् एतस्मिन् विषये । छस्य अपवादः । वार्ध्रं चर्म । वारत्रं चर्म ॥ तद् अस्य तद् अस्मिन् स्याद् इति
carmaṇaḥ iti ṣaṣṭhī / carmaṇo yā vikṛtiḥ tadvācinaḥ prātipadikāt añ pratyayo bhavati tadarthaṃ vikṛteḥ prakṛtau (*5,1.12) ity etasmin viṣaye / chasya apavādaḥ / vārdhraṃ carma / vāratraṃ carma // tad asya tad asmin syād iti
Sanskrit only: no published translation is held for this verse.
परिखाया ठञ्
parikhāyā ṭhañ
Sanskrit only: no published translation is held for this verse.
परिखाश्-अब्दात् ढञ् प्रत्ययो भवति तद् अस्य तद् अस्मिन् स्यात् (*५,१।१६) इत्य् एतस्मिन्न् अर्थे । छस्य अपवादः । पारिखेयी भूमिः । छयतोः पूर्णो ऽवधिः । इतः परमन्यः प्रत्ययो विधीयते ॥ प्राग्-वतेष् ठञ्
parikhāś-abdāt ḍhañ pratyayo bhavati tad asya tad asmin syāt (*5,1.16) ity etasminn arthe / chasya apavādaḥ / pārikheyī bhūmiḥ / chayatoḥ pūrṇo 'vadhiḥ / itaḥ paramanyaḥ pratyayo vidhīyate // prāg-vateṣ ṭhañ
Sanskrit only: no published translation is held for this verse.
तेन तुल्यं क्रिया चेद् वतिः (*५,१।११५) इति वक्ष्यति । प्राग् एतस्माद् वतिसं-शब्दनाद् यानित ऊर्ध्वम् अनुक्रमिष्यामः ठञ् प्रत्ययस् तेष्व् अधिकृतो विदितव्यः । वक्ष्यति - पारायणतुरायणचान्द्रायणं वर्तयति । पारायणिकः । तौरायणिकः । चान्द्रायणिकः ॥ आ-अर्हाद् अ-गोपुच्छ-सङ्ख्या-परिमाणाट् ठक्
tena tulyaṃ kriyā ced vatiḥ (*5,1.115) iti vakṣyati / prāg etasmād vatisaṃ-śabdanād yānita ūrdhvam anukramiṣyāmaḥ ṭhañ pratyayas teṣv adhikṛto viditavyaḥ / vakṣyati - pārāyaṇaturāyaṇacāndrāyaṇaṃ vartayati / pārāyaṇikaḥ / taurāyaṇikaḥ / cāndrāyaṇikaḥ // ā-arhād a-gopuccha-saṅkhyā-parimāṇāṭ ṭhak
Sanskrit only: no published translation is held for this verse.
तद् अर्हति (*५,१।६३) इति वक्ष्यति । आ एतस्माद् अर्हसंशब्दनाद् यान् इत ऊर्ध्वम् अनुक्रमिष्यामः ठक् प्रत्ययस् तेष्व् अधिकृतो वेदितव्यः, गोपुच्छादीन् वर्जयित्वा । अभिविधाव् अयम् आकारः, तेन अर्हत्य् अर्थो ऽपि ठक् भवत्येव । ठञ्-अधिकारम् अध्ये तदपवादः ठग्विधीयते । वक्ष्यति - तेन क्रीतम् (*५,१।३७) । नैष्किकम् । पाणिकम् । अगोपुच्छसङ्ख्यापरिमाणात् इति किम् ? गोपुच्छेन क्रीतं गौपुच्छिकम् । सङ्ख्या - षाष्टिकम् । परिमाण - प्रास्थिकम् । कौडविकम् । ठञ् प्रत्युदाह्रियते । सङ्ख्यापरिमाणयोः को विशेषः ? भेदगणनं सङ्ख्या एकत्वादिः । गुरुत्वमानम् उन्मानं पलादि । आयाममानं प्रमाणं वितस्त्यादि । आरोहपरिणाहमानं परिमाणं प्रस्थादि । ऊर्ध्वमानं किलोन्मानं परिमाणं तु सर्वतः आयामस्तु प्रमाणं स्यात् सङ्ख्या बाह्या तु सर्वतः ॥ असमासे निष्क-आदिभ्यः
tad arhati (*5,1.63) iti vakṣyati / ā etasmād arhasaṃśabdanād yān ita ūrdhvam anukramiṣyāmaḥ ṭhak pratyayas teṣv adhikṛto veditavyaḥ, gopucchādīn varjayitvā / abhividhāv ayam ākāraḥ, tena arhaty artho 'pi ṭhak bhavatyeva / ṭhañ-adhikāram adhye tadapavādaḥ ṭhagvidhīyate / vakṣyati - tena krītam (*5,1.37) / naiṣkikam / pāṇikam / agopucchasaṅkhyāparimāṇāt iti kim ? gopucchena krītaṃ gaupucchikam / saṅkhyā - ṣāṣṭikam / parimāṇa - prāsthikam / kauḍavikam / ṭhañ pratyudāhriyate / saṅkhyāparimāṇayoḥ ko viśeṣaḥ ? bhedagaṇanaṃ saṅkhyā ekatvādiḥ / gurutvamānam unmānaṃ palādi / āyāmamānaṃ pramāṇaṃ vitastyādi / ārohapariṇāhamānaṃ parimāṇaṃ prasthādi / ūrdhvamānaṃ kilonmānaṃ parimāṇaṃ tu sarvataḥ āyāmastu pramāṇaṃ syāt saṅkhyā bāhyā tu sarvataḥ // asamāse niṣka-ādibhyaḥ
Sanskrit only: no published translation is held for this verse.
शरीर-अवयवाद् यत् (*५,२।६) - दन्त्यम्, राजदन्त्यम् इत्य् एवमादि सिध्दं भवति । इत उत्तरं च सङ्ख्यापूर्वपदानां तदन्तविधिर् इष्यते । पारायण-तुरायण-चान्द्रायणं वर्तयति (*५,१।७२) - द्वैपारायणिकः, त्रैपारायणिकः । लुगन्तायाः तु प्रकृतेर् न+इष्यते । द्वाभ्यां शूर्पाभ्यां क्रीतम् द्विशूर्पम् । त्रिशूर्पम् । द्विशूर्पेण क्रीतम् इति तदन्तविधि-प्रतिषेधात् शूर्पाद् अञ् अन्यत्रस्याम् (*५,१।२६) इति अञ् न भवति । सामान्यविहितष् ठञ् एव भवति । द्विशौर्पिकम् । ठञो द्विगुं प्रत्यनिमित्ताल् लुगभावः । तथा च+उक्तम्, प्राग्वतेः सङ्ख्यापूर्वपदानां तदन्त्-अग्रहणम् अलुकि इति । निष्क । पण । पाद । माष । वाह । द्रोण । षष्ति । निष्कादिः ॥ शताच् च ठन्यताव् अशते
śarīra-avayavād yat (*5,2.6) - dantyam, rājadantyam ity evamādi sidhdaṃ bhavati / ita uttaraṃ ca saṅkhyāpūrvapadānāṃ tadantavidhir iṣyate / pārāyaṇa-turāyaṇa-cāndrāyaṇaṃ vartayati (*5,1.72) - dvaipārāyaṇikaḥ, traipārāyaṇikaḥ / lugantāyāḥ tu prakṛter na+iṣyate / dvābhyāṃ śūrpābhyāṃ krītam dviśūrpam / triśūrpam / dviśūrpeṇa krītam iti tadantavidhi-pratiṣedhāt śūrpād añ anyatrasyām (*5,1.26) iti añ na bhavati / sāmānyavihitaṣ ṭhañ eva bhavati / dviśaurpikam / ṭhaño dviguṃ pratyanimittāl lugabhāvaḥ / tathā ca+uktam, prāgvateḥ saṅkhyāpūrvapadānāṃ tadant-agrahaṇam aluki iti / niṣka / paṇa / pāda / māṣa / vāha / droṇa / ṣaṣti / niṣkādiḥ // śatāc ca ṭhanyatāv aśate
Sanskrit only: no published translation is held for this verse.
आर्हात् इत्य् एव । शत-शब्दात् ठन्यतौ प्रत्ययौ भवतः अशते ऽधिधेये आर्हीयेष्व् अर्थेषु । कनो ऽपवादः । शतेन क्रीतं शतिकम्, शत्यम् । अशते इति किम् ? शतं परिमाणम् अस्य शतकं निदानम् । प्रत्ययार्थो ऽत्र सङ्घः । शतम् एव वस्तुतः प्रकृत्यर्थान् न भिद्यते । इह तु न भवति, शतेन क्रीतं शत्यं शाटकशतम्, शतिकं शाटकशतम् इति । वाक्येन ह्य् अत्र प्रत्यय-अर्थस्य तत्त्वं गम्यते, न श्रुत्या । तथा च+उक्तम्, शतप्रतिशेधे ऽन्यशतत्वे ऽप्रतिषेधः इति । चकारो ऽसमास इत्य् अनुकर्षण-अर्थः । द्वौ च शतं च द्विशतं, द्विशतेन क्रीतं द्विशतकम् । त्रिशतकम् । प्राग्वतेः सङ्ख्या-पूर्वपदानां तदन्तग्रहणम् अलुकि इत्य् अनया इष्ट्या समासाद् अपि प्राप्नोति ॥ सङ्ख्याया अति-शद्-अन्तायाः कन्
ārhāt ity eva / śata-śabdāt ṭhanyatau pratyayau bhavataḥ aśate 'dhidheye ārhīyeṣv artheṣu / kano 'pavādaḥ / śatena krītaṃ śatikam, śatyam / aśate iti kim ? śataṃ parimāṇam asya śatakaṃ nidānam / pratyayārtho 'tra saṅghaḥ / śatam eva vastutaḥ prakṛtyarthān na bhidyate / iha tu na bhavati, śatena krītaṃ śatyaṃ śāṭakaśatam, śatikaṃ śāṭakaśatam iti / vākyena hy atra pratyaya-arthasya tattvaṃ gamyate, na śrutyā / tathā ca+uktam, śatapratiśedhe 'nyaśatatve 'pratiṣedhaḥ iti / cakāro 'samāsa ity anukarṣaṇa-arthaḥ / dvau ca śataṃ ca dviśataṃ, dviśatena krītaṃ dviśatakam / triśatakam / prāgvateḥ saṅkhyā-pūrvapadānāṃ tadantagrahaṇam aluki ity anayā iṣṭyā samāsād api prāpnoti // saṅkhyāyā ati-śad-antāyāḥ kan
Sanskrit only: no published translation is held for this verse.
आर्हात् इत्य् एव । सङ्ख्याया अत्य्-अन्ताया अशद्-अन्तायाश् च कन् प्रत्ययो भवति आर्हीयेषु अर्थेषु । ठञो ऽपवादः । पञ्चभिः क्रीतः पञ्चकः पटः । बहुकः । गणकः । अतिशदन्तायाः इति किम् ? साप्ततिकः । चात्वारिंशत्कः । अर्थवतस्तिशब्दस्य ग्रहणाड् डतेः पर्युदासो न भवति, कतिकः ॥ वतोर् इड् वा
ārhāt ity eva / saṅkhyāyā aty-antāyā aśad-antāyāś ca kan pratyayo bhavati ārhīyeṣu artheṣu / ṭhaño 'pavādaḥ / pañcabhiḥ krītaḥ pañcakaḥ paṭaḥ / bahukaḥ / gaṇakaḥ / atiśadantāyāḥ iti kim ? sāptatikaḥ / cātvāriṃśatkaḥ / arthavatastiśabdasya grahaṇāḍ ḍateḥ paryudāso na bhavati, katikaḥ // vator iḍ vā
Sanskrit only: no published translation is held for this verse.
विंशति-त्रिंशद्भ्यां ड्वुन् असञ्ज्ञायाम्
viṃśati-triṃśadbhyāṃ ḍvun asañjñāyām
Sanskrit only: no published translation is held for this verse.
विंशति-त्रिंशद्भ्यां ड्वुन् प्रत्ययो भवति असञ्ज्ञायां विषये आर्हीयेष्व् अर्थेषु । विंशकः । त्रिंशकः । ति विंशतेर् डिति (*६,४।१४२) इति तिलोपः । असञ्ज्ञायाम् इति किम् ? विंशतिकः । त्रिंशत्कः । कथं पुनर् अत्र कन्, यावता अतिशदन्तायाः इति पर्युदासेन भवितव्यम् ? योगविभागः करिष्यते, विंशति-त्रिंशद्भ्यां कन् प्रत्ययो भवति, ततो ड्वुन् असञ्ज्ञायां इति ॥ कंसाट् टिठण्
viṃśati-triṃśadbhyāṃ ḍvun pratyayo bhavati asañjñāyāṃ viṣaye ārhīyeṣv artheṣu / viṃśakaḥ / triṃśakaḥ / ti viṃśater ḍiti (*6,4.142) iti tilopaḥ / asañjñāyām iti kim ? viṃśatikaḥ / triṃśatkaḥ / kathaṃ punar atra kan, yāvatā atiśadantāyāḥ iti paryudāsena bhavitavyam ? yogavibhāgaḥ kariṣyate, viṃśati-triṃśadbhyāṃ kan pratyayo bhavati, tato ḍvun asañjñāyāṃ iti // kaṃsāṭ ṭiṭhaṇ
Sanskrit only: no published translation is held for this verse.
कंसाट् टिठन् प्रत्ययो भवति आर्हीयेष्व् अर्थेषु । ठञो ऽपवादः । टकारो ङीब्-अर्थः । इकार उच्चारण-अर्थः । नकारः स्वर-अर्थः । कंसिकः । कंसिकी । अर्धाच् च+इति वक्तव्यम् । अर्धिकः । अर्धिकी । कार्षापणाट् टिठन् वक्तव्यः । कार्षापणिकः । कार्षापणिकी । प्रतिशब्दश् च अस्य आदेशो वा वक्तव्यः । प्रतिकः । प्रतिकी ॥ शूर्पाद् अञ् अन्यतरस्याम्
kaṃsāṭ ṭiṭhan pratyayo bhavati ārhīyeṣv artheṣu / ṭhaño 'pavādaḥ / ṭakāro ṅīb-arthaḥ / ikāra uccāraṇa-arthaḥ / nakāraḥ svara-arthaḥ / kaṃsikaḥ / kaṃsikī / ardhāc ca+iti vaktavyam / ardhikaḥ / ardhikī / kārṣāpaṇāṭ ṭiṭhan vaktavyaḥ / kārṣāpaṇikaḥ / kārṣāpaṇikī / pratiśabdaś ca asya ādeśo vā vaktavyaḥ / pratikaḥ / pratikī // śūrpād añ anyatarasyām
Sanskrit only: no published translation is held for this verse.
शूर्प-शब्दाद् अन्यतरस्याम् अञ् प्रत्ययो भवति आर्हीयेष्व् अर्थेषु । ठञो ऽपवादः । पक्षे सो ऽपि भवति । शूर्पेण क्रीतम् शौर्पम्, शौर्पिकम् ॥ शतमान-विंशतिक-सहस्र-वसनाद् अण्
śūrpa-śabdād anyatarasyām añ pratyayo bhavati ārhīyeṣv artheṣu / ṭhaño 'pavādaḥ / pakṣe so 'pi bhavati / śūrpeṇa krītam śaurpam, śaurpikam // śatamāna-viṃśatika-sahasra-vasanād aṇ
Sanskrit only: no published translation is held for this verse.
अध्यर्धपूर्व-द्विगोर् लुग् असञ्ज्ञायाम्
adhyardhapūrva-dvigor lug asañjñāyām
Sanskrit only: no published translation is held for this verse.
आर्हात् इत्य् एव । अध्यर्ध-शब्दः पूर्वो यस्मिन् तस्माद् अध्यर्धपूर्वात् प्रातिपदिकद् द्विगोश् च परस्य आर्हीयस्य लुग् भवति असञ्ज्ञायां इति किम् ? पाञ्चलोहितिकम् । पाञ्चकलापिकम् । लोहिनी-शब्दस्य भस्याढे तद्धिते इति पुंवद्भावः । प्रत्ययान्तस्य विशेषणम् असञ्ज्ञा-ग्रहणं न चेत् प्रत्ययान्तं सञ्ज्ञा इति । अध्यर्ध-शब्दः सङ्ख्या+एव, किमर्थं भेदेन+उपादीयते ? ज्ञापकार्थं, क्वचिद् अस्य सङ्ख्याकार्यं न भवति, सङ्ख्यायाः क्रिया-अभ्यावृत्तिगणने कृत्वसुच् (*५,४।१७) इति ॥ विभाषा कार्षापण-सहस्राभ्याम्
ārhāt ity eva / adhyardha-śabdaḥ pūrvo yasmin tasmād adhyardhapūrvāt prātipadikad dvigoś ca parasya ārhīyasya lug bhavati asañjñāyāṃ iti kim ? pāñcalohitikam / pāñcakalāpikam / lohinī-śabdasya bhasyāḍhe taddhite iti puṃvadbhāvaḥ / pratyayāntasya viśeṣaṇam asañjñā-grahaṇaṃ na cet pratyayāntaṃ sañjñā iti / adhyardha-śabdaḥ saṅkhyā+eva, kimarthaṃ bhedena+upādīyate ? jñāpakārthaṃ, kvacid asya saṅkhyākāryaṃ na bhavati, saṅkhyāyāḥ kriyā-abhyāvṛttigaṇane kṛtvasuc (*5,4.17) iti // vibhāṣā kārṣāpaṇa-sahasrābhyām
Sanskrit only: no published translation is held for this verse.
अध्यर्धपूर्वाद् द्विगोश् च कार्षापण-सहस्रान्तात् उत्तरस्य आर्हीय-प्रत्ययस्य विभाषा लुग् भवति । पूर्वेण लुकि नित्य प्राप्ते विकल्प्यते । अध्यर्धकार्षापणम्, अध्यर्धकार्शापणिकम् । द्विकार्षापणम्, द्विकार्षापणिकम् । औपसङ्ख्यानिकस्य टिठनो लुक् । अलुक्पक्षे च प्रतिरादेशो विकल्पितः । अध्यर्धप्रतिकम् । द्विप्रतिकम् । त्रिप्रतिकम् । सहस्रात् - अध्यर्धसहस्रम्, अध्यर्धसाहस्रम् । द्विसहस्रम्, द्विसाहस्रम् । अलुक्पक्षे सङ्ख्यायाः संवत्सर-सङ्ख्यस्य च इत्य् उत्तरपदवृद्धिः । सौवर्णशतमानयोर् उपसङ्ख्यानम् । अध्यर्धसुवर्णम्, अध्यर्धसौवर्णिकम् । द्विसुवर्णम्, द्विसौवर्णिकम् । अध्यर्धशतमानम्, अध्यर्धशातमानम् । द्विशतमानम्, द्विशातमानम् । परिमाणान्तस्य इत्य् उत्तरपदवृद्धिः ॥ द्वि-त्रि-पूर्वान् निष्कात्
adhyardhapūrvād dvigoś ca kārṣāpaṇa-sahasrāntāt uttarasya ārhīya-pratyayasya vibhāṣā lug bhavati / pūrveṇa luki nitya prāpte vikalpyate / adhyardhakārṣāpaṇam, adhyardhakārśāpaṇikam / dvikārṣāpaṇam, dvikārṣāpaṇikam / aupasaṅkhyānikasya ṭiṭhano luk / alukpakṣe ca pratirādeśo vikalpitaḥ / adhyardhapratikam / dvipratikam / tripratikam / sahasrāt - adhyardhasahasram, adhyardhasāhasram / dvisahasram, dvisāhasram / alukpakṣe saṅkhyāyāḥ saṃvatsara-saṅkhyasya ca ity uttarapadavṛddhiḥ / sauvarṇaśatamānayor upasaṅkhyānam / adhyardhasuvarṇam, adhyardhasauvarṇikam / dvisuvarṇam, dvisauvarṇikam / adhyardhaśatamānam, adhyardhaśātamānam / dviśatamānam, dviśātamānam / parimāṇāntasya ity uttarapadavṛddhiḥ // dvi-tri-pūrvān niṣkāt
Sanskrit only: no published translation is held for this verse.
द्विगोः इत्य् एव । द्वित्रिपूर्वाद् द्विगोर् निष्कान्तात् आर्हीय-प्रत्ययस्य विभाषा लुग् भवति । द्विनिष्कम्, द्विनैष्किकम् । त्रिनिष्कम्, त्रिनैष्किकम् । बहुपूर्वाच् च+इति वक्तव्यम् । बहुनिष्कम्, बहुनैष्किकम् । परिमाणान्तस्य इत्य् उत्तरपद-वृद्धिः ॥ बिस्ताच् च
dvigoḥ ity eva / dvitripūrvād dvigor niṣkāntāt ārhīya-pratyayasya vibhāṣā lug bhavati / dviniṣkam, dvinaiṣkikam / triniṣkam, trinaiṣkikam / bahupūrvāc ca+iti vaktavyam / bahuniṣkam, bahunaiṣkikam / parimāṇāntasya ity uttarapada-vṛddhiḥ // bistāc ca
Sanskrit only: no published translation is held for this verse.
विंशतिकात् खः
viṃśatikāt khaḥ
Sanskrit only: no published translation is held for this verse.
अध्यर्धपूर्वात् प्रातिपदिकाद् द्विगोश् च विंशतिक-शब्दान्तात् आर्हीयेष्व् अर्थेषु खः प्रत्ययो भवति । अध्यर्धविंशैकीनम् । द्विविंशतिकीनम् । त्रिविंशतिकीनम् । विधानसामर्थ्यात् अस्य लुक् न भवति ॥ खार्या ईकन्
adhyardhapūrvāt prātipadikād dvigoś ca viṃśatika-śabdāntāt ārhīyeṣv artheṣu khaḥ pratyayo bhavati / adhyardhaviṃśaikīnam / dviviṃśatikīnam / triviṃśatikīnam / vidhānasāmarthyāt asya luk na bhavati // khāryā īkan
Sanskrit only: no published translation is held for this verse.
अध्यर्धपूर्वद् द्विगोः इत्य् एव अध्यर्धपूर्वात् प्रातिपदिकाद् द्विगोश् च खारी-शब्दानतात् आर्हीयेष्व् अर्थेषु ईकन् प्रत्ययो भवति । अध्यर्धखारीकम् । द्विखारीकम् । केवलायाश् च+इति वक्तव्यम् । खारीकम् । काकिण्याश् च+उपसङ्ख्यानम् । अध्यर्धकाकिणीकम् । द्विकाकिणीकम् । त्रिकाकिणीकम् । केवलायाश् च । काकिणीकम् ॥ पण-पाद-माष-शताद् यत्
adhyardhapūrvad dvigoḥ ity eva adhyardhapūrvāt prātipadikād dvigoś ca khārī-śabdānatāt ārhīyeṣv artheṣu īkan pratyayo bhavati / adhyardhakhārīkam / dvikhārīkam / kevalāyāś ca+iti vaktavyam / khārīkam / kākiṇyāś ca+upasaṅkhyānam / adhyardhakākiṇīkam / dvikākiṇīkam / trikākiṇīkam / kevalāyāś ca / kākiṇīkam // paṇa-pāda-māṣa-śatād yat
Sanskrit only: no published translation is held for this verse.
अध्यर्धपूर्वाद् द्विगोः इत्य् एव । अध्यर्धपूर्वाद् द्विगोश् च पण्-अपाद-माष-शत-शब्दान्तात् आर्हीयेष्व् अर्थेषु यत् प्रत्ययो भवति । अव्यर्धपण्यम् । द्विपण्यम् । त्रिपण्यम् । पाद - अध्यर्धपाद्यम् । द्विपाद्यम् । त्रिपाद्यम् । पद्भावो न भवति पद् यत्य्-अतदर्थे (*६,३।५३) इति । प्राण्य्-अङ्गस्य स इष्यते । इदं तु परिमाणम् । माष - अध्यर्धमाष्यम् । द्विमास्यम् । त्रिमास्यम् । शत - अध्यर्धशत्यम् । द्विशत्यम् । त्रिशत्यम् ॥ शाणाद् वा
adhyardhapūrvād dvigoḥ ity eva / adhyardhapūrvād dvigoś ca paṇ-apāda-māṣa-śata-śabdāntāt ārhīyeṣv artheṣu yat pratyayo bhavati / avyardhapaṇyam / dvipaṇyam / tripaṇyam / pāda - adhyardhapādyam / dvipādyam / tripādyam / padbhāvo na bhavati pad yaty-atadarthe (*6,3.53) iti / prāṇy-aṅgasya sa iṣyate / idaṃ tu parimāṇam / māṣa - adhyardhamāṣyam / dvimāsyam / trimāsyam / śata - adhyardhaśatyam / dviśatyam / triśatyam // śāṇād vā
Sanskrit only: no published translation is held for this verse.
द्वि-त्रि-पूर्वाद् अण् च
dvi-tri-pūrvād aṇ ca
Sanskrit only: no published translation is held for this verse.
शाणाद् वा (*५,१।३५) इत्य् एव । द्वि-त्रि-पूर्वाच् छाणान्तात् प्रातिपदिकाद् आर्हीयेष्व् अर्थेषु अण् प्रत्ययो भवति, चकाराद् यच् च वा । तेन त्रैरूप्यं समद्यते । द्वैशाणम्, द्विशाण्यम्, द्विशाणम् । त्रैशाणम्, त्रिशाण्यम्, त्रिशाणम् । परिमाणान्तस्य असञ्ज्ञाशाणयोः (*७,३।१७) इति पर्युदासादिवृद्धिर् एव भवति ॥ तेन क्रीतम्
śāṇād vā (*5,1.35) ity eva / dvi-tri-pūrvāc chāṇāntāt prātipadikād ārhīyeṣv artheṣu aṇ pratyayo bhavati, cakārād yac ca vā / tena trairūpyaṃ samadyate / dvaiśāṇam, dviśāṇyam, dviśāṇam / traiśāṇam, triśāṇyam, triśāṇam / parimāṇāntasya asañjñāśāṇayoḥ (*7,3.17) iti paryudāsādivṛddhir eva bhavati // tena krītam
Sanskrit only: no published translation is held for this verse.
ठञादयस् त्रयोदश प्रत्ययाः प्रकृताः । तेषाम् इतः प्रभृति समर्थ-विभक्तयः प्रत्ययार्थाश् च निर्दिश्यन्ते तेन इति तृतीयासमर्थात् क्रीतम् इत्य् एतस्मिन्न् अर्थे यथाविहितं प्रत्ययो भवति । सप्तत्या क्रीतम् साप्ततिकम् । आशीतिकम् । नैष्किकम् । पाणिकम् । पादिकम् । माषिकम् । शत्यम् । शतिकम् । द्विकम् । त्रिकम् । तेन इति मूल्यात् करणे तृतीया समर्थ-विभक्तिः । अन्यत्रान् अभिधानान् न भवति, देवदत्तेन क्रीतम्, पाणिना क्रीतम् इति । द्विवचन-बहुवचन-अन्तात् प्रतययो न भवति, प्रस्थाभ्यां क्रीतम्, प्रस्थैः क्रीतम् इति, अनभिधानाद् एव । यत्र तु प्रकृत्यर्थस्य सङ्ख्याभेदावगमे प्रमाणम् अस्ति तत्र द्विवचन-बहुवचन-अन्ताद् अपि प्रत्ययो भवति । द्वाभ्यां क्रीतम् द्विकम् । त्रिकम् । पञ्चकम् । तथा मुद्गैः क्रीतम् मौद्गिकम् । माषिकम् । न ह्य् एकेन मुद्गेन क्रयः सम्भवति ॥ तस्य निमित्तं संयोग-उत्पातौ
ṭhañādayas trayodaśa pratyayāḥ prakṛtāḥ / teṣām itaḥ prabhṛti samartha-vibhaktayaḥ pratyayārthāś ca nirdiśyante tena iti tṛtīyāsamarthāt krītam ity etasminn arthe yathāvihitaṃ pratyayo bhavati / saptatyā krītam sāptatikam / āśītikam / naiṣkikam / pāṇikam / pādikam / māṣikam / śatyam / śatikam / dvikam / trikam / tena iti mūlyāt karaṇe tṛtīyā samartha-vibhaktiḥ / anyatrān abhidhānān na bhavati, devadattena krītam, pāṇinā krītam iti / dvivacana-bahuvacana-antāt pratayayo na bhavati, prasthābhyāṃ krītam, prasthaiḥ krītam iti, anabhidhānād eva / yatra tu prakṛtyarthasya saṅkhyābhedāvagame pramāṇam asti tatra dvivacana-bahuvacana-antād api pratyayo bhavati / dvābhyāṃ krītam dvikam / trikam / pañcakam / tathā mudgaiḥ krītam maudgikam / māṣikam / na hy ekena mudgena krayaḥ sambhavati // tasya nimittaṃ saṃyoga-utpātau
Sanskrit only: no published translation is held for this verse.
तस्य इति षष्ठीसमर्थात् निमित्तम् इत्य् एतस्मिन्न् अर्थे यथाविहितं प्रत्ययो भवति, यत् तन् निमित्तं संयोगश् चेत् स भवति उत्पातो वा संयोगः सम्बन्धः प्राणिनां शुभाशुभसूचकः । महाभूत-परिणामः उत्पातः शतस्य निमित्त धनपतिना संयोगः शत्यः, शतिकः । साहस्रः । उत्पतः खल्व् अपि - शतस्य निमित्तं उत्पातः दक्षिणाक्षिस्पन्दनम् शत्यम्, शतिकम् । साहस्रम् । तस्य निमित्त-प्रकरणे वातपित्तश्लेष्मभ्यः शमनकोपनयोर् उपसङ्ख्यानम् । वातस्य शमनं कोपनं वा वातिकम् । पैत्तिकम् । श्लैष्मिकम् । सन्निपाताच् च+इति वक्तव्यम् । सान्निपातिकम् ॥ गोद्व्यचो ऽसङ्ख्या-परिमाण-अश्व-अदेर् यत्
tasya iti ṣaṣṭhīsamarthāt nimittam ity etasminn arthe yathāvihitaṃ pratyayo bhavati, yat tan nimittaṃ saṃyogaś cet sa bhavati utpāto vā saṃyogaḥ sambandhaḥ prāṇināṃ śubhāśubhasūcakaḥ / mahābhūta-pariṇāmaḥ utpātaḥ śatasya nimitta dhanapatinā saṃyogaḥ śatyaḥ, śatikaḥ / sāhasraḥ / utpataḥ khalv api - śatasya nimittaṃ utpātaḥ dakṣiṇākṣispandanam śatyam, śatikam / sāhasram / tasya nimitta-prakaraṇe vātapittaśleṣmabhyaḥ śamanakopanayor upasaṅkhyānam / vātasya śamanaṃ kopanaṃ vā vātikam / paittikam / ślaiṣmikam / sannipātāc ca+iti vaktavyam / sānnipātikam // godvyaco 'saṅkhyā-parimāṇa-aśva-ader yat
Sanskrit only: no published translation is held for this verse.
द्व्यचः खल्व् अपि - धन्यम् । स्वर्ग्यम् । यशस्यम् । आयुष्यम् । असङ्ख्या-परिमाण-अश्वादेर् इति किम् ? पञ्चानां निमित्तम् पञ्चकम् । सप्तकम् । अष्टकम् । परिमाण - प्रास्थिकम् । खारीकम् । अश्वादि - आश्विकः । ब्रह्मवर्चसाद् उपसङ्ख्यानम् । ब्रह्मवर्चसस्य निमित्तं गुरुणा संयोगः ब्रह्मवर्चस्यम् । अश्व । अश्मन् । गण । ऊर्णा । उमा । वसु । वर्ष । भङ्ग । अश्वादिः ॥ पुत्राच् छ च
dvyacaḥ khalv api - dhanyam / svargyam / yaśasyam / āyuṣyam / asaṅkhyā-parimāṇa-aśvāder iti kim ? pañcānāṃ nimittam pañcakam / saptakam / aṣṭakam / parimāṇa - prāsthikam / khārīkam / aśvādi - āśvikaḥ / brahmavarcasād upasaṅkhyānam / brahmavarcasasya nimittaṃ guruṇā saṃyogaḥ brahmavarcasyam / aśva / aśman / gaṇa / ūrṇā / umā / vasu / varṣa / bhaṅga / aśvādiḥ // putrāc cha ca
Sanskrit only: no published translation is held for this verse.
पुत्र-शब्दाच् छः प्रत्ययो भवति, चकाराद् यत् च तस्य निमित्तं संयोग+उत्पातौ (*५,१।३८) इत्य् एतस्मिन् विषये । द्व्यचः इति नित्ये यति प्राप्ते वचनम् । पुत्रस्य निमित्तं संयोगः उत्पातो वा पुत्रीयम्, पुत्र्यम् ॥ सर्वभूमि-पृथिवीभ्याम् अणञौ
putra-śabdāc chaḥ pratyayo bhavati, cakārād yat ca tasya nimittaṃ saṃyoga+utpātau (*5,1.38) ity etasmin viṣaye / dvyacaḥ iti nitye yati prāpte vacanam / putrasya nimittaṃ saṃyogaḥ utpāto vā putrīyam, putryam // sarvabhūmi-pṛthivībhyām aṇañau
Sanskrit only: no published translation is held for this verse.
सर्वभूमि-पृथिवी-शब्दाभ्यां यथासङ्ख्यम् अणञौ प्रत्ययु भवतः तस्य निमित्तं संयोग-उत्पातौ (*५,१।३८) इत्य् एतस्मिन् विषये । ठको ऽपवादौ । सर्वभूमेर् निमित्तं संयोग उत्पातो वा सार्वभौमः । पार्थिवः । सर्वभूमेः अनुशतिकादि पाठादुभयपद-वृद्धिः ॥ तस्य+ईश्वरः
sarvabhūmi-pṛthivī-śabdābhyāṃ yathāsaṅkhyam aṇañau pratyayu bhavataḥ tasya nimittaṃ saṃyoga-utpātau (*5,1.38) ity etasmin viṣaye / ṭhako 'pavādau / sarvabhūmer nimittaṃ saṃyoga utpāto vā sārvabhaumaḥ / pārthivaḥ / sarvabhūmeḥ anuśatikādi pāṭhādubhayapada-vṛddhiḥ // tasya+īśvaraḥ
Sanskrit only: no published translation is held for this verse.
तस्य इति षष्ठीसमर्थाभ्यां सर्वभूमि-पृथिवी-शब्दाभ्यां यथासङ्ख्यम् अण्-अञौ प्रत्ययौ भवतः ईश्वरः इत्य् एतस्मिन् विषये । सर्वभूमेः ईश्वरः सार्वभौमः । पार्थिवः । षष्ठीप्रकरणे पुनः षष्ठीसमर्थ-विभक्ति-निर्देशः प्रत्ययार्थस्य निवृत्तये । अन्यथा संयोगोत्पाताव् इव ईश्वरो ऽपि प्रत्ययार्थस्य निमित्तस्य विशेषणं संभाव्येत ॥ तत्र विदित इति च
tasya iti ṣaṣṭhīsamarthābhyāṃ sarvabhūmi-pṛthivī-śabdābhyāṃ yathāsaṅkhyam aṇ-añau pratyayau bhavataḥ īśvaraḥ ity etasmin viṣaye / sarvabhūmeḥ īśvaraḥ sārvabhaumaḥ / pārthivaḥ / ṣaṣṭhīprakaraṇe punaḥ ṣaṣṭhīsamartha-vibhakti-nirdeśaḥ pratyayārthasya nivṛttaye / anyathā saṃyogotpātāv iva īśvaro 'pi pratyayārthasya nimittasya viśeṣaṇaṃ saṃbhāvyeta // tatra vidita iti ca
Sanskrit only: no published translation is held for this verse.
तत्र इति सप्तमीसमर्थाभ्यां सर्वभूमि-पृथिवी-शब्दाभ्यां यथासङ्ख्यम् अण्-अञौ प्रत्ययौ भवतः विदितः इत्य् एतस्मिन्न् अर्थे । विदितो ज्ञातः प्रकाशितः इत्य् अर्थः । सर्वभूमौ विदितः सार्वभौमः । पार्थिवः ॥ लोक-सर्वलोकाट् ठञ्
tatra iti saptamīsamarthābhyāṃ sarvabhūmi-pṛthivī-śabdābhyāṃ yathāsaṅkhyam aṇ-añau pratyayau bhavataḥ viditaḥ ity etasminn arthe / vidito jñātaḥ prakāśitaḥ ity arthaḥ / sarvabhūmau viditaḥ sārvabhaumaḥ / pārthivaḥ // loka-sarvalokāṭ ṭhañ
Sanskrit only: no published translation is held for this verse.
तस्य वापः
tasya vāpaḥ
Sanskrit only: no published translation is held for this verse.
तस्य इति षष्ठीसमर्थाद् वापः इत्य् एतस्मिन्न् अर्थे यथाविहितं प्रत्ययो भवति । उप्यते ऽस्मिन् वापः क्षेत्रम् उच्यते । प्रस्थस्य वापः क्षेत्रं प्रास्थिकम् । द्रौणिकम् । खारीकम् ॥ पात्रात् ष्ठन्
tasya iti ṣaṣṭhīsamarthād vāpaḥ ity etasminn arthe yathāvihitaṃ pratyayo bhavati / upyate 'smin vāpaḥ kṣetram ucyate / prasthasya vāpaḥ kṣetraṃ prāsthikam / drauṇikam / khārīkam // pātrāt ṣṭhan
Sanskrit only: no published translation is held for this verse.
पात्र-शब्दात् ष्ठन् प्रत्ययो भवति तस्य वापः (*५,१।४५) इत्य् एतस्मिन् विषये । ठञो ऽपवादः । नकारः स्वरार्थः । षकारो ङीष्-अर्थः । पात्र-शब्दः परिमाणवाची । पात्रस्य वापः पात्रिकं क्षेत्रम् । पात्रिकी क्षेत्रभक्तिः ॥ तद् अस्मिन् वृद्ध्य्-आय-लाभ-शुल्क-उपदा दीयते
pātra-śabdāt ṣṭhan pratyayo bhavati tasya vāpaḥ (*5,1.45) ity etasmin viṣaye / ṭhaño 'pavādaḥ / nakāraḥ svarārthaḥ / ṣakāro ṅīṣ-arthaḥ / pātra-śabdaḥ parimāṇavācī / pātrasya vāpaḥ pātrikaṃ kṣetram / pātrikī kṣetrabhaktiḥ // tad asmin vṛddhy-āya-lābha-śulka-upadā dīyate
Sanskrit only: no published translation is held for this verse.
तद् इति प्रथमासमर्थाद् अस्मिन्न् इति सप्तम्यर्थे यथाविहितं प्रत्ययो भवति, यत् तत् प्रथमासमर्थं वृद्ध्यादि चेत् तद् दीयते । दीयते इत्य् एकवचनान्तं वृद्ध्यादिभिः प्रत्येकम् अभिसम्बध्यते । तत्र यद् अधमर्णेन उत्तमर्णाय मूलधनातिरिक्तं देयं तद् वृद्धिः । ग्रामादिषु स्वामिग्राह्यो भागः आयः । पटादीनाम् उपादानमूलादतिरिक्तं द्रव्यं लाभः । रक्षानिर्वेशो राजभागः शुल्कः । उत्कोचौपदा । पञ्च अस्मिन् वृद्धिर् वा आयो वा लाभो वा शुल्को वा उपदा वा दीयते पञ्चकः । सप्तकः । शत्यः, शतिकः । साहस्रः ॥ चतुर्थ्यर्थ उपसङ्ख्यानम् । पञ्च अस्मै वृद्धिर् वा आयो वा लाभो वा उपदा वा दीयते पज्चको देवदत्तः । सिद्धं त्व् अधिकरणत्वेन विवक्षितत्वात् । सममब्राह्मणे दानम् इति यथा ॥ पूरण-अर्धाट् ठन्
tad iti prathamāsamarthād asminn iti saptamyarthe yathāvihitaṃ pratyayo bhavati, yat tat prathamāsamarthaṃ vṛddhyādi cet tad dīyate / dīyate ity ekavacanāntaṃ vṛddhyādibhiḥ pratyekam abhisambadhyate / tatra yad adhamarṇena uttamarṇāya mūladhanātiriktaṃ deyaṃ tad vṛddhiḥ / grāmādiṣu svāmigrāhyo bhāgaḥ āyaḥ / paṭādīnām upādānamūlādatiriktaṃ dravyaṃ lābhaḥ / rakṣānirveśo rājabhāgaḥ śulkaḥ / utkocaupadā / pañca asmin vṛddhir vā āyo vā lābho vā śulko vā upadā vā dīyate pañcakaḥ / saptakaḥ / śatyaḥ, śatikaḥ / sāhasraḥ // caturthyartha upasaṅkhyānam / pañca asmai vṛddhir vā āyo vā lābho vā upadā vā dīyate pajcako devadattaḥ / siddhaṃ tv adhikaraṇatvena vivakṣitatvāt / samamabrāhmaṇe dānam iti yathā // pūraṇa-ardhāṭ ṭhan
Sanskrit only: no published translation is held for this verse.
पूरण-वाचिनः शब्दात् अर्ध-शब्दाच् च ठन् प्रत्ययो भवति तद् अस्मिन् वृद्ध्य्-आय। लाभशुल्क-उपदा दीयते (*५,१।४७) इत्य् एतस्मिन्न् अर्थे । यथायथं ठक्टिठनोर् अपवादः । द्वितीयो वृद्ध्यादिर् अस्मिन् दीयते द्वितीयिकः । तृतीयिकः । पञ्चमिकः । सप्तमिकः । अर्धिकः । अर्ध-शब्दो रुपकार्धस्य रूढिः ॥ भागाद् यच् च
pūraṇa-vācinaḥ śabdāt ardha-śabdāc ca ṭhan pratyayo bhavati tad asmin vṛddhy-āya. lābhaśulka-upadā dīyate (*5,1.47) ity etasminn arthe / yathāyathaṃ ṭhakṭiṭhanor apavādaḥ / dvitīyo vṛddhyādir asmin dīyate dvitīyikaḥ / tṛtīyikaḥ / pañcamikaḥ / saptamikaḥ / ardhikaḥ / ardha-śabdo rupakārdhasya rūḍhiḥ // bhāgād yac ca
Sanskrit only: no published translation is held for this verse.
तद् धरति वहव्त्य् आवहति भाराद् वंशादिभ्यः
tad dharati vahavty āvahati bhārād vaṃśādibhyaḥ
Sanskrit only: no published translation is held for this verse.
तद् इति द्वितीयासमर्थाद् धरत्य्-आदिष्व् अर्थेषु यथाविहितं प्रत्ययो भवति । प्रकृति-विशेषणं भाराद् वंशादिभ्यः इति । वंशादिभ्यः परो यो भार-शब्दः तदन्तात् प्रातिपदिकात् इति । वंशभारं हरति वहति आवहति वा वांशभारिकः । कौटजभारिकः । बाल्वजभारिकः । भारात् इति किम् ? वंशं हरति । वंशादिभ्यः इति किम् ? व्रीहिभारं हरति । अपरा वृत्तिः - भाराद् वंशादिभ्यः इति, भारभूतेभ्यो वंशादिभ्यः इत्य् अर्थः । भार-शब्दो ऽर्थद्वारेण वंशादीनां विशेषणम् । भारभूतान् वंशान् हरति वांशिकः । कौटजिकः । बाल्वजिकः । भारात् इति किम् ? वंशं हरति । वंशादिभ्याः इति किम् ? भारभूतान् व्रीहीन् वहति । सूत्रार्थद्वयम् अपि च+एतद् आचार्येण शिष्याः प्रतिपादिताः । तदुभयम् अपि ग्राह्यम् । हरति देशान्तरं प्रापयति चोरयति वा । वहत्य् उत्क्षिप्य धारयति इत्य् अर्थः । आवहति उत्पादयति इत्य् अर्थः । वंश । कुटज । बल्वज । मूल । अक्ष । स्थूणा । अश्मन् । अश्व । इक्षु । खट्वा । वंशादिः ॥ वस्न-द्रव्याभ्यां ठन्-कनौ
tad iti dvitīyāsamarthād dharaty-ādiṣv artheṣu yathāvihitaṃ pratyayo bhavati / prakṛti-viśeṣaṇaṃ bhārād vaṃśādibhyaḥ iti / vaṃśādibhyaḥ paro yo bhāra-śabdaḥ tadantāt prātipadikāt iti / vaṃśabhāraṃ harati vahati āvahati vā vāṃśabhārikaḥ / kauṭajabhārikaḥ / bālvajabhārikaḥ / bhārāt iti kim ? vaṃśaṃ harati / vaṃśādibhyaḥ iti kim ? vrīhibhāraṃ harati / aparā vṛttiḥ - bhārād vaṃśādibhyaḥ iti, bhārabhūtebhyo vaṃśādibhyaḥ ity arthaḥ / bhāra-śabdo 'rthadvāreṇa vaṃśādīnāṃ viśeṣaṇam / bhārabhūtān vaṃśān harati vāṃśikaḥ / kauṭajikaḥ / bālvajikaḥ / bhārāt iti kim ? vaṃśaṃ harati / vaṃśādibhyāḥ iti kim ? bhārabhūtān vrīhīn vahati / sūtrārthadvayam api ca+etad ācāryeṇa śiṣyāḥ pratipāditāḥ / tadubhayam api grāhyam / harati deśāntaraṃ prāpayati corayati vā / vahaty utkṣipya dhārayati ity arthaḥ / āvahati utpādayati ity arthaḥ / vaṃśa / kuṭaja / balvaja / mūla / akṣa / sthūṇā / aśman / aśva / ikṣu / khaṭvā / vaṃśādiḥ // vasna-dravyābhyāṃ ṭhan-kanau
Sanskrit only: no published translation is held for this verse.
वस्न-द्रव्य-शब्दाभ्याम् द्वितीयासमर्थाभ्यां यथासङ्ख्यं ठन् कन् इत्य् ऐतौ प्रत्ययौ भवतो हरत्यादिष्व् अर्थेषु । वस्नं हरति वहति वा वस्निकः । द्रव्यकः ॥ सम्भवत्य् अवहरति पचति
vasna-dravya-śabdābhyām dvitīyāsamarthābhyāṃ yathāsaṅkhyaṃ ṭhan kan ity aitau pratyayau bhavato haratyādiṣv artheṣu / vasnaṃ harati vahati vā vasnikaḥ / dravyakaḥ // sambhavaty avaharati pacati
Sanskrit only: no published translation is held for this verse.
आढक-आचित-पात्रात् खो ऽन्यतरस्याम्
āḍhaka-ācita-pātrāt kho 'nyatarasyām
Sanskrit only: no published translation is held for this verse.
आढक-आचित-पात्र-शदेभ्यो द्वितीयासमर्थभ्यो ऽन्यतरस्यां संभवादिष्व् अर्थेषु खः भवति । ठञो ऽपवादः । पक्षे सो ऽपि भवति । आढकं संभवति अवहरति पचति वा आढकीना, आढकिकी । आचितीना, आचितिकी । पात्रीणा, पात्रिकी ॥ द्विगोः ष्ठंश् च
āḍhaka-ācita-pātra-śadebhyo dvitīyāsamarthabhyo 'nyatarasyāṃ saṃbhavādiṣv artheṣu khaḥ bhavati / ṭhaño 'pavādaḥ / pakṣe so 'pi bhavati / āḍhakaṃ saṃbhavati avaharati pacati vā āḍhakīnā, āḍhakikī / ācitīnā, ācitikī / pātrīṇā, pātrikī // dvigoḥ ṣṭhaṃś ca
Sanskrit only: no published translation is held for this verse.
आढकाचितपात्रात् इत्य् एव । आढक-आचित-पात्र-अन्ताद् द्विगोः संभवत्यादिष्व् अर्थेषु ष्ठन् प्रत्ययो भवति, चकारात् खः, अन्यतरस्याम् । विधानसामर्थ्याद् एव अनयोर् लुक् न भवति । ठञस् तु पक्षे ऽनुज्ञातस्य अध्यर्ध-पूर्व-द्विगोः इति लुग् भवत्य् एव । नकारः स्वरार्थः । षकारो ङीष्-अर्थः । द्व्याढकिकी, द्व्याढकीना, द्व्याढकी । द्व्याचितिकी, द्व्याचितीना, द्व्याचिता । अपरिमाण-विब्स्त-आचितेति ङीपः प्रतिषेधः । द्विपात्रिकी, द्विपात्रीणा, द्विपात्री ॥ कुलिजाल् लुक्खौ च
āḍhakācitapātrāt ity eva / āḍhaka-ācita-pātra-antād dvigoḥ saṃbhavatyādiṣv artheṣu ṣṭhan pratyayo bhavati, cakārāt khaḥ, anyatarasyām / vidhānasāmarthyād eva anayor luk na bhavati / ṭhañas tu pakṣe 'nujñātasya adhyardha-pūrva-dvigoḥ iti lug bhavaty eva / nakāraḥ svarārthaḥ / ṣakāro ṅīṣ-arthaḥ / dvyāḍhakikī, dvyāḍhakīnā, dvyāḍhakī / dvyācitikī, dvyācitīnā, dvyācitā / aparimāṇa-vibsta-āciteti ṅīpaḥ pratiṣedhaḥ / dvipātrikī, dvipātrīṇā, dvipātrī // kulijāl lukkhau ca
Sanskrit only: no published translation is held for this verse.
द्विगोः इत्य् एव । कुलिज-शब्दानताद् द्विगोः संभवत्यादिष्व् अर्थेषु लुक्खौ भवतः । चकारात् ष्ठन् च । अन्यतरस्याम् ग्रहण-अनुवृत्त्या लुग् अपि विकल्प्यते । ठञः पक्षे श्रवणं भवति । तेन चातूरूप्यं संपद्यते । द्वे कुलिजे संभवति अवहरति पचति वा द्विकुलिजिकि, द्विकुलिजीना, द्विकुलिजी, द्वैकुलिजिकि । परिमाणान्तस्य असंज्ञाशाणयोः (*७,३।१७) इत्य् अत्र कुलिज-ग्रहणम् अपीष्यते, तेन+उत्तरपद-वृद्धिर् अपि न भवति ॥ सो ऽस्य अंश-वस्न-भृतयः
dvigoḥ ity eva / kulija-śabdānatād dvigoḥ saṃbhavatyādiṣv artheṣu lukkhau bhavataḥ / cakārāt ṣṭhan ca / anyatarasyām grahaṇa-anuvṛttyā lug api vikalpyate / ṭhañaḥ pakṣe śravaṇaṃ bhavati / tena cātūrūpyaṃ saṃpadyate / dve kulije saṃbhavati avaharati pacati vā dvikulijiki, dvikulijīnā, dvikulijī, dvaikulijiki / parimāṇāntasya asaṃjñāśāṇayoḥ (*7,3.17) ity atra kulija-grahaṇam apīṣyate, tena+uttarapada-vṛddhir api na bhavati // so 'sya aṃśa-vasna-bhṛtayaḥ
Sanskrit only: no published translation is held for this verse.
स इति प्रथमासमर्थात् अस्य इति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति यत् प्रथमासमर्थम् अंशवस्नभृतयश् चेत् ता भवति । अंशो भागः । वस्नं मूल्यम् । भृतिर्वेतनम् । पञ्च अंशो वस्नो वा भृतिर्वास्य पञ्चकः । सप्तकः । साहस्रः ॥ तद् अस्य परिमाणम्
sa iti prathamāsamarthāt asya iti ṣaṣṭhyarthe yathāvihitaṃ pratyayo bhavati yat prathamāsamartham aṃśavasnabhṛtayaś cet tā bhavati / aṃśo bhāgaḥ / vasnaṃ mūlyam / bhṛtirvetanam / pañca aṃśo vasno vā bhṛtirvāsya pañcakaḥ / saptakaḥ / sāhasraḥ // tad asya parimāṇam
Sanskrit only: no published translation is held for this verse.
सङ्ख्यायाः सञ्ज्ञा-सङ्घ-सूत्र-अध्ययनेषु
saṅkhyāyāḥ sañjñā-saṅgha-sūtra-adhyayaneṣu
Sanskrit only: no published translation is held for this verse.
तद् अस्य परिमाणम् (*५,१।५७) इति वर्तते । सङ्ख्या-वाचिनः प्रातिपदिकात् परिमाणोपाधिकात् प्रथमासमर्थाद् अस्य इति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति । सञ्ज्ञा-सङ्घ-सूत्र-अध्ययनेषु इति प्रत्ययार्थ-विशेषणम् । तत्र सञ्ज्ञायां स्वार्थे प्रत्ययो वाच्यः । पञ्चैव पञ्चकाः शकुनयः । त्रिकाः शालङ्कायनाः । सङ्घ - पञ्च परिमाणम् अस्य पञ्चकः सङ्घः । अष्टकः । सूत्र - अष्टौ अध्यायाः परिमाणम् अस्य सूत्रस्य अष्टकं पाणिनीयम् । दशकं वैयाघ्रपदीयम् । त्रिकं काशकृत्स्नम् । ननु च अध्यायसमूहः सूत्रसङ्घ एव भवति ? न+एतद् अस्ति । प्राणिसमूहे सङ्घ-शब्दो रूढः । अध्ययन - पञ्चको ऽधीतः । सप्तको ऽधीतः । अष्टकः । अनवकः । अधीतिर् अध्ययनम् । तस्य सङ्ख्यापरिमाणं पञ्चावृत्तयः पञ्चवाराः पञ्च रूपाणि अस्य अध्ययनस्य पञ्चकम् अध्ययनम् । स्तोमे डविधिः पञ्चदशाद्य्-अर्थः । पञ्चदश मन्त्राः परिमाणम् अस्य पञ्चदशः स्तोमः । सप्तदशः । एकविंशः । शन्शतोर् डिनिश् छन्दसि । पञ्चदशिनो ऽर्धमासाः त्रिंशिनो मासाः । विंशतेश् च+इति वक्तव्यम् । विंशिनो ऽङ्गिरसः ॥ पङ्क्ति-विंशति-त्रिंशच्-चत्वारिंशत्-पञ्चाशत्-षष्टि-सप्तत्य्-अशीति-नवति-शतम्
tad asya parimāṇam (*5,1.57) iti vartate / saṅkhyā-vācinaḥ prātipadikāt parimāṇopādhikāt prathamāsamarthād asya iti ṣaṣṭhyarthe yathāvihitaṃ pratyayo bhavati / sañjñā-saṅgha-sūtra-adhyayaneṣu iti pratyayārtha-viśeṣaṇam / tatra sañjñāyāṃ svārthe pratyayo vācyaḥ / pañcaiva pañcakāḥ śakunayaḥ / trikāḥ śālaṅkāyanāḥ / saṅgha - pañca parimāṇam asya pañcakaḥ saṅghaḥ / aṣṭakaḥ / sūtra - aṣṭau adhyāyāḥ parimāṇam asya sūtrasya aṣṭakaṃ pāṇinīyam / daśakaṃ vaiyāghrapadīyam / trikaṃ kāśakṛtsnam / nanu ca adhyāyasamūhaḥ sūtrasaṅgha eva bhavati ? na+etad asti / prāṇisamūhe saṅgha-śabdo rūḍhaḥ / adhyayana - pañcako 'dhītaḥ / saptako 'dhītaḥ / aṣṭakaḥ / anavakaḥ / adhītir adhyayanam / tasya saṅkhyāparimāṇaṃ pañcāvṛttayaḥ pañcavārāḥ pañca rūpāṇi asya adhyayanasya pañcakam adhyayanam / stome ḍavidhiḥ pañcadaśādy-arthaḥ / pañcadaśa mantrāḥ parimāṇam asya pañcadaśaḥ stomaḥ / saptadaśaḥ / ekaviṃśaḥ / śanśator ḍiniś chandasi / pañcadaśino 'rdhamāsāḥ triṃśino māsāḥ / viṃśateś ca+iti vaktavyam / viṃśino 'ṅgirasaḥ // paṅkti-viṃśati-triṃśac-catvāriṃśat-pañcāśat-ṣaṣṭi-saptaty-aśīti-navati-śatam
Sanskrit only: no published translation is held for this verse.
पञ्चद्-दशतौ वर्गे वा
pañcad-daśatau varge vā
Sanskrit only: no published translation is held for this verse.
पञ्चत् दशत् इत्य् एतौ निपात्येते तद् अस्य अप्रिमाणम् इत्य् अस्मिन् विषये वर्गे ऽभिधेये । सङ्ख्यायाः इति कनि प्राप्ते डतिर्निपात्यते । वावचनात् पक्षे सो ऽपि भवति । पञ्च परिमाणस्य पञ्चद् वर्गः । दशद्वर्गः । पञ्चको वर्गः । दशको वर्गः ॥ सप्तनो ऽञ् छन्दसि
pañcat daśat ity etau nipātyete tad asya aprimāṇam ity asmin viṣaye varge 'bhidheye / saṅkhyāyāḥ iti kani prāpte ḍatirnipātyate / vāvacanāt pakṣe so 'pi bhavati / pañca parimāṇasya pañcad vargaḥ / daśadvargaḥ / pañcako vargaḥ / daśako vargaḥ // saptano 'ñ chandasi
Sanskrit only: no published translation is held for this verse.
वर्गे इत्य् एव, तद् अस्य परिमानम् इति च । सप्तन् शब्दाच् छन्दसि विषये ऽञ् प्रत्ययो भवति वर्गे ऽभिधेये । सप्त साप्तानि असृजत् ॥ त्रिंशच्-चत्वारिंशतोर् ब्राह्मणे सञ्ज्ञायां डण्
varge ity eva, tad asya parimānam iti ca / saptan śabdāc chandasi viṣaye 'ñ pratyayo bhavati varge 'bhidheye / sapta sāptāni asṛjat // triṃśac-catvāriṃśator brāhmaṇe sañjñāyāṃ ḍaṇ
Sanskrit only: no published translation is held for this verse.
तद् अस्य परिमाणम् इत्य् एव । वर्गे इति निवृत्तम् । त्रिंशच्-चत्वरिंशच्-छब्दाभ्यां सञ्ज्ञायां विषये डण् प्रत्ययो भवति तद् अस्य परिमाणम् इत्य् एतस्मिन् विषये ब्राह्मणे ऽभिधेये । अभिधेयसप्तमी एषा, न विषयसप्तमी । तेन मन्त्रभाषयोर् अपि भवति । त्रिंशद्-अध्यायाः परिमाणम् एषां ब्राहमणानां त्रैशानि ब्राह्मणानि । चात्वारिंशानि ब्राह्मणानि । कानिचिद् एव ब्राह्मणान्य् उच्यन्ते ॥ तद् अर्हति
tad asya parimāṇam ity eva / varge iti nivṛttam / triṃśac-catvariṃśac-chabdābhyāṃ sañjñāyāṃ viṣaye ḍaṇ pratyayo bhavati tad asya parimāṇam ity etasmin viṣaye brāhmaṇe 'bhidheye / abhidheyasaptamī eṣā, na viṣayasaptamī / tena mantrabhāṣayor api bhavati / triṃśad-adhyāyāḥ parimāṇam eṣāṃ brāhamaṇānāṃ traiśāni brāhmaṇāni / cātvāriṃśāni brāhmaṇāni / kānicid eva brāhmaṇāny ucyante // tad arhati
Sanskrit only: no published translation is held for this verse.
छेद-आदिभ्यो नित्यम्
cheda-ādibhyo nityam
Sanskrit only: no published translation is held for this verse.
नित्य-ग्रहणं प्रत्ययार्थ-विशेषणम् । छेद-आदिभ्यो द्वितीयासमर्थेभ्यो नित्यम् अर्हति इत्य् अस्मिन्न् अर्थे यथाविहितं प्रत्ययो भवति । छेदं नित्यम् अर्हति छैदिकः । भैदिकः । छेद । भेद । द्रोह । दोह । वर्त । कर्ष । संप्रयोग । विप्रयोग । प्रेषण । संप्रश्न । विप्रकर्ष । विराग विरङ्गं च । वैरङ्गिकः ॥ शीर्षच्छेदाद् यच् च
nitya-grahaṇaṃ pratyayārtha-viśeṣaṇam / cheda-ādibhyo dvitīyāsamarthebhyo nityam arhati ity asminn arthe yathāvihitaṃ pratyayo bhavati / chedaṃ nityam arhati chaidikaḥ / bhaidikaḥ / cheda / bheda / droha / doha / varta / karṣa / saṃprayoga / viprayoga / preṣaṇa / saṃpraśna / viprakarṣa / virāga viraṅgaṃ ca / vairaṅgikaḥ // śīrṣacchedād yac ca
Sanskrit only: no published translation is held for this verse.
शीर्षच्छेद-शब्दाद् द्वितीयासमर्थान् नित्यम् अर्हति इत्य् अस्मिन्न् अर्थे यत् प्रत्ययो भवति । चकाराद् यथाविहितं च । शिरश्छेदं नित्यम् अर्हति शीर्षच्छेद्यः, शैर्षच्छेदिकः । प्रत्ययसंनियोगेन शिरसः शीर्षभावो निपात्यते ॥ दण्दादिभ्यः
śīrṣaccheda-śabdād dvitīyāsamarthān nityam arhati ity asminn arthe yat pratyayo bhavati / cakārād yathāvihitaṃ ca / śiraśchedaṃ nityam arhati śīrṣacchedyaḥ, śairṣacchedikaḥ / pratyayasaṃniyogena śirasaḥ śīrṣabhāvo nipātyate // daṇdādibhyaḥ
Sanskrit only: no published translation is held for this verse.
नित्यम् इति निवृत्तम् । दण्डादिभ्यो द्वितियासमर्थेभ्यः अर्हति इत्य् अस्मिन्न् अर्थे यत् प्रत्ययो भवति । ठको ऽपवादः । दण्डम् अर्हति दण्ड्यः । मुसल्यः । दण्ड । मुसल । मधुपर्क । कशा । अर्घ । मेधा । मेघ । युग । उदक । वध । गुहा । भाग । इभ । दण्डादिः ॥ छन्दसि च
nityam iti nivṛttam / daṇḍādibhyo dvitiyāsamarthebhyaḥ arhati ity asminn arthe yat pratyayo bhavati / ṭhako 'pavādaḥ / daṇḍam arhati daṇḍyaḥ / musalyaḥ / daṇḍa / musala / madhuparka / kaśā / argha / medhā / megha / yuga / udaka / vadha / guhā / bhāga / ibha / daṇḍādiḥ // chandasi ca
Sanskrit only: no published translation is held for this verse.
प्रातिपदिकमात्राच् छन्दसि विषये तद् अर्हति इत्य् अस्मिन्न् अर्थे यत् प्रत्ययो भवति । ठञादीनाम् अपवादः । उदक्या वृत्तयः । यूप्यः पलाशः । गर्त्यो देशः ॥ पात्राद् घंश् च
prātipadikamātrāc chandasi viṣaye tad arhati ity asminn arthe yat pratyayo bhavati / ṭhañādīnām apavādaḥ / udakyā vṛttayaḥ / yūpyaḥ palāśaḥ / gartyo deśaḥ // pātrād ghaṃś ca
Sanskrit only: no published translation is held for this verse.
पात्र-शब्दाद् घन् प्रत्ययो भवति चकाराद् यत् च, तद् अर्हति इत्य् अस्मिन्न् अर्थे । ठक्ठञोर् अपवादः । पात्रं परिमाणम् अप्य् अस्ति । पात्रम् अर्हति पात्रियः । पात्र्यः ॥ कडङ्करदक्षिणाच् छ च
pātra-śabdād ghan pratyayo bhavati cakārād yat ca, tad arhati ity asminn arthe / ṭhakṭhañor apavādaḥ / pātraṃ parimāṇam apy asti / pātram arhati pātriyaḥ / pātryaḥ // kaḍaṅkaradakṣiṇāc cha ca
Sanskrit only: no published translation is held for this verse.
स्थालीबिलात्
sthālībilāt
Sanskrit only: no published translation is held for this verse.
छयतौ अनुवर्त्तेते स्थालीबिल-शब्दाच् छयतौ प्रत्ययौ भवतः तद् अर्हति इत्य् अस्मिन्न् अर्थे । ठको ऽपवादौ । स्थालीबिमलर्हन्ति स्थालीबिलीयाः तण्डुलाः, स्थालीबिल्याः । पाक्योग्याः इत्य् अर्थः ॥ यज्ञ-र्त्विग्भ्यां घ-खञौ
chayatau anuvarttete sthālībila-śabdāc chayatau pratyayau bhavataḥ tad arhati ity asminn arthe / ṭhako 'pavādau / sthālībimalarhanti sthālībilīyāḥ taṇḍulāḥ, sthālībilyāḥ / pākyogyāḥ ity arthaḥ // yajña-rtvigbhyāṃ gha-khañau
Sanskrit only: no published translation is held for this verse.
यज्ञ-शब्दाद् ऋत्विक्-शब्दाच् च यथासङ्ख्यं घ-खञौ प्रत्ययौ भवतः तद् अर्हति इत्य् अस्मिन् विषये । ठको ऽपवादौ । यज्ञियो ब्राह्मणः । आर्त्विजीनो ब्राह्मणः । यज्ञ-र्त्विग्भ्यां तत्कर्मार्हति इत्य् उपसङ्ख्यानम् । यज्ञकर्म अर्हति यज्ञियो देशः । ऋत्विक्कर्म अर्हति आर्त्विजीनं ब्राह्मणकुलम् । अर्हीयाणां ठगादीनां पूर्णो ऽवधिः । अतः परं प्राग्वतीयः ठञ् एव भवति ॥ पारायण-तुरायण-चाद्न्रायणं वर्तयति
yajña-śabdād ṛtvik-śabdāc ca yathāsaṅkhyaṃ gha-khañau pratyayau bhavataḥ tad arhati ity asmin viṣaye / ṭhako 'pavādau / yajñiyo brāhmaṇaḥ / ārtvijīno brāhmaṇaḥ / yajña-rtvigbhyāṃ tatkarmārhati ity upasaṅkhyānam / yajñakarma arhati yajñiyo deśaḥ / ṛtvikkarma arhati ārtvijīnaṃ brāhmaṇakulam / arhīyāṇāṃ ṭhagādīnāṃ pūrṇo 'vadhiḥ / ataḥ paraṃ prāgvatīyaḥ ṭhañ eva bhavati // pārāyaṇa-turāyaṇa-cādnrāyaṇaṃ vartayati
Sanskrit only: no published translation is held for this verse.
समर्थविभक्तिर् अनुवर्तते । अर्हति इति निवृत्तम् । पारायण-अदिभ्यो द्वितीयासमर्थेभ्यः वर्तयति इत्य् अस्मिन्न् अर्थे ठञ् प्रत्ययो भवति । पारायणं वर्तयति अधीते पारायणिकश्छात्रः । तौरायणिको यजमानः । चान्द्रायणिकस्तपस्वी ॥ संशयमापन्नः
samarthavibhaktir anuvartate / arhati iti nivṛttam / pārāyaṇa-adibhyo dvitīyāsamarthebhyaḥ vartayati ity asminn arthe ṭhañ pratyayo bhavati / pārāyaṇaṃ vartayati adhīte pārāyaṇikaśchātraḥ / taurāyaṇiko yajamānaḥ / cāndrāyaṇikastapasvī // saṃśayamāpannaḥ
Sanskrit only: no published translation is held for this verse.
संशय-शब्दाद् द्वितीयासमर्थात् आपन्नः इत्य् एतस्मिन्न् अर्थे ठञ् प्रत्ययो भवति । संशयम् आपन्नः प्राप्तः सांशयिकः स्थाणुः ॥ योजनं गच्छति
saṃśaya-śabdād dvitīyāsamarthāt āpannaḥ ity etasminn arthe ṭhañ pratyayo bhavati / saṃśayam āpannaḥ prāptaḥ sāṃśayikaḥ sthāṇuḥ // yojanaṃ gacchati
Sanskrit only: no published translation is held for this verse.
पथः ष्कन्
pathaḥ ṣkan
Sanskrit only: no published translation is held for this verse.
पथिन्-शब्दाद् द्वितीयासमर्थाद् गच्छति इत्य् अस्मिन्न् अर्थे ष्कन् प्रत्ययो भवति । नकारः स्वरार्थः । षकारो ङीष्-अर्थः । पन्थानं गच्छति पथिकः । पथिकी ॥ पन्थो ण नित्यम्
pathin-śabdād dvitīyāsamarthād gacchati ity asminn arthe ṣkan pratyayo bhavati / nakāraḥ svarārthaḥ / ṣakāro ṅīṣ-arthaḥ / panthānaṃ gacchati pathikaḥ / pathikī // pantho ṇa nityam
Sanskrit only: no published translation is held for this verse.
नित्य्-अग्रहणं प्रत्ययार्थ-विशेषणम् । पथः पन्थ इत्य् अयम् आदेशो भवति णश् च प्रत्ययो नित्यं गच्छति इत्य् अस्मिन् विषये । पन्थानं नित्यं गच्छति पान्थो भिक्षां याचते । नित्यम् इति किम् ? पथिकः ॥ उत्तरपथेन् आहृतं च
nity-agrahaṇaṃ pratyayārtha-viśeṣaṇam / pathaḥ pantha ity ayam ādeśo bhavati ṇaś ca pratyayo nityaṃ gacchati ity asmin viṣaye / panthānaṃ nityaṃ gacchati pāntho bhikṣāṃ yācate / nityam iti kim ? pathikaḥ // uttarapathen āhṛtaṃ ca
Sanskrit only: no published translation is held for this verse.
निर्देशाद् एव समर्थविभक्तिः । उत्तरपथ-शब्दाद् तृतीयासमर्थात् आहृतम् इत्य् एतस्मिन् विषये ठञ् प्रत्ययो भवति । चकारः प्रत्ययार्थसम् उच्चये, गच्छति इति च । अत्र अपि तृतीया+एव समर्थविभक्तिः । उत्तरपथेन-आहृतम् औत्तरपथिकम् । उत्तरपथेन गच्छति औत्तरपथिकः । आहृत-प्रकरणे वारिजङ्गलस्थल्कान्तारपूर्वपदाद् उपसङ्ख्यानम् । वारिपथेन आहृतम् वारिपथिकम् । वारिपथेन गच्छति वारिपथिकः । जङ्गलपथेन आहृतम् जाङ्गलपथिकम् । जङ्गलपथेन गच्छति जाङ्गलपथिकः । स्थलपथेन आहृतम् स्थालपथिकम् । स्थलपथेन् अगच्छति स्थालपथिकः । कान्तारपथेन आहृतम् कान्तारपथिकम् । कान्तारपथेन गच्छति कान्तारपथिकः । अजपथशङ्कुपथाभ्यां च+उपसङ्ख्यानम् । अजपथेन आहृतम् आजपथिकम्, गच्छति वा आजपथिकः । शङ्कुपथेन आहृतम् शाङ्कुपथिकम् । गच्छति वा शाङ्कुपथिकः । मधुकमरिचयोर् अण् स्थलात् । स्थलपथेन आहृतम् स्थालपथं मधुकम् ॥ कालात्
nirdeśād eva samarthavibhaktiḥ / uttarapatha-śabdād tṛtīyāsamarthāt āhṛtam ity etasmin viṣaye ṭhañ pratyayo bhavati / cakāraḥ pratyayārthasam uccaye, gacchati iti ca / atra api tṛtīyā+eva samarthavibhaktiḥ / uttarapathena-āhṛtam auttarapathikam / uttarapathena gacchati auttarapathikaḥ / āhṛta-prakaraṇe vārijaṅgalasthalkāntārapūrvapadād upasaṅkhyānam / vāripathena āhṛtam vāripathikam / vāripathena gacchati vāripathikaḥ / jaṅgalapathena āhṛtam jāṅgalapathikam / jaṅgalapathena gacchati jāṅgalapathikaḥ / sthalapathena āhṛtam sthālapathikam / sthalapathen agacchati sthālapathikaḥ / kāntārapathena āhṛtam kāntārapathikam / kāntārapathena gacchati kāntārapathikaḥ / ajapathaśaṅkupathābhyāṃ ca+upasaṅkhyānam / ajapathena āhṛtam ājapathikam, gacchati vā ājapathikaḥ / śaṅkupathena āhṛtam śāṅkupathikam / gacchati vā śāṅkupathikaḥ / madhukamaricayor aṇ sthalāt / sthalapathena āhṛtam sthālapathaṃ madhukam // kālāt
Sanskrit only: no published translation is held for this verse.
कालात् इत्य् अधिकारः । यद् इत ऊर्ध्वम् अनुक्रमिष्यामः कालात् इत्य् एवं तद् वेदितव्यम् । वक्ष्यति - तेन विर्वृत्तम्
kālāt ity adhikāraḥ / yad ita ūrdhvam anukramiṣyāmaḥ kālāt ity evaṃ tad veditavyam / vakṣyati - tena virvṛttam
Sanskrit only: no published translation is held for this verse.
तेन निर्वृत्तम् (*५,१।७९) । तेन इति तृतीयासमर्थात् काल-वाचिनः प्रातिपदिकात् विर्वृत्तम् इत्य् अस्मिन्न् अर्थे ठञ् प्रत्ययो भवति । अह्ना विर्वृत्तम् आह्निकम् । आर्धमासिकम् । सांवत्सरिकम् ॥ तम् अधीष्टो भृतो भूतो भावी
tena nirvṛttam (*5,1.79) / tena iti tṛtīyāsamarthāt kāla-vācinaḥ prātipadikāt virvṛttam ity asminn arthe ṭhañ pratyayo bhavati / ahnā virvṛttam āhnikam / ārdhamāsikam / sāṃvatsarikam // tam adhīṣṭo bhṛto bhūto bhāvī
Sanskrit only: no published translation is held for this verse.
तम् इति द्वितीयासमर्थात् कालवाचिनः प्रातिपदिकात् अधीष्टो भृतो भूतो भावी वा इत्य् अस्मिन्न् अर्थे यथाविहितं प्रत्ययो भवति । अधीष्टः सत्कृत्य व्यापादितः । भृतः वेतनेन क्रीतः । भूतः स्वसत्तया व्याप्तकालः । भावी तादृश एवानागतः । कालाध्वनोर् अत्यन्तसंयोगे (*२,३।५) इति द्वितीया । मासमधीष्टः मासिको ऽध्यापकः । मासं भृतः मासिकः कर्मकरः । मासं भूतः मासिको व्याधिः । मासं भावी मासिकः उत्सवः । ननु चाध्येषणं भरणं च मुहूर्तं क्रियते तेन कथं मासो व्याप्यते ? अध्येषणभरणे क्रियार्थे, तत्र फलभूतया क्रियया मासो व्याप्यमानस् ताभ्याम् एव व्याप्तः इत्य् उच्यते ॥ मासाद् वयसि यत्खञौ
tam iti dvitīyāsamarthāt kālavācinaḥ prātipadikāt adhīṣṭo bhṛto bhūto bhāvī vā ity asminn arthe yathāvihitaṃ pratyayo bhavati / adhīṣṭaḥ satkṛtya vyāpāditaḥ / bhṛtaḥ vetanena krītaḥ / bhūtaḥ svasattayā vyāptakālaḥ / bhāvī tādṛśa evānāgataḥ / kālādhvanor atyantasaṃyoge (*2,3.5) iti dvitīyā / māsamadhīṣṭaḥ māsiko 'dhyāpakaḥ / māsaṃ bhṛtaḥ māsikaḥ karmakaraḥ / māsaṃ bhūtaḥ māsiko vyādhiḥ / māsaṃ bhāvī māsikaḥ utsavaḥ / nanu cādhyeṣaṇaṃ bharaṇaṃ ca muhūrtaṃ kriyate tena kathaṃ māso vyāpyate ? adhyeṣaṇabharaṇe kriyārthe, tatra phalabhūtayā kriyayā māso vyāpyamānas tābhyām eva vyāptaḥ ity ucyate // māsād vayasi yatkhañau
Sanskrit only: no published translation is held for this verse.
मास-शब्दाद् वयस्य् अभिधेये यत्खञौ प्रत्ययौ भवतः । ठञो ऽपवादौ । अधीष्टादीनां चतुर्णाम् अधिकारे ऽपि सामर्थ्याद् भूत एव अत्र अभिसम्बध्यते । मासं भूतः मास्यः, मासीनः । वयसि ति किम् ? मासिकम् ॥ द्विगोर् यप्
māsa-śabdād vayasy abhidheye yatkhañau pratyayau bhavataḥ / ṭhaño 'pavādau / adhīṣṭādīnāṃ caturṇām adhikāre 'pi sāmarthyād bhūta eva atra abhisambadhyate / māsaṃ bhūtaḥ māsyaḥ, māsīnaḥ / vayasi ti kim ? māsikam // dvigor yap
Sanskrit only: no published translation is held for this verse.
मासाद् वयसि ति वर्तते । मासान्ताद् द्विगोर् यप् प्रत्ययो भवति वयस्य् अभिधेये । द्वौमासौ भूतः द्विमास्यः । त्रिमास्यः ॥ षण्मासाण् ण्यच् च
māsād vayasi ti vartate / māsāntād dvigor yap pratyayo bhavati vayasy abhidheye / dvaumāsau bhūtaḥ dvimāsyaḥ / trimāsyaḥ // ṣaṇmāsāṇ ṇyac ca
Sanskrit only: no published translation is held for this verse.
वयसि इत्य् एव । षण्मास-शब्दाद् वयस्य् अभिधेये ण्यत् प्रत्ययो भवति, यप् च । औत्सर्गिकष्ठञपीष्यते, स चकारेण समुच्चेतव्यः । स्वरितत्वाच्चानन्तरो ऽनुवर्तिष्यते । तेन त्रैऋऊप्यं भवति । षाण्मासय्ः, षण्मास्यः, षाण्मासिकः ॥ अवयसि ठंश् च
vayasi ity eva / ṣaṇmāsa-śabdād vayasy abhidheye ṇyat pratyayo bhavati, yap ca / autsargikaṣṭhañapīṣyate, sa cakāreṇa samuccetavyaḥ / svaritatvāccānantaro 'nuvartiṣyate / tena traiṛūpyaṃ bhavati / ṣāṇmāsayḥ, ṣaṇmāsyaḥ, ṣāṇmāsikaḥ // avayasi ṭhaṃś ca
Sanskrit only: no published translation is held for this verse.
समायाः खः
samāyāḥ khaḥ
Sanskrit only: no published translation is held for this verse.
अधीष्ट-आदयश् चत्वारो ऽर्था अनुवर्तन्ते । समा-शब्दाद् द्वितीयास्मार्थाद् अधीष्टादिषु अर्थेषु खः प्रत्ययो भवति । ठञो ऽपवादः समामधीष्टो भृतो भूतो भावी वा समीनः । केचित् तु तेन निर्वृत्तम् (*५,१।७९) इति सर्वत्र अनुवर्तयन्ति । समया निर्वृत्तः समीनः ॥ द्विगोर् वा
adhīṣṭa-ādayaś catvāro 'rthā anuvartante / samā-śabdād dvitīyāsmārthād adhīṣṭādiṣu artheṣu khaḥ pratyayo bhavati / ṭhaño 'pavādaḥ samāmadhīṣṭo bhṛto bhūto bhāvī vā samīnaḥ / kecit tu tena nirvṛttam (*5,1.79) iti sarvatra anuvartayanti / samayā nirvṛttaḥ samīnaḥ // dvigor vā
Sanskrit only: no published translation is held for this verse.
समायाः खः (*५,१।८५) इत्य् एव । समा-शब्दान्ताद् द्विगोः निर्वृत्तादिसु अर्थेषु पञ्चसु वा खः प्रत्ययो भवति । पूर्वेण नित्यःप्राप्तो विकल्प्यते । प्राग्वतेः सङ्ख्यापूर्वपदानां तदन्त-ग्रहणम् अलुकि (*७,३।१७) इति प्राप्तिर् अस्त्य् एव । खेन मुक्ते पक्षे ठञ् अपि भवति । द्विसमिनः, द्वैसमिकः । त्रिसमीनः, त्रैसमिकः ॥ रात्र्य्-अहः-संवत्सराच् च
samāyāḥ khaḥ (*5,1.85) ity eva / samā-śabdāntād dvigoḥ nirvṛttādisu artheṣu pañcasu vā khaḥ pratyayo bhavati / pūrveṇa nityaḥprāpto vikalpyate / prāgvateḥ saṅkhyāpūrvapadānāṃ tadanta-grahaṇam aluki (*7,3.17) iti prāptir asty eva / khena mukte pakṣe ṭhañ api bhavati / dvisaminaḥ, dvaisamikaḥ / trisamīnaḥ, traisamikaḥ // rātry-ahaḥ-saṃvatsarāc ca
Sanskrit only: no published translation is held for this verse.
रात्रि अहः संवत्सर इत्य् एवम् अन्ताद् द्विगोः निर्वृत्तादिषु अर्थेषु वा खः प्रत्ययो भवति । खेन मुक्ते पक्षे ठञ् अपि भवति । द्विरात्रीणः, द्वैरात्रिकः । त्रिरात्रीणः, त्रैरात्रिकः । द्व्यहीनः, द्वैयह्निकः । त्र्यहीणः, त्रैयह्निकः । द्विसंवत्सरीणः, द्विसांवत्सरिकः । त्रिसंवत्सरीणः, त्रिसांवत्सरिकः । सङ्ख्यायाः संवत्सरसङ्ख्यस्य च इत्य् उत्तरपद-वृद्धिः ॥ वर्षाल् लुक् च
rātri ahaḥ saṃvatsara ity evam antād dvigoḥ nirvṛttādiṣu artheṣu vā khaḥ pratyayo bhavati / khena mukte pakṣe ṭhañ api bhavati / dvirātrīṇaḥ, dvairātrikaḥ / trirātrīṇaḥ, trairātrikaḥ / dvyahīnaḥ, dvaiyahnikaḥ / tryahīṇaḥ, traiyahnikaḥ / dvisaṃvatsarīṇaḥ, dvisāṃvatsarikaḥ / trisaṃvatsarīṇaḥ, trisāṃvatsarikaḥ / saṅkhyāyāḥ saṃvatsarasaṅkhyasya ca ity uttarapada-vṛddhiḥ // varṣāl luk ca
Sanskrit only: no published translation is held for this verse.
द्विगोः इत्य् एव । वर्षान्ताद् द्विगोर् निर्वृत्तादिष्व् अर्थेषु वा खः प्रत्ययो भवति । पक्षे ठञ् । तयोश् च वा लुग् भवति । एवं त्रीणि रूपाणि भवन्ति । द्विवर्षीणो व्याधिः, द्विवार्षिकः, द्विवर्षः । त्रिवर्षीणः, त्रिवार्षिकः, त्रिवर्षः । वर्षस्य अभविष्यति (*७,३।१६) इत्य् उत्तरपद-वृद्धिः । भाविनि तु त्रैवर्षिकः ॥ चित्तवति नित्यम्
dvigoḥ ity eva / varṣāntād dvigor nirvṛttādiṣv artheṣu vā khaḥ pratyayo bhavati / pakṣe ṭhañ / tayoś ca vā lug bhavati / evaṃ trīṇi rūpāṇi bhavanti / dvivarṣīṇo vyādhiḥ, dvivārṣikaḥ, dvivarṣaḥ / trivarṣīṇaḥ, trivārṣikaḥ, trivarṣaḥ / varṣasya abhaviṣyati (*7,3.16) ity uttarapada-vṛddhiḥ / bhāvini tu traivarṣikaḥ // cittavati nityam
Sanskrit only: no published translation is held for this verse.
चित्तवति प्रत्यय-अर्थे ऽभिधेये वर्ष-शब्दान्ताद् द्विगोर् निर्वृत्तादिष्व् अर्थेषु उत्पन्नस्य प्रत्ययस्य नित्यं लुग् भवति । पूर्वेण विकल्पे प्राप्ते वचनम् । द्विवर्षो दारकः । चित्तवति इति किम् ? द्विवर्षीणो व्याधिः ॥ षष्टिकाः षष्टिरात्रेण पच्यन्ते
cittavati pratyaya-arthe 'bhidheye varṣa-śabdāntād dvigor nirvṛttādiṣv artheṣu utpannasya pratyayasya nityaṃ lug bhavati / pūrveṇa vikalpe prāpte vacanam / dvivarṣo dārakaḥ / cittavati iti kim ? dvivarṣīṇo vyādhiḥ // ṣaṣṭikāḥ ṣaṣṭirātreṇa pacyante
Sanskrit only: no published translation is held for this verse.
वत्सरान्ताच् छश् छन्दसि
vatsarāntāc chaś chandasi
Sanskrit only: no published translation is held for this verse.
वत्सरान्तात् प्रातिपदिकात् निवृत्तादिष्व् अर्थेषु छन्दसि विषये छन्ः प्रत्ययो भवति । ठञो ऽपवादः । इद्वत्सरीयः । इदावत्सरीयः ॥ संपरिपूर्वात् ख च
vatsarāntāt prātipadikāt nivṛttādiṣv artheṣu chandasi viṣaye chanḥ pratyayo bhavati / ṭhaño 'pavādaḥ / idvatsarīyaḥ / idāvatsarīyaḥ // saṃparipūrvāt kha ca
Sanskrit only: no published translation is held for this verse.
संपरिपूर्वात् वत्सरान्तात् प्रातिपदिकाच् छन्दसि विषये । निर्वृत्तादिष्व् अर्थेसु खः प्रत्ययो भवति, चकाराच् छश् च । संवत्सरीणाः, संवत्सरीया । परिवत्सरीणम्, परिवत्सरीया ॥ तेन परिजय्य-लभ्य-कार्य-सुकरम्
saṃparipūrvāt vatsarāntāt prātipadikāc chandasi viṣaye / nirvṛttādiṣv arthesu khaḥ pratyayo bhavati, cakārāc chaś ca / saṃvatsarīṇāḥ, saṃvatsarīyā / parivatsarīṇam, parivatsarīyā // tena parijayya-labhya-kārya-sukaram
Sanskrit only: no published translation is held for this verse.
तेन इति तृतीयासमर्थात् कालवाचिनः प्रातिपदिकात् परिजय्य, लभ्य, काय, सुकर इत्य् एतेष्व् अर्थेषु ठञ् प्रत्ययो भवति । मासेन परिजय्यः, शक्यते जेतुं, मासिको व्याधिः । सांवत्सरिकः । मासेन लभ्यः मासिकः पटः । मासेन कार्यम् मासिकं चान्द्रायणम् । मासेन सुकरः मासिकः प्रासादः ॥ तद् अस्य ब्रह्मचर्यम्
tena iti tṛtīyāsamarthāt kālavācinaḥ prātipadikāt parijayya, labhya, kāya, sukara ity eteṣv artheṣu ṭhañ pratyayo bhavati / māsena parijayyaḥ, śakyate jetuṃ, māsiko vyādhiḥ / sāṃvatsarikaḥ / māsena labhyaḥ māsikaḥ paṭaḥ / māsena kāryam māsikaṃ cāndrāyaṇam / māsena sukaraḥ māsikaḥ prāsādaḥ // tad asya brahmacaryam
Sanskrit only: no published translation is held for this verse.
तच् चरति इति च । महानाम्न्य ऋचः, तत् सहचरितं व्रतं तच्छब्देन+उच्यते । महानाम्नीश्चरति माहानामिकः । आदित्यव्रतिकः । गौदानिकः । भस्याढे इति पुंबद्भावेन ङीपि निवृत्ते नस् तद्धिते (*६,४।१४४) इति टिलोपः । अवान्तरदीक्षादिभ्यो डिनिर्वक्तव्यः । अवान्तरदीक्षां चरति अवान्तरदीक्षी । तिलव्रती । अष्टाचत्वारिंशतो ड्वुंश् च डिनिश् च वक्तव्यः । अष्टाचत्वारिंशद् वर्षाणि व्रतं चरति अष्टाचत्वारिंशकः, अष्टाचत्वरिंशी । चातुर्मास्यानां यलोपश् च ड्वुंश् च डिनिश् च वक्तव्यः । चातुर्मास्यानि चरति चातुर्मासकः, चातुरमासी । चतुर्मास्याण् ण्यो यज्ञे तत्र भवे । चतुर्षु मासेषु भवानि चातुर्मास्यानि । सञ्ज्ञायामण् वक्तव्यः । चतुर्षु मासेषु भवा चातुर्मासी पौर्णमासी । आषाढी । कार्तिकी । फाल्गुनी ॥ तस्य च दक्षिणा यज्ञाख्येभ्यः
tac carati iti ca / mahānāmnya ṛcaḥ, tat sahacaritaṃ vrataṃ tacchabdena+ucyate / mahānāmnīścarati māhānāmikaḥ / ādityavratikaḥ / gaudānikaḥ / bhasyāḍhe iti puṃbadbhāvena ṅīpi nivṛtte nas taddhite (*6,4.144) iti ṭilopaḥ / avāntaradīkṣādibhyo ḍinirvaktavyaḥ / avāntaradīkṣāṃ carati avāntaradīkṣī / tilavratī / aṣṭācatvāriṃśato ḍvuṃś ca ḍiniś ca vaktavyaḥ / aṣṭācatvāriṃśad varṣāṇi vrataṃ carati aṣṭācatvāriṃśakaḥ, aṣṭācatvariṃśī / cāturmāsyānāṃ yalopaś ca ḍvuṃś ca ḍiniś ca vaktavyaḥ / cāturmāsyāni carati cāturmāsakaḥ, cāturamāsī / caturmāsyāṇ ṇyo yajñe tatra bhave / caturṣu māseṣu bhavāni cāturmāsyāni / sañjñāyāmaṇ vaktavyaḥ / caturṣu māseṣu bhavā cāturmāsī paurṇamāsī / āṣāḍhī / kārtikī / phālgunī // tasya ca dakṣiṇā yajñākhyebhyaḥ
Sanskrit only: no published translation is held for this verse.
तत्र च दीयते कार्यं भववत्
tatra ca dīyate kāryaṃ bhavavat
Sanskrit only: no published translation is held for this verse.
तत्र इति सप्तमीसमर्थात् कालवाचिनः प्रातिपदिकाद् दीयते, कार्यम् इत्य् एतयोर् अर्थयोर् भववत् प्रत्ययो भवति । यथा - मासे भवं मासिकम् । सांवत्सरिकम् । प्रावृषेण्यम् । वासन्तिकम् । वासन्तम् । हैमनम् । हैमन्तम् । हैमन्तिकम् । शारदम् । वतिः सर्वसादृश्यार्थः । योगविभागश् च अत्र कर्तव्यः, तत्र च दीयते, यज्ञाख्येभ्यः इति । आग्निष्टेमिकं भक्तम् । राजसूयिकम् । वाजपेयिकम् । कालाधिकारस्य पूर्णो ऽवधिः । अतः परं सामान्येन प्रत्ययविधानम् ॥ व्युष्ट-आदिभ्यो ऽण्
tatra iti saptamīsamarthāt kālavācinaḥ prātipadikād dīyate, kāryam ity etayor arthayor bhavavat pratyayo bhavati / yathā - māse bhavaṃ māsikam / sāṃvatsarikam / prāvṛṣeṇyam / vāsantikam / vāsantam / haimanam / haimantam / haimantikam / śāradam / vatiḥ sarvasādṛśyārthaḥ / yogavibhāgaś ca atra kartavyaḥ, tatra ca dīyate, yajñākhyebhyaḥ iti / āgniṣṭemikaṃ bhaktam / rājasūyikam / vājapeyikam / kālādhikārasya pūrṇo 'vadhiḥ / ataḥ paraṃ sāmānyena pratyayavidhānam // vyuṣṭa-ādibhyo 'ṇ
Sanskrit only: no published translation is held for this verse.
तत्र इति सप्तमीसमर्थेभ्यः व्युष्टादिभ्यः दीयते, कार्यम् इत्य् एतयोर् अण् प्रत्ययो भवति । व्युष्टे दीयते कार्यम् वा वैयुष्टम् । नैत्यम् । अण्प्रकरणे ऽग्निपदादिभ्य उपसङ्ख्यानम् । आग्निपदम् । पैलुमूलम् । किं वक्तव्यम्? न वक्तव्यम् । अत्र+एव ते पठितव्याः । व्युष्ट । नित्य । निष्क्रमण । प्रवेशन । तीर्थ । सम्भ्रम । आस्तरण । सङ्ग्राम । सङ्घात । अग्निपद । पीलुमूल । प्रवास । उपसङ्क्रमण । व्युष्टादिः ॥ तेन यथाकथाच-हस्ताभ्यां ण-यतौ
tatra iti saptamīsamarthebhyaḥ vyuṣṭādibhyaḥ dīyate, kāryam ity etayor aṇ pratyayo bhavati / vyuṣṭe dīyate kāryam vā vaiyuṣṭam / naityam / aṇprakaraṇe 'gnipadādibhya upasaṅkhyānam / āgnipadam / pailumūlam / kiṃ vaktavyam? na vaktavyam / atra+eva te paṭhitavyāḥ / vyuṣṭa / nitya / niṣkramaṇa / praveśana / tīrtha / sambhrama / āstaraṇa / saṅgrāma / saṅghāta / agnipada / pīlumūla / pravāsa / upasaṅkramaṇa / vyuṣṭādiḥ // tena yathākathāca-hastābhyāṃ ṇa-yatau
Sanskrit only: no published translation is held for this verse.
दीयते, कार्यम् इति वर्तते । तेन इति तृतीयासमर्थाभ्यां यथाकथाच-हस्त-शब्दाभ्यां यथासङ्ख्यं ण-यतौ प्रत्ययौ भवतः । दीयते, कार्यम् इत्य् एतयोर् अर्थयोः प्रत्येकम् अभिसम्बधः, यथासङ्ख्यं न+इष्यते । यथाकथाच-शब्दो ऽव्ययसमुदायो ऽनादरे वर्तते । तृतीयार्थमात्रं च अत्र संभवति, न तु तृतीया समर्थविभक्तिः । यथाकथाच दीयते कार्यं वा याथाकथाचम् । हस्तेन दीयते कार्यं वा हस्त्यम् ॥ सम्पादिनि
dīyate, kāryam iti vartate / tena iti tṛtīyāsamarthābhyāṃ yathākathāca-hasta-śabdābhyāṃ yathāsaṅkhyaṃ ṇa-yatau pratyayau bhavataḥ / dīyate, kāryam ity etayor arthayoḥ pratyekam abhisambadhaḥ, yathāsaṅkhyaṃ na+iṣyate / yathākathāca-śabdo 'vyayasamudāyo 'nādare vartate / tṛtīyārthamātraṃ ca atra saṃbhavati, na tu tṛtīyā samarthavibhaktiḥ / yathākathāca dīyate kāryaṃ vā yāthākathācam / hastena dīyate kāryaṃ vā hastyam // sampādini
Sanskrit only: no published translation is held for this verse.
कर्म-वेषाद् यत्
karma-veṣād yat
Sanskrit only: no published translation is held for this verse.
कर्म-वेष-शब्दाभ्यां तृतीयासमर्थाभ्यां यत् प्रत्ययो भवति सम्पादिनि इत्य् एतस्मिन् विषये । ठञो ऽपवादः । कर्मणा सम्पद्यते कर्मण्यम् शरीरम् । वेषेण संपद्यते वेष्यो नटः ॥ तस्मै प्रथवति सन्ताप-आदिभ्याः
karma-veṣa-śabdābhyāṃ tṛtīyāsamarthābhyāṃ yat pratyayo bhavati sampādini ity etasmin viṣaye / ṭhaño 'pavādaḥ / karmaṇā sampadyate karmaṇyam śarīram / veṣeṇa saṃpadyate veṣyo naṭaḥ // tasmai prathavati santāpa-ādibhyāḥ
Sanskrit only: no published translation is held for this verse.
तस्मै इति चतुर्थीसमर्थेभ्यः सन्तापादिभ्यः प्रभवति इत्य् अस्मिन् विषये ठञ् प्रत्ययो भवति । समर्थः, शक्त प्रभवति इत्य् उच्यते । अलमर्थे चतुर्थी । संतापाय प्रभवति सान्तापिकः । सान्नाहिकः । सन्ताप । सन्नाह । सङ्ग्राम । संयोग । संपराय । संपेष । निष्पेष । निसर्ग । असर्ग । विसर्ग । उपसर्ग । उपवास । प्रवास । सङ्घात । संमोदन । सक्तुमांसौदनाद्विगृहीताद् अपि ॥ योगाद् यच् च
tasmai iti caturthīsamarthebhyaḥ santāpādibhyaḥ prabhavati ity asmin viṣaye ṭhañ pratyayo bhavati / samarthaḥ, śakta prabhavati ity ucyate / alamarthe caturthī / saṃtāpāya prabhavati sāntāpikaḥ / sānnāhikaḥ / santāpa / sannāha / saṅgrāma / saṃyoga / saṃparāya / saṃpeṣa / niṣpeṣa / nisarga / asarga / visarga / upasarga / upavāsa / pravāsa / saṅghāta / saṃmodana / saktumāṃsaudanādvigṛhītād api // yogād yac ca
Sanskrit only: no published translation is held for this verse.
योग-शब्दात् यत् प्रत्ययो भवति, चकारात् ठञ्, तस्मै प्रभवति इत्य् अस्मिन् विषये । योगाय प्रभवति योग्यः, यौगिकः ॥ कर्मण उकञ्
yoga-śabdāt yat pratyayo bhavati, cakārāt ṭhañ, tasmai prabhavati ity asmin viṣaye / yogāya prabhavati yogyaḥ, yaugikaḥ // karmaṇa ukañ
Sanskrit only: no published translation is held for this verse.
कर्मन्-शब्दा उकञ् प्रत्ययो भवति तस्मै प्रभवति इत्य् एतस्मिन्न् अर्थे । ठञो ऽपवादः । कर्मणे प्रभवति कार्मुकं धनुः । धनुषो ऽन्यत्र न भवति, अनभिधानात् ॥ समयस् तद् अस्य प्राप्तम्
karman-śabdā ukañ pratyayo bhavati tasmai prabhavati ity etasminn arthe / ṭhaño 'pavādaḥ / karmaṇe prabhavati kārmukaṃ dhanuḥ / dhanuṣo 'nyatra na bhavati, anabhidhānāt // samayas tad asya prāptam
Sanskrit only: no published translation is held for this verse.
समय-शब्दात् तत् इति प्रथमासमर्थाद् अस्य इति षष्ठ्यर्थे ठञ् प्रत्ययो भवति, यत् तत्प्रथमासमर्थं प्राप्तं चेद् तद् भवति । समयः प्राप्तो ऽस्य सामयिकं कार्यम् । उपनतकालम् इत्य् अर्थः । समर्थविभक्ति-निर्देश उत्तरार्थः ॥ ऋतोरण्
samaya-śabdāt tat iti prathamāsamarthād asya iti ṣaṣṭhyarthe ṭhañ pratyayo bhavati, yat tatprathamāsamarthaṃ prāptaṃ ced tad bhavati / samayaḥ prāpto 'sya sāmayikaṃ kāryam / upanatakālam ity arthaḥ / samarthavibhakti-nirdeśa uttarārthaḥ // ṛtoraṇ
Sanskrit only: no published translation is held for this verse.
छन्दसि घस्
chandasi ghas
Sanskrit only: no published translation is held for this verse.
ऋतु-शब्दाच् छन्दसि विषये घस् प्रत्ययो भवति तद् अस्य प्राप्तम् इत्य् अस्मिन् विसये । अणो ऽपवादः । अयं ते योनिरृत्वियः ॥ कालाद् यत्
ṛtu-śabdāc chandasi viṣaye ghas pratyayo bhavati tad asya prāptam ity asmin visaye / aṇo 'pavādaḥ / ayaṃ te yonirṛtviyaḥ // kālād yat
Sanskrit only: no published translation is held for this verse.
काल-शब्दात् यत् प्रत्ययो भवति तद् अस्य प्राप्तम् इत्य् अस्मिन् विषये । कालः प्राप्तो ऽस्य काल्यः तापः । काल्यं शीतम् ॥ प्रकृष्टे ठञ्
kāla-śabdāt yat pratyayo bhavati tad asya prāptam ity asmin viṣaye / kālaḥ prāpto 'sya kālyaḥ tāpaḥ / kālyaṃ śītam // prakṛṣṭe ṭhañ
Sanskrit only: no published translation is held for this verse.
कालात् इत्य् एव, तद् अस्य इति च । प्राप्तम् इति निवृत्तम् । प्रकर्षेण कालो विशेष्यते । प्रकर्षे वर्तमानात् कालात् प्रथमासमर्थाद् अस्य इति षष्ठ्यर्थे ठञ् प्रत्ययो भवति । प्रकृष्टो दीर्घः कालो ऽस्य कालिकमृणम् । कालिकं वैरम् । ठञ्-ग्रहणं विस्पष्ट-अर्थम् ॥ प्रयोजनम्
kālāt ity eva, tad asya iti ca / prāptam iti nivṛttam / prakarṣeṇa kālo viśeṣyate / prakarṣe vartamānāt kālāt prathamāsamarthād asya iti ṣaṣṭhyarthe ṭhañ pratyayo bhavati / prakṛṣṭo dīrghaḥ kālo 'sya kālikamṛṇam / kālikaṃ vairam / ṭhañ-grahaṇaṃ vispaṣṭa-artham // prayojanam
Sanskrit only: no published translation is held for this verse.
तद् अस्य इत्य् एव । तद् इति प्रथमसमर्थात् अस्य इति षष्थ्यर्थे ठञ् प्रययो भवति, यत् तत् प्रथमासमर्थं प्रयोजनं चेद् तद् भवति । इन्द्रमहः प्रयोजनम् अस्य ऐन्द्रमहिकम् । गाङ्गामहिकम् ॥ विशाखा-अषाढाद् अण् मन्थ-दण्डयोः
tad asya ity eva / tad iti prathamasamarthāt asya iti ṣaṣthyarthe ṭhañ prayayo bhavati, yat tat prathamāsamarthaṃ prayojanaṃ ced tad bhavati / indramahaḥ prayojanam asya aindramahikam / gāṅgāmahikam // viśākhā-aṣāḍhād aṇ mantha-daṇḍayoḥ
Sanskrit only: no published translation is held for this verse.
विशाखा-षढा-शब्दाभ्याम् अण् प्रत्ययो भवति तद् अस्य प्रयोजनम् इत्य् एतस्मिन् विषये यथासङ्ख्यम् मन्थ-दण्डयोर् अभिधेययोः । विशाखा प्रयोजनम् अस्य वैशाखो मन्थः । आषाढो दण्डः । चूडादिभ्य उपसङ्ख्यानम् । चूडा प्रयोजनम् अस्य चौडम् । श्रद्धा प्रयोजनम् अस्य श्राद्धम् ॥ अनुप्रवचन-आदिभ्यश् छः
viśākhā-ṣaḍhā-śabdābhyām aṇ pratyayo bhavati tad asya prayojanam ity etasmin viṣaye yathāsaṅkhyam mantha-daṇḍayor abhidheyayoḥ / viśākhā prayojanam asya vaiśākho manthaḥ / āṣāḍho daṇḍaḥ / cūḍādibhya upasaṅkhyānam / cūḍā prayojanam asya cauḍam / śraddhā prayojanam asya śrāddham // anupravacana-ādibhyaś chaḥ
Sanskrit only: no published translation is held for this verse.
पुण्याहवाचनादीभ्यो लुग् वक्तव्यः । पुण्याहवाचनं प्रयोजनम् अस्य पुण्याहवाचनम् । स्वस्तिवाचनम् । शान्तिवाचनम् । अनुप्रवचन । उत्थापन । प्रवेशन । अनुप्रवेशन । उपस्थापन । संवेषन । अनुवेशन । अनुवचन । अनुवादन । अनुवासन । आरम्भण । आरोहण । प्ररोहण । अन्वारोहण । अनुप्रवचनादिः ॥ समापनात् सपूर्वपदात्
puṇyāhavācanādībhyo lug vaktavyaḥ / puṇyāhavācanaṃ prayojanam asya puṇyāhavācanam / svastivācanam / śāntivācanam / anupravacana / utthāpana / praveśana / anupraveśana / upasthāpana / saṃveṣana / anuveśana / anuvacana / anuvādana / anuvāsana / ārambhaṇa / ārohaṇa / prarohaṇa / anvārohaṇa / anupravacanādiḥ // samāpanāt sapūrvapadāt
Sanskrit only: no published translation is held for this verse.
समापन-शब्दात् सपूर्वपदात् विद्यमानपूर्वपदाच् छः प्रत्ययो भवति तद् अस्य प्रयोजनम् इत्य् एतस्मिन् विषये । ठञो ऽपवादः । छन्दःसमापनं प्रयोजनमस्य छन्दःसमापनीयम् । व्याकरणसमापनीयम् । पद-ग्रहणं बहुच्पूर्वनिरासार्थम् ॥ ऐकागारिकट् चौरे
samāpana-śabdāt sapūrvapadāt vidyamānapūrvapadāc chaḥ pratyayo bhavati tad asya prayojanam ity etasmin viṣaye / ṭhaño 'pavādaḥ / chandaḥsamāpanaṃ prayojanamasya chandaḥsamāpanīyam / vyākaraṇasamāpanīyam / pada-grahaṇaṃ bahucpūrvanirāsārtham // aikāgārikaṭ caure
Sanskrit only: no published translation is held for this verse.
ऐकागारिकट् इति निपात्यते चौरे ऽभिधेये । एकागारं प्रयोजनम् अस्य ऐकागारिकः चौरः । ऐकागारिकी । किम् अर्थम् इदं निपात्यते, यावता प्रयोजनम् इत्य् एव सिद्धष्ठञ् ? चौरे नियमार्थं वचनम् । इह मा भूत्, एकागारं प्रयोजनम् अस्य भिक्षोः इति । ठकारः कार्यावधारण-अर्थः, ङीब् एव भवति न ञित्स्वरः इति । अपरे पुनर् इकट् प्रत्ययं वृद्धिं च निपातयन्ति ॥ आकालिकड्-आद्यन्तवचने
aikāgārikaṭ iti nipātyate caure 'bhidheye / ekāgāraṃ prayojanam asya aikāgārikaḥ cauraḥ / aikāgārikī / kim artham idaṃ nipātyate, yāvatā prayojanam ity eva siddhaṣṭhañ ? caure niyamārthaṃ vacanam / iha mā bhūt, ekāgāraṃ prayojanam asya bhikṣoḥ iti / ṭhakāraḥ kāryāvadhāraṇa-arthaḥ, ṅīb eva bhavati na ñitsvaraḥ iti / apare punar ikaṭ pratyayaṃ vṛddhiṃ ca nipātayanti // ākālikaḍ-ādyantavacane
Sanskrit only: no published translation is held for this verse.
आकालिकट् इति निपात्यते आद्यन्तवचने । समानकाल-शब्दस्य आकाल-शब्द आदेशः । आद्यन्तयोश् च+एतद् विशेषणम् । इकट् प्रत्ययश् च निपात्यते । समानकालौ आद्यन्तौ अस्य आकालिकः स्तनयित्नुः । आकालिकी विद्युत् । जन्मना तुल्यकालविनाशा । उत्पादानन्तरं विनाशिनीत्यर्थः । आकालाट् ठंश् च । चात् ठञ् च । आकालिका विद्युत् । ठञः पूर्णो ऽवधिः ॥ तेन तुल्यं क्रिया चेद् वतिः
ākālikaṭ iti nipātyate ādyantavacane / samānakāla-śabdasya ākāla-śabda ādeśaḥ / ādyantayoś ca+etad viśeṣaṇam / ikaṭ pratyayaś ca nipātyate / samānakālau ādyantau asya ākālikaḥ stanayitnuḥ / ākālikī vidyut / janmanā tulyakālavināśā / utpādānantaraṃ vināśinītyarthaḥ / ākālāṭ ṭhaṃś ca / cāt ṭhañ ca / ākālikā vidyut / ṭhañaḥ pūrṇo 'vadhiḥ // tena tulyaṃ kriyā ced vatiḥ
Sanskrit only: no published translation is held for this verse.
तत्र तस्य+इव
tatra tasya+iva
Sanskrit only: no published translation is held for this verse.
तत्र इति सप्तमीसमर्थात् तस्य इति षष्ठीसमर्थाच् च इव-अर्थे वतिः प्रत्ययो भवति । मथुरायाम् इव मथुरावत् स्रुघ्ने प्राकारः । पाटलिपुत्रवत् साकेते परिखा । षष्थीसमर्थात् - देवदत्तस्य इव देवदत्तवत् यज्ञादत्तस्य गावः । यज्ञदत्तस्य इव यज्ञदत्तवत् देवदत्तस्य दन्ताः ॥ तद् अर्हम्
tatra iti saptamīsamarthāt tasya iti ṣaṣṭhīsamarthāc ca iva-arthe vatiḥ pratyayo bhavati / mathurāyām iva mathurāvat srughne prākāraḥ / pāṭaliputravat sākete parikhā / ṣaṣthīsamarthāt - devadattasya iva devadattavat yajñādattasya gāvaḥ / yajñadattasya iva yajñadattavat devadattasya dantāḥ // tad arham
Sanskrit only: no published translation is held for this verse.
तत् इति द्वितीयासमर्थात् अर्हम् इत्य् एतस्मिन्न् अर्थे वतिः प्रत्ययो भवति । राजानम् अर्हति राजवत् पालनम् । ब्राह्मणवत् ऋषिवत् । क्षत्रियवत् ॥ उपसर्गाच् छन्दसि धात्व्-अर्थे
tat iti dvitīyāsamarthāt arham ity etasminn arthe vatiḥ pratyayo bhavati / rājānam arhati rājavat pālanam / brāhmaṇavat ṛṣivat / kṣatriyavat // upasargāc chandasi dhātv-arthe
Sanskrit only: no published translation is held for this verse.
उपसर्गात् ससाधने धात्वर्थे वर्तमानात् स्वार्थे वतिः प्रत्ययो भवति छन्दसि विषये । यदुद्वतो निवतो यासि वप्सद् । उद्गतानि निगतानि च ॥ तस्य भावस् त्व-तलौ
upasargāt sasādhane dhātvarthe vartamānāt svārthe vatiḥ pratyayo bhavati chandasi viṣaye / yadudvato nivato yāsi vapsad / udgatāni nigatāni ca // tasya bhāvas tva-talau
Sanskrit only: no published translation is held for this verse.
तस्य इति षष्थीसमर्थाद् भावः इत्य् एतस्म्निन्न् अर्थे तवतलौ प्रत्ययौ भवतः । भवतो ऽस्माद् अभिधानप्रत्ययौ इति भावः । शब्दस्य प्रवृत्ति-निमित्तं भाव-शब्देन+उच्यते । अश्वस्य भावः अश्वत्वम्, अश्वता । गोत्वम्, गोता ॥ आ च त्वात्
tasya iti ṣaṣthīsamarthād bhāvaḥ ity etasmninn arthe tavatalau pratyayau bhavataḥ / bhavato 'smād abhidhānapratyayau iti bhāvaḥ / śabdasya pravṛtti-nimittaṃ bhāva-śabdena+ucyate / aśvasya bhāvaḥ aśvatvam, aśvatā / gotvam, gotā // ā ca tvāt
Sanskrit only: no published translation is held for this verse.