ज्योत्स्नादयः शब्दाः निपात्यन्ते मत्वर्थे सञ्ज्ञायां विषये । ज्योतिष उपधालोपो नश् च प्रत्ययो निपात्यते - ज्योत्स्ना चन्द्रप्रभा । तमस उपधाया इकारो रश् च - तमिस्रा रात्रिः । स्त्रीत्वमतन्त्रम् अन्यत्र अपि दृश्यते - तमिस्रं नभः । शृङ्गाद् इनच् प्रत्ययो निपात्यते - शृङ्गिणः । ऊर्जो ऽसुगागमो निपात्यते विनिवलचौ प्रत्ययौ - ऊर्जस्वी, ऊर्जस्वलः । गोर्मिनि प्रत्ययो निपात्यते - गोमी । मलशब्दाद् इनजीमसचौ प्रत्ययौ निपात्येते - मलिनः, मलीमसः ॥ अत इनिठनौ
jyotsnādayaḥ śabdāḥ nipātyante matvarthe sañjñāyāṃ viṣaye / jyotiṣa upadhālopo naś ca pratyayo nipātyate - jyotsnā candraprabhā / tamasa upadhāyā ikāro raś ca - tamisrā rātriḥ / strītvamatantram anyatra api dṛśyate - tamisraṃ nabhaḥ / śṛṅgād inac pratyayo nipātyate - śṛṅgiṇaḥ / ūrjo 'sugāgamo nipātyate vinivalacau pratyayau - ūrjasvī, ūrjasvalaḥ / gormini pratyayo nipātyate - gomī / malaśabdād inajīmasacau pratyayau nipātyete - malinaḥ, malīmasaḥ // ata iniṭhanau
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.