ह्रस्वे इत्य् एव । सञ्ज्ञाग्रहणं न अनुवर्तते । सामान्येन विधानम् । कुटी-शमी-शुण्डाभ्यो ह्रस्वार्थे द्योत्ये रः प्रत्ययो भवति । कस्य अपवादः । ह्रस्वा कुटी कुटीरः । शमीरः । शुण्डारः । स्वार्थिकत्वे ऽपि पुंलिङ्गता, लोकाश्रयत्वाल् लिङ्गस्य ॥ कुत्वा डुपच्
hrasve ity eva / sañjñāgrahaṇaṃ na anuvartate / sāmānyena vidhānam / kuṭī-śamī-śuṇḍābhyo hrasvārthe dyotye raḥ pratyayo bhavati / kasya apavādaḥ / hrasvā kuṭī kuṭīraḥ / śamīraḥ / śuṇḍāraḥ / svārthikatve 'pi puṃliṅgatā, lokāśrayatvāl liṅgasya // kutvā ḍupac
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.