शरत् इत्य् एवम् आदिभ्यः प्रातिपदिकेभ्यः टच् प्रत्ययो भवति अव्ययीभावे । शरदः समीपम् उपशरदम् । प्रतिशरदम् । उपविपाशम् । प्रतिविपाशम् अव्ययीभावे इति किम् ? पारमशरत् । ये ऽत्र ज्ञयन्तः पठ्यन्ते तेषां नित्यार्थं ग्रहणम् । स्वर्यते च+इदम् अव्ययीभावग्रहणम् प्राग् बहुव्रीहेः । शरत् । विपाश् । अनस् । मनस् । उपानः । दिव् । हिमवत् । अनडुः । दिश् । दृश् । उअतुर् । यद् । तद् । जराया जरश्च । सदृश् । प्रतिपरसमनुभ्यो ऽक्ष्णः । पथिन् । प्रत्यक्षम् । परोक्षम् । समक्षम् । अन्वक्षम् । प्रतिपथम् । परपथम् । संपथम् । अनुपथम् ॥ अनश् च
śarat ity evam ādibhyaḥ prātipadikebhyaḥ ṭac pratyayo bhavati avyayībhāve / śaradaḥ samīpam upaśaradam / pratiśaradam / upavipāśam / prativipāśam avyayībhāve iti kim ? pāramaśarat / ye 'tra jñayantaḥ paṭhyante teṣāṃ nityārthaṃ grahaṇam / svaryate ca+idam avyayībhāvagrahaṇam prāg bahuvrīheḥ / śarat / vipāś / anas / manas / upānaḥ / div / himavat / anaḍuḥ / diś / dṛś / uatur / yad / tad / jarāyā jaraśca / sadṛś / pratiparasamanubhyo 'kṣṇaḥ / pathin / pratyakṣam / parokṣam / samakṣam / anvakṣam / pratipatham / parapatham / saṃpatham / anupatham // anaś ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.