मृगो नेता आसां रात्रीणाम् मृगनेत्रा रात्रयः । पुष्यनेत्राः । नक्षत्रे इति किम् ? देवदत्तनेतृकाः । छन्दसि च नेतुरुपसङ्ख्यानम् । वृहस्पतिनेत्रा देवाः । सोमनेत्राः । मासाद् भृतिप्रत्ययपूर्वपदाट् ठज्विधिः । पञ्चको मासो ऽस्य पञ्चकमासिकः कर्मकरः । दशकमासिकः । सो ऽस्यांशवस्नभुऋतयः (*५,१।५६) इति सङ्ख्याया अतिशदन्तायाः कन् (*५,१।५२) ॥ अन्तर्-बहिर्भ्यां च लोम्नः
mṛgo netā āsāṃ rātrīṇām mṛganetrā rātrayaḥ / puṣyanetrāḥ / nakṣatre iti kim ? devadattanetṛkāḥ / chandasi ca neturupasaṅkhyānam / vṛhaspatinetrā devāḥ / somanetrāḥ / māsād bhṛtipratyayapūrvapadāṭ ṭhajvidhiḥ / pañcako māso 'sya pañcakamāsikaḥ karmakaraḥ / daśakamāsikaḥ / so 'syāṃśavasnabhuṛtayaḥ (*5,1.56) iti saṅkhyāyā atiśadantāyāḥ kan (*5,1.52) // antar-bahirbhyāṃ ca lomnaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.