नासिकान्तात् बहुव्रीहेः अच् प्रत्ययो भवति, नासिकाशब्दश् च न समादेशम् आपद्यते । अस्थूलात् इति नासिकाविशेषणं, न चेत् स्थूलशब्दात् परा नासिका भवति इति । सञ्ज्ञायाम् इति समुदायोपाधिः । द्रुरिव नासिका अस्य द्रुणसः । वाद्ग्रीणसः । पूर्वपदात् सञ्ज्ञायाम् अगः (*८,४।३) इति णत्वम् । गोनसः । सञ्ज्ञायाम् इति किम् ? तुङ्गनासिकः । अस्थूलात् इति किम् ? स्थूलनासिको वराहः । खुरखराभ्यां नस् वक्तव्यः । खुरणाः । खरणाः । पक्षे ऽच्प्रत्ययो ऽपि इष्यते । खुरणसः । खरणसः । शितिनाः, अहिनाः, अर्चनाः इति निगम इष्यते ॥ उपसर्गाच् च
nāsikāntāt bahuvrīheḥ ac pratyayo bhavati, nāsikāśabdaś ca na samādeśam āpadyate / asthūlāt iti nāsikāviśeṣaṇaṃ, na cet sthūlaśabdāt parā nāsikā bhavati iti / sañjñāyām iti samudāyopādhiḥ / druriva nāsikā asya druṇasaḥ / vādgrīṇasaḥ / pūrvapadāt sañjñāyām agaḥ (*8,4.3) iti ṇatvam / gonasaḥ / sañjñāyām iti kim ? tuṅganāsikaḥ / asthūlāt iti kim ? sthūlanāsiko varāhaḥ / khurakharābhyāṃ nas vaktavyaḥ / khuraṇāḥ / kharaṇāḥ / pakṣe 'cpratyayo 'pi iṣyate / khuraṇasaḥ / kharaṇasaḥ / śitināḥ, ahināḥ, arcanāḥ iti nigama iṣyate // upasargāc ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.