उपमानात् इत्य् एव । उपमानात् इहस्त्यादिवर्जितात् परस्य पादशब्दस्य लोपो भवति समासान्तो बहुव्रीहौ समासे । स्थानिद्वारेण लोपस्य समासान्तता विज्ञायते । व्याघ्रस्य+इव पादौ अस्य व्यघ्रपात् । संहपात् । अहस्त्यादिभ्यः इति किम् ? हस्तिपादः । कटोलपादः । हस्तिन् । कटोल । गण्डोल । गण्डोलक । महिला । दासी । गणिका । कुसूल ॥ कुम्भपदीषु च
upamānāt ity eva / upamānāt ihastyādivarjitāt parasya pādaśabdasya lopo bhavati samāsānto bahuvrīhau samāse / sthānidvāreṇa lopasya samāsāntatā vijñāyate / vyāghrasya+iva pādau asya vyaghrapāt / saṃhapāt / ahastyādibhyaḥ iti kim ? hastipādaḥ / kaṭolapādaḥ / hastin / kaṭola / gaṇḍola / gaṇḍolaka / mahilā / dāsī / gaṇikā / kusūla // kumbhapadīṣu ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.