याव इत्य् एवम् आदिभ्यः स्वार्थे कन्प्रत्ययो भवति । याव एव यावकः । माणिकः । याव । मणि । अस्थि । चण्ड । पीत । स्तम्ब । ऋतावुष्णशीते । पशौ लूनवियाते । अणु निपुणे । पुत्र कृत्रिमे । स्नात वेदसमाप्तौ । शून्य रिक्ते । दान कुत्सिते । तनु सूत्रे । ईयसश्च । श्रेयस्कः । ज्ञात । कुमारीक्रीडनकानि च । यावादिः ॥ लोहितान् मणौ
yāva ity evam ādibhyaḥ svārthe kanpratyayo bhavati / yāva eva yāvakaḥ / māṇikaḥ / yāva / maṇi / asthi / caṇḍa / pīta / stamba / ṛtāvuṣṇaśīte / paśau lūnaviyāte / aṇu nipuṇe / putra kṛtrime / snāta vedasamāptau / śūnya rikte / dāna kutsite / tanu sūtre / īyasaśca / śreyaskaḥ / jñāta / kumārīkrīḍanakāni ca / yāvādiḥ // lohitān maṇau
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.