यस्य अस्तु प्रज्ञा विद्यते सा प्राज्ञा प्रज्ञा-श्रद्धा-अर्चा-वृत्तिभ्यो णः (*५,२।१०१) इति । विदन्नित्यत्र पठ्यते । विदेः शत्रन्तस्य ग्रहणं, विदेः शतुर्वसुः (*७,२।३६) इत्य् अत एव ज्ञापकात् पाक्षिको वस्वादेशः । अन्यतरस्यांग्रहणं वा तत्र अनुवर्तते, तु-ह्योस् तातङ् आशिष्य्-अन्यतरस्याम् (*७,१।३५) इति । प्रज्ञ । वणिज् । उशिज् । उष्णिज् । प्रत्यक्ष । विद्वस् । विदन् । षोडन् । षोडश । विद्या । मनस् । श्रोत्र शरीरे - श्रौत्रम् । जुह्वत् कृष्णमृगे । चिकीर्षत् । चोर । शत्रु । योध । चक्षुस् । वक्षस् । धूर्त । वस् । एत् । मरुत् । क्रुङ् । राजा । सत्वन्तु । दशार्ह । वयस् । आतुर । रक्षस् । पिशाच । अशनि । कार्षापण । देवता । बन्धु । प्रज्ञादिः ॥ मृदस् तिकन्
yasya astu prajñā vidyate sā prājñā prajñā-śraddhā-arcā-vṛttibhyo ṇaḥ (*5,2.101) iti / vidannityatra paṭhyate / videḥ śatrantasya grahaṇaṃ, videḥ śaturvasuḥ (*7,2.36) ity ata eva jñāpakāt pākṣiko vasvādeśaḥ / anyatarasyāṃgrahaṇaṃ vā tatra anuvartate, tu-hyos tātaṅ āśiṣy-anyatarasyām (*7,1.35) iti / prajña / vaṇij / uśij / uṣṇij / pratyakṣa / vidvas / vidan / ṣoḍan / ṣoḍaśa / vidyā / manas / śrotra śarīre - śrautram / juhvat kṛṣṇamṛge / cikīrṣat / cora / śatru / yodha / cakṣus / vakṣas / dhūrta / vas / et / marut / kruṅ / rājā / satvantu / daśārha / vayas / ātura / rakṣas / piśāca / aśani / kārṣāpaṇa / devatā / bandhu / prajñādiḥ // mṛdas tikan
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.